Adhikarana dRuShTirogavij~jAnIyo nAma pa~jcadasho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातो दृष्टिरोगविज्ञानं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
क्रमप्राप्तानां दृष्टिरोगाणां हेत्वादिकं प्रदर्शयितुमध्याय आरभ्यते| दृष्टिभागपट्लत्वग्विषव्याप्त्या दोषस्य रोगविशेषप्रदर्शनं क्रियते||१||
Adhikarana prathamapaTalagatadoShalakShaNam (2) · Śloka 2
सिरानुसारिणि मले प्रथमं पटलं श्रिते|
अव्यक्तमीक्षते रूपं व्यक्तमप्यनिमित्ततः||२||
सिरानुसारिणीत्यादि| मलोवातादिभिः कृतो दोषविशेषः| सिरानुसारिणि सिराभिः कोष्ठात् दृष्टिमनुसरति तस्मिंस्तथाविधेमले प्रथमाभ्यन्तरं न तु बाह्यं पटलमाश्रिते सति पुरुषो व्यक्तमपि रूपं कलशादिनिमित्ताभावेऽप्यव्यक्तं पश्यति|(ननु कथं व्रणशुक्ले बाह्यं पटलं प्रथमपटलमित्युक्त्वा अत्राभ्यन्तरं पटलं प्रथमपटमित्युच्यते| अत्र ब्रूमः- पटलस्य त्वग्विशेषत्वाद् व्रणशुक्लस्य बाह्यात् पटलादारभ्य क्रमेणाभ्यन्तरयोर्द्वितीयतृतीयपटलयोरावेशाच्च व्रशुक्ले बाह्यं पटलं प्रथमपटमित्युक्तम्| अत्र पुनः सिरानुसारिणि मल इत्युक्त्वा अभ्यन्तरस्थानां सिराणां बहिर्मुखत्वात् बहिर्निगच्छतो मलस्य प्रथमाभ्यन्तरपटलसंश्रयत्वाच्चाभ्यन्तरपटमेव प्रथमपटलम्| निमिनाप्युक्तम्- यदा दोषाः प्रकुपिताः प्राप्य रूपवहे सिरे| दृष्टेरभ्यन्तरात्तु पटलं समभिद्रुताः|| अपिधानाद्विवृद्धाश्च नीरुजत्वादुपेक्षिताः| दृशोः पटलमाश्रित्य नेत्रमध्यानुसारिणः|| एकैकमनुपद्यन्ते पर्यायात् पटलान्तरम्| शनैरनुसृताश्चैव पुष्यन्ति स्थिरतां गताः|| ओषधीरसवीर्याणां मार्गमावृत्य नेत्रयोः|| इति| बाह्यमेव पटलं प्रथमपटलमिति केचित्| तदयुक्तम्; तिमिरकाले दृष्टिमण्डलस्य रागाद्यभावात्| काचतां प्राप्ते रागादिदर्शनाच्च सर्वथा तिमिररोगे आभ्यन्तरं पटलमेव प्रथमपटलमिति व्यवस्थितम्| दृष्टिमण्डलसंस्थानन्तु शास्त्रमतमनुसृत्य किञ्चिद्ब्रूमः| दृष्टेश्चत्वारि पटलानि सन्ति| ज्योतिर्मयी दृष्टिस्तेषु पटलेषु व्याप्ताऽप्याभ्यन्तरे मेदोमये पटल एव तिष्ठतीत्यवगन्तव्यम्| उक्तश्च चतुष्षष्टौ- सिरागुणोऽत्र प्रथमे द्वितीये कण्डरागुणः| मेदोगुणस्तृतीये स्याद् दृष्टिर्मेदः प्रतिष्ठिता|| ततः परं भवेत्कालं ततः कालात्परं कफः| निवर्तते सिराग्रैस्तु तत्र खल्वस्थिबन्धनम्| यावदाहृदयाद्बद्ध्वा