Adhikarana atha vamanavirecanavidhirnAma saptaviMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातो वमनविरेचनविधिं नामाध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana atha vamanavirecanavidhirnAma saptaviMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातो वमनविरेचनविधिं नामाध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana vamanavirecanapariBAShA (2) · Śloka 2
दोषहरणमूर्ध्वभागं वमनाख़्यम्| अधोभागं विरेच- नाख़्यम्| उभयं वा मलविरेचनाद्विरेचनमित्युच्यते||२||
🔊 Audio coming soon
Adhikarana vamanavirecanobhayatoharauShadhAnAM kArmukatve yuktiH (3) · Śloka 3
तत्रोष्णतीक्ष्णसूक्ष्मव्यवायिविकाषीण्यौषधानि स्ववीर्येण हृदयमुपेत्य सौक्ष्म्याद् व्यवायित्वाच्च धमनीरनुसृत्य स्नेहेन मृदूकृत्यान्तःशरीरे स्वेदोष्मणाऽऽर्द्रदारुवद्विष्यण्णे स्थूलाणुस्रोतोभ्यः सकलमपि दोषसङ्ग़ातमौष्ण्यात्पुन- र्विष्यन्दयन्ति| तैक्ष्ण्याद्विकाषित्वाच्च विच्छिन्दयन्ति| स विष्यण्णविच्छिन्नो दोषसङ्ग़ातः पारिप्लवः स्नेहाक्त- भाजनस्थ इवोदकाञ्जलिरसज्जन्ननुप्रसरणभावादामा- शयमनुगम्योदानप्रणुन्नोऽग्निवाय्वात्मकत्वादुर्ध्वभाग- प्रभावाच्चौषधस्योर्ध्वं प्रवर्तते| सलिलपृथिव्यात्मक- त्वादधोभागप्रभावाच्च औषधस्याधः| उभयतश्चोभय- गुणात्मकत्वादुभयभागप्रभावाच्च||३||
🔊 Audio coming soon
Adhikarana vamanavirecanaviShayaviBAgaH (4) · Śloka 4
तत्रोत्कृष्टे श्लेष्मणि पित्तसंसृष्टे वा तत्स्थानगते वा पित्तेऽनिले वा श्लेष्मोत्तरे वमनमाचरेत्| पित्ते तु विरेकं श्लेष्मसंसृष्टे वा तत्स्थानगते वा श्लेष्मणीति||४||
🔊 Audio coming soon
Adhikarana vamanasAdhyAH vikArAH (5) · Śloka 5
तत्र वमनसाध्या विषपीतदष्टदिग्धविद्धविरुद्धाजीर्णा- न्ननवज्वरराजयक्ष्मातिसाराधोरक्तपित्तविशूचिकालस- काविपाकारोचकापचिग्रन्थ्यर्बुदश्लीपदमेदोगदगरो- न्मादापस्मारश्वासकासहृल्लासे वीसर्पप्रमेहकुष्ठपाण्डु- वर्त्ममुख़ग़्राणकपालरोगकर्णरोधशोफस्तन्यदोषादयो दोषभेदीयोक्ताश्च श्लेष्मव्याधयो विशेषेण एते हि परं वमनेन नाशमुपयान्ति| सलिलापगमनेनानिष्पन्नशा- ल्यादिवत्||५||
🔊 Audio coming soon
Adhikarana avamyAstatra kAraNAni ca (6) · Śloka 6
अवाम्यास्तु गर्भिणीसुकुमारान्यकार्यव्यग्ररूक्षरूक्षाश- नप्रायातिदीप्ताग्निभाराध्वकर्मनित्यक्लान्तक्षतक्षीणाति- स्थूलकृशवृद्धबालदुर्बलश्रमभयशोकक्रोधमदमूर्च्छा- क्षुत्पिपासार्त्तोपवासव्यवायव्यायामाध्ययनचिन्ताप्रसक्त- च्छर्दिरूर्ध्वरक्तपित्तवातास्थापितानुवासितसंवृतकोष्ठ- दुश्छर्दितहृद्रोगोदावर्तमूत्राग़ातगुल्मप्लीहोदराष्ठीलार्शः- स्वरोपग़ाततिमिरभ्रमानिलार्तार्दिताक्षेपकाक्षिशिरः शङ्ख़- कर्णपार्श्वशूलिनोऽनास्थापितश्च कृमिणकोष्ठ इति| अन्यत्रामगरविषविरुद्धाभ्यवहारेभ्यः