Adhikarana atha sandhisitAsitarogapratiShedho nAma caturdasho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातः सन्धिसितासितरोप्रतिषेधं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
उक्तेषु सन्धिसितासितरोगेषु क्रमेण चिकित्सां प्रदर्शयितुमध्याय आरभ्यते| सन्धिरोगेष्वास्रावांस्त्यजेदित्युक्तम्| उपनाहादीनां चिकित्सोच्यते||१||
Adhikarana upanAhacikitsA (2) · Śloka 2
उपनाहं भिषक् स्विन्नं व्रीहिमुखेन भित्वा मण्डलाग्रेण समन्ताल्लेखयेत्|
ततः सैन्धवपिप्पलीचूर्णेन सक्षौद्रेण प्रतिसारयेत्|
पूर्ववच्चबध्नीयात्|
पटोलपत्रामलकक्वाथेनाश्चयोतयेत्||२||
उपनाहमित्यादि| स्विन्नत्वादिगुणयुक्तमुपनाहं भिषङ्मण्डलाग्रशस्त्रेण समन्ताल्लेखयेत्| ततो लेखनादनन्तरं च सैन्धवादिभिः प्रतिसारयेत्| पूर्ववदित्यर्बुदवत्||२||
Adhikarana parvaNIcikitsA (3) · Śloka 3
पर्वणीमुत्तरसन्धित्रिभागे बडिशेनावलम्ब्य वृद्धिपत्रे- णार्धमात्रे छिन्द्यात्|
अन्यथाऽश्रुनाडी स्यात्|
मधुसैन्धव- प्रतिसारितां चार्मवच्चिकित्सेत्||३||
पर्वणीमिति उत्तरसन्धिर्बाह्यो वर्त्मसन्धिः तस्य त्रिभागे बडिशेनावलम्बनम्| उत्सेधस्य मूलं त्यक्त्वाऽर्धमात्रे छेदनम्| अन्यथा समूलछेदे अश्रुनाडी स्यात्| अर्मचिकित्साऽत्रैव वक्ष्यते||३||
Adhikarana pUyAlasacikitsA (4) · Śloka 4
पूयालसे सिरां विध्येत्ततस्तमुपनाहयेदक्षिपाकोक्तं चेक्षेत|
सैन्धवार्द्रककासीसायस्ताम्रैः सुसूक्ष्मैः सक्षौद्रैरञ्जनम्||४||
पूयालसे सिरां शिरोनेत्रविकारेषु ललाटेत्युक्तां विध्येत्| उपनाहयेत् बध्नीयात्| अक्षिपाके सर्वगाक्षिरोगे यदुक्तं तदीक्षेत प्रयोगाय| अलजी वर्जयेदित्युक्तम्||४||
Adhikarana kRumigranthicikitsA (5) · Śloka 5
कृमिग्रन्थिं करीषेण स्विन्नं भित्वा विलिख्य च कासीससैन्धवत्रिफलामाक्षिकैः प्रतिसारयेत्||५||
कृमिग्रन्थ्याख्यं करीषेण शुष्कगोमयेन पोट्टलीकृतगोमयचूर्णेनेत्यर्थः| स्विन्नं सत् भित्वा विलिख्य कासीसादिभिः प्रतिसारयेदिति सन्धिरोगेषु||५||
Adhikarana shuktikAcikitsA (6) · Śloka 6
शुक्तितकां पित्ताभिष्यन्दवत् साधयेत्||६||
शुक्तकाख्यं पित्तभिष्यन्दाख्यसर्वगाक्षिरोगवत् साधयेत् चिकित्सेत्| अर्मणां पृथग्वक्ष्यते||६||
Adhikarana balAsagrathitapiShTakayoshcikitsA (7) · Śloka 7
बलासग्रथितं पिष्टकं च सिराव्यधवर्जं कफाभिष्यन्दवत्|
विशेषतस्तिलनालान् यवनालान् वा हरितशलाकान- र्धमासमजाक्षीरेण भवयित्वा शोषयित्वा च दाहयेत्|
ततस्तद्भस्म क्षारकल्पेन परिस्राव्यादर्वीलेपाद्विपचेत्|
रसक्रियेयं वलासग्रथितशोफोपदेहहरा|
अयमेव च कल्पः फणिज्जार्जकास्फोतबिल्वकपित्थनिर्गुण्ड्ये- रण्डकुमुदोत्पलजातीकुसुमेषु पृथक् कार्यः|
सैन्धवालमरिचकट्फलशङ्खसमुद्रफेनैर्वर्तिः पिष्टकेऽञ्जनम्|
शुण्ठीशिग्रुफलपिप्पलीसैन्धवचूर्णो बीजपूरकर साप्लुतोऽञ्जनं पिष्टकमपहरति|
तद्वत्त्रिकटुककट्फल- चूर्णौ बलासग्रथैतं च|
बृहतीफलं पिप्पलीतण्डुलपूरितं पुटपाकेन पचेत्|
तैस्तण्डुलैश्चूर्णाञ्जनं बलासग्रथैतपिष्टकघ्नम्|
अत्यर्थशोफे हरितालसैन्धवशुण्ठीदेवरारुपुनर्नवैर्विडालकः||७||
