Adhikarana atha granthyarbudashlIpadA~apacInADIpratiShedho nAma pa~jcatriMsho~adhyAyaH | pratij~jA (1) · Śloka 1
अथातो ग्रन्थ्यादिप्रतिषेधं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रयादयो महर्षयः||१||
उक्तक्रमेणैव ग्रन्थ्यादीनां साधनं प्रदर्शयितुमध्याय आरभ्यते||१||
Adhikarana granthiShu sAmAnyacikitsA (2) · Śloka 2
सर्वेष्वेव पूर्वं ग्रन्थिषु बृहतीद्वयपिप्पलीचित्रकसाधितेन पुराणसर्पिषा स्निग्धं वामयेद्विरेचयेच्च|
कृतसंसर्जनस्य चोत्तमाङ्गगतेषु ग्रन्थिषु लाक्षाद्विरजनीविडङ्गशुण्ठीपूती दारुभिः शिरो विरचयेत्|
धूमकवलगण्डूषांश्च संसेवेत|
अङ्कोलमधुकमातुलुङ्गहिंस्रापूतीदारुबिल्वमूलसरलकुष्ठवचावरुणत्वक्कालातिविषाजगन्धार्भिर्लेपः|
श्यामा सुरदारुसमङ्गाकोशातकोपुनर्नवसर्षपैर्Vवा|
सशोफरुक्स्तम्भे चोपनाहो यवसक्तुमधुककुष्ठशत पुष्पादेवदारुभिर्घृतयुक्तैः|
गोजाऽविखरोष्ट्राश्वहस्तिमू षिकमांसैर्वा वेशवारीकृतैर्वसातैलवद्भिः|
पलाशवृन्ताग्निमन्थत्वक्कल्केन मांसपिण्डैर्वा|
बहुशः स्विन्नमङ्गुष्ठेन वेणुपर्वणा वा शतैश्शनैः पुनः पुनर्विम र्द्दयेत्|
यथायथञ्च शोफवत् क्रियां प्रयुञ्जीत||२||
सर्वेषु ग्रन्थिषु पूर्वं बृहतीद्वयादिसिद्धेन पुराणसर्पिषा स्नेहः| तत्स्निग्धस्य वमनं विरेचनञ्च| पश्चात् संसर्जने पेयादिक्रमे कृत ऊर्ध्वाङ्गगतेषु ग्रन्थिषु लाक्षादिभिः शिरो विरेचयेत्| धूमादीम्श्च यथागमं सेवेत| अङ्कोलादिना सामान्यलेपः| श्यामादिभिर्वा| अङ्कोलः प्रसिद्धो मालवादिषु वेतसाकारपत्रैस्सकण्टकः| हिंस्रा मांसी| काला नीलिनी| सशोफादिके च ग्रन्थौ यवसक्त्वादिभिर्वा गवादिमांसैर्वा वेशवारीकृतैर्वसातैलवद्भिरुपनाहो बन्धः| पलाशवृन्तादिभिर्वा स्विन्ने यथोक्तेन विमर्द्दनं यथायथमिति दोषाद्यनतिक्रमेण| इति साधारणम्|| २||
Adhikarana vAtajagranthicikitsA (3) · Śloka 3
अथ वातजे ग्रन्थौ दशमूलसिद्धं महास्नेहं पिबेत्|
अमृता निम्बबीजभार्ङ्गीस्योनाकबाणतालपत्रीकृष्णगन्धागरुभिः क्षीरपिष्टैस्सुखोष्णैर्लेपः|
विविधाश्च वातव्याधिविहिताः स्नेहस्वेदोपनाहाः|
तथानुपशमे सिराव्यधः|
पक्वं तु विदार्य निरस्तपूयं कृत्वाऽर्कादिवर्गाम्भसा प्रक्षा ल्य तिलकल्केन सचित्रकसैन्धवेनालेपयेत्|