यावत्पादतलादिति|| ननु एवमाभ्यन्तरे पटले दृष्टौ स्थितायां द्वितीयपटलस्थ एव मले दोषावदाच्छादितत्वाल्लिङ्गनाशनं भवितव्यम्| उच्यते तेज-स्सम्भवाया ज्योतिर्मय्या दृष्टेर्ज्योतिषां साकल्येन सन्निधानादाभ्यन्तरे पटले मलस्य बलहानिर्भवति| तस्माद् द्वितीयपटलस्थस्यापि मलस्य तेजःसान्निध्येनाल्पबलत्वाद् दृष्टेस्तिरोधानेऽपि लिङ्गनाशकरणे न शक्तिर्भवति| यथा पटान्तरितोऽपि दीपस्सन्निधौ घटपटादीन् पदार्थानवद्योतयति तथा दोषान्तरितापि दृष्टिर्दोषस्याल्पबलत्वात् रूपावद्योतिनी भवति| उक्तञ्च- यथा पटेनान्तिकसंस्थितेन तिरोहिता दीपशिखा प्रदीप्ता| तथा मलेनान्तरिताऽपि दृष्टिः प्रकाशयेद्रूपमदूरसंस्थम्|| इति| एवं पटलान्तरेषु दृष्टेर्विप्रकृष्टतया क्रमेण प्रवृद्धं मलं चतुर्थं पटलमाश्रित्य लिङ्गनाशाय भवति|| २||
Adhikarana dvitIyapaTalagatadoShalakShaNam (3) · Śloka 3
प्राप्ते द्वितीयं पटलमभूतमपि पश्यति|
भूतं तु यत्नादासन्नं दूरे सूक्ष्मञ्च नेक्षते|
दूरान्तिकस्थं रूपञ्च विपर्यासेन मन्यते|
दोषे मण्डलसंस्थाने मण्डलानीव पश्यति|
द्विधैकं दृष्टिमध्यस्थे बहुधा बहुधास्थिते|
दृष्टेरभ्यन्तरगते ह्रस्ववढ्रविपर्ययम्|
नान्तिकस्थमधःसंस्थे दूरगं नोपरिस्थिते|
पार्श्वे पश्येन्न पार्श्वस्थे तिमिराख्योऽयमामयः||३||
यदा तु द्वितीयमपि पटलं प्राप्तो दोषो भवति तदा अभूतमप्यपदपि रूपं पश्यति| भूतं सद्रूपं यत्नात् पश्यत्यासन्नञ्च पश्यति| यत्तु भूतं दूरे सूक्ष्मं वा तन्न पश्यत्येव| दूरस्थमन्तिके समीपे मन्यते| अन्तिकस्थं दूर इति विपर्यासः| तत्र तु यदा मण्डलसंस्थानोपलया कृत्या दोषो भवति तदाऽग्रे मण्डलानीव पश्यति| दृष्टिमध्यस्थे रेखा कृतावेकं रूपं द्विधा पश्यति| बहुभिः प्रकारैः स्थितैर्दोषैर्बहुधारूपं पश्यति| यदा तु दृष्टेरभ्यन्तरे मध्ये दोषो भवति तदा वढ्रं रूपं ह्रस्वं पश्यति| यदातु दृष्टेरुपरि दोषो भवति तदा दूरस्थन्न पश्यति| यदा तु दृष्टिपार्श्वे दोषो वर्तते तदा पार्श्वस्थितं रूपं न पश्येदयमनेकप्रकार आमयः आख्यया तिमिरः|| ३||
Adhikarana tRutIyapaTalASritadoShalakShaNam (4) · Śloka 4
प्राप्नोति काचतां दोषे तृतीयपटलाश्रिते|
तेनोर्द्ध्वमीक्षते नाधस्तनु चैलावृतोपमम्|
यथा वर्णञ्च रज्येत दृष्टिर्हीयेत च क्रमात्||४||
