Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

15. dr̥ṣṭirōgavijñānīyaḥ

Adhikarana dRuShTirogavij~jAnIyo nAma pa~jcadasho~adhyAyaH - pratij~jA (1) · Śloka 1

अथातो दृष्टिरोगविज्ञानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Adhikarana prathamapaTalagatadoShalakShaNam (2) · Śloka 2

सिरानुसारिणि मले प्रथमं पटलं श्रिते| अव्यक्तमीक्षते रूपं व्यक्तमप्यनिमित्ततः||२||

🔊 Audio coming soon

Adhikarana dvitIyapaTalagatadoShalakShaNam (3) · Śloka 3

प्राप्ते द्वितीयं पटलमभूतमपि पश्यति| भूतं तु यत्नादासन्नं दूरे सूक्ष्मञ्च नेक्षते| दूरान्तिकस्थं रूपञ्च विपर्यासेन मन्यते| दोषे मण्डलसंस्थाने मण्डलानीव पश्यति| द्विधैकं दृष्टिमध्यस्थे बहुधा बहुधास्थिते| दृष्टेरभ्यन्तरगते ह्रस्ववढ्रविपर्ययम्| नान्तिकस्थमधःसंस्थे दूरगं नोपरिस्थिते| पार्श्वे पश्येन्न पार्श्वस्थे तिमिराख्योऽयमामयः||३||

🔊 Audio coming soon

Adhikarana tRutIyapaTalASritadoShalakShaNam (4) · Śloka 4

प्राप्नोति काचतां दोषे तृतीयपटलाश्रिते| तेनोर्द्ध्वमीक्षते नाधस्तनु चैलावृतोपमम्| यथा वर्णञ्च रज्येत दृष्टिर्हीयेत च क्रमात्||४||

🔊 Audio coming soon

Adhikarana caturthapaTalAshritadoShalakShaNam (5) · Śloka 5

तथाऽप्युपेक्षमाणस्य चतुर्थं पटलं गतः| लिङ्गनाशं मलः कुर्वञ्छादयेद्दृष्टिमण्डलम्||५||

🔊 Audio coming soon

Adhikarana vAtajatimiralakShaNam (6) · Śloka 6

तत्र वातेन तिमिरे व्याविद्धमिव पश्यति| चलाविलारुणाभासं प्रसन्नञ्चेक्षते मुहुः| जालानि केशान् मशकान् रश्मींश्चोपेक्षितेऽत्र च| काचीभूते दृगरुणा पश्यत्यास्यमनासिकम्| चन्द्रदीपाद्यनेकत्वं वक्रमृज्वपि मन्यते| वृद्धः काचो दृशं कुर्याद्रजो धूमावृतामिव| स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनाम्| सलिङ्गनाशो वाते तु सङ्कोचयति दृक्सिराः| दृङ्मण्डलं विशत्यन्तर्गम्भीरा दृरसौ स्मृता||६||

🔊 Audio coming soon

Adhikarana pittajatimiralakShaNam (7) · Śloka 7

पित्तजे तिमिरे विद्युत्खद्योतदीपितम्| शिखितित्तिरिपत्राभं प्रायो नीलञ्च पश्यति| काचे दृक्कांस्यनीलाभा तादृगेव च पश्यति| अर्केन्दुपरिवेषाग्निमरीचीन्द्रधनूंषि च| बृङ्ह्गनीला निरालोका दृक्स्निग्धा लिङ्गनाशतः| दृष्टिः पित्तेन ह्रस्वाख्या सा ह्रस्वाह्रस्वदर्शिनी| भवेत् पित्तविदग्धाक्या पीता पीताभदर्शना||७||

🔊 Audio coming soon

Adhikarana kaphajatimiralakShaNam (8) · Śloka 8

कफेन तिमिरे प्रायः स्निग्धं श्वेतञ्च पश्यति| शङ्खेन्दुकुन्दकुसुमैः कुमुदैरिव चाचितम्| काचे तु निष्प्रभेन्द्वर्कप्रदीपाद्यैरिवाचितम्| सिताभासा च दृष्टिः स्याल्लिङ्गनाशे तु दृश्यते| मूर्त्तः कफो दृष्टिगतः स्निग्धो दर्शननाशनः| बिन्दुर्जलस्येव चलः पद्मिनीपुटसंश्रितः| उष्णे सङ्कोचमायाति छायायां परिसर्पति| शङ्खकुन्देन्दुकुमुदस्फटिकोपमशुक्लिमा||८||

