Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

20. akṣipākapillapratiṣēdhaḥ

Adhikarana athAkShipAkapillapratiShedho nAma viMsho~adhyAyaH - pratij~jA (1) · Śloka 1

अथात अक्षिपाकपिल्लप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Adhikarana shuShkAkShipAkacikitsA (2) · Śloka 2

शुष्काक्षिपाके वाताभिष्यन्दविहितं सर्पिः पिबेत्| कुलीररसक्षीरसिद्धं वा| दार्वीप्रपौण्डरीकयोः क्वाथ आश्च्योतनमक्षिपाकघ्नम्| मञ्जिष्ठामधुक्कालानुसारीसारिवालोध्रलाक्षाप्रपौण्डरीकाणामक्षिपाकरक्तराजीघ्नम्| मृद्वीकाचन्दनकल्कस्तण्डुलाम्बुपरिस्रुतो मधुमानश्रुदाहहरः| अणुतैलं नस्यम्| शारिवाविदारीबलामधुकोत्पलद्राक्षाटरूषकजीवकचन्दनैर्जाङ्गलरसक्षीरोपेतं तैलं साधितं नावनात् सर्वोर्ध्वजत्रुजान् गदान् वातपित्तोत्तरान् निहन्ति| स्निग्धाश्चात्र तर्पणपुटपाकाः| वातपित्तान्यतरोद्रेकतश्च यथास्वमभिष्यन्दविधिः| आदर्शमण्डले घृताक्तकेशान् घृष्ट्वान्तर्धूमं दहेत्सा मषीघृतपिष्टाऽयसभाजनस्थिताऽक्षिपाकमञ्जनादपहरति| मञ्जिष्ठाफलत्रिककटङ्कटेरीनिष्क्वाथे लोहस्रोतोऽञ्जनचूर्णमापिण्डीभावात् पचेत्| एतच्चूर्णाञ्जनमभयं दाहोषाकरागाश्रुहरम्| ताम्ररजस्सैर्यकपुष्पपुण्ड्राह्वमधुककालानुसारीशारिवाः छागेन पयसा पिष्टाः पिण्डाञ्जनम्| आनूपवसा शुण्ठीसैन्धवचूर्णान्विता स्नेहाञ्जनम्| एवमप्यशान्तौ मधुकसिद्धः शताह्वाचूर्णयुक्तो घृतमण्डस्तथा पयो वा बस्तिः||२||

🔊 Audio coming soon

Adhikarana saSoPAlpaSoPayoScikitsA (3) · Śloka 3

सशोफाल्पशोफयोस्तु स्निग्धस्विन्नस्यानु सिरां विध्येत्| द्राक्षाभयाक्वाथस्त्रिवृत्कल्कवान् सघृतो विरेकः| विरिक्तस्य यथादोषोदयमास्थापनम्| ततः पिण्डस्विन्नशिरसः सर्षपतैलेन सैन्धवयुतेन वा सर्पिषा फणिज्जकयुक्तेन वा अणुतैलेन शिरोविरेकः विरिक्तशिरसोऽनुवासनं क्षीरसर्पिषा धूमपानं च| शिरोनेत्रं चास्य सुनिषण्णकपत्तूरैरण्डपत्रैः क्षीरांबुस्विन्नैः संस्वेदयेत्| घृतभृष्टं लोध्रचूर्णं सूक्ष्मवासस्थमुष्णोदकविमृदितमाश्च्योतनम्| शुष्काक्षिपाकोक्तं च वेदनाघ्नम्||३||