यदा तु तृतीयमपि पटलं दोषो व्याप्नोति तदा तदेव तिमिराख्यं काचतां याति| तेन काचेन तु नर ऊर्ध्वस्थितं रूपमीक्षते पश्यति| नाधः स्थितम्| यच्च पश्चति तत्तनुचैलावृतोपमं पश्यति| दृष्टेश्च यथा यथा वर्णो रज्येत तथा तथा दर्शनशक्तिर्हीयेत इति क्रमार्थः|| ४||
Adhikarana caturthapaTalAshritadoShalakShaNam (5) · Śloka 5
तथाऽप्युपेक्षमाणस्य चतुर्थं पटलं गतः|
लिङ्गनाशं मलः कुर्वञ्छादयेद्दृष्टिमण्डलम्||५||
तथाभूतोऽपि दोष उपेक्षया चतुर्थं पटलं प्राप्तो लिङ्गनाशाख्यं रोगं कुर्वन् दृष्टिमण्डलमशेषमाच्छादयेत्| इति सामान्येन तिमिरादीनां रूपम्||५||
Adhikarana vAtajatimiralakShaNam (6) · Śloka 6
तत्र वातेन तिमिरे व्याविद्धमिव पश्यति|
चलाविलारुणाभासं प्रसन्नञ्चेक्षते मुहुः|
जालानि केशान् मशकान् रश्मींश्चोपेक्षितेऽत्र च|
काचीभूते दृगरुणा पश्यत्यास्यमनासिकम्|
चन्द्रदीपाद्यनेकत्वं वक्रमृज्वपि मन्यते|
वृद्धः काचो दृशं कुर्याद्रजो धूमावृतामिव|
स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनाम्|
सलिङ्गनाशो वाते तु सङ्कोचयति दृक्सिराः|
दृङ्मण्डलं विशत्यन्तर्गम्भीरा दृरसौ स्मृता||६||
तत्रेत्यादिना वातादिभेदेनोच्यते| व्याविद्धमाकुलम्| चलाभासमस्थिरम्| आविलमस्फुटम्| रश्म्यन्तं मुहुरीक्षते पश्यति| तत्र वाततिमिर उपेक्षिते वातकाचत्वं प्राप्ते दृगरुणवर्णा भवत्यातुरश्च स्वमास्यमनासिकं पश्यति| स एव वातकाचो वृद्धो दृशं दृष्टिमण्डलं रजसेव धूमेनेव चावृतं कुर्यात्| स्पष्टमरुणमाभाति यस्या दृशः स वातलिङ्गनाशो भवति| तत्रैव वातलिङ्गनाशे दृक्सिरा वातेन सङ्कोचयति| दृङ्मण्डलमन्तर्विशत्यसौ दृङ्नाम्ना गम्भीरा| गम्भीरावगाढरूपा| इति वातिकतिमिरादिलक्षणम्|| ६||
Adhikarana pittajatimiralakShaNam (7) · Śloka 7
पित्तजे तिमिरे विद्युत्खद्योतदीपितम्|
शिखितित्तिरिपत्राभं प्रायो नीलञ्च पश्यति|
काचे दृक्कांस्यनीलाभा तादृगेव च पश्यति|
अर्केन्दुपरिवेषाग्निमरीचीन्द्रधनूंषि च|
बृङ्ह्गनीला निरालोका दृक्स्निग्धा लिङ्गनाशतः|
दृष्टिः पित्तेन ह्रस्वाख्या सा ह्रस्वाह्रस्वदर्शिनी|
भवेत् पित्तविदग्धाक्या पीता पीताभदर्शना||७||