तैलञ्च रोपणं रास्नासरलोशीरविडङ्गमधुकक्षीरसंस्कृतं कुर्यात्||३||
(अथेत्यादिना वातादिविशेषेणोच्यते) महास्नेहः स्नेहचतुष्टयम्| अमृतादिभिः क्षीरपिष्टैः सुखोष्णैर्लेपः| बाणो नीलसहचरः| तालपत्री मौसली| कृष्णगन्धा सौभाञ्जनम्| सुबोधम्| पक्वमिति ग्रन्थिं रास्नादिभिः संस्कृतं तैलं रोपणं कुर्यात्|| ३||
Adhikarana pittajagranthicikitsA raktajA ca (4) · Śloka 4
पित्तजे रक्तजे च जलौकसो न्यग्रोधादिः प्रदेहपरिषे कयोः पद्मकादिः पाने च द्राक्षेक्षुरसयुक्ता हरीतकीविरेकः|
पक्वे पाटिते च पित्तव्रणोक्तो विधिः||४||
पित्तजरक्तजयोः सुबोधम्| उभये भिन्नविपक्वे पित्तव्रणोक्तोविधिः|| ४||
Adhikarana kaphajagranthicikitsA (5) · Śloka 5
कफजमन्तःशुद्धस्य भृशं स्वेदयेद्विम्लापयेच्च काका दनीविकङ्कतकाकनन्दिकारग्वधेङ्गुदमूलमदनफलभार्ङ्गी करञ्जैर्लेपयेत्|
नागरविडङ्गैलवालुकचव्यपलाशवृन्त चित्रकैर्वा|
भल्लातकसैन्धवाजगन्धासर्षर्पैर्वा|
एवमप्यपच्यमानममर्मस्थं विदार्य स्थितरक्तं निश्शेष मग्निना दहेत्|
सशेषो हि पुनरापूर्यते|
ततो निर्वापितं क्षारक्षौद्रगुडोत्तरैरालेपैस्संशुद्धं रोपयेत्||५||
कफजेऽन्तश्शुद्धिर्वमनविरेचनाभ्याम्| विम्लापनं विलायनम्| काकादन्यादिभिर्लेपयेत्| काकादनी स्थूलकाकादिनी| काकनन्दिका गुञ्जा| (नागरादिभिर्वा लेपयेदिति सम्बन्धः) पलाशवृन्तं पलाशपत्रम्| एवमित्यनन्तरोक्तक्रिययाऽपच्यमानमर्मणोऽन्यत्र स्थितं शस्त्रेण विदार्य स्थितरक्तं निश्शेषमग्निना दहेत्| सशेषस्य पुनरापूरणात्| निर्वापितं शीतीकृतम्| रोपणैरोलेपैः क्षाराद्यधिकैस्संशुद्धं रोपयेत्||५||
Adhikarana mAMsavraNamedogranthInAM cikitsA (6) · Śloka 6
मांसव्रणग्रन्थी चैवमेव यापयेत्|
मेदोजेऽप्ययमेव विधिः|
अपि च मेदोग्रन्थिं तिलकल्कदिग्धं द्विगुणपटान्तरितं तप्तेन फालेन दर्व्या वा जतुलिप्तया बहुशः प्रमृज्यात्|
शस्त्रं चावचार्य पूर्ववन्मेदो दहेत्|
सुपक्वं वा विपाट्य मूत्रप्रक्षालितं क्षौद्रसैन्धवसुवर्चिकाकाञ्चनक्षीरीहरिताल मिश्रैः क्षीरबकप्रगाढैस्तिलैरालेपयेत्|
गुञ्जाद्विकरञ्जतापसवृक्षवंशावलेखमूत्रसिद्धं तैलमभ्यङ्गः|
सम्यकशुद्धं चैनं रोपयेत्||६||