🔊 Audio coming soon

Adhikarana raktajatimiralakShaNam (9) · Śloka 9

रक्तेन तिमिरे रक्तं तमोभूतञ्चु पश्यति| काचेन रक्ता कृष्णा वा दृष्टिस्तादृक्च पश्यति| लिङ्गनाशेऽपि दृक् तादृङ्निष्प्रभा हतदर्शना||९||

🔊 Audio coming soon

Adhikarana saMsargasannipAtatimiralakShaNam (10) · Śloka 10

संसर्गसन्निपातेषु विद्यात् सङ्कीर्णलक्षणान्| तिमिरादीनकस्माच्च तैः स्याद्व्यक्ताकुलेक्षणः| तिमिरे शेषयोर्दृष्टौ चित्रौ रागः प्रजायते||१०||

🔊 Audio coming soon

Adhikarana nakulAndhyam (11) · Śloka 11

द्योतते नकुलस्येव यस्य दृङ् निचिता मलैः| नकुलान्धस्स तत्राह्नि चित्रं पश्यति नो निशि||११||

🔊 Audio coming soon

Adhikarana doShAndhyam ( rAtryandham ) (12) · Śloka 12

अर्केस्तमस्तकन्यस्तगभस्तौ स्तम्भमागताः| स्थगयन्ति दृशं दोषा दोषान्धः सगदोपरः| दिवाकरकरस्पृष्टा भ्रष्टा दृष्टिपथान्मलाः| विलीनलीना यच्छन्ति व्यक्तमत्राह्निदर्शनम्||१२||

🔊 Audio coming soon

Adhikarana uShNavidagdhadRuShTiH (13) · Śloka 13

उष्णतप्तस्य सहसा शीतवारिनिमज्जनात्| त्रिदोषरक्तसम्पृक्तो यात्यूष्मोर्ध्वं ततोऽक्षिणी| दाहोषे मलिनं शुक्लमहन्याविलदर्शनम्| रात्रावान्ध्यं च जायेत विदग्धोष्णेन सा स्मृता||१३||

🔊 Audio coming soon

Adhikarana vidagdhAmladRuShTiH (14) · Śloka 14

भृशमम्लाशनाद्दोषैः सास्त्रैर्या दृष्टिराचिता| सक्लेदकण्डूः कलुषा विदग्धाम्लेन सा स्मृता||१४||

🔊 Audio coming soon

Adhikarana dhUmaraH (15) · Śloka 15

शोकज्वरशिरोरोगसन्तप्तस्यानिलादयः| धूमाविलां धूमदृशं दृशं कुर्युः स धूमरः||१५||

🔊 Audio coming soon

Adhikarana aupasargikaH (AgantukaH), li~gganAshaH (16) · Śloka 16

सहसैवाल्पसत्त्वस्य पश्यतो रूपमद्भुतम्| भास्वरं भास्करादि वा वाताद्या नयनाश्रिताः| कुर्वन्ति तेजः संशोष्य दृष्टिं मुषितदर्शनाम्| वैडूर्यवर्णां स्तिमितां प्रकृतिस्थमिवाव्यथाम्| औपसर्गिक इत्येष लिङ्गनाशः............||१६||

🔊 Audio coming soon

Adhikarana dRuShTirogANAM sAdhyAsAdhyatA (17-15) · Śloka 15

..............................अत्र वर्जयेत्| विना कफाल्लिङ्गनाशान् गम्भीरां ह्रस्वजामपि| षट् काचा नकुलान्धश्च याप्याः शेषांस्तु साधयेत्| द्वादशेति गदा दृष्टौ निर्दिष्टाः सप्तविंशतिः||१७|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे दृष्टिरोगविज्ञानीयो नाम पञ्चदशोऽध्यायः||१५||

🔊 Audio coming soon