Adhikarana atha bAlagrahavij~jAnIyo nAma tRutIyo~adhyAyaH - avataraNikA · Śloka
🔊 Audio coming soon
ग्रहैरप्यामया उक्तास्तांस्तदामयांश्च प्रदर्शयितुमध्याय आरभ्यते|
Adhikarana atha bAlagrahavij~jAnIyo nAma tRutIyo~adhyAyaH - avataraNikA · Śloka
🔊 Audio coming soon
ग्रहैरप्यामया उक्तास्तांस्तदामयांश्च प्रदर्शयितुमध्याय आरभ्यते|
Adhikarana pratij~jA (1) · Śloka 1
अथातो बालग्रहविज्ञानीयं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana grahANAM samBavaH (2) · Śloka 2
पुरा गुहस्य रक्षार्थं निर्मिताः शूलपाणिना| मनुष्यविग्रहाः पञ्च सप्त स्त्रीविग्रहा ग्रहाः| स्कन्दो विशाखो मेषास्यः श्वग्रहः पितृसंज्ञितः| शकुनिः पूतना शीतपूतनाऽदृष्टिपूतना| मुखमण्डितिका तद्वद्रेवती शुष्करेवती||२||
🔊 Audio coming soon
प्रथममेव तावत् ग्रहाणां सम्भव उच्यते| पुरा पूर्वमतीते कस्मिंश्चित कालांशे गुहस्य भगवतः कुमारस्य रक्षार्थं शूलपाणिना भगवता शम्भुना पञ्च ग्रहाः मनुष्यविग्रहाः पुरुषशरीराः स्कन्दादयः सप्त च स्त्रीविग्रहाः शकुन्यादयो निर्मिताः|| २||
Adhikarana grahANAM vRuttivyavasthA (3) · Śloka 3
ते कामरूपिणः स्कन्दमुपचेरुः समाहिताः| स्कन्दस्य बालधारत्वात्तेषां स्कन्दोऽग्रणीरभूत्| स्कन्देऽथ यौवनं प्राप्ते सेनापत्यं च तान् ग्रहान्| रौद्रान् रुद्रोऽनुजग्राह प्रह्वान् वृत्त्यभिलाषिणः| न तिथिष्वप्यतिथयो देवताः पितरोऽपि वा| येषु वेश्मसु पूज्यन्ते निवृत्ताचारवर्त्मसु| हरध्वं तेषु बालानामारोग्यं धारिशर्म च||३||
🔊 Audio coming soon
ते ग्रहाः सर्वे कामरूपिणो यथेच्छाकृतयः स्कन्दं कुमारमुपचेरुपचरितवन्तः| समाहिता यत्नवन्तः स्कन्दस्य कुमारस्य| तेषां मध्ये स्कन्दाख्यग्रहोऽग्रणीः प्रधानोऽभूत् बालधारत्वाद्धेतोः| स हि कुमारस्य बालधारत्वे भगवता नियुक्तः| अथ कालेन स्कन्दे यौवनं प्राप्ते सेनापत्यं च प्राप्ते तान् रौद्रान् ग्रहान् रुद्रोऽनुजग्राह| प्रह्वान् जानुभ्यामवनतान्| वृत्त्यभिलाषिणो जीविकाकामान्| कथमनुजग्राहेत्याह-न तिथिष्वपीत्यादि| भो ग्रहाः एवंविधेषु वेश्मस्वाश्रयतां बालानामारोग्यं धारि जीवितं शर्म च हरध्वम्| किम्भूतेष्वित्याह-येषु वेश्मसु तिथिष्वपि पर्वस्वप्य तिथ्यादयो न पूज्यन्ते| निवृत्तमाचारवर्त्म येभ्यस्तेषु| वर्त्मा मार्गम्| सुबोधम्| भिन्ने भग्ने कांस्ये पात्रे येषु वेश्मसु भुज्यते ते तथोक्तास्तेषु|| ३||
Adhikarana grahagrahaNahetavaH kAlaH prakArashca (4) · Śloka 4