बलासग्रथितपिष्टकयोः सिराव्यधं वर्जयित्वा कफाभिष्यन्दाख्यसर्वगाक्षिरोगवच्चिकित्सितम्| विशेषत इति हरिता वर्णेन पक्वत्वाच्छलाका येषां नालानाम्| क्षारकल्पः क्षारपरिस्रावणप्रकारः| रसक्रियाऽञ्जनाय| अयमेव तिलनालकल्पस्तत्प्रकारः फणिज्जकादिकुसुमेष्वपि पृथक् प्रत्येकं कार्यः| पिष्टकाख्ये सैन्धवादिभिर्वर्तिरञ्जनम्| मातुलुङ्गरसालोडितः शुण्ठ्यादिचूर्णोऽञ्जनं पिष्टकामपहन्ति| तद्वदिति बीजपूररसाप्लुत स्त्रिकटुकादिचूर्णो बलासग्रथितं पिष्टकमपीति च शब्दार्थः| बृहतीफलमित्यादि व्याख्यासमम्| पिप्पलीतण्डुलाः पिप्पलीफलानी| तैस्तण्डुलैरिति बृहतीफलपरिहाराय| हरितालादिभिरत्यर्थशोफे विडालकः कार्यः| विडालकैत्यक्ष्णोर्बहिर्लेपस्याख्या|| ७||
Adhikarana sirotpAtaharShajAlArjunAnAM cikitsA (8) · Śloka 8
सिरोत्पातहर्षजालार्जुनेषु रक्ताभिष्यन्दवत्प्रतिकुर्यात्|
विशेषेण सिराहर्षे स्वर्णगैरिको मधुयुक्तोऽञ्जनम्|
स्तन्यान्वितं वा कासीसं क्षौद्रे द्रुतं वा कासीससैन्धवमर्जुने मातुलुङ्गरसेन सशर्करेणाश्च्योतनं मस्तुना वा|
शङ्खनाभिर्माक्षिकेण युक्ता सितया वा समुद्रफेनकोऽञ्जनम्|
स्फटिककुङ्कुमशङ्खनाभिमधुयष्टिका वा क्षौद्रार्द्रास्तद्वद्वा रसाञ्जनं कासीसं वा||८||
सिरोत्पात इत्यादि व्याख़्यासमम्| रक्ताभिष्यन्दनामा सर्वगाक्षिरोगः| कासीसं वा स्तन्यान्वितमर्जुने विशेषेणेति सम्बध्यते| मस्तुना वा सशर्करेणाश्च्योतनमिति च| मधुना युक्ता शङ्ख़नाभिर्वा समुद्रफेनको वा सितया युक्तोऽञ्जनमर्जुने| स्फटिकादि वा क्षौद्रेणार्द्रमञ्जनम्| तद्वदिति क्षौद्राद्रां रसाञ्जनं कासीसं वाऽञ्जनम्|| ८||
Adhikarana armaNAmauShadham (9) · Śloka 9
अर्म तु पञ्चविधमपि यत्तनुरक्तं धूमाविलं दधिनिभं वा तच्छुक्लवत् कायशिरोविरेकलेखनाञ्जनैरुपाचरेत्||९||
सर्वं चार्मं तनुत्वादिगुणमत्रैव वक्ष्यमाणशुक्लवत् कायविरेकादिभिरुपाचरेत्||९||
Adhikarana armaNAM shastrakarma (10) · Śloka 10
अथेतरस्मिन् स्निग्धस्यातुरस्य पेया विलेपिजाङ्गलरसा- न्यतमाशितस्य कृतस्वस्त्ययनस्य सुखशयनगलस्यो- त्तानदेहस्य किञ्चिदवाक्शिरसः सुखोष्णाम्बुप्लुततान्त- बस्विन्ननयनस्य सैन्धवेन सबीजपूरकरसेनाञ्जयित्वाङ्गष्ठकेन निमीलितमक्षिविमृन्द्रीयादाबलासग्रथितरूपो- त्पत्तेः|
इत्थञ्च संरोषिताक्षस्य प्रचलितेऽर्माधिमांसके निश्चलं परिचारकः शिरो धारयेत्|
अन्यश्च वामदक्षिणान्यतरपार्श्वेऽनुकूलं स्थितो दृढ- वस्त्रगर्भाभ्यामङ्गुष्ठाभ्यां वर्त्मनी निक्षिपेत्|
अथ वैद्यः कनीनकात् प्रवृद्धेर्मण्यपाङ्गमीक्षमाणस्य यत्र यत्र वली जायते तत्र तत्रार्म बडिशेन मुचुट्या वा नाल्यायतं गृही- त्वा किञ्चिदुन्नम्य कृष्णशुक्लमण्डलाभ्यां सर्वतः सूच्यग्रेण मोक्षयित्व किञ्चिदाञ्छेत्|
अधः तीक्ष्णेन मण्ड- लाग्रेण वृद्धिपत्रेण वा विलिख्य कनीनकं चोपानीय कनीनकसममेव चतुर्भागशेषं छिन्द्यात्|
वर्जयेच्च कनीनकं सिराश्चाश्रुवहाः|
तथा हि नाक्षि व्यापद्यते||१०||
