Adhikarana atha granthyarbudashlIpadA~apacInADIpratiShedho nAma pa~jcatriMsho~adhyAyaH | pratij~jA (1) · Śloka 1
अथातो ग्रन्थ्यादिप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana atha granthyarbudashlIpadA~apacInADIpratiShedho nAma pa~jcatriMsho~adhyAyaH | pratij~jA (1) · Śloka 1
अथातो ग्रन्थ्यादिप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana granthiShu sAmAnyacikitsA (2) · Śloka 2
सर्वेष्वेव पूर्वं ग्रन्थिषु बृहतीद्वयपिप्पलीचित्रकसाधितेन पुराणसर्पिषा स्निग्धं वामयेद्विरेचयेच्च| कृतसंसर्जनस्य चोत्तमाङ्गगतेषु ग्रन्थिषु लाक्षाद्विरजनीविडङ्गशुण्ठीपूती दारुभिः शिरो विरचयेत्| धूमकवलगण्डूषांश्च संसेवेत| अङ्कोलमधुकमातुलुङ्गहिंस्रापूतीदारुबिल्वमूलसरलकुष्ठवचावरुणत्वक्कालातिविषाजगन्धार्भिर्लेपः| श्यामा सुरदारुसमङ्गाकोशातकोपुनर्नवसर्षपैर्Vवा| सशोफरुक्स्तम्भे चोपनाहो यवसक्तुमधुककुष्ठशत पुष्पादेवदारुभिर्घृतयुक्तैः| गोजाऽविखरोष्ट्राश्वहस्तिमू षिकमांसैर्वा वेशवारीकृतैर्वसातैलवद्भिः| पलाशवृन्ताग्निमन्थत्वक्कल्केन मांसपिण्डैर्वा| बहुशः स्विन्नमङ्गुष्ठेन वेणुपर्वणा वा शतैश्शनैः पुनः पुनर्विम र्द्दयेत्| यथायथञ्च शोफवत् क्रियां प्रयुञ्जीत||२||
🔊 Audio coming soon
Adhikarana vAtajagranthicikitsA (3) · Śloka 3
अथ वातजे ग्रन्थौ दशमूलसिद्धं महास्नेहं पिबेत्| अमृता निम्बबीजभार्ङ्गीस्योनाकबाणतालपत्रीकृष्णगन्धागरुभिः क्षीरपिष्टैस्सुखोष्णैर्लेपः| विविधाश्च वातव्याधिविहिताः स्नेहस्वेदोपनाहाः| तथानुपशमे सिराव्यधः| पक्वं तु विदार्य निरस्तपूयं कृत्वाऽर्कादिवर्गाम्भसा प्रक्षा ल्य तिलकल्केन सचित्रकसैन्धवेनालेपयेत्| तैलञ्च रोपणं रास्नासरलोशीरविडङ्गमधुकक्षीरसंस्कृतं कुर्यात्||३||
🔊 Audio coming soon
Adhikarana pittajagranthicikitsA raktajA ca (4) · Śloka 4
पित्तजे रक्तजे च जलौकसो न्यग्रोधादिः प्रदेहपरिषे कयोः पद्मकादिः पाने च द्राक्षेक्षुरसयुक्ता हरीतकीविरेकः| पक्वे पाटिते च पित्तव्रणोक्तो विधिः||४||
🔊 Audio coming soon
Adhikarana kaphajagranthicikitsA (5) · Śloka 5
कफजमन्तःशुद्धस्य भृशं स्वेदयेद्विम्लापयेच्च काका दनीविकङ्कतकाकनन्दिकारग्वधेङ्गुदमूलमदनफलभार्ङ्गी करञ्जैर्लेपयेत्| नागरविडङ्गैलवालुकचव्यपलाशवृन्त चित्रकैर्वा| भल्लातकसैन्धवाजगन्धासर्षर्पैर्वा| एवमप्यपच्यमानममर्मस्थं विदार्य स्थितरक्तं निश्शेष मग्निना दहेत्| सशेषो हि पुनरापूर्यते| ततो निर्वापितं क्षारक्षौद्रगुडोत्तरैरालेपैस्संशुद्धं रोपयेत्||५||
🔊 Audio coming soon
Adhikarana mAMsavraNamedogranthInAM cikitsA (6) · Śloka 6