शीग़्रकारित्वादे- षाम्| तत्र गर्भिण्या गर्भव्यापदामगर्भभ्रंशाच्च दारुण- रोगप्राप्तिः स्यात्| सुकुमारस्य हृदयविकर्षणादूर्ध्वमधो वा रुधिरप्रवृत्तिः| अन्यकार्यव्यग्रस्यौषधं न प्रवर्तते| कृच्छ्रेण वा प्रवर्तमानमयोऽङ्गदोषान् कुर्यात्| रूक्षस्य वायुरङ्गग्रहणम्| रूक्षाशनप्रायस्य वायुना क्षपितदेहत्वाद् बलक्षयः स्यात्| तथाऽतिदीप्ताग्नेरग्निबलेन भाराध्व- कर्मनित्यानक्लान्तानां चायासेन क्षतस्य भूयःक्षण- नाद्रक्तातिप्रवृत्तिः| क्षीणादीनामौषधबलाक्षमत्वाद्देह बलोपरोधोऽन्तः क्षतभयञ्च| प्रसक्तच्छर्द्यूर्ध्वरक्तपित्तयो- रुदान उत्क्षिप्य प्राणान् हरेद्रक्तं चातिप्रवर्तयेत्| ऊर्ध्व- वातास्थापितानुवासितानामूर्ध्वं वातादिप्रवृत्तिः| संवृत- कोष्ठस्य दुश्छर्दितस्य वातिमात्रप्रवाहणादन्तःकोष्ठे समु-त्क्लिष्टैर्दोषैर्विसर्पस्तम्भजाड्यवैचित्यानि मरणं वा| हृद्रोगिणो हृदयोपरोधः| उदावर्तादिभिरर्तानामर्दिता- दिभिश्च यथायथमामयप्रवृद्धिर्मरणं वा| कृमिण कोष्ठ- स्यास्थापनेनाधःपूर्वमनिर्हृतैः कृमिभिरतिबहुत्वाद- शोषानिस्सरणेन हृदयमतिकर्षद्भिश्छर्दिषोऽतिप्रवृत्तिः स्यात्||६||
🔊 Audio coming soon
Adhikarana garBiNyAdInAM niShedhAntarANi (7) · Śloka 7
गर्भिण्यादिचिन्ताप्रसक्तान्ताश्चात्र धूमान्तैः प्रायः सर्व- कर्मभिर्वक्ष्यमाणैः परिहर्तव्याः| अजीर्णी तु सवैरेव च वमनवर्ज्जैरामदोषभयात्| नवज्वरस्य दोषस्तम्भभया- दिति||७||
🔊 Audio coming soon
Adhikarana virecanasAdhyA vikArAH (8) · Śloka 8
अथ विरेचनसाध्या जीर्णज्वरोर्ध्वरक्तपित्तगुल्मविद्रधि- प्लीहार्शोभगन्दरोदरकृमिणकोष्ठमूत्राग़ातरेतोयोनिदोष- वातशोणितहलीमकव्यङ्गतिमिरकाचाभिष्यन्दाक्षिपाक- क्षाराग्निदग्धदुष्टव्रणशिरःपक्वाशयशूलोदावर्तविबन्ध- च्छर्दिविस्फोटादयो वाम्योक्ताश्च विषूचिकादयो दोष- भेदीयोक्ताश्च पितव्याधयः विशेषेण| एते हि परं विरे- चनेन नाशमुपयान्त्यग्न्यपनयनेनाग्निगृहतापवत्||८||
🔊 Audio coming soon
Adhikarana avirecyAstatra kAraNAni ca (9) · Śloka 9
अविरेच्याः पुनर्नवज्वरातिसार्यधोरक्तपित्तक्षतगुदलङ्ग़ित- रात्रिजागरितास्थापिताल्पाग्निराजयक्ष्ममदात्ययार्ता- ध्मातसशल्याभिहतातिस्निग्धरूक्षक्रूरकोष्ठाः| तत्र नव ज्वरस्याविपक्वान् दोषान्न निर्हरेत्| वातानेव च कोपयेत्| अतीसार्यधोरक्तपित्तयोरतिप्रवृत्त्या हन्यात्| क्षतगुदस्य गुदे प्राणोपरोधकरीं रुजं जनयेत्| लङ्ग़ितादयो भेषजवेगं न सहेरन्| राजयक्ष्मार्तस्य क्षीणधातुतया मलबलत्त्वम्| तदभावाद् देहनाशः स्यात्| मदात्ययार्तस्य मद्यक्षीणे देहे वायुः प्राणोपरोधाय| आध्मातस्य पुरीषाशये निचितो वायुर्विसर्पन् सहसा तीव्रतरमाध्मानं मरणं वा जनयेत्| सशल्याभिहतयोः क्षते वायुराश्रितो जीवितं हिंस्यात्| अतिस्निग्धस्यातियोगो भवेत्| क्रूरकोष्ठस्यौषधोद्धता दोषा ह्यप्रवर्तमाना हृदयशूलपर्वभेदानाहच्छर्दिमूर्च्छाक्ल- मान् जनयित्वा प्राणान् हन्युः| गर्भिण्यादीनां पूर्वोक्त- दोषः स्यात्||९||