इत्रस्मिन्नित्युक्तगुणविपरीतगुणोऽर्मणि स्निग्धस्येत्यादिना कर्मविधानं सुबोधम्| आशितस्य भोजितस्य| तान्तवं वस्त्रम्| बलसग्रथिरूपं पूर्वाध्यायोक्तम्| संरोषिताक्षस्योत्कोपिताक्षस्य| अन्यश्चेति परिचारको वामे वा दक्षिणे पार्श्वे अनुकूलं स्थितो दृढस्य वस्त्रस्य गर्भेऽन्तर्यावङ्गुष्ठौ ताभ्यां वर्त्मनी निक्षिपेत् सुदृढं गृह्णीयात्| नात्यायतं बडिशेन मुचुट्या वा गृहीत्वा| मुचुटी शस्त्रविधावुक्ता| आच्छेदायतमानयेत्| उपनीय किञ्चिदात्मानमानीय| व्याख्यासमम्|| १०||
Adhikarana jAlavadarmaNi kriyAvisheShaH (11) · Śloka 11
यत्तु जालवदर्मव्यापि तदेषिण्या यावत्कनीनकमनुसर- न्नुन्मोच्योन्नमय्य पूर्ववत् छिन्द्यात्|
तद्वदपाङ्गात् प्रवृद्धे कनीनकमीक्षमाणस्य यावदपाङ्गं चोपनीयापाङ्गसममेव तथा यावद्वर्जयेदपाङ्गं सिराश्चेत्यादि|
ततः प्लोतेन रक्तं विशोध्य सम्यक् छिन्नमवेक्ष्य सैन्धवचूर्णेन पुनः पुनः प्रतिसारयेद्यवनालभस्मना वा प्लोतशुद्धं च पुनर्मधुना|
ततः शीताम्बुपरिष्कितं सर्पिषा सुखोष्णेन परिषिच्य मधु घृताक्तं पूर्ववत् बध्नीयात्|
मूर्ध्नि पादयोश्चास्मै शतधौत- घृतं शीतांश्च प्रदेहान् दद्यात्||११||
यत्तु जालवदर्म तच्छिद्रेणैषिण्या जालमुन्मोच्योन्नमय्य च पूर्ववच्छिन्द्यात्| तद्विदित्यनेनैतदुच्यते यथा पूर्वत्र कनीनकमुपानीय तथात्रापाङ्गमुपानीयेति| शेषं सर्वं पुर्ववत्| प्लोतं वस्त्रखण्डम्| यवनालभस्मना वा प्रतिसारयेदिति सम्बध्यते| पुनश्चेति प्रतिसारणस्य पश्चात्| अस्मा इत्यातुराय| शेषं व्याख्यासमम्|| ११||
Adhikarana armaNAM shastrakarmottarakriyA (12) · Śloka 12
स्नेहोक्तं चाचारमादिशेत्|
द्वितीये चाह्नि सायं प्रातर्मधु- कसर्पिषा कोष्णेन शिरस्तथाऽवबद्धमेव चाक्षि सिञ्चेत्|
पञ्चाहं चोष्णोदकानुपानं सर्पिः पीत्वा जीर्णे पथ्यमश्नीयात्|
तृतीये दिवसे विमुच्य करञ्जबीजसिद्धेन क्षीरेणाक्षि स्वेदयेत्|
लोध्रमधुककिंशुकपटोलद्विहरिद्राकोरण्डमु- कुलक्वाथेन मधुमिश्रेणाश्च्योतयेत्|
सप्तमेऽहनि सर्वथा मुञ्चेत्|
आतपाकाशदर्शनं च परिहरेत्||१२||
स्नेहविध्युक्तं चोष्णोदकादिकमाचारमादिशेत्| शेषं व्याख्यासमम्| मधुयष्ट्या सिद्धं वा युक्तं वा सर्पिर्मधुकसर्पिः| तृतीये च पुनर्बध्वा चतुर्थं पञ्चमं षष्ठं नयेदित्यर्थात्| सप्तमेऽहनि मुक्ते नेत्रे आतपादिकं परिहरेत्| (नि) आम्लानकस्तु कोरण्डो राजसैरीयसंज्ञकः|| १२||
Adhikarana upadravapratikAraH (13) · Śloka 13
सशोफे तु नेत्रे धूमः शिरोविरेचनञ्च|
अनुपशान्तरागे सिराविस्रावणम् सास्रावे नस्यम्|
तिलान् सुलिखितान् मधुककाकोलीसुनिषण्णकपञ्च- मूलशर्कराशृतशीते पयसि सप्ताहं भावितांस्तेनैव पयसापीडयेत्|
मधुकशतह्वाशारिवानन्तागरुकाकोलीहरेणु- कैलावालुकचूर्णञ्च पीड्यमानेषु षोडशभागेन प्रक्षिपेत्|
तत्तैलमेभिरेवौषधैः पयसा चाष्टगुणेन सिद्धं नावना- दश्रुरागघ्नं दृष्टिप्रसादनञ्च|
कृष्णगते तु व्रणे व्रणशुक्लवत्क्रिया|
अर्मशेषे तु लेखनाञ्जनानि||१३||
तत्रैव सशोफादिके नेत्रे धूमादिकं योज्यम्| तिलानित्यादिना तैलपीडनपाकविधानम्| षोडशभागं पीड्यमानात्| तदित्यौषधैः सह पीडितः||१३||
Adhikarana samyakchinnAyuktacchinnalakShaNAni ayukte pratikArashca (14) · Śloka 14
तत्र सम्यक् छिन्ने वर्णविशुद्धिः स्वस्थता च|