एवमेवेत्यनयैव किर्यया यापयेत्| अपि चेति समुच्चये| सुबोधम्| फालो लोहदलः| जतुलिप्तया दर्व्या तप्तयेत्यर्थात्| शस्त्रमवचार्य शस्त्रेण पाटयित्वेत्यर्थः| क्षीरबकं श्वेतिका| गुञ्जादिसिद्धं तैलमभ्यङ्गः| तापसवृक्षः इङ्गुदः| वंशावलेखो वंशतनुवल्कः| सम्यक्शुद्धमेनं रोपयेत्|| ६||
Adhikarana sirAgranthicikitsA (7) · Śloka 7
सिराग्रन्थौ त्वभिनवे तैले साहचरं पिबेत् उपनाहञ्च वात हरैर्बस्तिकर्म च कुर्यात्|
सिराव्यधञ्च||७||
अभिनवे सिराग्रन्थौ साहचरं तैलं पिबेत्| उपनाहादींश्च कुर्यात्||७||
Adhikarana vAtArbudacikitsA (8) · Śloka 8
वातार्बुदमैरण्डप्रियालनालिकेरमज्जोर्वारुकर्कारुबी जोत्कारिकयोपनाहयेत्|
आनूपामिषवेशवारैर्वा|
नाडी स्वेदञ्च कुर्यात् बहुशश्चात्र शृङ्गेण रुधिरमवसेचयेत्|
वातहरवर्गक्वाथपयोऽम्लसिद्धं त्रिवृतं पिबेत्||८||
वातार्बुदे एरण्डपत्रादिभिरुपनाहं नाडीस्वेदञ्च कुर्यात्| अत्र वातार्बुदे बहुशः शृङ्गेण रुधिरमवसेचयेत्| वातहरवर्गादिसिद्धं त्रिवृत्स्नेहं पिबेत्|| ८||
Adhikarana pittArbudacikitsA (9) · Śloka 9
पित्तोत्थे मृदून् स्वेदोपनाहान् कायविरेचनञ्च प्रयोजयेत्|
शाककाकोदुम्बरिकापत्रघृष्टे च प्रियङ्गुपत्तङ्गङ्गसर्जरसा र्जुनलोध्रमधुकैर्लेपः|
श्यामागिरिकर्णिकाञ्जनक्लीतन कनखद्राक्षासप्तलान्यतमरससाधितं सर्पिः पीतं पित्ता र्बुदश्लीपदोदरघ्नम्||९||
पित्तोत्थे मृदून् स्वेदोपनाहान् कायविरेचनञ्च शाकादिपत्रघृष्टे प्रियंग्वादिभिर्लेपः| प्रियंग्वादिभिस्साधितं सर्पिः पीतं पित्तार्बुदादिघ्नम्|| ९||
Adhikarana shleShmArbudacikitsA (10) · Śloka 10
श्लेष्मजे तूर्ध्वमधश्च हृतदोषस्य स्रुतरक्तस्य च वमन विरेचनद्रव्यैः प्रलेपः|
काकादनीशुकबर्हिग्निजिह्वामूल दक्षकपोतगृध्रपुरीषकाशमूलैर्वा पलाशक्षीरपिष्टैः|
पिण्या ककुलत्थनिष्पावैर्वा मांसप्रगाढैर्दधिपिष्टैर्लेपयेत्|
लेपा स्वादलोभेन च निलीयमानाः मक्षिकाः समुपेक्षेत|
तद्विमुक्तैः कृमिभिरितरैर्वा भक्ष्यमाणञ्च|
ततः कृमिभक्षि तावशेषं शाकादिपत्रैर्विलिख्याऽग्निना प्रतिसारयेत्|
अल्पमूलं वा त्रपुताम्रायः सीसपट्टकवेष्टितम्|
पुनः पुनश्च क्षारान् कालापेक्षया योजयेत्|
जात्यास्फोतकरवीरपल्लवांश्च व्रणशोधनाय कल्कादौ|
तैलञ्चात्र पाठावि डङ्गभार्ङ्गीत्रिफलाकषायसिद्धमभ्यञ्जनम्||१०||