पित्तजे तिमिरे सदसद्वा रूपं विद्युद्दीपितत्वादियुक्तं पश्यति| खद्योतो भास्वान् कीटः| तस्मिन्नुपेक्षया काचीभूते कांस्यनीलाभा दृग्भवति| तादृगेव च रूपं पश्यत्यर्केन्दुपरिवेषादिकं वाऽसदेव पश्यति| परिवेषो मण्डलमग्निमरीच्यो रश्मयः| तस्मिन् पित्तकाच उपेक्षिते लिङ्गनाशीभूते दृग्भृङ्गवद्भ्रमरवन्नीला स्निग्धा च भवति| तत्रैव दृष्टिर्या महदपि रूपं ह्रस्वं पश्यति सा नाम्ना ह्रस्वा भवति| तत्रैव पीतवर्णेन दृष्टिः पीताभरूपदर्शना च नाम्ना पित्तविदग्धा भवति| इति पैत्तिकानां तिमिरादीनां लक्षणम्|| ७||
Adhikarana kaphajatimiralakShaNam (8) · Śloka 8
कफेन तिमिरे प्रायः स्निग्धं श्वेतञ्च पश्यति|
शङ्खेन्दुकुन्दकुसुमैः कुमुदैरिव चाचितम्|
काचे तु निष्प्रभेन्द्वर्कप्रदीपाद्यैरिवाचितम्|
सिताभासा च दृष्टिः स्याल्लिङ्गनाशे तु दृश्यते|
मूर्त्तः कफो दृष्टिगतः स्निग्धो दर्शननाशनः|
बिन्दुर्जलस्येव चलः पद्मिनीपुटसंश्रितः|
उष्णे सङ्कोचमायाति छायायां परिसर्पति|
शङ्खकुन्देन्दुकुमुदस्फटिकोपमशुक्लिमा||८||
क्फेन तिमिरे प्रायः सर्वं स्निग्धं श्वेतश्च पश्यति| शङ्खादिभिरिव चाचितं रूपं पश्यति| तस्मिन्नेवोपेक्षया कफकाचीभूते निष्प्रभा दृगिन्द्वाद्यैराचितमिव रूपं पश्यति| तत्र च सिताभासा दृष्टिः स्यात्| तस्मिंस्तूपेक्षया कफलिङ्गनाशीभूते मूर्त्त एव कफः स्निग्धत्वादिगुणो दृष्टिगतो लक्ष्यते| स तथाविधो दृष्टिकफ उष्णे आतपे सङ्कोचमायाति छायायान्तु शङ्खाद्युपमशुक्लिमा परिसर्पति विस्तीर्यते| इति कफजतिमिरादीनां रूपम्|| ८||
Adhikarana raktajatimiralakShaNam (9) · Śloka 9
रक्तेन तिमिरे रक्तं तमोभूतञ्चु पश्यति|
काचेन रक्ता कृष्णा वा दृष्टिस्तादृक्च पश्यति|
लिङ्गनाशेऽपि दृक् तादृङ्निष्प्रभा हतदर्शना||९||
रक्तेन तिमिरे| सुबोधम्| तस्मिन्नेवोपेक्षया रक्तकाचीभूते रक्ता वा कृष्णा वा दृष्टिः स्यात्| तादृगेव रक्तं कृष्णं वा पश्यति| तदुपेक्षया रक्तलिङ्गनाशे दृक् तांदृगिति काचसमा रक्ता कृष्णा वा||९||
Adhikarana saMsargasannipAtatimiralakShaNam (10) · Śloka 10
संसर्गसन्निपातेषु विद्यात् सङ्कीर्णलक्षणान्|
तिमिरादीनकस्माच्च तैः स्याद्व्यक्ताकुलेक्षणः|
तिमिरे शेषयोर्दृष्टौ चित्रौ रागः प्रजायते||१०||
