Adhikarana atha granthyarbudashlIpadApacInADIvij~jAnIyo nAma catustriMsho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातो ग्रन्थ्यर्बुदश्लीपदापचीनाडीविज्ञानीयं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
व्रणविचारप्रसङ्गे ग्रन्थ्यादीनां हेत्वादिकं प्रदर्शयितुमध्याय आरभ्यते||१||
Adhikarana granthinidAnaM niruktishca (2) · Śloka 2
कफप्रधानाः कुर्वन्ति मेदोमांसास्रगामलाः|
वृत्तोन्नतं तं श्वयथुं स ग्रन्थिर्ग्रथनात् स्मृतः||२||
ग्रन्थिरिति किमुच्यत इत्याह-कफप्रधाना इत्यादि| श्लेष्म प्रधाना मलास्त्रयो दोषा मेदःप्रभृतीर्गत्वा परिवतुलमुन्नतञ्च यं श्वयथुं कुर्वन्ति स श्वयथुर्ग्रथनात्मकत्वात् ग्रन्थिरिति स्मृतः||२||
Adhikarana grantheH sa~gkhyAsamprAptiH (3) · Śloka 3
दोषासृङ्ह्मांसमेदोऽस्थिसिराव्रणभवा नव|
ते.......................................||३||
त्रिभिर्दोषैरस्रादिभिश्च षड्भिस्ते ग्रन्थयो नव भवन्ति||३||
Adhikarana vAtagranthilakShaNam (4) · Śloka 4
अत्र वातादायामतोदभेदान्वितोऽसितः|
स्थानात्स्थानान्तरगतिरकस्माद्धानिवृद्धिमान्|
मृदुर्बस्तिरिवानद्धो विभिन्नोच्छं स्रवत्यसृक्||४||
स्थितेऽपि सम्प्राप्तौ कफप्राधान्ये आयामादिकं विभेदे चाऽच्छासृक् स्रावान्तं वातग्रन्थिलिङ्गम्| अकस्मादकरणाद्धानिमान् वृद्धिमांश्च||४||
Adhikarana pittagranthilakShaNam (5) · Śloka 5
पित्तात् सदाहपीताभो रक्तो वा पच्यते द्रुतम्|
भिन्नोऽस्रमुष्णं स्रवति....................||५||
सदाहादिभेद उष्णास्रस्रावान्तं पित्तग्रन्थौ| वाशब्दः पीतरक्तयोर्विकल्पार्थः||५||
Adhikarana shleShmagranthilakShaNam (6) · Śloka 6
.........................श्लेष्मणा नीरुजो घनः|
शीतः सवर्णः कण्डूमान् पक्वः पूयं स्रवेद् घनम्||६||
नीरुजत्वादिकं घनपूयस्रावान्तं कफग्रन्थौ| सवर्णो देहसमानवर्णः||६||
Adhikarana raktajagranthilakShaNam (7) · Śloka 7
दोषैर्दुष्टेऽसृजि ग्रन्थिर्भवेन्मूर्च्छत्सु जन्तुषु|
सिरामांसञ्च संश्रित्य सस्वापः पैत्तलक्षणः||७||
दोषैर्वातादिभिरसृजि रक्ते दुष्टे जन्तुषु कृमिषु मूर्च्छत्सूच्छ्रायमाप्नुवत्सु सिरा मांसं च तयोरन्यतरमुभयं वा संश्रित्य स्वापयुक्तो ग्रन्थिर्भवेत्| तस्य पित्तग्रन्थिवल्लिङ्गम्| दोषैर्दुष्ट इति विशेषणं रक्तस्य दोषताशङ्कनिरासाय||७||
Adhikarana mAMsagranthilakShaNam (8) · Śloka 8
मांसलैर्दूषितं मांसमाहारैर्ग्रन्थिमावहेत्|
स्निग्धं महान्तं कठिनं सिरानद्धं कफाकृतिम्||८||