🔊 Audio coming soon
Adhikarana vamanavidhiH (10) · Śloka 10
अथ साधारणे काले सम्यक् स्निग्धस्विन्नमनुपहतमानसं श्वः च्छर्दयितव्यमिति ग्राम्यानूपौदक शृतमांसरसक्षीरद- धिमाषतिलपललशाकादिभिर्द्रवप्रायैः समुत्क्लेशित- श्लेष्माणं सुख़ोषितं जिर्णाहारं पूर्वाह्णे स्नातानुलिप्तं स्रग्विणमहतवाससं देवताऽग्निद्विजगुरुवृद्धवैद्यानर्चित- वन्तं कृतहोमबलिमङ्गलप्रायश्चित्तस्वस्तिवचनं जानुस- मसंस्तृतसोपधानोपाश्रयासनोपविष्टं निरन्नमीषत्स्निग्धं वा यवागूमण्डेन ग़ृतमात्रां पीतवन्तं भीरुकृशबालवृद्ध- सुकुमारान् वा दोषानुरोधेनाकण्ठं पीतक्षीरतक्रूयूषे- क्षुमांसरसमद्यतुषोदकयवागूमण्डान्यतमं नक्षत्रतिथि- करणमुहूर्तोदये प्रशस्ते यथाव्याधिदोषदूष्यादिविहिता- मौषधमात्रां मधुसैन्धवयुक्तां सुख़ोष्णां ब्राह्मणप्रयुक्ता- भिराशीर्भिरभिमन्त्रिताम्| पुनश्च ब्रह्मदक्षाश्विरुदेन्द्रभूचन्द्रार्कानिलानलाः| ऋषयः सौषधिग्रामा भूतसङ्ग़ाश्च पान्तु वः| रसायनमिवर्षीणाममराणामिवामृतम्| सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते| औम् नमो भगवते भैषज्यगुरवे वैडूर्यप्रभराजाय तथागता- यार्हते सम्यक्सम्बुद्धाय| तद्यथा-औम् भैषज्ये भैषज्ये महाभैषज्ये भैषज्यसमुद्गते स्वाहा| इत्येवमभिमन्त्र्योदङ्मुख़ः प्राङ्मुख़मातुरं पाययेत्||१०||
🔊 Audio coming soon
Adhikarana vamanauShadhapAnottaravidhiH pravRuttavamanavegasya vidhishca (11) · Śloka 11
ततः पीतवानूरुन्यस्तभुजो वमनानुगतमानसोऽग्नितप्तैः पाणिभिरुपतप्यमानो मुहूर्तमनुपालयेत्| स यदा जानी- यात् स्वेदप्रादुर्भावेन दोषं प्रविलयमापद्यमानं, रोमहर्षेण वा स्थानेभ्यः प्रविचलितं, कुक्ष्याध्मानेन च कुक्षिमनुसृतं च क्रमात् हृदयोपमर्दहृल्लासास्यसंस्रवणैश्चोर्ध्वमभि- मुख़ी भूतं समुपस्थितानेकप्रतिग्राहः पार्श्वललाटोपग्रहेण नाभिप्रपीडने पृष्ठप्रतिलोममर्दनेन च प्रवृत्ताव्यपत्रपणीय- पुरुषो विवृत्तोष्ठतालुकण्ठो नातिमहता व्यायामेन वेगा- नुदीरयन् नाप्रवृत्तान् न प्रवर्त्तयन् प्रवृतांश्चानुवर्त्तयन् सुपरिलिख़ितनख़ाभ्यामङ्गलीभ्यामुत्पलकुमुदैरण्ड- नालैर्वा कण्ठमभिमृशन् वमेन्नात्युन्नतो नात्यवनतो नपा- र्श्वापवृत्तो वा| तत्रात्युन्नतस्य पृष्ठहृदयपीडा भवति| अत्यवनतस्य शिरःकोष्ठपीडा, पार्श्वापवृत्तस्य पार्श्व- कोष्ठहृदयोर्ध्वजत्रुपीडेति||११||
🔊 Audio coming soon
Adhikarana doShaBedena vamanadravyaBedaH (12) · Śloka 12
एवं कटुतीक्ष्णोष्णैः कफे छर्दयेत्| स्वादुभिः पित्त- युक्ते| अम्लैः सस्नेहैरनिलसंसृष्टे||१२||
🔊 Audio coming soon
Adhikarana vamanavidhiH (13) · Śloka 1
यावत् कफच्छेदः केवलमौषधप्रवृत्तिः पित्तदर्शनं वा||१||
🔊 Audio coming soon
Adhikarana hInavegasyauShadhAdi (14) · Śloka 14