संसर्गेषु त्रिषु सन्निपाते चैकस्मिन्नुक्तलक्षणसङ्कीर्णान्यथा संसर्गं तिमिरादीन् विद्यात्|संसर्गसन्निपातयोश्चैकत्वाद्विवक्षितभेदत्वम्| तेन संसर्गजं तिमिरं संसर्गजः काचः संसर्गजो लिङ्गनाशः| तथा सन्निपातजं तिमिरं सन्निपातजः काचः सन्निपातजो लिङ्गनाशः| तैश्च संसर्गसन्निपातैस्तिमिरे अकस्मादकारणं कदाचिद् व्यक्तेक्षणः पुरुषः स्यात् कदाचिदाकुलेक्षणः| शेषयोः काचलिङ्गनाशयोस्तैर्दृष्टौ चित्रोऽनेकप्रकारो रागो जायते| (नन्वेवं संसर्गनानात्वे विवक्षिते निर्दिष्टस्सप्तविंशतिरित्युक्तिरग्रेऽनुपपन्नेत्यत आह-संसर्गेति| अयं भावः-यथा सन्निपातानां नानात्वेऽपि सन्निपातत्वेनैकत्वं तथा संसर्गाणामपि संसर्गत्वेनैकत्वं विवक्षितम्| एवच्च तिमिरादीनां विवक्षितविभागः सङ्गच्छत इति||१०||
Adhikarana nakulAndhyam (11) · Śloka 11
द्योतते नकुलस्येव यस्य दृङ् निचिता मलैः|
नकुलान्धस्स तत्राह्नि चित्रं पश्यति नो निशि||११||
यस्य दृग्दृष्टिमण्डलं मलैर्वातादिभिर्निचिता नकुलस्येव द्योतते दीप्ता भवति स पुरुषो नकुलान्ध उच्यते| स चाह्नि दिवसे चित्रं नानारूपं पश्यति निशि तु नैव पश्यति|| ११||
Adhikarana doShAndhyam ( rAtryandham ) (12) · Śloka 12
अर्केस्तमस्तकन्यस्तगभस्तौ स्तम्भमागताः|
स्थगयन्ति दृशं दोषा दोषान्धः सगदोपरः|
दिवाकरकरस्पृष्टा भ्रष्टा दृष्टिपथान्मलाः|
विलीनलीना यच्छन्ति व्यक्तमत्राह्निदर्शनम्||१२||
स्तम्भमागता दोषा दृशं स्थागयन्ति| कदेत्याह-अर्के भगवति तिग्मरश्मावस्तमस्तकन्यस्तगभस्तौ| अस्तो नाम पर्वतस्तस्य मस्तके शिखरे न्यस्ता क्षिप्ता गभस्तयो मरीचयो येन तस्मिन्| अनेन दिनापगमः प्रदर्शितः| अयमेवम्भूतो गदो नाम्ना दोषान्धः| दोषा रात्रिः| अपर इति सर्वदोषजसाम्येन नकुलान्धापेक्षया| अत्र च दोषान्धे दोषाः अह्नि व्यक्तं स्फुटं दर्शनं यच्छन्ति ददति| किम्भूता आह-दिवाकरस्य सूर्यस्य करै रश्मिभिः स्पृष्टा अत-एव च दृष्टिपथाद् भ्रष्टा विलीनाः क्वापि च लीनाश्च|| १२||
Adhikarana uShNavidagdhadRuShTiH (13) · Śloka 13
उष्णतप्तस्य सहसा शीतवारिनिमज्जनात्|
त्रिदोषरक्तसम्पृक्तो यात्यूष्मोर्ध्वं ततोऽक्षिणी|
दाहोषे मलिनं शुक्लमहन्याविलदर्शनम्|
रात्रावान्ध्यं च जायेत विदग्धोष्णेन सा स्मृता||१३||
उष्णेनातपादिना तप्तस्य यच्छीतवारिनिमज्जनं ततो हेतोस्त्रिभिर्दोषै रक्तचतुर्थैस्संसृष्टो देहोष्मोर्ध्वं शिरो याति ततस्तस्मिन्याते अक्षिणि नेत्रे दाहादिकं जायते| सा दृष्टिर्नाम्नोष्णविदग्धोच्यते||१३||
Adhikarana vidagdhAmladRuShTiH (14) · Śloka 14
भृशमम्लाशनाद्दोषैः सास्त्रैर्या दृष्टिराचिता|