मांसलैराहारैर्मासं दूषितं स्निग्धत्वादिगुणं कफग्रन्थिलिङ्गं ग्रन्थिमावहेत्| (मांसलैर्मांसवर्धनैराहारैः क्रव्यादप्रसहमांसाद्युपेतैरत्रैर्दूषितं कृतदूषणं मांसं स्निग्धं स्नेहदिग्धप्रतिमं महान्तं पीवरं कठिनं कठिनस्पर्शं सिरानद्धं सिराभिराचितं कफाकृतिं कफग्रन्थिलिङ्गं ग्रन्थिं कुर्यात्| मांसकफयोराधाराधेयत्वेनाकृतिसाम्येसिद्धे पुनरपि तत्साम्यकथनमत्रानुक्तानां नीरुजत्वादीनां ग्रहणार्थम्| उभयत्रोक्तानां निबिडत्वादीनामतिशयग्रहणार्थं च)||८||
Adhikarana medogranthilakShaNam (9) · Śloka 9
प्रवृद्धं मेदुरैर्मेदो नीतं मांसेऽथ वा त्वचि|
वायुना कुरुते ग्रन्थिं भृशं स्निग्धं मृदुं चलम्|
श्लेष्मतुल्याकृतिं देहक्षयवृद्धिक्षयोदयम्|
स विभिन्नो घनं मेदस्ताम्रासितसितं स्रवेत्||९||
मेदुरैराहारविहारैः प्रवृद्धं मेदो वायुना मांसे त्वचि वा नीतं भृशं स्निग्धत्वादिगुणं श्लेष्मग्रन्थितुल्यलिङ्गं ग्रन्थिं कुरुते| पुनः किम्भूतं ग्रन्थिमाह-देहक्षयवृद्धिक्षयोदयं यदा देहस्य केनचित् कारणेनापचयो भवति तदा तस्याऽप्यपचयः यदा तु देहस्य वृद्धिस्तदा तस्याऽप्युपचयः| स च मेदोग्रन्थिविभिन्नः सन् घनत्वादिगुणं मेदः स्रवेत्| (मेदुरैर्मेदोवृद्धिकरैराहारविहारैः प्रवृद्धमतिशयेन वृद्धिङ्गतं तेन रुद्धावकाशतयाकुपितेन न वायुना मांसत्वचोरन्यतरं नीतं मेदः भृशमतिशयेन स्निग्धमरूक्षं मृदुं मार्दवयुक्तं चलमस्थिरं, भृशशब्दश्चलान्तैः संयुज्यते| स विभिन्नः पक्वभिन्नः घनं निबिडं ताम्राद्यन्यतमवर्णं मेदः स्रवेत्| मेदः शब्देन पूयस्यान्यादृशत्वं सूचितम्| उक्तञ्च धन्वन्तरिणा-'मेदः कृते प्रस्रवति प्रभिन्ने पिण्याककल्कप्रतिमन्तु पूयमि'ति)||९||
Adhikarana asthigranthilakShaNam (10) · Śloka 10
अस्थिभङ्गाभिघाताभ्यामुन्नतावनतं तु यत्|
सोऽस्थिग्रन्थिः............................||१०||
भङ्गेन वाऽभिघातेन वा यदस्थ्युन्न्तं वाऽवनतं वा सोऽस्थि ग्रन्थिर्नाम्ना भवति| (यदस्थि तु भङ्गादभिघाताद्वा हेतोरुन्नतमवनतं वा भवति| तुशब्देन भङ्गाभिघाताभ्यां विना सहजयोरप्युन्नतावनतयोरस्थ्नोर्ग्रन्थिकरत्वं सूचितम्| भङ्गादुन्नतमभिघातादवनतिमिति यथाक्रमं वेति केचित्| स एवंविधः सोऽस्थिग्रन्थिर्नाम्ना भवति| अवनतस्यापि ग्रन्थिसंज्ञाकथनादुन्नतावनतयोरस्थ्नोः पुनर्ग्रन्थिरूपेण वृद्धिर्भवतीति सूचितम्) ||१०||
Adhikarana sirAgranthilakShaNam (11) · Śloka 11
.........................पदातेस्तु सहसाऽम्भोऽवगाहनात्|
व्यायामाद्वा प्रतान्तस्य सिराजालं सशोणितम्|
वायुः सम्पीड्य सङ्कोच्य वक्रीकृत्य विशोष्य च|
निस्फुरं नीरुजं ग्रन्थिं कुरुते स सिराह्वयः||११||