शूलिनेति नियुक्तास्ते बलिपूजाभिकाङ्क्षिणः| क्रुद्धान् भीतान् विमनसः शून्यस्थानैकचारिणः| परोपभुक्तकुसुमवस्त्राभरणधारिणः| बालान् कश्मलधात्रीकान् सन्ध्यासु रुदतोऽशुचीन्| ऋक्षोलूकबिडालादिरूपैरन्यैस्तथाद्भुतैः| सन्त्रासयन्तः शयितान् कदाचिज्जाग्रतोऽपि वा| प्रायः पर्वसु गृह्णन्ति ग्रहाश्छिद्रप्रहारिणः| आविशन्तश्च लक्ष्यन्ते केवलं शास्त्रचक्षुषा| शुद्धेन देहं बालानां गन्धर्वा इव योषिताम्||४||
🔊 Audio coming soon
इत्यनेन प्रकारेण शूलिना भगवता ते ग्रहा नियुक्ताः सन्तो बलिपूजाभिकाक्षिणश्च क्रुद्धादिगुणान् बालान् हन्ति| विमनसो दुश्चित्तान्| शून्ये तिष्ठन्तीति शून्यस्थास्तान्| एकचारिणो ये सर्वत्रासहायाश्चरान्ति| परेणान्येनोपभुक्तान् कुसुमादीन् धारयन्तीति तथोक्तास्तान्| कश्मला दुराचारा धात्रीं येषां ते तथोक्तास्तान्| कथं गृह्णन्तीत्याह-अद्भुतैराश्चर्यैः| ऋक्षादिप्राणिरूपैर्बालाञ्छयितान् जाग्रतोऽपि वा सन्त्रासयन्तः| कदा गृह्णन्तीत्याह| प्रायः पर्वस्वष्टम्यादिषु| ते च ग्रहाश्छिद्रप्रहारिणश्छिद्रे रन्ध्रे प्रहरन्ति| ते च ग्रहा अप्रत्यक्षत्वाच्छास्त्रेणैव चक्षुषा आविशन्तो बालानां देहे लक्ष्यन्ते| किम्भूतेन शास्त्रचक्षुषा आह-शुद्धेन निर्मलेन| दृष्टान्तो यथा योषितां देहं गन्धर्वा आविशन्ते| शास्त्रचक्षुषैव लक्ष्यन्ते| न तु मांसगोलकेन| गन्धर्वावेशः प्रत्यक्षफलत्वेन सिद्धत्वाद् दृष्टान्तः|| ४||
Adhikarana sAmAnyaM pUrvarUpam (5) · Śloka 5
तेषां ग्रहिष्यतां रूपं प्रततं रोदनं ज्वरः||५||
🔊 Audio coming soon
तेषां च ग्रहाणां ग्रहिष्यतां ग्रहणं करिष्यतां प्रततं रोदनं ज्वरश्च सामान्येन पूर्वरूपम्|| ५||
Adhikarana sAmAnyaM rUpam (6) · Śloka 6
सामान्यं रूपमुत्रासजृम्भाभ्रूक्षेपदीनताः| फेनस्रावोर्ध्वदुष्ट्योष्ठदन्तदंशप्रजागराः| रोदनं कूजनं स्तन्यविद्वेषः स्वरवैकृतम्| नखैरकस्मात्परितः स्वधात्र्यङ्गविलेखनम्||६||
🔊 Audio coming soon
उत्रासादिकं स्वधात्र्यङ्गविलेखनान्तं सर्वग्रहाणामाविष्टानां सामान्यं लक्षणम्| फेनस्रावो मुखात्| ओष्ठयोर्दन्तानां च दंशो दंशनम्| अकस्मादितिकारणं विना|| ६||
Adhikarana skandagrahe lakShaNam (7) · Śloka 7
तत्रैकनयनस्रावी शिरो विक्षिपते मुहुः| हतैकपक्षः स्तब्धाङ्गः सस्वेदो नतकन्धरः| दन्तखादी स्तनद्वेषी त्रस्यन् रोदिति विस्वरम्| वक्रवक्त्रो वमन् लालां भृशमूर्ध्वं निरीक्षते| वसास्रगन्धिरुद्विग्नो बद्धमुष्टिशकृच्छिशुः| चलितैकाक्षिगण्डभ्रूः संरक्तोभयलोचनः| स्कन्दार्त्तस्तेन वैकल्यं मरणं वा भवेद् ध्रुवम्||७||
🔊 Audio coming soon
तत्रेत्यादिना स्कन्दादिविशेषेण लक्षणम्| एकनयनस्रावीत्यादियुक्तः शिशुः स्कन्दार्त्तो भवति| तेन स्कन्देन बालस्य ध्रुवमवश्यं वैकल्यं मरणं वा भवेत्| बद्धशब्दो मुष्टिशकृद्भ्यां सम्बध्यते| चलितमेकमक्ष्यादिकं यस्य|| ७||