सक्लेदकण्डूः कलुषा विदग्धाम्लेन सा स्मृता||१४||
अत्यर्थाम्लाशनाद्धेतोस्सरक्तैर्वातादिभिर्या दृष्टिराचिता तत एव च सक्लेदादिका साऽम्लविदग्धेति नाम्ना स्मृता आचार्यैः|| १४||
Adhikarana dhUmaraH (15) · Śloka 15
शोकज्वरशिरोरोगसन्तप्तस्यानिलादयः|
धूमाविलां धूमदृशं दृशं कुर्युः स धूमरः||१५||
शोकादिसन्तप्तस्यानिलादयो धूमाविलां दृशं कुर्युः| सा च धूमं पश्यतीति धूमदृक्| तस्मात् स रोगो नाम्ना धूमरः||१५||
Adhikarana aupasargikaH (AgantukaH), li~gganAshaH (16) · Śloka 16
सहसैवाल्पसत्त्वस्य पश्यतो रूपमद्भुतम्|
भास्वरं भास्करादि वा वाताद्या नयनाश्रिताः|
कुर्वन्ति तेजः संशोष्य दृष्टिं मुषितदर्शनाम्|
वैडूर्यवर्णां स्तिमितां प्रकृतिस्थमिवाव्यथाम्|
औपसर्गिक इत्येष लिङ्गनाशः............||१६||
अल्पसत्त्वस्य पुंसः सहसा झटित्येवाद्भुतामाश्चर्यजननं रूपं पश्यतो भास्करादेर्वा रूपं भास्वरं तेजस्वि पश्यतो वाताद्य नयनमाश्रितास्तत्स्थं दर्शकं तेजः संशोष्य मुषितदर्शनां हतदर्शनशक्तिं दृष्टिं कुर्युः| वैडूर्यवर्णादिकं दृष्टिविशेषणम्| अयं रोग औपसर्गिक आगन्तुको लिङ्गनाश उच्यते|| १६||
Adhikarana dRuShTirogANAM sAdhyAsAdhyatA (17-15) · Śloka 15
..............................अत्र वर्जयेत्|
विना कफाल्लिङ्गनाशान् गम्भीरां ह्रस्वजामपि|
षट् काचा नकुलान्धश्च याप्याः शेषांस्तु साधयेत्|
द्वादशेति गदा दृष्टौ निर्दिष्टाः सप्तविंशतिः||१७||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे दृष्टिरोगविज्ञानीयो नाम पञ्चदशोऽध्यायः||१५||
उपसंहरन्नाह-अत्रेति| अत्र दृष्टिरोगेषु कफाद्विना कफजं लिङ्गनाशं वर्जयित्वा शेषान् लिङ्गनाशान् वातपित्तरक्तसंसर्गसन्निपातोपसर्गजान् षड् वर्जयेदसाध्यत्वात्| गम्भीरामपि दृष्टिं वर्जयेत्| ह्रस्वजामप्येवमष्टौ वर्ज्याः| षट् काचा वातपित्तकफरक्तसंसर्गसन्निपातजा नकुलान्धश्चेति सप्तयाप्याः| एवं पूर्वैरेकीकृताः पञ्चदश| शेषाणि तु द्वादश वातपित्तकफरक्तसंसर्गसन्निपातजानि षट् तिमिराणि पित्तविदग्धां कफलिङ्गनाशदोषान्ध्याम्लविदग्धोष्णविदग्धाधूमर इति साधयेच्चिकित्सेदित्यनेन प्रकारेण सप्तविंशतिर्गदा दृष्टावुक्ताः| शुक्लन्तु यद्यपि दृष्टौ भवति तथाऽप्यसितमूलत्वात्तत्रैवोक्तमिति|| १७|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे पञ्चदशोऽध्यायः|