पदातेस्त्वित्यादिना सिराग्रन्थिः| सुबोधम्| (पदातेर्वाहनेन विना माऱ्गगमनं कुर्वतो, व्यायामात् कायक्लेशजननकर्मणा प्रतान्तस्य प्रकर्षेण तान्तस्यावसन्नस्य वाशब्दस्तयोर्विकल्पार्थः| सहसा आश्वेवाम्भोवगाहनाज्जले निमज्जनात्तुर्विशेषे स्नानान्नतापहानिरपि तु समीरेण कोप इति विशेषः| कुपित इत्यर्थाद्गम्यते| कुपितो वायुः सशोणितं शोणितोपेतं सिराजालं सिरासमूहं जालाकाराः सिरा वा रक्तवाहिन्य इत्यर्थः| निष्पीड्य सङ्कोच्य सङ्कुञ्चनात् सुषिरसंवृतिमापाद्य वक्रीकृत्यानृजुत्वमुत्पाद्य विशोष्य संवृतमार्गतया रक्तस्य वहनाभावाच्छोषयित्वा निस्फुरं स्फुरणरहितं रुजारहितञ्च ग्रन्थिं कुर्यात्, स सिराह्वयः सिराग्रन्थिसंज्ञः| शास्त्रान्तरोक्तयोः सस्फुरसरुजयोर्ग्रहणार्थश्चशब्दः| धन्वन्तरिणाप्युक्तम् - ग्रन्थिः सिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात्सरुजश्चलश्च| तत्रारुजश्चाप्यचलो महांश्च मर्मोत्थितश्चापि विवर्जनीयः|| इति)||११||
Adhikarana vraNagranthilakShaNam (12) · Śloka 12
अरूढे रूढमात्रे वा व्रणे सर्वरसाशिनः|
सार्द्रे वा बन्धरहिते गात्रेऽश्माभिहतेऽथ वा|
वातोऽस्रमस्रुतं दुष्टं संशोष्य ग्रथितं व्रणम्|
कुर्यात् सदाहः कण्डूमान् व्रणग्रन्थिरयं स्मृतः||१२||
अरूढे व्रणे मधुरादिसर्वरसाशिनः पुंसो रूढमात्रे वा अचिरप्ररूढ एवंविधस्याथवा सार्द्रे नवे व्रणे बन्धरहिते अश्मना वाभिहते गात्रे वायुरस्रुतं दुष्टमस्रं संशोष्य ग्रथितं व्रणं कुर्यात्| दाहादियुक्तोऽयं व्रणग्रन्थिरिति स्मृतः| (व्रणे अरूढे ईषद्रूढे रोहणसमय इत्यर्थः| रूढमात्रे रूढप्राये रूढानन्तरमेवेत्यर्थः| वाशब्दो विकल्पार्थः| सर्वरसाशिनः व्रणविरुद्धाम्लादिरसनिषेविणः अपथ्यसेविनः इत्यर्थः| सार्द्रे नवे व्रणे बन्धरहिते अबद्धे वा अथवा गात्रे शरीरे अश्मादिहते आदिशब्देन काष्ठलोहादिपरिग्रहः| वातः विकारकरणादेवास्य विकृतिरुह्या| कुपितो वायुरित्यर्थः| अस्रुतमनिर्गतं अत एव दुष्टं स्वस्थानाच्चलितस्यास्रुतिरेव दुष्टिहेतुः| अस्रं रक्तं संशोष्य शोषयित्वा ग्रथितं कठिनं व्रणं कुर्यात्)||१२||
Adhikarana sAdhyAsAdhyaviBAgaH (13) · Śloka 13
साध्या दोषास्रमेदोजा न तु स्थूलखराश्चलाः|
मर्मकण्ठोदरस्थाश्च........................||१३||
एभ्यो दोषास्रमेदोजाः पञ्च साध्याः| एत एव स्थूलत्वादिगुणा मर्मादिस्थाश्च न साध्या इति सम्बन्धः| इत्युक्ता नवग्रन्थयः| (स्थूलाः खराश्च स्थूलखराः, स्थूला महान्तः खराः खरस्पर्शाः, चलानि पीडनात् स्थानान्तरयायिनः| तुर्विशेषे अत्र साध्येष्वप्येवंविधानामसाध्यत्वं विशेषः| मर्मादिजाश्च न साध्याः, तेषामभेद्यत्वात्| चशब्दः समुच्चये| अनुक्तानामन्येषां चिकित्साकथनाद्याप्यत्वं सूचितम्| अनुक्तसाधनत्वादस्थिग्रन्थेरसाध्यत्वञ्च)||१३||