हीनवेगस्तु पिप्पल्यामलकसर्षपकल्कलवणोष्णोदकैः पुनः पुनः प्रवर्तयेत्| प्रभूतवमनासहिष्णुद्व्यहं त्र्यहं वा विश्रम्य||१४||
🔊 Audio coming soon
Adhikarana vamanavirecanadravyasvarUpam (15) · Śloka 15
असात्म्यबीभत्सदुर्दर्शदुर्गन्धानि वमनानि विदध्यात्| विपरीतानि तु विरेचनानि||१५||
🔊 Audio coming soon
Adhikarana sarveShu vamaneShu madhusaindhavopayogaH (16) · Śloka 16
सर्वैषु च वमनेषु सैन्धवं मधु च विदध्यात्कफविलय- नविच्छेदनार्थम्||१६||
🔊 Audio coming soon
Adhikarana vamanavegAnAmavekShaNam (17) · Śloka 17
वेगांश्चास्य प्रतिग्राहगतानवेक्षेत||१७||
🔊 Audio coming soon
Adhikarana vamanAyogalakShaNaM tajjA vyAdhayashca (18) · Śloka 18
तत्राप्रवृत्तिः केवलस्य वा भेषजस्य प्रवृत्तिर्विबन्धो वा वेगानामयोगलक्षणम्| ततश्चारोचकगौरवाध्मानकण्डू स्फोटकोठालस्यशूलप्रतिश्यायलोमहर्षप्रसेकशोफशीत- ज्वरादयः||१८||
🔊 Audio coming soon
Adhikarana samyagyogalakShaNaM tatPala~jca (19) · Śloka 19
योगलक्षणं पुनः काले क्रमात् कफपित्तानिलप्रवृत्ति- र्नातिमहती व्यथा स्वयं चावस्थानं ततश्च स्वस्थता मनः- प्रसादः स्वरविशुद्धिररोचकादिवैपरीत्यञ्च||१९||
🔊 Audio coming soon
Adhikarana vamanAtiyogalakShaNaM tajjA vyApadashca (20) · Śloka 20
अतियोगे तु फेनिलरक्तचन्द्रिकोद्गमनम्| ततश्च क्षाम- तास्वरक्षयदाहकण्ठशोषभ्रममोहोन्मादमूर्च्छाशिरः शू- न्यताहृद्धूमायनगात्रशूलसुप्तितृष्णोर्ध्वानिलप्रकोपकर्ण- शूलार्द्दितवाक्सङ्गहनुसंहननजिह्वाप्रवेशनिर्गमाक्षिव्यावृ- त्तिविसंज्ञतानिद्राबलाग्निहानयो भवन्ति| जीवशोणित- प्रवृत्त्या मरणं वा| एषां सिद्धिषु साधनं वक्ष्यते||२०||
🔊 Audio coming soon
Adhikarana samyagvAntasyopacAraH (21) · Śloka 21
योगेन तु ख़ल्वेनं छर्दितवन्तं सुविशोधितपाणिपाद- मुख़ं मुहूर्तमाश्वास्य धूमत्रयस्यान्यतमं सामर्थ्यतः पाय- यित्वा पुनरुपस्पृष्टोदकं सम्मानितसुरभिताम्बूलं निवाता- गारशय्यास्थैतं स्नेहोक्तेनाचारविधिनानुशिष्यात्||२१||
🔊 Audio coming soon
Adhikarana samyagvAntasyAgnibalAnurodhenAhAravidhiH (22) · Śloka 22
ततोऽग्निबलमवेक्ष्य क्षुधं च सायाह्ने अपरे वाह्नि सुख़ोद- कपरिषिक्तः पुराणानां रक्तशालितण्डुलानां सुसिद्ध- मन्नमस्नेहलवणकटुकमल्पस्नेहलवणकटुकं वा द्रव- प्रायमुष्णोदकानुप्रायं सायं प्रातरुपभुञ्जानो विधिमि- ममवेक्षेत पेयादीनाम्||२२||
🔊 Audio coming soon
Adhikarana peyAdikramaH (33) · Śloka 2
पेयं विलेपीमकृतं कृतञ्च यूषं रसं त्रीनुभयं तथैकम्| क्रमेण सेवेत नरोऽन्नकालान्प्रधानमध्यावरशुद्धिशुद्धः|२|
🔊 Audio coming soon
Adhikarana peyAdyupacArapraBAvaH (24) · Śloka 2
यथाणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण| महास्थिरः सर्वचरस्तथैव शुद्धस्य पेयादिभिरन्तराग्निः|२|