Adhikarana skandApasmAralakShaNam (8) · Śloka 8
संज्ञानाशो मुहुः केशलुञ्चनं कन्धरानतिः| वनम्य जृम्भमाणस्य शकृन्मूत्रप्रवर्तनम्| स्तनस्वजिह्वासन्दंशसंरम्भज्वरजागराः| पूयशोणितगन्धश्च स्कन्दापस्मारलक्षणम्||८||
🔊 Audio coming soon
संज्ञानाशादि शोणितगन्धान्तं स्कन्दापस्मारस्य विशाखस्य लक्षणम्| केशलुञ्चनं केशापनयनम्| कन्धरा ग्रीवा तस्या आनतिः| ऊर्ध्वमीक्षणमूर्ध्वेक्षा| हस्तादीनां नर्तनम्| दंशो दशनम्||८||
Adhikarana naigameShagrahe lakShaNam (9) · Śloka 9
आध्मानं पाणिपादस्य स्पन्दनं फेननिर्वमिः| तृण्मुष्टिबन्धातीसारस्वरदैन्यविवर्णताः| कूजनं स्तननं छर्दिः कासहिध्माप्रजागराः| ओष्ठदंशांससङ्कोचस्तम्भबस्ताभगन्धताः| ऊर्ध्वं निरीक्ष्य हसनं मध्ये विनमनं ज्वरः| मूर्छैकनेत्रशोफश्च नैगमेषग्रहाकृतिः||९||
🔊 Audio coming soon
आध्मानाद्येकनेत्रशोफान्तं नैगमेषाख्यस्य ग्रहस्याकृतिर्लक्षणम्| स्पन्दनं चलनं पाणिपादस्य|| ९||
Adhikarana shvagrahe lakShaNam (10) · Śloka 10
कम्पो हृषितरोमत्वं स्वेदश्चक्षुनिमीलनम्| बहिरायामनं जिह्वादेशोऽन्तःकण्ठकूजनम्| धावनं विट्सगन्धत्वं क्रोशनञ्च श्ववच्छुनि||१०||
🔊 Audio coming soon
कम्पादिकं श्वसदृशक्रोशनान्तं शुनि श्वगृहे लक्षणम्|| १०||
Adhikarana pitRugrahe lakShaNam (11) · Śloka 11
रोमहर्षो मुहुस्त्रासः सहसा रोदनं ज्वरः| कासातिसारवमथुजृम्भातृट्च्छवगन्धिताः| अङ्गेष्वाक्षेपविक्षेपशोषस्तम्भविवर्णताः| मुष्टिबन्धः स्रुतिश्चाक्ष्णोर्बालस्य स्युः पितृग्रहे||११||
🔊 Audio coming soon
रोमहर्षादिकमक्षिस्रुत्यन्तं पितृग्रहे लक्षणम्| शवगन्धिता कुणपगन्धित्वम्|| ११||
Adhikarana shakunigrahe lakShaNam (12) · Śloka 12
स्रस्ताङ्गत्वमतीसारो जिह्वातालुगले व्रणाः| स्फोटाः सदाहरुक्पाकाः सन्धिषु स्युः पुनःपुनः| निश्यह्नि प्रविलीयन्ते पाको वक्त्रे गुदेऽपि वा| भयं शकुनगन्धत्वं ज्वरश्च शकुनिग्रहे||१२||
🔊 Audio coming soon
स्रस्ताङ्गत्वादि ज्वरान्तं शकुन्याख्यस्य ग्रहस्य लक्षणम्| स्रंसनं निरवष्टम्भनम्| जिह्वादिके व्रणाः| सन्धिषु दाहादियुक्ताः स्फोटाः पुनः पुनः स्युर्निशि रात्रौ| ते स्फोटा अह्नि प्रविलीयन्ते| शकुनिगन्धत्वं देहे पक्षिगन्धः|| १२||
Adhikarana pUtanAgrahe lakShaNam (13) · Śloka 13
पूतनायां वमिः कम्पः तन्द्रा रात्रौ प्रजागरः| हिध्माध्मानं शकृद्भेदः पिपासा मूत्रनिग्रहः| स्रस्तहृष्टाङ्गरोमत्वं काकवत् पूतिगन्धिता||१३||
🔊 Audio coming soon