श्लेष्मजे ऊर्ध्वमधश्च हृतदोषस्य स्रुतरक्तस्य वमनविरेचन द्रव्यैर्मदनादिभिः प्रलेपः काकादन्यादिभिर्वा| शेषं सुबोधम्|| १०||
Adhikarana medo~arbudacikitsA (11) · Śloka 11
मेदोऽर्बुदं स्विन्नभिन्नं सुशोधितमेदस्कमुपशान्तरक्त स्रावं सद्यस्सीव्येत्|
ततो गृहधूमलोध्रमनः शिलाहरि द्रापत्तङ्गचूर्णैर्मधुमद्भिः प्रतिसारयेत्|
करञ्जतैलञ्चाभ्यञ्चनार्थे नियुञ्जीत|
सर्वार्बुदानि च यदृच्छया पर्यागतानि सुपरिशोधितानि रोपयेत्|
अपि च सशोषदोषाणि तु योऽर्बुदानि करोति तस्याशु पुनर्भवन्ति|
तस्मादशेषोद्धरणं प्रशस्तं क्षारेण शस्त्रेण तथाग्निना वा||११||
मेदोऽर्बुदक्रिया च सुबोधा|| ११||
Adhikarana vAtajashlIpadacikitsA (12) · Śloka 12
श्लीपदे तु वातात्मके स्नेहस्वेदोपनाहान् प्रयुज्यगुल्फस्योपरिष्ट्यङ्गुले सिरां विध्येत्|
एरण्डतैलञ्च गोमूत्रेण मासं पिबेत्|
जीर्णे नागरक्वथितेन पयसा पुराणधा न्यान्यश्नीयात्|
त्रिवृतञ्च पाययेत्|
बस्तिञ्च प्रयुञ्जीत|
एवमप्यशाम्यत्यग्निना दहेत्||१२||
वातात्मके श्लीपदे स्वेदादीन् प्रयुज्य सिरां विध्येत्| एरण्डतैलं त्रिवृत्स्नेहञ्च पाययेत्| बस्तिञ्च कुर्यात्| अनन्तरोक्तेनाशान्यत्यग्निना दाहः|| १२||
Adhikarana paittikashlIpadacikitsA (13) · Śloka 13
पैत्तिके मृदुरुपनाहो गुल्फस्याधःसिरामोक्षः पित्तार्बुदो क्ताः स्नेहविरेकाः पित्तघ्नाश्च लेपाः||१३||
पैत्तिके उपनाहादिकं पित्तघ्नलेपान्तम्|| १३||
Adhikarana shlaiShmikashlIpadacikitsA (14) · Śloka 14
श्लैष्मिके त्वङ्गुष्ठे सिरां मुञ्चेत्|
सक्षौद्रांश्च कफघ्नान् कषायानभीक्ष्णं पाययेत्|
यथाबलं वा हरीतकी वर्द्ध मानाः||१४||
श्लेष्मात्मके अङ्गुष्ठे सिराव्यधः| कफघ्नान्युक्तानि तेषां कषायात्सक्षौद्रानभीक्ष्णं पाययेत्| पिप्पलीवर्द्धमानं रसायने वक्ष्यते||१४||
Adhikarana shlIpadAdiShu AhAryakShAraprayogaH (15) · Śloka 15
आदारीकाकजङ्गाकाकादनीशुकनासाकदम्बपुष्पबृहती द्वयमन्तर्धूमं दग्ध्वा गोमूत्रेण बहुशः परिस्रावयेत्|
तत स्तत् क्षारोदकं क्षारकल्पेन विपचेत्|
दद्याच्चात्र प्रती वापं फल्गुशुकाख्या मदनफलरसम्|
एष क्षारो मधुरा हारेणाभ्यस्तः श्लीपदापचीग्रहणीदोषारोचकान् सर्व विषाणि च नियच्छति||१५||