हीनच्छेदात्पुनर्वृद्धी रागाश्रुपातप्रकाशदर्शनाक्षमत्वादि च|
अति- च्छेदादक्षिपाकस्तम्भस्फुरणास्रस्रुतितिमिरसंरम्भविबद्ध- वर्त्मनि|
तेषु यथास्वं दोषोद्रेकात् प्रतिकुर्यात्|
नाग- रमनश्शिलालैलासैन्धवशर्कराभिरर्धकर्षांशाभिर्युक्तं रसाञ्जनार्धपलं क्षौद्रद्रुतमञ्जनादर्मशेषश्लेष्मतिमिरपिल्ला- मयघ्नम्||१४||
सम्यक् छिन्नेऽर्मणि वर्णविशुद्धिः स्वस्थता च| असम्यक्छेदस्तु हीनताधिक्यं वा| तत्र हीनच्छेदात् पुनर्वृद्धी रागादिकं च| अतिच्छेदादक्षिपाकादीनि| विबद्ध्वर्त्म जीर्णत्वकत्वम्| तेषु हीनच्छेदातिच्छेदजेषु यथास्वमात्मीयं दोषाद्यपेक्षं चिकित्सितं योज्यम्| नागरादीनां प्रत्येकमर्धकर्षाशयुक्तं रसाञ्जनस्यार्धपलं क्षौद्रेण द्रुतमञ्जनादर्मशेषादिग़्नम्| रसाञ्जनं तार्क्ष्यम्|| १४||
Adhikarana sirAjAle karmavisheShaH (15) · Śloka 15
सिराजाले सिरा यास्तु स्थूलाः कठिनाश्च ता बडिशेन गॄहीत्वा मण्डलाग्रेणोल्लिखेत्||१५||
सिराजाले याः सिराः स्थूलाः कठिनाश्च तास्तु बडिशेन गृहीत्वा मण्डलाग्रशस्त्रेण लिखेत्||१५||
Adhikarana sirApiTakAyAM karmavisheShaH (16) · Śloka 16
सिरापिटकाः सूच्यग्रेणावलम्बिताः कृष्णमनुपघ्नन् छिन्द्यात्|
सूक्ष्मास्त्ववलिखेत्|
अर्मवच्यैतयोः शेषमाचरेत्||१६||
सिरासंज्ञाः पिटकाः सूच्यग्रेण गृहीताः कृष्णभागं रक्षन् छिन्द्यात्| सूक्ष्मास्तु ताभ्यो लिखेन तु छिन्द्यात्| एतयोः सिराजालसिरापिटकयोः शेषं कर्मार्मवदाचरेच्च||१६||
Adhikarana shuklakeShu cikitsAkramaH (17) · Śloka 17
शुक्लकेषु यथास्वदोषानुसारेण त्रिफलाघृतपानरक्त- मोक्षविरेचनाश्च्योतनमुखालेपनस्यतर्पणपुटपाकान् प्रयुञ्जीत||१७||
शुक्लकेषु क्षतशुक्लशुद्धशुक्लादिषु यथास्वदोषानतिक्रमेण त्रिफलाघृतपानादीन् प्रयुञ्जीत|| १७||
Adhikarana vraNashukle cikitsA (18) · Śloka 18
तत्र व्रणशुक्ले त्रिबृन्निर्यूहेण त्रिर्विपक्वं सर्पिः पाययेत्|
सिरां च विध्येत्|
दुष्टशेषं च पिण्डितमक्षिगमसृक् जलौकोभिरपहरेत्|
मधुककाकोलीमृद्वीकोत्पलविदारीक्वाथेन मञ्जिष्ठाक्षीरकाकोलीमधुकक्वथि- ताजक्षीरेण वा सशर्करेणाश्च्योतयेत्|
शीतैश्चास्य शिरोवक्त्रं दिह्यात् सिञ्चेच्च|
एवमप्यनुबद्धवेदनं शताह्वा- यष्ट्याह्ववता घृतमण्डेनानुवासयेत्|
अपि च अश्रु रागरुजाशान्तिं यदा यस्योपलक्षयेत्|
तदा तदाञ्जनैः शुक्लं लेखणियैरुपाचरेत्||१८||
तत्रेत्यादिना विशेषेण| तत्र तेषु शुक्लेषु मध्ये व्रणशुक्ले क्षतशुक्लात्रख्ये त्रिवृन्निर्यूहेण त्रिस्विवारं सिद्धं सर्पिस्त्रिवृत्कषायेण पाययेत्| दुष्टशेषमित्याद्यसृजो विशेषणम्| सुबोधम्| शीतैरिति चन्दनोशीरादिभिः| अपि चेति समुच्चये| अश्रवाद्युपशान्त्यां लेखनान्यञ्जनानि|| १८||
Adhikarana vaiDUryAdivartiH (19) · Śloka 19
वैदूर्यस्फटिकशङ्खमुक्ताविद्रुमरुप्यायस्रपुताम्रसीसालमनः- शिलाकुक्कुटाण्डत्वक्समुद्रफेनरसाञ्जनसैन्धवैरजापयः- पिष्टैर्वर्तयश्छायाशुष्काः क्षौद्रघृष्टाः प्रातः सायं च प्रयु क्ता व्रणशुक्लनुदः|
करवराहगोगर्दभाश्वाजोष्ट्रदशनाः शङ्खमुक्तासमुद्रफेनाश्च मरिचचतुर्थाशयुता जलपिष्टा वर्तयः क्षतशुक्लहराः|