Adhikarana arbudasya sAmAnyasvarUpam (14) · Śloka 14
...............................ंअहत्तु ग्रन्थितोऽर्बुदम्||१४||
(ग्रन्थेः स्वरूपमुक्त्वाऽनन्तरं ग्रथनसाधर्म्यादर्बुदस्य स्वरूपं दर्शयति)| यस्तु ग्रन्थिर्महान् ग्रथितश्च सोऽर्बुदं भवेत्| (अर्बुदाख्यो रोगः| तुशब्देन कारणसाम्येऽपि ग्रन्थ्यर्बुदयोरर्बुदस्य दोषास्रमांसमेदो ग्रन्थितोऽपि रुगादीनामत्यल्पत्वं सूचितम्)||१४||
Adhikarana atideshena lakShaNanirdeshaH (15) · Śloka 15
तल्लक्षणं च मेदोऽन्तैः षोढा दोषादिभिस्तु तत्|
प्रायो मेदः कफाढ्यत्वात् स्थिरत्वाच्च न पच्यते||१५||
तस्यर्बुदस्य लक्षणं ग्रन्थिपठितैर्मेदोऽन्तैर्दोषादिभिः षोढा| अनेनास्थिसिराव्रणजानां प्रतिषेधः| एतच्चार्बुदं मेदःकफाढ्यत्वात् स्थिरत्वाच्च हेतोः प्रायो न पच्यते||१५||
Adhikarana shoNitArbudasya visheShalakShaNam (16) · Śloka 16
सिरास्थं शोणितं दोषः सङ्कोच्यानुप्रपीड्य च|
पाचयेच्च तदानद्धं साऽस्रावं मांसपिण्डितम्|
मांसाङ्कुरैश्चितं याति वृद्धिं चाशु स्रवेत्ततः|
अजस्रं दुष्टरुधिरं भूरि तच्छोणितार्बुदम्||१६||
शोणितार्बुदस्य विशेषलक्षणत्वात्तल्लक्षणमाहसिरास्थमित्यादि| दोषो वातादिः कुपितः सिरास्थं शोणितं सङ्कोच्यानुप्रपीड्य च तच्छोणितं पाचयेत्| तच्चानद्धत्वादियुक्तमाशु वृद्धिं याति| ततो वृद्धं सदजस्रमाविच्छेदेन भूरि प्रभूतं दुष्टरुधिरं स्रवेत्| एतच्छोणितार्बुदमुच्यते| (दोषो वाताद्यन्यतमः सिरास्थितं रक्तं सङ्कोच्यैकत्र पुञ्जीकृत्यान्वनन्तरं प्रपीड्य पीडयित्वा| चशब्दः समुच्चये| तत्स्थेनाग्निना मांसत्वापादनाय पाचयेच्च| आनद्धमन्तः पूरितशोणितत्वादानाहयुक्तं सास्रावमास्रावयुक्तं मांसपिण्डितं मांसपिण्डाकारेण सञ्जातं तच्छोणितार्बुदं मंसाङ्कुराकारैर्मांसैर्बहुशिखरैरित्यर्थः| चितं व्याप्तमाशु शीघ्रं वृद्धिं याति| ततोऽनन्तरं दुष्टरुधिरं दुष्टरक्तं अजस्रमनवरतं भूरि प्रभूतं स्रवेत्| तच्छोणितार्बुदसंज्ञा भवति)||१६||
Adhikarana arbudAnAM sAdhyAsAdhyavibhAgaH (17) · Śloka 17
तेष्वसृङ्मांसजे वर्ज्ये चत्वार्यन्यानि साधयेत्||१७||
तेषु षतस्वर्बुदेष्वसृङ्मांसजे द्वे वर्ज्ये| अन्यानि चत्वारि दोष मेदोभवानि साधयेत्| इत्युर्बुदानि||१७||
Adhikarana shlIpadalakShaNam (18) · Śloka 18
प्रस्थिता वङ्क्षणोर्वादिमधः कायं कफोल्बणाः|