🔊 Audio coming soon
Adhikarana vamanavirecanayoH vegAnusAraM vireke mAnatashca jaghanyamadhyapravrashuddhilakShaNam (25) · Śloka 2
जघान्यमध्यप्रवरे तु वेगाः चत्वार इष्टा वमने षडष्टौ| दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा स्याद्द्विचतुर्गुणश्च||२||
🔊 Audio coming soon
Adhikarana anyamatena vamanavirekayoH pravarashuddhilakShaNaM, vamane mAnataH jaghanyAdishuddhilakShaNaM vamanavirecanayogalakShaNa~jca (26) · Śloka 1
पित्तावसानं वमनं विरेकादर्द्धं कफान्तञ्च विरेकमाहुः|१|
🔊 Audio coming soon
Adhikarana vamanavirecanayorvegagaNanAvidhiH (27) · Śloka 1
द्वित्रान्सविट्कानपनीय वेगान्मेयं विरेके वमने तु पीतम्||१||
🔊 Audio coming soon
Adhikarana virecanavidhiH (28) · Śloka 28
अथ वमितवन्तं पुनरेवं स्नेहस्वेदाभ्यामुपपाद्य श्वो विरेच- यितव्य इति सुजरमश्लेष्मलं स्निग्धं फलाम्लमुष्ण- मुष्णोदकानुपानं जाङ्गलरसौदनं भोजयेत्| ततः सुख़ो- षितं पूर्वोक्तेन विधिनातीते श्लेष्मकाले निरन्नं विभज्य कोष्ठं यथार्हौषधमात्रां पाययेत्| न त्वकृतवमनमन्य- त्रातिक्रूरकोष्ठात्||२८||
🔊 Audio coming soon
Adhikarana akRutavamanasya virecanauShadhadAne doShaH (29) · Śloka 29
अकृतवमनस्य हि श्लेष्मणोपहतमौषधमूर्ध्वं प्रवर्तते| उरसि वावरुद्धमवतिष्ठते| ततो नालं विरेकाय||२९||
🔊 Audio coming soon
Adhikarana krUrakoShThaM varjayitvA samyagviriktasyApi samBAvyA vyApat (30) · Śloka 30
सम्यग्विरिक्तस्यापि चाधः स्रस्तः श्लेष्मा ग्रहणीं छाद- यित्वा गौरवमापादयति प्रवाहिकां वा| न त्वेष दोषो- ऽतिक्रूरकोष्ठस्य वाय्वात्मकत्वात्||३०||
🔊 Audio coming soon
Adhikarana shleShmakAle virecanaprayoge doShaH (31) · Śloka 31
श्लेष्मकाले त्वकृतवमनोक्तदोषाः| शूलाध्मानगौर- वाणि च कृत्वा छर्दिक्षीणे श्लेष्मण्यपराह्णे रात्रौ वा विरेचयेत्||३१||
🔊 Audio coming soon
Adhikarana annAvRute virecanadoShaH (32) · Śloka 32
तेनान्नावृतमपि तुल्यम्| छर्दिञ्च पुनस्तज्जनयति||३२||
🔊 Audio coming soon
Adhikarana aviriktasya shleShmakAle vamanaM deyam (33) · Śloka 33
अविरिक्तस्य तु श्लेष्मकाले च वमनं निरन्नं योज्यम्| तथोर्ध्वं सुख़ेन निर्हरणात्||३३||
🔊 Audio coming soon
Adhikarana koShThatraividhyaM tallakShaNa~jca (34) · Śloka 34
कोष्ठस्तु त्रिविधो भवति-मृदुः क्रूरो मध्यश्च| तत्र बहुपित्तो मृदुः| स विरिच्यते क्षीरेक्षुरसाम्लतक्र- मस्तुगुडकृसरसर्पिर्नवमद्योष्णोदकपीलुद्राक्षापूगफला- दिभिरपि| बहुवातः क्रूरः| स दुर्विरेच्यस्त्रिफलाति- ल्वकत्रिवृन्नीलिनीफलादिभिरपि| बहुश्लेष्मा समदोषश्च मध्यः| स साधारणः| ये च स्निह्यन्त्यच्छपानेन प्रायशः त्रिसप्तपञ्चरात्रैरिति||३४||
🔊 Audio coming soon