आदार्यादीनामन्तर्धूमदग्धानां क्षारपरिस्रुतं गोमूत्रं सूत्रोक्तक्षारविधानेन विपचेत्| क्षारोदकशब्देन सामान्येन क्षाराच्छमुच्यते||१५||
Adhikarana viDa~ggAditailapAnam (16) · Śloka 16
तैलं वा पिबेद्विडङ्गार्कमरिचचित्रकशुण्ठीदेवदार्वैलवालु कलवणपञ्चकैस्सिद्धम्||१६||
विडङ्गादिभिस्सिद्धं तैलं वा पिबेत्|| १६||
Adhikarana nAgarAdyAlepanAni (17) · Śloka 17
ओलेपयेच्च नागरामृताविडङ्गकटुकाभद्रदारुभिर्मूत्रपिष्टैः ऊरुस्तम्भोक्तैश्च भेषजैर्यवान्नञ्च शीलयेत्||१७||
आलेपयेन्नागरादिभिः| उरुस्तम्भोक्तैश्च भेषजैर्मूत्रपिष्टैरालेपयेदिति सम्बन्धः| यवान्नञ्च भोजने शीलयेत्| इति श्लीपदम्||१७||
Adhikarana gaNDamAlAcikitsA (18) · Śloka 18
गण्डमालायां कुम्भनिकुम्भद्रवन्तीजीमूतकोशातकी फलविपक्वं घृतमुभयानुलोमनं पिबेत्|
शार्ङ्गष्टामूलं वा तक्रपिष्टम्|
वमनार्थं सुखोदकेन वा जातीर्बहिष्ठ निर्गुण्डीजीमूतकोत्तुण्डकीमूलत्वक्चूर्णम्|
सिरा चास्य विध्येत्|
सशेषदोषं तु कौष्ठिकं नवकं पाययेत्|
रसाञ्जनं गोमूत्र तण्डुलोदकान्यतरेण|
तदेव च नावयेत्|
मधुकसारं वा शिग्रुफलानि वा निम्बकरञ्जकरवीरसिद्धं वा तैलं वैरेचनिकञ्च धूमं पिबेत्|
अपक्वांश्च गण्डान्नाकुलीसैन्धवनागरैर्लेपयेत्|
गुञ्जाक रवीरार्कश्यामासिद्धार्थकैरजामूत्रयुक्तैर्द्दशकृत्वो विपक्वं तैलं लवणपञ्चकपिप्पलीमरिचचूर्णोपेतमभ्यङ्गात्सर्वाव स्थानपच्यर्शोऽर्बुदनाडीदुष्टव्रणवल्मीकानपोहति||१८||
गण्डमालायां कुम्भादिविपक्वं घृतमुभयानुलोमकं वमनविरेचनं पिबेत्| शार्ङ्गाष्टामूलं वा तक्रपिष्टं पिबेत्| जात्यादिमूलत्वक्चूर्णं वोष्णोदकेन वमनार्थं पिबेत्| बर्हिष्ठं ह्नीबेरम्| अस्येति गण्डमालावतः| शोधनेन सशेषदोषं गण्डमालिनं कुष्ठोक्तं नवकं हरिद्रादिकं पाययेत्| गूमूत्रेण वा तण्डुलोदकेन वा रसाञ्जनं पाययेत्| तदेवेति गोमूत्रेण तण्डुलोदकेन वा युक्तं रसाञ्जनं नावयेत्| मधूकसाराद्यन्यतम्मं वा नावयेत्| वैरेचनिकञ्च धूमं सूत्रोक्तम्| अपक्वश्चेत्यादि सुबोधम्| नाकुली सर्पगन्धा| गुञ्जादिभिर्विपक्वं तैलं तैरेव पुनः पचेत्| एवमेव पुनर्द्दशवारान् एवंपक्वेन लवणाद्युपेतेनाभ्यङ्गः सर्वावस्थानपच्यादीनपोहति| वल्मीकाख्यः क्षुद्ररोगः|| १८||
Adhikarana apacIcikitsA (19) · Śloka 19