🔊 Audio coming soon

Adhikarana tatra sandhAvAH (4) · Śloka 4

एवमशान्तवेदनं सन्धावैरुपक्रमेत्| शशशिरःकपालं सैन्धवं कांस्ये स्तन्यघृष्टं सन्धावो वेदनाघ्नः| तद्वत्ताम्रं च लोहे गोमूत्रघृष्टं घृतधूपितम्| शिग्रुपल्लवरसश्च ताम्रघृष्टो घृतधूपितः| शङ्खताम्रे स्तन्येन घृष्टं घृताभ्यक्तयवशमीपत्रधूपितं घर्षवेदनाघ्नम्| उदुम्बरफलं लोहे स्तन्यघृष्टं घृताभ्यक्तशमीपत्रधूपितं शूलरागाश्रुघर्षघ्नम्| दधिसरःपिप्पलीसैन्धवयुक्तस्ताम्रे घृष्टश्शोफघर्षाश्रुवेदनाघ्नः| मृत्कपालं कांस्ये तिलोदकघृष्टं घृताक्तनिम्बपत्र-धूपितं शोफकण्डूघर्षाश्रुशूलरागघ्नम्| सन्धावाञ्जितं चाक्षि स्तन्येनानुसिञ्चेत्| त्रिपरञ्च तैर्न्नाञ्जयेत्||४||

🔊 Audio coming soon

Adhikarana athA~jjanAni (5) · Śloka 5

मधुकबृहतीत्वक्ताम्ररजांस्यजाक्षीरपिष्टानि शम्यामलकपत्रैर्घृताप्लुतैः अनेकशो धूपितानि पिण्डाञ्जनं शोफवेदनाघ्नम्| तालीसपत्रपिप्पलीलोहरजोऽञ्जनकासीसतगरजातीमुकुलसैन्धवैर्गोमूत्रपिष्टैस्ताम्रमालिप्तं सप्तरात्रं स्थापयित्वा पुनस्तद्वदेव पिष्टैर्गुटिकाः कार्यास्ताः स्तन्यघृष्टाः स्तम्भश्वयथुहर्षघर्षाश्रुकण्डूघ्न्यः| अबद्धास्थिसहकारमांसं विगतत्वचं समताम्रचूर्णमीषत्सैन्धवोपेतं गव्येन दध्ना पिष्ट्वा ताम्रमालेपयेत्| शुष्कं शुष्कं तथैव च पिष्ट्वा पुनर्लेपयेत्| एतत्सप्तभिः सप्ताहैः पिण्डाञ्जनं कृतं सर्वाक्षिकाश्रुघर्षशोफरागवर्त्मोपचयघ्नम्| अश्मन्तकाम्लवेतसपरूषककोलदाडिमैः कृता रसक्रिया सशोफाल्पशोफपूयालसान् नाशयति| इत्थमपि शोफानुवृत्तौ पुनरस्रावसेकः शिरोविरेकश्च||५||

🔊 Audio coming soon

Adhikarana amloShitacikitsA (6) · Śloka 6

अम्लोषितं पित्ताभिष्यन्दवदुपाचरेत्| पिल्ललसाधनं चेक्षेत||६||

🔊 Audio coming soon

Adhikarana pillarogANAM sa~gkhyAnam (7) · Śloka 7

पित्तकफरक्तनिचयोत्क्लिष्टवर्त्मपोथकीबिसाक्यकुकूणकपक्ष्मोपरोधपूयालसशुष्काक्षिपाकाल्पशोफाम्लोषिता वातवर्ज्याश्च स्यन्दाधिमन्था इत्यष्टादश दीर्घकालानुबन्धिनो रोगाः पिल्लसंज्ञाः||७||