लाक्षासुवर्णगैरिकचन्दनजातीमुकुलैर्वतिरसृक्पित्तप्रसा- दनी व्रणशुक्लहरा च||१९||
वैडूर्यादिका वर्तिर्व्याख़्यासमा| करिदन्तादीनां समुद्रफेनान्तानां चतुर्थेन भागेन मरिचम्| लाक्षादिका वर्तिः सुबोधा|| १९||
Adhikarana nimnashuklacikitsA (20) · Śloka 20
निम्नं च शुक्लं सरुजमुन्नमयेत् स्नेहपाननस्यजाङ्गलरसैः|
नीरुजं तर्पणपुटपाकाभ्याम्||२०||
निम्नं सरुजञ्च शुक्लं स्नेहपानादिभिरुन्नमयेत्| नीरुजं रुजारहितं निम्नं शुक्लं तर्पणपुटपाकाभ्यामुन्नमयेत् ||२०||
Adhikarana tarpaNam (21) · Śloka 21
तत्र तर्पणं मृगविष्किरपिशितं काश्मर्यसुनिषण्णोत्पल मृणालशृङ्गाटककशेरुद्राक्षाक्षीरविदारीजीवनीयांश्च क्षीरेण पाचयेत् तस्मान्नवनीतमुद्धत्य चन्दनमधुशर्करान न्तानीलोत्पलकल्कैरष्टगुणेन च पयसा विपक्वं पूर्ववद्योजयेत्||२१||
तत्र नीरुजे मृगविष्किरपिशितादिशृतात् क्षीरान्नवनीतं गृहीत्वा चन्दनादीनां कल्कैरष्टगुणेन क्षीरेण च विपक्वं तर्पणं योज्यम्| पूर्ववदिति सूत्रोक्तविधानेन तर्पणमुक्तम्||२१||
Adhikarana puTapAkaH (22) · Śloka 22
पुटपाकञ्च कुक्कुटमुद्धृतान्त्रं वेशवारीकृत्य चन्दन सारिवामधुकशर्करानन्तानीलोत्पलप्रपौण्डरीकजीवनी यकल्कैः समधुघृतैः संसृज्य प्रागिव कल्पयेत्|
द्वित्वच्छिन्नमेवं यापयेत्||२२||
कुक्कुटमांसादिना पुटपाक उच्यते| वेशवारं सूक्ष्मच्छिन्नम्| प्रागिवसूत्रोक्तपुटपाकविधानेन| द्वित्वच्छिन्नं शुक्लकमेवमुक्तप्रकारेणैव यापयेत्|| २२||
Adhikarana shuddhashuklacikitsA (23) · Śloka 23
शुद्धशुक्ले हरिद्रामधुकशारिवालोध्रनिर्यूहेणाश्च्योतनम्|
लोध्रचूर्णेन वा तान्तवबद्धेनोष्णाम्बुमृदितेन|
शुद्धकोष्ठस्य च दन्तीज्योतिष्मतीकल्कोऽवपीडकः|
शिरोविरेचनद्रव्यविपक्वं वा तैलं मर्शः प्रतिमर्शो वा||२३||
शुद्धशुक्ले हरिद्रादिकषायेणाश्च्योतनं हितम्| लोध्रचूर्णेन वेत्यादावाश्च्योतनमिति सम्बध्यते| तान्तवं वस्त्रम्| शिरोविरेचनानि द्रव्याणि शोधनादिगणपठितान्यपामार्गविडङ्गानि||२३||
Adhikarana vartyAdiyogAH (24) · Śloka 24
शुण्ठीसैन्धवमधुयष्टिकाबृहतीमूलताम्ररजोभिरामलकर- सपिष्टैस्ताम्रपात्रं प्रलेपयेत्|
तच्च सघृतैर्यवैरामलक पत्रैश्च बहुशो धूपयेत्|
वर्तिरेषा महानीला मधुतोयघृष्टा शुद्धशुक्लं नाशयति|
पूर्वोक्ता च दन्तवर्तिः|
अशाम्यति तु शुक्ले सर्वत्र पुनः पुनर्यथोक्तमेव पर्यायेण योजयेत्|
अन्तरान्तरा च रक्तं विस्रावयेत्|
अभिष्यन्दप्रतिषेधं चेक्षेत||२४||
शुण्ठ्यादिना ताम्रलेपादिसंस्कृता महानीलाख्या वर्तिः शुद्धशुक्लं नाशयति| करिवराहादिदन्तकृता दन्तवर्तिः| पर्यायेण परिवृत्या करणेन च| अभिष्यन्दप्रतिषेधमध्यायमीक्षेत तदुक्ताञ्जनप्रयोगाय||२४||
Adhikarana utsAdanAnya~jjanAni (25) · Śloka 25
अथोत्सादनार्थं शुद्धशुक्ले सम्प्रहर्षणानि दद्यात्|
त्रिफलारसेन त्र्यहं भावितेन सैन्धवेनाञ्जयेत्|
तद्वत् पिप्पलीभिर्वा|
मरिचपिप्पलीशिरीषबीजसैन्धवैर्वा|
कोलास्थिकतकफलशङ्खद्राक्षामधुकरिवा|
बलासग्रथितोक्तक्षाराञ्जनैर्वा||२५||