और्वचलसैन्धवोद्भिददन्तीभल्लातकचित्रककल्केन सिद्धं तैलमभ्यङ्गोऽपच्याम्|
तण्डुलीयकस्वरसेन वा सनि र्गुण्डीरसं वा तैलं साधितमभ्यङ्गपाननावनैर्गण्डमाला नाडीव्रणकुष्ठानिलर्तिहरम्|
काकादनीनलिकाग्निजिह्वावन्ध्याकर्कोटकीविशा लापाठोत्तुण्डकीजीमूतकोशातकीबीजैरार्द्धपलंशैर्विषक र्षयुक्तैर्निर्गुण्डीस्वरसोपेतं करञ्जतैलप्रस्थं विपचेत्तत्पूर्व वदेव प्रयुक्तं परमपचीघ्नम्||१९||
सौवर्चलादिसिद्धं तैलमपच्यामभ्यङ्गः| तण्डुलीयकनिर्गुण्डीस्वरसाभ्यां प्रत्येकं तैलं साधितमभ्यङ्गादिभिर्गण्डमालादिहरम्| काकादन्यादिभिः पलांशिकैर्विषकर्षेण युक्तैर्निर्गुण्डीस्वरससमं तैलप्रस्थं विपचेत्तत्पूर्ववदभ्यङ्गादिषूपयुक्तं परमतिशयेनाऽपचीघ्नम्| बन्ध्याकर्कोटकी निष्फला| वनजा कारवल्ली|| १९||
Adhikarana amarmajeShu gaNDeShu shastrakarma (20) · Śloka 20
अमर्मजांश्च गण्डानपक्वानेवोद्धृत्याग्निना क्षारेण वा प्रसाधयेत्|
सर्षपवृक्षादनीक्वाथैर्व्रणक्षालनम्|
तिलकु न्तलक्षारपिष्टस्तिलकल्कः सुखोष्णो लेपः|
काककृ कलासगोधाहिनिर्मोककूर्माणामन्यतमस्यान्तर्धूमदग्धस्य मषीङ्गुदतैलप्लुताभ्यङ्गः|
मांसीसर्जरसकार्पासीफल सैन्धवैः स्तन्यपिष्टैस्तैलं विपक्वमभ्यङ्गो व्रणकाठिन्यघ्नः सर्पाजगरवसे तैलं च समं त्रयमेतदपचीघ्नम्|
श्ली पदोक्तानि च तैलानि प्रयोजयेत्|
एवमनुपशमे वामपार्श्वजायां दक्षिणजङ्घापृष्ठमध्यादिन्द्र वस्तेरध ऊर्ध्वं वा शस्त्रेणाक्षिमात्रं व्रणं कृत्वा मत्स्या ण्डजालनिभं मेदोपनीयाऽग्निना दहेत्|
अनेनेतरपार्श्वजा व्याख्याता|
एवमुभयपार्श्वजायामुभयतः|
यवमुद्गप्रायं च गण्डमालासु भोजनम्||२०||
तत्र चामर्मजान् गण्डान् मर्मेभ्योऽन्यत्र जातानुद्धृत्योत्पाट्याऽग्निक्षारान्यतरेण साधयेत्| प्रक्षालनेलेपौ सुबोधौ| काकादीनामन्यतमस्याऽन्तर्धूमदग्धस्य मषीङ्गुदतैलाप्लुताभ्यङ्गः| मांस्यादिभिस्तैलं सुबोधम्| सर्षपवसाऽजगरवसा तैलञ्चेत्येतत् त्रयमभ्यङ्गेनाऽपचीघ्नम्| सुबोधम्| एवमित्यनन्तरोक्तप्रकारेण गण्डमालाया अनुपशमे वामपार्श्वजायामपच्यां दक्षिणजङ्घायाः यत् पृष्ठमग्रभागं तस्य मध्येन्द्रवस्त्याख्यस्य जङ्घामध्यभवमर्मण ऊर्ध्वं वाऽधो वाऽक्षिमात्रं व्रणं कृत्वा ततो मत्स्याण्डजालनिभं मेदोपनीय व्रणमग्निना दहेत्| अनेन वामपार्श्वजङ्घाविधानेनेतरपाऱ्श्वजा