दोषा मांसास्रगाः पादौ कालेनाश्रित्य कुर्वते|
शनैः शनैर्घनं शोफं श्लीपदं तं प्रचक्षते||१८||
(अर्बुदलक्षणमुक्त्वाऽनन्तरं कफाधिक्यसाम्याच्छ्लीपदलिङ्गमाह|) कफोल्बणा दोषा वातादयो वङ्क्षणादिकमधःकायं प्रस्थिता मांसमस्रं चाश्रिताः कालेन पादावाश्रित्य शनैः शनैर्घनं शोफं कुर्वते| तं नाम्ना श्लीपदं प्रचक्षते| (दोषा वातादयः कफोल्बणा उद्रिक्तकफः कफोल्बणत्वं शास्त्रान्तरेष्वप्युक्तम् त्रीण्यप्येतानि जानीयाच्छ्लीपदानि कफोच्छ्रयात्| गुरुत्वं च महत्वं च यस्मान्नास्ति कफं विना|| इति| मांसास्रगा मांसं रक्तञ्च प्राप्ताः वङ्क्षणोर्वादि अत्रादिशब्देन जङ्घागुल्फादिपरिग्रहः| अधःकायं कायाधोभागं प्रस्थिताः प्राप्ता इत्यर्थः| प्रस्थिता इत्युक्तत्वाद्दोषाणां कफोल्बणतयोर्ध्वाङ्गादधः कायं प्रति पुनः पुनः प्रस्थानस्याऽनिवृत्तिः सूचिता| कालेन कालान्तरेण पादौ प्रपदे आश्रित्य प्राप्य शनैः शनैर्मन्दं मन्दं घनं निबिडं शोफं कुर्वते| तं शोफं श्लीपदमिति वदन्त्याचार्या इति शेषः)||१८||
Adhikarana vAtajashlIpadalakShaNam (19) · Śloka 19
परिपोटयुतं कृष्णमनिमित्तरुजं खरम्|
रूक्षं च वातात्...........................||१९||
(तस्य श्लीपदस्य वातादिभेदेन विशेषलक्षणं दर्शयति|) परिपोटयुतत्वादिकं वाताच्छ्लीपदे लक्षणम्| (वाताज्जातं श्लीपदं परिपोटेन युतं कृष्णं कृष्णवर्णमनिमित्तरुजं निमित्तमन्तरेण जातया रुजया युक्तं, खरं खरस्पर्शं रूक्षमस्निग्धं, चः समुच्चये) ||१९||
Adhikarana pittajashlIpadalakShaNam (20) · Śloka 20
...................पित्तात्तु पीतं दाहज्वरान्वितम्||२०||
पीतत्वादिकं पित्तात्| (पित्ताज्जातं श्लीपदं, तुशब्दो विशेषद्योतकः| पीतं पीतवर्णं दाहज्वरान्वितं दाहज्वराभ्यां युक्तं दाहादिज्वरयुक्तं वा)||२०||
Adhikarana kaphajashlIpadalakShaNam (21) · Śloka 21
कफाद्गुरुस्निग्धमरुक्चितं मांसाङ्कुरैर्बृहत्||२१||
गुरुत्वादिकं कफात्| (कफाज्जातं श्लीपदं गुरुत्वादियुक्तं मांसाङ्कुरैरङ्कुराकारैर्मांसशकलैश्चितं व्याप्तं बृहत्पीवरम्)||२१||
Adhikarana asAdhyashlIpadalakShaNam (22) · Śloka 22
तत्त्यजेद्वत्सरातीतं सुमहत्सपरिस्रुतिः||२२||
तच्च श्लीपदं वत्सरातीतत्वादिगुणं त्यजेत्| (वत्सरातीतमतिक्रान्तसंवत्सरं सुमहदतिशयेन पीनं सपरिस्रुतिः परिस्रुत्युपेतं, परिस्रुतिः पिच्छिलजलस्रवणं तच्छ्लीपदं त्यजेदसाध्यत्वन्नचिकित्सेत्)||२२||
Adhikarana shlIpadaviShaye matAntaram (23) · Śloka 23
पाणिना सौष्ठकर्णेषु वदन्त्यन्ये तु पादवत्|