शुद्धशुक्ल उत्सादनार्थं निम्नत्वत्यागाय सम्प्रहर्षणानि सार्थनामान्यञ्जनानि दद्यात्| तान्युच्यन्ते| त्रिफलारसेन त्र्यहं भावितं सैन्धवमञ्जयेत्| तद्वदिति त्रिफलारसभाविताभिः पिप्पलीभिरञ्जयेदिति सर्वत्र सम्बध्यते| मरिचादिभिर्वा| कोलास्थ्यादिभिर्वा| बलासग्रथिताख़्ये यानि क्षाराञ्जनान्युक्तानि तैर्वा|| २५||
Adhikarana utsAdanAdupadrave~a~jjanAni - sandhAva~jjanAni (26) · Śloka 26
सम्प्रहर्षणाद्रागाश्रुवेदनासु सन्धावाञ्जनानि युञ्ज्यात्|
शङ्खं ताम्रे स्तन्येन घृष्टं सघृतैर्यवैः शमीपत्रैश्च धूपयेत् अनेन सन्धावाञ्जनेनाञ्जयेत्|
तद्वत् सुवर्ण रूप्यमयो वा घृष्टं सघृतैर्बदरीपत्रैर्धूपितमञ्जनम्|
शङ्खो निस्तुषाश्च हरित मुद्गाः पिष्टा वर्तिश्चूर्णो वा मधुयुक्तोऽञ्जनं शुक्लहर्षणम्|
मधुकसारश्च मधुना बिभितकास्थिमञ्जा वा||२६||
एभिः सम्प्रहर्षेणैः रागाद्युद्भवे सन्धावाख्यानि युञ्जीत| तानि उच्यन्ते| ताम्रे शङ्खं नारीक्षीरघृष्टं घृतसहितैर्यवैः शमीपत्रैश्च धूपितं सन्धावः| सुवर्णादिकं पृथक् तद्वदिति ताम्रे स्तन्येन घृष्टं घृतयुक्तैर्वदरीपत्रैधूपितं सदञ्जनम्| शङ्ख्वादिका वर्तिर्मधुयुक्तोऽथवा चूर्णो माक्षिकयुक्तोऽञ्जनं बिभीतकफलास्थिमज्जा वा मधुनाञ्जनं शुक्लघर्षणम्||२६||
Adhikarana pratya~jjanopanAhau (27) · Śloka 27
मसूरा निस्तुषाः स्तन्यपिष्टास्तरुणदर्भाङ्कुरा घृतमाजं गोक्षीरं शरश्चायसे ताम्रेण घृष्टं प्रत्यञ्जनं वेदनाघ्नम्|
यवगोधूमजीवनीयमांसीचूर्णेन सघ्रुतशर्करोत्कारिका स्वेदोपनाहे प्रणीता वेदनामपनयति शुक्लं चोत्सादयति|
तद्वदानूपमांसवेशवारो वसापयः सर्पिर्विमिश्रः सिद्धः||२७||
निस्तुषमसुरादीन्यायसे भाण्डे ताम्रेण घृष्टानि प्रत्यञ्जनं वेदनाघ्नं भवति| यवादीनां चूर्णेन घृतशर्कराभ्यां सह कृतोत्कारिका स्वेदार्थमुपनाहे बन्धे प्रणीता वेदनामपनयति शुक्लं चोत्सादयति| आनूपवेशवारो वसादिभिर्मिश्रः सिद्धस्तद्वदिति स्वेदोपनाहोत्कारिकायं प्रणीत इत्यादि पूर्ववत्|| २७||
Adhikarana upanAhapracalitadoShasyA~jjanam - lekhanA~jjanam (28) · Śloka 28
अथैवमुपनाहप्रचलितस्य अञ्जनम्|
गोखराश्वोष्ट्रदन्ताः समुद्रफेनः शङ्खश्चार्जुनकषायपिष्टा वर्तिर्लेखनी|
समुद्रफेनशङ्खखरपरशुकास्थिखरनागाश्वगोबालास्तिन्दुक- कषायपिष्टा वा||२८||
अथानन्तरमेवमित्युक्तेन प्रकारेणोपनाहेन प्रचलितस्य दोषस्याञ्जनं योज्यम्| किमित्याह-गोदन्तादिकमर्जुनकषायपिष्टा लेखनी वर्तिः समुद्रफेनादिकं वा तिन्दुककषायपिष्टा वर्तिः||२८||
Adhikarana punaH pratya~jjanaM leKana~jca (29) · Śloka 29
प्रत्यञ्जनञ्च तरुणबदरखदिरतिन्दुकास्थ्नामन्तर्धूमदग्धानां चूर्णम्|
उत्सन्नं वा सशल्यं वा शुक्लं बालादिभिर्लिखेत् पुटपाकेन वा|
बलासग्रथितोक्तक्षाररसक्रियया वा||२९||
लेखनाञ्जने दत्ते यन्मृद्वञ्जनमुक्तं तत् प्रत्यञ्जनम्| तदत्र तरुण बदराद्यस्थ्नामन्तर्धूमदग्धानां चूर्णम्| उत्सन्नं सशल्यं वा शुक्लं बालेन शस्त्रेण वा तीक्ष्णाग्रेण लिखेत्| सुबोधम्| पुटपाको लेखनः सूत्रोक्तः||२९||
Adhikarana sirAshuklacikitsA (30) · Śloka 30
सिराशुक्ले त्वदृष्टिघ्ने तरुणे व्रणशुक्लवत् कुर्यात्|