दक्षिणपार्श्वजाऽपची व्याख्याता| तेनैतदुक्तं भवति-दक्षिणपार्श्वजायामपच्यां वामजङ्घायां दक्षिणप्रकारेण कर्म कार्यमिति| उभयपार्श्वजायां गण्डमालायां दक्षिणपार्श्वमाश्रितायां वामपार्श्वजङ्घायामपि वामपार्श्वमाश्रितायां दक्षिणपार्श्वजङ्घायामपि| यवमुद्गप्रायं यवमुद्गभूयिष्ठम् इत्यपची|| २०||
Adhikarana vAtajanADIcikitsA (21) · Śloka 21
नाडीमनिलजामुपनाह्य पूयगतिमस्या निश्शेषमेषित्वाऽ वदारयेच्छस्त्रेण|
ततस्तिलापामार्गफलकल्केन ससै न्धवेन पूरयित्वा बध्नीयात्||२१||
नाडीमनिलजामुपनाह्य बध्वा अर्थाद्वातहरद्रव्यैः| पूयगतिं पूयनाडीमोषिण्यान् वीक्ष्य| सुबोधम्|| २१||
Adhikarana pittajanADIcikitsA (22) · Śloka 22
पित्तजां सघृतक्षीरया पद्मकादिकृतयोत्कारिकयोऽपना हिताम्|
विदारिताञ्च तिलनागदन्तीमञ्जिष्ठाकल्केन पूर येत्|
श्यामात्रिभण्डीत्रिफलातिल्वकहरिद्राद्वयकल्क क्षीरसंस्कृतं सर्पिरभ्यङ्गः|
परं नाडीनिबर्हणम्||२२||
पित्तजाया नाड्याः पद्मकादिगणकृतया सघृतक्षीरयोत्कारिकयोऽपनाहः| ततः शस्त्रेण विदारणम्| ततस्तिलादिकल्केन पूरणम्| श्यामादिकल्कक्षीरसंस्कृतं सर्पिरभ्यङ्गः|| २२||
Adhikarana kaphajanADicikitsA (23) · Śloka 23
श्लेष्मजां सक्तुकुलत्थकिण्वसर्षपैरुपनाह्य विदार्य च निम्बतैलसैन्धवसौराष्ट्रीनिकुम्भैर्लेपयेत्|
दन्तीचित्रकस्व र्जिकासैन्धवतालीसनलदपूतिकापामार्गफलैस्तैलं समूत्रं पाचितमभ्यङ्गः||२३||
श्लेष्मजाया नाड्याः सक्त्वादिभिरुपनाहः विदारणञ्च| निम्बादिभिर्लेपः| दन्त्यादिभिः समूत्रं तैलं पाचितमभ्यङ्गः|| २३||
Adhikarana shalyajanADIcikitsA (24) · Śloka 24
शल्यहेतुकीं पाटयित्वा सर्वशः शल्यं विशोध्य मधुघृत तिलकल्कप्रतिच्छन्नां बध्नीयात्|
बिल्वकपित्थकुम्भी खर्जूरवनस्पतिशलाटुक्वाथे प्रियङ्गुमुस्तोरुपूगशकुनसु गन्धिकालोध्रमोचरसधातकीपुष्पगर्भां तैलं प्रसाधितं साधयत्याशु शल्यजां गतिम्||२४||
शल्यहेतुकीं नाडीं शस्त्रेण पाटयित्वा सर्वश इत्यादि सुबोधम्| बिल्वादिवनस्पतिशलाटुक्वाथे प्रियङ्ग्वादिगर्भं तैलं प्रसाधितं शल्यजां गतिमाशु साधयति|| २४||
Adhikarana ashastrakRutyArhanADIcikitsA (25) · Śloka 25
अशस्त्रकृत्यां नाड्यां भेदिन्यैषिण्याऽन्ते समुद्भिद्य क्षा राक्तं सूत्रं प्रवेशयेत्|