वम्यादिकाकसमानपूतिगन्धान्तं पूतनाख्यग्रह आविष्टे लक्षणम्| स्रस्तहृष्टयोरङ्गरोम्णोश्च यथासङ्ख्येन सम्बन्धः|| १३||
Adhikarana shItapUtanAgrahe lakShaNam (14) · Śloka 14
शीतपूतनया कम्पो रोदनं तिर्यगीक्षणम्| तृष्णान्त्रकूजोऽतीसारो वसावद्विस्रगन्धिता| पार्श्वस्यैकस्य शीतत्वमुष्णत्वमपरस्य च||१४||
🔊 Audio coming soon
कम्पाद्येकपार्श्वोष्णत्वान्तं शीतपूतनालक्षणम्|| १४||
Adhikarana andhapUtanAgrahe lakShaNam (15) · Śloka 15
अन्धपूतनया च्छर्दिर्ज्वरः कासोऽल्पनिद्रता| वर्चसो भेदवैवर्ण्यदौर्गन्ध्यान्यङ्गशोषणम्| दुष्टिसादोऽक्षिरुक्कण्डूः पोथकीजन्मशूनता| हिध्मोद्वेगः स्तनद्वेषवैवर्ण्यस्वरतीक्ष्णताः| वेपथुर्मत्स्यगन्धित्वमथवा साम्लगन्धिता||१५||
🔊 Audio coming soon
छर्द्यादिकं साम्लगन्धितान्तमन्धपूतनाया अदृष्टिपूतनाया लक्षणम्| मत्स्यगन्धसाम्लगन्धयोर्विकल्पः|| १५||
Adhikarana muKamaNDitikAgrahe lakShaNam (16) · Śloka 16
मुखमण्डितया पाणिपादास्यरमणीयता| सिराभिरसिताभाभिराचितोदरता ज्वरः| अरोचकोऽङ्गग्लपनं गोमूत्रसमगन्धिता||१६||
🔊 Audio coming soon
पाणिरमणीयतादि गोमूत्रसमगन्धितान्तं मुखमण्डितिकालक्षणम्| असिताभाभिः कृष्णवर्णाभिः सिराभिरुदरस्याचितत्वम्||१६||
Adhikarana revatIgrahe lakShaNam (17) · Śloka 17
रेवत्यां श्यावनीलत्वं कर्णनासाक्षिमर्दनम्| कासहिध्माक्षिविक्षेपवक्त्रवक्रत्वरक्तताः| वस्तगन्धो ज्वरः शोषः ...................||१७||
🔊 Audio coming soon
श्यावनीलत्वादि शोषान्तं रेवतीलक्षणम्|| १७||
Adhikarana shuShkarevatIgrahe lakShaNam (18) · Śloka 18
........................ पुरीषं हरितं द्रवम्| जायते शुष्करेवत्यां क्रमात् सर्वाङ्गसङ्क्षयः| केशशातोऽन्नविद्वेषः स्वरदैन्यं विवर्णता| नानावर्णपुरीषत्वमुदरे ग्रन्थयः सिराः| रोदनं गृध्रगन्धित्वं दीर्घकालानुवर्तनम्||१८||
🔊 Audio coming soon
शुष्करेवत्यां हरितादिगुणं पुरीषं जायते| क्रमाच्च सर्वाङ्गसंक्षयः केशशातादिकं च जायते|| १८||
Adhikarana asAdhyagrahe lakShaNam (19) · Śloka 19
उदरे ग्रन्थयो वृत्ता यस्य नानाविधं शकृत्| जिह्वाया निम्नता मध्ये श्यावं तालुं च तं त्यजेत्||१९||
🔊 Audio coming soon
उदर इत्यादि तालुश्यावतान्तमसाध्यग्रहलक्षणम्|| १९||
Adhikarana shuShkarevatyAH vishiShTamasAdhyalakShaNam (20) · Śloka 20
भुञ्जानोऽन्नं बहुविधं यो बालः परिहीयते| तृष्णागृहीतः क्षामाक्षो हन्ति तं शुष्करेवती||२०||
🔊 Audio coming soon
यो बालो बहुविधमनेकप्रकारमन्नं भुञ्जानो बलादिभिः परिहीयते तमवश्यं शुष्करेवती हन्ति| एतत्तस्या विशेषेणासाध्यलक्षणम्||२०||