अञ्जनं चास्य प्रपौण्डरीकमधुकहद्रालोहरजोऽञ्ज- नबृहतीक्षीरकाकोलीरजापयः पिष्ट यवैर्घृतयुक्तैरा- मलकीपत्रैश्च पर्यायेण धूपिता वर्तिः|
अप्रशान्तमेव मर्मवत्साधयेत्|
समाक्षिकं तु रसाञ्जनं प्रतिसारणम्|
सक्षमे दिवसे कुक्कुटाण्डकपालस्फ टिकचन्दनमनश्शिलालौरश्ववराहदशनैश्च वर्तिं कृत्वाऽञ्जयेत्|
उदधिकफशङ्खचन्दनैरजापयः पिष्टैर्वर्तिर्मधुघृष्टा प्रत्यञ्जनं सिराशुक्लजित्|
अनुपशमे पश्यति चातुरे किञ्चिदिदमेवासकृत् कुर्वीत||३०||
अदृष्टिघ्ने सिराशुक्ले येन दृष्टिर्न व्याप्ता| व्रणशुक्लः क्षतशुक्लः| (अत्रासाध्येष्वजकासिराशुक्लपाकात्ययशुक्लेषु मध्यगतस्य सिराशुक्लस्यादृष्टिघ्नावस्थायां चिकित्सतोक्त्या अदृष्टिघ्नयोरजकापाकात्ययशुक्लयोरप्येषैव क्रियां कर्तव्येति सूचितम्)| अस्य च सिराशुक्लवतः प्रपौण्डरीकादीरजाक्षीरपिष्ट घ्रुतयुक्तैर्यवैरामलकीपत्रैश्च पर्यायेण परिवृत्या धूपिता वर्तिरञ्जनं भवति| एवमुक्तेनाप्रशान्तं सिराशुक्लमर्मोक्तप्रकारेण शस्त्रेण साधयेत्| प्रतिसारणं शस्त्रकर्मणः पश्चात्| सप्तमे दिवसे शस्त्रकर्मणाः| व्याख्यासमम्| उदधिकफः समुद्रफेनः| यदा त्वेवमनुपशमः पश्यति च किञ्चिद्रूपमातुरे तदेदमेवानन्तरोक्तं विधानमसकृत् पुनः पुनः कुर्वीत|| ३०||
Adhikarana ajakAcikitsA (31) · Śloka 31
अजकामदृष्टयुपघातिनी कृष्णान्तजामविस्रावणैर्मधुर- विरेचनैः क्षीरबस्तिभिश्च साधयेत्|
सिराशुक्लवच्चशस्त्रकर्मादिविधिनेति|
भवति चात्र अजकायामसाध्यायं शुक्लेऽन्यत्र च तद्विधे|
वेदनोपशमं स्नेहपानासृक्स्रावणादिभिः|
कुर्याद्वीभत्सतां जेतुं शुक्लत्वोत्सेधसाधनम्|
नालिकेरास्थिभल्लाततालवंशकरीरजम्|
भस्माद्धिः स्रावयेत्ताभिर्भावयेत्करभास्थिजम्|
चूर्णं शुक्लेष्वसाध्येषु तद्वैवर्ण्यघ्नम्|
साध्येषु साधनायालमिदमेव च शीलितम्||३१||
अजकाख्या या दृष्टेरनुपघातिनी कृष्णभगस्यान्ते जाता तामविस्रावणादिभिः साधयेत्| गतानुगतिका| (एतच्च क्षतशुक्लाद्युपद्रवभूताया एव तत्कर्मसाध्याया अजकायाः| न तु पूर्वोक्ताया रक्तनिमित्ताया अजकायाः| शास्त्रान्तरेषूक्तं च| व्रणशुक्लाक्षिपाकाभ्यां कृष्णं भित्वा तु याजका| जायते द्रुष्टिदूरस्था तस्यास्त्वेता क्रिया हिता इति)| उक्तलक्षणविपरीतायामसाध्यायामजकायां शुक्ले चासाध्येऽन्यत्र चैवम्प्रकारे रोगे स्नेहपानादिभिर्वेदनोपशमं कुर्यात्| बीभत्सतां जुगुप्सितत्वं नेत्रस्य जेतुं शुक्लत्वसाधनमुत्सेधसाधनं च यथायोग्यं कुर्यात्| नालिकेरास्थ्यादिजं भस्म अद्भिर्जलैः स्रावयेत्| क्षारकर्मविधिना गालयेत्| ताभिर्भस्माद्भिः करभस्थिजं चूर्णं भावयेत्| तदञ्जनमसाध्येषु शुक्लेषु बीभत्सवैवर्ण्ये निहन्ति| साध्येषु तु शुक्लेषु साधनायालं पर्याप्तमिदमेव शीलितं सदाभ्यासेन| करभास्थिजं चूर्णं करभास्थिकृतं रजः भावयेत्| पेषणशोषणादिसंस्कारविशेषैस्तद्वीर्यमस्मिन्नापादयेत्| तत्पिण्डाद्यन्यतममञ्जनमसाध्येषु साधयितुमशक्येषु शुक्लेषु वैवर्ण्यघ्नं विवर्णताविनाशकरम्| इदमञ्जनमेव शीलितं चिरकालपरिचितं साध्येषु अनुत्पन्नासाध्यलक्षणोष्वेष्वेव साधनाय चिकित्सार्थमलं पर्याप्तम्| तालस्यापि साहचर्यादस्थ्येव ग्राह्यम्|| ३१||
Adhikarana ajakAyAH vedhanam (32) · Śloka 32