🔊 Audio coming soon

Adhikarana pillAnAM pratyekaSaH cikitsA (8) · Śloka 8

एषां क्रिया यथास्वमुपदिष्टैव पुनश्च पिल्ली भूतानां सामान्येनोपदिश्यते||८||

🔊 Audio coming soon

Adhikarana pillasAmAnyacikitsA (9) · Śloka 9

अथ पिल्लाक्षिरोगिणं स्नेहयित्वा वामयेत्| कृतक्रमस्य सिराव्यधस्ततो विरेकः| कृतविरेकस्य वर्त्मनी लिखेत्| सकृल्लेखनादशुद्धौ पुनर्लेखयेज्जलौकोभिश्च ग्राहयेत्| प्रियङ्गुलोध्रपद्मकेसरचन्दनमधुककल्केन समाक्षिकेण बिडालकः| तुवरिकाफलत्रिकरोचनाक्वाथेन मधुमता सायं प्रातः सदा प्रक्षालनमञ्जनान्ते च कषायवृक्षपल्लवकषायेण| तैरेव च पत्रैरुष्णप्रियतायाम्न्तरान्तरा स्वेदः| तुत्थकपलं विंशतिश्च श्वेतमरिचानि धान्याम्लपिष्टानि तत्पलैस्त्रिंशता ताम्रपात्रे समालोडितानि बहुवर्षाणामपि पिल्लानां परममाश्च्योतनम्| अञ्जनं चास्याम्रधातकीपुष्पतिलपर्णीकल्केन च वर्त्तिः| हरीतक्याढकीश्चाष्टगुणेऽम्भस्यष्टभागावशेषं क्वाथयेत्| पुनश्च परिस्राव्यादर्वीप्रलोपाद्रसक्रियेयं पिल्लाक्षिरोपणी| पलाशशाखास्वरसे क्वाथ्यमाने बृहत्युशीररजो दद्यात्| तद् घनीभूतं शीतमञ्जनम्| सुरसारसपिष्टैर्वा वचालदेवदारुभिः| गोपित्तपिष्टाभ्यां वा व्योषरसाञ्जनाभ्याम्| हरितालसौवीरकाञ्जनसमांशं वा ताम्रचूर्णमञ्जनम्| परिपेलवकासीसहरिद्राद्वयसर्षपप्रियङ्गुतगरपिप्पलीकल्केन ताम्रभाजनमन्तर्लेपयित्वा सौवीरककुम्भेऽधोमुखं सप्ताहं वासयेत् ततो गुटिकाश्चूर्णं वा कुर्यात्| तुत्थगैरिकचूर्णं छगलीपयःपिष्टं गुटिका प्रत्यञ्जनम्| चूर्ण एव वा दिव्योदकभावितः| स एव वा तदाप्लुतो नेत्राश्च्योतनमिति| भवति चात्र- वर्त्मावलेखं बहुशस्तद्वच्छोणितमोक्षणम्| पुनः पुनर्विरेकं च पिल्लरोगातुरो भजेत्||९||

🔊 Audio coming soon

Adhikarana pUyAlase viSeShaH (10) · Śloka 10

पूयालसे त्वशान्तेऽन्ते दाहः सूक्ष्मशलाकया||१०||

🔊 Audio coming soon

Adhikarana netrarogANAmuktAnAM sa~gkhyAnam (11) · Śloka 11

चतुर्नवतिरित्यक्ष्णोर्हेतुलक्षणसाधनैः| परस्परमसङ्कीर्णाः कार्त्स्न्येन गदिता गदा||११||

🔊 Audio coming soon

Adhikarana svasthe~api pathyApathyanirdeSaH (12) · Śloka 12

सर्वदा च निषेवेत स्वस्थोऽपि नयनप्रियः| पुराणयवगोधूमशालिषष्टिककोद्रवान्| मुद्गादीन् कफपित्तघ्नान् भूरिसर्पिः परिप्लुतान्| शाकं चैवंविधं मांसं जाङ्गलं दाडिमं सिताम्| सैन्धवं त्रिफलां द्राक्षां वारि पाने च नाभसम्| आतपत्रं पदत्राणं विधिवद्दोषशोधनम्| वर्जयेद्वेगसंरोधमजीर्णाध्यशनानि च| क्रोधशोकदिवास्वप्नरात्रिजागरणातपान्| विदाहविष्टम्भकरं यच्चेहाहारभेषजम्||१२||

🔊 Audio coming soon

Adhikarana pAdaSirayornetrasambandhaH (13-20) · Śloka 20

द्वे पादमध्ये पृथुसन्निवेशे सिरे गते ते बहुधा च नेत्रे| ता भ्रङ्क्षणोद्वर्तनलेपनादीन् पादप्रयुक्तान्नयनं नयन्ति| मलोष्णसङ्घट्टनपीडनाद्यैस्ता दूषयन्ते नयनानि दुष्टाः| भजेत्सदा दृष्टिहितानि तस्मादुपानदभ्यञ्जनधावनानि||१३|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे अक्षिपाकपिल्लप्रतिषेधो नाम विंशोऽध्यायः||२०||

🔊 Audio coming soon