मांसव्रणग्रन्थी चैवमेव यापयेत्| मेदोजेऽप्ययमेव विधिः| अपि च मेदोग्रन्थिं तिलकल्कदिग्धं द्विगुणपटान्तरितं तप्तेन फालेन दर्व्या वा जतुलिप्तया बहुशः प्रमृज्यात्| शस्त्रं चावचार्य पूर्ववन्मेदो दहेत्| सुपक्वं वा विपाट्य मूत्रप्रक्षालितं क्षौद्रसैन्धवसुवर्चिकाकाञ्चनक्षीरीहरिताल मिश्रैः क्षीरबकप्रगाढैस्तिलैरालेपयेत्| गुञ्जाद्विकरञ्जतापसवृक्षवंशावलेखमूत्रसिद्धं तैलमभ्यङ्गः| सम्यकशुद्धं चैनं रोपयेत्||६||
🔊 Audio coming soon
Adhikarana sirAgranthicikitsA (7) · Śloka 7
सिराग्रन्थौ त्वभिनवे तैले साहचरं पिबेत् उपनाहञ्च वात हरैर्बस्तिकर्म च कुर्यात्| सिराव्यधञ्च||७||
🔊 Audio coming soon
Adhikarana vAtArbudacikitsA (8) · Śloka 8
वातार्बुदमैरण्डप्रियालनालिकेरमज्जोर्वारुकर्कारुबी जोत्कारिकयोपनाहयेत्| आनूपामिषवेशवारैर्वा| नाडी स्वेदञ्च कुर्यात् बहुशश्चात्र शृङ्गेण रुधिरमवसेचयेत्| वातहरवर्गक्वाथपयोऽम्लसिद्धं त्रिवृतं पिबेत्||८||
🔊 Audio coming soon
Adhikarana pittArbudacikitsA (9) · Śloka 9
पित्तोत्थे मृदून् स्वेदोपनाहान् कायविरेचनञ्च प्रयोजयेत्| शाककाकोदुम्बरिकापत्रघृष्टे च प्रियङ्गुपत्तङ्गङ्गसर्जरसा र्जुनलोध्रमधुकैर्लेपः| श्यामागिरिकर्णिकाञ्जनक्लीतन कनखद्राक्षासप्तलान्यतमरससाधितं सर्पिः पीतं पित्ता र्बुदश्लीपदोदरघ्नम्||९||
🔊 Audio coming soon
Adhikarana shleShmArbudacikitsA (10) · Śloka 10
श्लेष्मजे तूर्ध्वमधश्च हृतदोषस्य स्रुतरक्तस्य च वमन विरेचनद्रव्यैः प्रलेपः| काकादनीशुकबर्हिग्निजिह्वामूल दक्षकपोतगृध्रपुरीषकाशमूलैर्वा पलाशक्षीरपिष्टैः| पिण्या ककुलत्थनिष्पावैर्वा मांसप्रगाढैर्दधिपिष्टैर्लेपयेत्| लेपा स्वादलोभेन च निलीयमानाः मक्षिकाः समुपेक्षेत| तद्विमुक्तैः कृमिभिरितरैर्वा भक्ष्यमाणञ्च| ततः कृमिभक्षि तावशेषं शाकादिपत्रैर्विलिख्याऽग्निना प्रतिसारयेत्| अल्पमूलं वा त्रपुताम्रायः सीसपट्टकवेष्टितम्| पुनः पुनश्च क्षारान् कालापेक्षया योजयेत्| जात्यास्फोतकरवीरपल्लवांश्च व्रणशोधनाय कल्कादौ| तैलञ्चात्र पाठावि डङ्गभार्ङ्गीत्रिफलाकषायसिद्धमभ्यञ्जनम्||१०||
🔊 Audio coming soon
Adhikarana medo~arbudacikitsA (11) · Śloka 11
मेदोऽर्बुदं स्विन्नभिन्नं सुशोधितमेदस्कमुपशान्तरक्त स्रावं सद्यस्सीव्येत्| ततो गृहधूमलोध्रमनः शिलाहरि द्रापत्तङ्गचूर्णैर्मधुमद्भिः प्रतिसारयेत्| करञ्जतैलञ्चाभ्यञ्चनार्थे नियुञ्जीत| सर्वार्बुदानि च यदृच्छया पर्यागतानि सुपरिशोधितानि रोपयेत्| अपि च सशोषदोषाणि तु योऽर्बुदानि करोति तस्याशु पुनर्भवन्ति| तस्मादशेषोद्धरणं प्रशस्तं क्षारेण शस्त्रेण तथाग्निना वा||११||
🔊 Audio coming soon
Adhikarana vAtajashlIpadacikitsA (12) · Śloka 12