Adhikarana doShaBedena virecanadravyaBedaH (35) · Śloka 35
तत्र कषायमधुरद्रव्यैः पित्ते विरेचनम्| मूत्रकटुष्णैः कफे| स्निग्धोष्णलवणैर्वाते||३५||
🔊 Audio coming soon
Adhikarana virecanauShadhapAnottaramupacAraH (36) · Śloka 3
पीतमात्र एव चौषधे छर्दिविग़ाताय शीताम्बुना मुख़मस्य सहसा सिञ्चेत्| ततश्चोष्णोदकेन सोऽन्तर्मुख़ं विशो- ध्यार्द्रसुरभिमृन्मातुलुङ्गजम्बीरसुमनः सौगन्धिकादिह्ऱृद्य- गन्धानुपजिग़्रेत्| निवातसुख़शय्यास्थितश्चाविबन्धा- र्थमल्पाल्पमुष्णोदकमनुकण्ठ्यंस्तन्मना वेगान्नधारयन् ईरयमाणश्च शय्यासने प्रतिग्राहेऽशीतस्पृग्वरिच्येत||३||
🔊 Audio coming soon
Adhikarana virecane doShabahirgamanakramaH (37) · Śloka 37
यथा च वमने स्वेदप्रसेकौषधकफपित्तानिलाः क्रमेण प्रवर्तन्ते तथा विरेचने वातमूत्रपुरीषपित्तकफाः पुनश्चान्ते वायुः| दोषाणां हि देहे तथा सन्निवेशान् मार्गवैपरीत्याच्च शोधनयोरिति||३७||
🔊 Audio coming soon
Adhikarana virecanApravRuttAvalpapravRuttau ca vidhiH (38) · Śloka 38
अप्रवृत्तौ तु भेषजात्तेजनार्थमुष्णोदकं पाययेत्| पाणि- तापैश्च जठरं स्वेदयेत्| प्रवृत्ते च दीप्ताग्नेः स्निग्धवपुषा बहुदोषस्याल्पदोषे नैव वा प्रवृत्तेऽल्पदोषस्यापि जीर्ण- भैषज्यस्याहःशेषं बलं चापेक्ष्य भूयो मात्रां विदध्यात्| न त्वजीर्णौषधस्यातियोगभयात्| तदहर्वा भुक्तवतो- ऽन्येद्युः अदृढस्नेहं व दशरात्रादूर्ध्वमुपस्कृतदेहमवहितो भूयः पाययेत्||३८||
🔊 Audio coming soon
Adhikarana sadAturAdiShu visheShakRutyam (39) · Śloka 39
ह्नीभयत्नोभैश्च वेगाभिग़ातशीलाः प्रायशः स्त्रियो राज- समीपस्था वणिजश्च भवन्ति| तस्मादेते वेगधारणप्र- वृद्धवातत्वात्सदाऽऽतुरा दुर्विरेच्याश्च| तान् सुस्निग्धान् शोधयेत्| अन्यानपि चाकालनिर्हारविहारहारान्| तत- श्चैषां सदातुरत्वादल्पोऽप्यामयो दुःसाध्यो भवति| तेषां पुनः क्रियाविधिः स्नेहव्यापत्सिद्धावुपदेक्ष्यते||३९||
🔊 Audio coming soon
Adhikarana virekAyogalakShaNam (40) · Śloka 40
तत्रासम्यग्विरेकात् कुक्षिहृदयाविशुद्धिराध्मानमरुचिः प्रसेकः कफपित्तोत्क्लेशछर्दिभ्रमाः कण्डूः पिटका वि- दाहो गौरवमग्निसादस्तन्द्रा स्तैमित्यं प्रतिश्यायो वातवि- ण्मूत्रसङ्गश्च||४०||
🔊 Audio coming soon
Adhikarana samyagvirekaPalam (41) · Śloka 41
सम्यग्विरेकाद्व्याध्युपशमो यथोक्तविपर्ययश्च||४१||
🔊 Audio coming soon
Adhikarana ativirekajavyApadaH (42) · Śloka 42
अतिविरेकात्तु केवलं दोषरहितमुदकं रक्तं वा मेदो- मांसधावनोपमं कृष्णं वा प्रवर्तते| परिकर्तिका हृदयोद्वेष्टेनं गुदनिस्सरणं नयनप्रवेशः पिपीलिकासञ्चार इवाङ्गे वम- नातियोगतुल्यता च||४२||
🔊 Audio coming soon
Adhikarana samyagvirikte vidhiH (43) · Śloka 43