तदसन्निधाने त्वितरयैषिण्या च तेनावदीर्णायां तदनुस्यूतमन्यदन्यत् क्षारसूत्रं सञ्चारये दागतिभेदादमनपायेऽभ्युपायः|
सूक्ष्मानेकगतिषु भग न्दरेषु मूलेषु च छिद्रितेषु ग्रन्थ्यर्बुदेष्विति||२५||
या नाडी सूत्रोक्तप्रकारेण शस्त्रकृत्या न भवति तां भेदिन्या विशिष्टयैषिण्याऽन्ते समुद्भिद्येत्यादि सुबोधम्| तदसन्निधान इति भेदिन्येषण्यसन्निधाने| तेनेति क्षारसूत्रेण तदनुस्यूतमिति पूर्ववत् क्षारसूत्रवेष्टितं कृत्वा सूचीवत्सूत्रं सूत्रेण प्रवेशयेदयं क्षारसूत्रप्रयोगः अनपायः परिणामे निर्दोष उपायः| किं नाडीष्वेवायमनपायोऽभ्युपाय आहोस्विदन्यत्रापीत्याह| सूक्ष्माऽनेकगतिष्वित्यादिमूलेषु च छिद्रितेष्विति ग्रन्थ्यर्बुदविशेषणम्| छिद्रेणैव सूत्रप्रयोगः|| २५||
Adhikarana atideshena vraNacikitsA (26-35) · Śloka 35
भवति चात्र- व्रणेषु दुष्टसूक्ष्मास्यगम्भरादिषु साधनम्|
या वर्त्यो यानि तैलानि तन्नाडीष्वपि कल्पयेत्|
विभीतकाम्रास्थिवटप्रवालहरेणुकाशाल्मलिबीजयुक्ता|
वराहविष्ठा च मषी सुदग्धा तैलप्लुता सर्वगतीर्निहन्ति|
धत्तूरकं मदनकोद्रवजञ्च बीजं कोशातकी शुकनसा मृगभाजनी च|
अङ्कोलजञ्च कुसुमं परिकल्प्य चूर्णं लाक्षोदकापहृतदोषगतौ प्रयोज्यम्|
मिश्रितं तेन तैलञ्च परमं गतिरोपणम्|
सौवहेषु च कन्देषु कृतं वज्राह्वयेषु च|
भल्लातकार्कमरिचैर्लवणोत्तमेन सिद्धं विडङ्गरजनीद्वयचित्रकैश्च|
तैलं समार्कवरसैर्विनिहन्ति कृच्छ्रां नाडीं कफानिलकृतामपचीव्रणांश्च||२६||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्ग संग्रहसंहितायामुत्तरतन्त्रे ग्रन्थ्यर्बुदश्लीपदापची नाडीप्रतिषेधो नाम पञ्चत्रिंशोऽध्यायः||३५||
पूर्वं व्रणेषु दुष्टेषु सूक्ष्मास्येषु गम्भीरादिषु या वर्त्यो यानि च तैलानि तत्साधनं चिकित्सितं नाडीष्वपि कल्पयेत्| विभीतकादिमष्यास्तैलप्लुतायास्सर्वगतिप्रयोगः| धत्तूरादिकं चूर्णं परिकल्प्य मदनकोद्रवौ शालिविशेषौ मृगभोजनी मृगादिनी, तेन च धत्तूरादिचूर्णेन युक्तं तैलं परमं गतिरोपणम्| भल्लातकादिभिस्सभृङ्गरसैस्सिद्धं तैलं सुकृच्छ्रानपि नाड्यादीन् विनिहन्ति|| २६|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रह- व्याख्यायां शशिलेखायामुत्तरतन्त्रे पञ्चत्रिंशोऽध्यायः