श्लीपदं......................................||२३||
एके आचार्याः पादवत् पाण्यादिष्वपि श्लीपदं जायत इति वदन्ति| (अन्ये आचार्याः, तुशब्दो विशेषे, पादवत् पादे यथा श्लीपदं जायते तथा पाणिना सौष्ठकर्णेषु पाण्योर्नासायामोष्ठयोः कर्णयोश्च श्लीपदं जायत इति वदन्ति| उक्तञ्च तन्त्रान्तरे पादवद्धस्तयोश्चापि श्लीपदं जायते नृणाम्| कर्णौष्ठनासास्वपि च केचिदिच्छन्ति तद्विदः|| इति| अन्ये इति पाक्षिकोत्तया पाण्यादिजानां विरलत्वं सूचितम्)||२३||
Adhikarana shlIpadahetuH (24) · Śloka 24
..................जायते तच्च देशेऽनूपे भृशं भ्रमात्||२४||
तच्च श्लीपदं भृशमानूपदेशे भ्रमात् सञ्चरणात् जायते| इति श्लीपदम्| (तच्छ्लीपदं आनूपे जलप्राये देशे भृशं भ्रमादनवरतं चंक्रमणात् चशब्दात्तत्तुल्येष्वन्येष्वपि| उक्तञ्च शास्त्रान्तरे पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः| ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः|| इति)||२४||
Adhikarana apacInidAnam (25) · Śloka 25
मेदस्थाः कण्ठमन्याक्षकक्षवङ्क्षणगा मलाः|
सवर्णान् कठिनान्स्निग्धान्वार्ताकामलकाकृतीन्|
अवगाढान् बहन् गण्डांश्चिरपाकांश्च कुर्वते|
पच्यन्तेऽल्परुजस्तेऽन्ये स्रवन्त्यन्येऽतिकण्डुराः|
नश्यन्त्यन्ये भवन्त्यन्ये दीर्घकालानुबन्धिनः|
गण्डमालापची चेयं दूर्वेव क्षयवृद्धिभाक्|
तां त्यजेत्सज्वरच्छर्दिपार्श्वरुक्कासपीनसाम्||२५||
अपाकिश्लीपदमुक्त्वाऽनन्तरमनाशुपाकित्वेन किञ्चित्साम्यादपचीं ब्रूते-मेदस्था इत्यादि| मेद आश्रित्य कण्ठादिषु गता मला वातादयः सवर्णत्वादिगुणान् वार्त्ताकैरामलकैश्च सदृशानवगाढानन्तर्मूलाश्चिरपाकांश्च बहून् गण्डान् कुर्वते| त इति गण्डाः अन्ये केचिदल्परुजः पच्यन्ते| अन्ये अतिकण्डुराः स्रवन्ति| अन्ये नश्यन्ति अन्ये भवन्ति दीर्घकालानुबन्धिनः| अयं रोगो नाम्ना गण्डमालेत्यपचीति चोच्यते| इयं च गण्डमाला दूर्वाप्रतानवत् क्वचित् क्षयभाग्भवति क्वचिद् वृद्धिभाक्| ताञ्च सज्वरादिकां त्यजेत्| इत्युक्तापची| (मला वातादयो मेदस्था मेदसि स्थिताः कण्ठमन्याक्षकक्षवङ्क्षणगाः कण्ठादिकं प्राप्ताः सवर्णान् काय समानवर्णान् कठिनान् काठिन्ययुक्तान् काठिन्ययुक्थान् स्निग्धान् वार्ताकामलकाकृतीन् वार्ताकामलकप्रमाणान् आवगाढानन्तर्मूलान् चिरपाकान् चिरकालेन पाको येषां तान्, चशब्दः समुच्चये, बहून् बहुसंख्याकान् गण्डान् पिटकाविशेषान् कुर्वते| ते गण्डाः अन्ये केचिदल्परुज ईषद्रुजायुक्ताः पच्यन्ते पाकं यान्ति| कर्मकर्तरि रूपम्| अन्ये पक्त्वा अतिकण्डुरा अत्यर्थं कण्डुयुक्ताः स्रवन्ति