सम्यग्विरिक्तं चैनं वमनोक्तेन धूमवर्ज्येन विधिनोपपा- दयेत्| अथ वमितवानिव क्रमेणान्नान्युपयुञ्जानः प्रकृति- भोजनमागच्छेदिति||४३||
🔊 Audio coming soon
Adhikarana vamanavirecanayoryogyAvasthA (44) · Śloka 44
भवति चात्र- जीर्णाऽन्ने वमनं योज्यं कफे जीर्णे विरेचनम्||४४||
🔊 Audio coming soon
Adhikarana pItauShadhasya mandAgnitvAdau la~gGanam (45) · Śloka 45
मन्दवह्निमसंशद्धुमक्षामं दोषदुर्बलम्| अदृष्टजीर्णलिङ्गञ्च ल~ग़्ग़येत् पीतभेषजम्| स्नेहस्वेदौषधोत्क्लेशसङ्गैरिति न बाध्यते||४५||
🔊 Audio coming soon
Adhikarana peyAderagnivardhakatvampeyAnarhatarpaNArhAH (46) · Śloka 46
संशोधनास्रविस्रावस्नेहयोजनलङ्ग़नैः| यात्यग्निर्मन्दतां तस्मात् क्रमं पेयादिमाचरेत्| स्रुताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम्| पेयां न पाययेत्तेषां तर्पणादिक्रमो हितः||४६||
🔊 Audio coming soon
Adhikarana apakvapacyamAnavamanavirecanayoreva doShasaMshodhakatvam (47) · Śloka 47
अपक्वं वमनं दोषाण् पच्यमानं विरेचनम्| निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत्||४७||
🔊 Audio coming soon
Adhikarana vamanavirecanayorviparIta- gatayorupacAraH (48) · Śloka 48
ऊर्ध्वाधोरेचनं युक्तं वैपरीत्येन जायते| यदा तदा छर्दयतः सिञ्चेदुष्णेन वारिणा| पादौ शीतेन चोर्ध्वाङ्गं विपरीतं विरेचने||४८||
🔊 Audio coming soon
Adhikarana doShapAkajAte svayaM vireke AhAravidhAnam (49) · Śloka 49
दुर्बलो बहुदोषश्च दोषपाकेन यः स्वयम्| विरिच्यते भेदनीयैर्भोज्यैस्तमुपपादयेत्||४९||
🔊 Audio coming soon
Adhikarana durbalAdiShu mRudbalpashodhanauShadha vidhistatra hetushca (3) · Śloka 3
दुर्बलः शोधितः पूर्वमल्पदोषः कृशो नरः| अपरिज्ञातकोष्ठश्च पिबेन्मृद्वल्पमौषधम्| वरं तदसकृत् पीतमन्यथा संशयावहम्||३||
🔊 Audio coming soon
Adhikarana durbalasya bahucaladoShasya stokaM stokaM shodhanavidhiralpadoShasya shamanauShadhavidhishca (2) · Śloka 2
हरेद्बहूंश्चलान् दोषानल्पानल्पान् पुनः पुनः| दुर्बलस्य मृदुद्रव्यैरल्पान् संशमयेत्तु तान्||२||
🔊 Audio coming soon
Adhikarana bahudoShANAmanirharaNe vyApat (50) · Śloka 50
क्लेशयन्ति चिरं ते हि हन्युर्वैनमनिर्हृताः||५०||
🔊 Audio coming soon
Adhikarana mandAgnikrUrakoShThayoH shodhane purvakRutyam (51) · Śloka 51
मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः| सन्धुक्षिताग्निं विजितकफवातं च शोधयेत्||५१||
🔊 Audio coming soon
Adhikarana rUkShavirekAtpUrvaM bastyAdividhistatra hetushca (52) · Śloka 52
रूक्षबह्वनिलक्रूरकोष्ठव्यायामशीलिनाम्| दीप्ताग्नीनां च भैषज्यमविरेच्यैव जीर्यति| तेभ्यो बस्तिं पुरो दद्यात्ततः स्निग्धं विरेचनम्| शकृन्निर्हृत्य वा किञ्चित्तीक्ष्णाभिः फलवर्तिभिः| प्रवृत्तं हि मलं स्निग्धो विरेको निर्हरेत्सुख़म्||५२||