Adhikarana grahagrahaNahetutraividhyam (21) · Śloka 21
हिंसारत्यर्चनाकाङ्क्षा ग्रहग्रहणकारणम्||२१||
🔊 Audio coming soon
त्रिविधो हि ग्रहाणां ग्रहणे हेतुर्हिंसाकांक्षा रतिकांक्षा अर्चनाकांक्षा च|| २१||
Adhikarana hiMsAtmake grahe lakShaNam (22) · Śloka 22
तत्र हिंसात्मके बालो महान् वा स्रुतनासिकः| क्षतजिह्वः क्वणन् बाढमसुखी सास्रलोचनः| दुर्वर्णो हीनवचनः पूतिगन्धश्च जायते| क्षामो मूत्रपुरीषं स्वं मृद्नाति न जुगुप्सते| हस्तौ चोद्यम्य संरब्धो हन्त्यात्मानं तथापरम्| तद्वच्च शस्त्रकाष्ठाद्यैरग्निं वा दीप्तमाविशेत्| अप्सु मज्जेत्पतेत् कूपे कुर्यादन्यच्च तद्विधम्| तृड्दाहमोहान् पूयस्य छर्दनं च प्रवर्तयेत्| सक्तञ्च सर्वमार्गेभ्योऽरिष्टोत्पत्तिञ्च तं त्यजेत्||२२||
🔊 Audio coming soon
तत्रेति निर्धारणे| हिंसात्मके ग्रहे बालो वा महान् वा स्रुतनासिकालक्षणो भवति| क्षता जिह्वा येन| जायते भवति| संरब्धः संरम्भो हस्तावुद्यम्यात्मानमपरं च हन्ति| शस्त्रकाष्ठाद्यैश्च तद्वदिति हन्त्यात्मानं तथापरमिति च| तद्विधमित्येवंप्रकारं साहसम्| च चेद्धिंसात्मको ग्रहस्तृडादीन् सर्वमार्गेभ्यश्च रक्तं रिष्टोत्पत्तिं च प्रवर्तयेत् ततस्तं हिंसात्मकं ग्रहं त्यजेदसाध्यत्वात्|| २२||
Adhikarana ratikAme grahe lakShaNam (23) · Śloka 23
रहःस्त्रीरतिसंल्लापगन्धस्रग्भूषणप्रियः| हृष्टः शान्तश्च दुःसाध्यो रतिकामेन पीडितः||२३||
🔊 Audio coming soon
रह आदिप्रियः पुरुषो रतिकामेन ग्रहेण पीडितो भवति| स च दुःसाध्यः| रह एकान्तः स्त्रिया रतिः संल्लापश्च स्त्रीरतिसंल्लापः| हृष्टः सहर्षः शान्तो विषयालोलुपः|| २३||
Adhikarana arcanAkAmagrahe lakShaNam (24) · Śloka 24
दीनः परिमृशन् वक्त्रं शुष्कौष्ठगलतालुकः| शङ्कितं वीक्षते रौति ध्यायत्यायाति भीतताम्| अन्नमन्नाभिलाषेऽपि दत्तं नाति बुभुक्षते| गृहीतं बलिकामेन तं विद्यात् सुखसाधनम्||२४||
🔊 Audio coming soon
दीनत्वादियुक्तं बलिकामेनार्चनाकाक्षिणा गृहीतं विद्यात् सुखसाधनं च अन्नाभिलाषेऽपि दत्तमन्नं नातिबुभुक्षते भोक्तुं नेच्छति||२४||
Adhikarana cikitsAsUtram (25-26) · Śloka 26
हन्तुकामं जयेद्धोमैः सिद्धमन्त्रप्रवर्तितैः| इतरौ तु यथाकामं रतिबल्यादिदानतः||२५|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे बालग्रहविज्ञानीयो नाम तृतीयोऽध्यायः||२६||
🔊 Audio coming soon
हन्तुकामं ग्रहहोमादिभिर्जयेत्| इतरौ रत्यर्चनाकामौ यथाकाममिच्छानतिक्रमेण रत्यादीनां दानत इति|| २५|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे तृतीयोऽध्यायः||