पूयमुद्गिरन्ति| अन्ये नश्यन्ति रोहन्ति| अन्ये भवन्त्युत्पद्यन्ते| एवं सति दीर्घकालानुबन्धिनः दीर्घ कालमनुबध्नन्ति न शमं यान्ति| दूर्ववत् क्षयवृद्धियुक्ताः दूर्वाप्रतानवदत्यन्ताभावो न भवतीत्यर्थः| इयं गण्डमालेत्युच्यते अपचीति च| अपच्या निर्वचनञ्च शास्त्रान्तरेभ्यः- तां ग्रन्थिभिस्त्वामलकास्थिमात्रैर्मत्स्याण्डजालप्रतिमैस्तथान्यैः| अनन्यवर्णैरुपचीयमानां चयप्रकर्षादपचीं वदन्ति|| इति| मेदः कफाभ्यामेवापची जायत इति धन्वन्तरिः| तानिति ज्वराद्यन्वितां तामपचीं त्यजेत्)||२५||
Adhikarana nADIvraNaH (26) · Śloka 26
अभेदात् पक्वशोफस्य व्रणे चापथ्यसेविनः|
अनुप्रविश्य मांसादीन् दूरं पूयोऽभिधावति|
गतिः सा दूरगमनान्नाडी नाडीव संस्रुतेः|
नाड्येकानृजुरन्येषां सैवानेकगतिर्गतिः||२६||
(नाडीव्रणस्य दीर्घकालानुबन्धितया अपचीसाम्यात्तदनन्तरं नाडीव्रणमाह)| यत्र पक्वशोफो न भिद्यते व्रणे वा अपथ्यसेवा क्रियते तत्र पूयो मांसादीननुप्रविश्य दूरमभिधावति सा गतिरित्युच्यते दूरगमनाद्धेतोः| नाडीत्युच्यते नाडीव संस्रुतेः| तत्र या एका अनृजुश्च सा नाडी अन्येषामाचार्याणां मते| सैव नाड्यनेकगतिरित्युच्यते पक्वशोफस्य प्राप्तपाकतया भेद्यस्य शोफस्याभेदादविदारणात् व्रणे व्रणयुक्ते काल इत्यर्थात् गम्यते| (अपथ्यसेविनः व्रणविरुद्धान्नाशनादिशीलस्य, चशब्दः समुच्चये| पूयः मांसादीन् आदिशब्देन मेदोऽस्थ्यादिपरिग्रहः अनुप्रविश्य विदार्येत्यर्थः, दूरं तत्त्तद्देशप्रमाणावधि अभिधावति शीघ्रं गच्छति| सा पूयदीर्णा नाडी दूरगमनात् दूरगत्या गतिरित्युच्यते| नाडीव संस्रुतेः यथा तोयगर्भया नाड्या तोयं स्रवति तथाऽविच्छिन्नधारया पूयवहनात् नाडीति चोच्यते| अत्रैव मतविशेषं दर्शयति-नाडीति| अन्येषामाचार्याणां मते अनृजुः कुटिला एका अद्वितीया गतिर्नाडी त्युच्यते| सा अनृजुरेव गतिरनेकमार्गगा चेद्गतिरिति चोच्यते)||२६||
Adhikarana nADIvraNasya sa~gkhyAsamprAptiH (27) · Śloka 27
सा दोषैः पृथगेकस्थैः शल्यहेतुश्च पञ्चमी||२७||
एवं नाड्याः स्वरूपमुक्त्वाऽनन्तरं तस्याः सङ्ख्याविभागं दर्शयति-सा च नाडी पृथग्दोषैस्त्रिधा| एकस्थैः सन्निपतितैः चतुर्थी| शल्यहेतुश्च पञ्चमीति पञ्च नाड्यः||२७||
Adhikarana vAtajanADIlakShaNam (28) · Śloka 28
वातात् सरुक्सूक्ष्ममुखी विवर्णा फेनिलोद्वमा|
स्रवत्यभ्यधिकं रात्रौ....................||२८||