🔊 Audio coming soon
Adhikarana IShatsnehapUrvakaM saMshodhyAH (53) · Śloka 53
विषाभिग़ातपिटकाकुष्ठशोफविसर्पिणः| कामलापाण्डुमेहार्तान्नातिस्निग्धान् विशोधयेत्||५३||
🔊 Audio coming soon
Adhikarana sarveShu snehavirecanavidhiH susnigdheShu tu rUkShavirecanavidhiH (54) · Śloka 54
सर्वान् स्नेहविरेकैश्च रूक्षैस्तु स्नेहभावितान्||५४||
🔊 Audio coming soon
Adhikarana vamanAdInAM madhye madhye sneha svedau sarvAnte snehashca (55) · Śloka 55
कर्मणां वमनादीनां पुनरप्यन्तरेऽन्तरे| स्नेहस्वेदौ प्रयुञ्जीत स्नेहमन्ते बलाय च||५५||
🔊 Audio coming soon
Adhikarana svedAdyutkliShTadoShasyaiva sushodhyatvamatra dRuShTAntashca (56) · Śloka 56
ऊषादिभिर्यथोत्क्लेश्य ह्नियते वाससो मलः| तथैव वपुषः स्नेहस्वेदमाषतिलादिभिः||५६||
🔊 Audio coming soon
Adhikarana snehasvedarahitashodhane vyApat (57) · Śloka 57
स्नेहस्वेदावनभ्यस्य कुर्यात्संशोधनं तु यः| दारुशुष्कमिवानामे शरीरं तस्य दीर्यते||५७||
🔊 Audio coming soon
Adhikarana tIkShNavirecananirUhalakShaNam (58) · Śloka 58
सुख़ं क्षिप्रं महावेगमसक्तं यत् प्रवर्तते| नातिग्लानिकरं नापि हृदि पायौ च रुक्करम्| अन्तराशयगं क्लिन्नं कृत्स्नं दोषं निरस्यति| विरेचनं निरूहं वा तत्तीक्ष्णमिति निर्दिशेत्||५८||
🔊 Audio coming soon
Adhikarana bheShajasya tIkShNaprAptau hetuH (59) · Śloka 59
जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम्| नवं मात्राधिकं किञ्चित्तुल्यवीर्यैः सुभावितम्| स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजम्| अतो विपर्यये मन्दं मन्दतां च प्रपद्यते||५९||
🔊 Audio coming soon
Adhikarana tIkShNAdivyAdhiShu tIkShNAdiBeShajaM kramAddeyam (60) · Śloka 60
तीक्ष्णो मध्यो मृदुर्व्याधिः सर्वमध्याल्पलक्षणः| बलापेक्षं हितं तेषु मध्यं मृदु क्रमात्||६०||
🔊 Audio coming soon
Adhikarana sAtyashodhanauShadhaniShedhastatra hetushca (61) · Śloka 61
अप्रवर्त्त्य मलान् द्रव्यं सात्मीभूतं हि जीर्यति| वमनं वा विरेकं वा तस्मात्सात्म्यं न योजयेत्||६१||
🔊 Audio coming soon
Adhikarana shAstravidhinA saMshodhanaM sevyameva (62) · Śloka 62
विभ्रंशो विषवत्सम्यग्योगो यस्यामृतोपमः| कालेऽवश्यं प्रयोज्यञ्च यस्माद्यत्नेन तत्पिबेत्||६२||
🔊 Audio coming soon
Adhikarana samyagupAsyamAnashodhanaPalam (63-64) · Śloka 64
बुद्धिप्रसादं बलमिन्द्रियाणां धातुस्थिरत्वं ज्वलनस्य दीप्तिम्| चिराच्च पाकं वयसः करोति संशोधनं सम्यगुपास्यमानम्||६३|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रह- संहितायां सूत्रस्थाने वमनविरेचनविधिर्नाम सप्तविंशोऽध्यायः||६४||
🔊 Audio coming soon