अजकां पार्श्वतो विद्ध्वा सुच्या विस्राव्य चोदकम्|
समं प्रपीड्याङ्गुष्ठेन वसार्द्रेणानु पूरयेत्|
व्रणं गोमांसचूर्णेन बद्धं बद्धं विमुच्य च|
सप्तरात्राद् व्रणे रूढे कृष्णभागे समे स्थिते|
स्नेहाञ्जनं च कर्तव्यं नस्यं च क्षीरसर्पिषा|
तथापि पुनराध्माते भेदच्छेदादिकां क्रियाम्|
युक्त्या कुर्याद्यथा नातिच्छेदेन स्यान्निमज्जनम्||३२||
अजकायावेधनविधानमाह-अजकामित्यादि| वसार्द्रोणेति गोमांसचूर्णाविशेषणम्| बद्धं बद्धं च प्रतिदिनं विमुच्य गोमांसचूर्णेन पूरयेदिति सम्बन्धः| सप्तरात्रादिति सप्तरात्राद्विमुच्य बन्धनमपीनय परं न बध्नीयात्| युक्तिर्दृष्ट्युपघातरक्षिणी| अतिच्छेदो ह्यक्ष्णोर्निमज्जनहेतुः| (अजकां सूच्या सूचीशस्त्रेण पार्श्वतः पार्श्वभागे विद्ध्वा वेधनं कृत्वा अङ्गुष्ठेन समं यथा न विषमं भवति तथा प्रपीड्य उदकमजकान्तर्गतजलं च शब्दादस्रादिकं च विस्राव्य स्रावयित्वानु तदनन्तरं व्रणं सूचीवेधव्रणं वसाद्रेण वसया स्नेहविशेषेणार्द्रेण सिक्तेन गोमांसस्य चूर्णेन रजसा पूरयेत्| बद्धं बद्धं दिनाद् दिनाद्विमुच्य पुनः पुनर्बद्धं सप्तरात्राद्विमुच्य बन्धनमपनीय सप्तरात्रात् परं न बन्धनीयमित्यर्थः| व्रणे रूढे कृष्णभागे कृष्णमण्डले समे निम्नोन्नतत्वरहिते स्थिते च सति स्नेहाञ्जनं क्षीरसर्पिषा क्षीरोद्भूतेन सर्पिषा नस्यं नस्यकर्म च कर्तव्यं वैद्येनेति शेषः| तथेति| तथा एवमुपक्रान्तेऽपि पुनरप्याध्माते सतिभेदच्छेदादिकां क्रियां आदिशब्देन लेखनाञ्जनादिपरिग्रहः युक्त्या हीनातियोगाद्विना यथातिच्छेदेनामूलच्छेदेन निमज्जनमवनतिर्न स्यात्तथाच्छिन्द्यात्| युक्त्या कुर्यादित्युक्त्यैव हीनातिच्छेदनिरोधे सति पुनरप्यतिच्छेददोषकथनं हीनच्छेदादतिच्छेदस्यापायाधिक्यप्रदर्शनार्थम्) ||३२||
Adhikarana shuklacikitsopasaMhAraH (33-15) · Śloka 15
नित्यं च शुक्लेषु शृतं यथास्वं पाने च मर्शे च घृतं विदध्यात्|
न हीयते लब्धबला तथान्त- स्तीक्षणाञ्जनैर्दृक् प्रततं प्रयुक्तैः||३३||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भाटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे सन्धिसितासितरोगप्रतिषेधो नाम चतुर्दशोऽध्यायः||१५||
उपसंहरन्नाह-सर्वेषु च शुक्लेषु यथास्वं दोषानतिक्रमेणौषधैः शृतं पाने च मर्शे नस्ये च नित्यं विदध्यात्| तथेति घृतपाननस्याभ्यामन्तर्लब्धबला सती दृक् शुक्लविघाताय प्रततं सन्ततं प्रयुक्तैरपि तीक्ष्णाञ्जनैर्न हीयत इति| (सर्वेष्वपि शुक्लेषु यथास्वं स्वदोषानतिक्रमेण शृतं पक्वं घृतं पाने पान इत्युक्तत्वात् शुक्लेषु विचारणया न घृतं योज्यमिति सूचितम्| चशब्दादभ्यङ्गसेकतर्पणादिपरिग्रहः| मर्शे मर्शाख्ये नस्ये| अत्र चशब्देन प्रतिमर्शादिपरिग्रहः| नित्यमन्वहं विदध्यात् कुर्यात्| तथा घृतपाननस्यादिभिरन्तरन्तर्भागे लब्धबला सती दृक् शुक्लविघाताय सततमनवरतं प्रयुक्तैस्तीक्ष्णाञ्जनैरपि न हीयते न नश्यति| सततं प्रयुक्तैरित्युक्तत्वाल्लेखनविषये प्रयोज्यस्य तीक्ष्णाञ्जनस्य प्रत्यञ्जनाभावोऽपि सूचितः|| ३२|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे चतुर्दशोऽध्यायः||