सरुगादिका रात्रावभ्यधिकस्रावान्तलक्षणा वातान्नाडी| (वाताद्धेतोर्नाडी सरुग्रुजासहिता सूक्ष्ममुखी सूक्ष्मास्या आस्यं व्रणमुखम्| विवर्णा विगतपूर्ववर्णा| फेनिलं पूयमुद्वमतीति फेनिलोद्वमा| रात्रौ निशायामभ्यधिकं बहु स्रवति| व्रणप्रतिषेधे वातोल्बणस्याल्पसंस्रुतिमुक्त्वाऽत्र नाडीव्रणस्याभ्यधिकपूयस्रवणकथनमहर्निश्योर्निश्यभ्यधिकसूचनार्थं न स्रावबाहुल्यात्)||२८||
Adhikarana pittajanADIlakShaNam (29) · Śloka 29
......................पित्तात्तृड्ज्वरदाहकृत्|
पीतोष्णपूतिपूयस्रुद्दिवा चाति निषिञ्चति||२९||
पित्तान्नाडी तृडादिकृत् पीतादिगुणपूयस्रावाद्दिवा चाति निषिञ्चत्यतिस्रवति| (पित्तान्नाडी तृडादीन् करोति पीतवर्णत्वादिगुणयुक्तं पूयं स्रवति| दिवा अहन्यति निषिञ्चति अतीव पूयस्रुतिं करोति| चशब्दः समुच्चये||२९||
Adhikarana kaphajanADIlakShaNam (30) · Śloka 30
धनपिच्छिलसंस्रावा कण्डूला कठिना कफात्|
निशि चाभ्यधिकक्लेदा......................||३०||
कफान्नाडी घनं पिच्छिलञ्च स्रवति कण्डूला कठिना च भवति तस्याञ्च निश्यभ्यधिकं क्लेदो भवति| (कफान्नाडी घनो निबिडः पिच्छिलश्च स्रावः पूयवहनं यस्याः सा तथोक्ता कण्डूला कण्डूबहुला कठिना कठिनस्पर्शा निशि अब्याधिकक्लेदा रात्रावधिकतरपूयवाहिनी च क्लेदशब्देन क्लेदजं पूयं गृह्यते)||३०||
Adhikarana sannipAtanADIlakShaNam (31) · Śloka 31
..........................सर्वैः सर्वाकृतिं त्यजेत्||३१||
सर्वैर्दोषैः सर्वाकृतिर्वातादिलक्षणयुक्ता भवति, तां सन्निपातजां नाडीं त्यजेदिति| (सर्वैर्वातपित्तकफैः सर्वाकृतिं वातपित्तकफनाडीलक्षणयुक्तां सन्निपातजां नाडीं त्यजेन्न चिकित्सेत्)||३१||
Adhikarana shalyajanADIlakShaNam (32-34) · Śloka 34
न्तःस्थितं शल्यमनाहृतं तु करोति नाडीं बहते च सास्य|
फेनानुविद्धं तनुमल्पमुष्णं सास्रञ्च पूयं सरुजञ्च नित्यम्||३२||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्ग संग्रहसंहितायामुत्तरतन्त्रे ग्रन्थ्यर्बुदश्लीपदापची नाडीविज्ञानीयो नाम चतुस्त्रिंशोऽध्यायः||३४||
अन्तःशरीरान्तः शल्यमनाहृतं नाडी करोति| सा च शल्यजा नाडी अस्यातुरस्य फेनानुबिद्धादिगुणं पूयं स्रवति| (वहते च सास्यादिति पाठः| अन्तःस्थितं येन केनापि हेतुना नाहार्यतया शरीरान्तर्भागस्थितं शल्यं विषाणवेण्वायसादिकमायुधं तुशब्दो विशेषद्योतकः| अनाहृतमनुद्धतं नाडीं नाडीव्रणं करोति| सा नाडी आस्याद् व्रणमुखात् फेनानुविद्धं फेनयुक्तं तनुमघनं उष्णमुष्णस्पर्शं सास्रं सरक्तं पूयं सरुजं रुजासहितं, चशब्दात् कदाचिन्नीरुजञ्च, नित्यं सर्वदा अल्पमल्पमात्रं वहते स्रवति| चशब्दौ समुच्चयार्थौ)||३२|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे चतुस्त्रिंशोऽध्यायः||