श्लीपदे तु वातात्मके स्नेहस्वेदोपनाहान् प्रयुज्यगुल्फस्योपरिष्ट्यङ्गुले सिरां विध्येत्| एरण्डतैलञ्च गोमूत्रेण मासं पिबेत्| जीर्णे नागरक्वथितेन पयसा पुराणधा न्यान्यश्नीयात्| त्रिवृतञ्च पाययेत्| बस्तिञ्च प्रयुञ्जीत| एवमप्यशाम्यत्यग्निना दहेत्||१२||
🔊 Audio coming soon
Adhikarana paittikashlIpadacikitsA (13) · Śloka 13
पैत्तिके मृदुरुपनाहो गुल्फस्याधःसिरामोक्षः पित्तार्बुदो क्ताः स्नेहविरेकाः पित्तघ्नाश्च लेपाः||१३||
🔊 Audio coming soon
Adhikarana shlaiShmikashlIpadacikitsA (14) · Śloka 14
श्लैष्मिके त्वङ्गुष्ठे सिरां मुञ्चेत्| सक्षौद्रांश्च कफघ्नान् कषायानभीक्ष्णं पाययेत्| यथाबलं वा हरीतकी वर्द्ध मानाः||१४||
🔊 Audio coming soon
Adhikarana shlIpadAdiShu AhAryakShAraprayogaH (15) · Śloka 15
आदारीकाकजङ्गाकाकादनीशुकनासाकदम्बपुष्पबृहती द्वयमन्तर्धूमं दग्ध्वा गोमूत्रेण बहुशः परिस्रावयेत्| तत स्तत् क्षारोदकं क्षारकल्पेन विपचेत्| दद्याच्चात्र प्रती वापं फल्गुशुकाख्या मदनफलरसम्| एष क्षारो मधुरा हारेणाभ्यस्तः श्लीपदापचीग्रहणीदोषारोचकान् सर्व विषाणि च नियच्छति||१५||
🔊 Audio coming soon
Adhikarana viDa~ggAditailapAnam (16) · Śloka 16
तैलं वा पिबेद्विडङ्गार्कमरिचचित्रकशुण्ठीदेवदार्वैलवालु कलवणपञ्चकैस्सिद्धम्||१६||
🔊 Audio coming soon
Adhikarana nAgarAdyAlepanAni (17) · Śloka 17
ओलेपयेच्च नागरामृताविडङ्गकटुकाभद्रदारुभिर्मूत्रपिष्टैः ऊरुस्तम्भोक्तैश्च भेषजैर्यवान्नञ्च शीलयेत्||१७||
🔊 Audio coming soon
Adhikarana gaNDamAlAcikitsA (18) · Śloka 18
गण्डमालायां कुम्भनिकुम्भद्रवन्तीजीमूतकोशातकी फलविपक्वं घृतमुभयानुलोमनं पिबेत्| शार्ङ्गष्टामूलं वा तक्रपिष्टम्| वमनार्थं सुखोदकेन वा जातीर्बहिष्ठ निर्गुण्डीजीमूतकोत्तुण्डकीमूलत्वक्चूर्णम्| सिरा चास्य विध्येत्| सशेषदोषं तु कौष्ठिकं नवकं पाययेत्| रसाञ्जनं गोमूत्र तण्डुलोदकान्यतरेण| तदेव च नावयेत्| मधुकसारं वा शिग्रुफलानि वा निम्बकरञ्जकरवीरसिद्धं वा तैलं वैरेचनिकञ्च धूमं पिबेत्| अपक्वांश्च गण्डान्नाकुलीसैन्धवनागरैर्लेपयेत्| गुञ्जाक रवीरार्कश्यामासिद्धार्थकैरजामूत्रयुक्तैर्द्दशकृत्वो विपक्वं तैलं लवणपञ्चकपिप्पलीमरिचचूर्णोपेतमभ्यङ्गात्सर्वाव स्थानपच्यर्शोऽर्बुदनाडीदुष्टव्रणवल्मीकानपोहति||१८||
🔊 Audio coming soon
Adhikarana apacIcikitsA (19) · Śloka 19
और्वचलसैन्धवोद्भिददन्तीभल्लातकचित्रककल्केन सिद्धं तैलमभ्यङ्गोऽपच्याम्| तण्डुलीयकस्वरसेन वा सनि र्गुण्डीरसं वा तैलं साधितमभ्यङ्गपाननावनैर्गण्डमाला नाडीव्रणकुष्ठानिलर्तिहरम्| काकादनीनलिकाग्निजिह्वावन्ध्याकर्कोटकीविशा लापाठोत्तुण्डकीजीमूतकोशातकीबीजैरार्द्धपलंशैर्विषक र्षयुक्तैर्निर्गुण्डीस्वरसोपेतं करञ्जतैलप्रस्थं विपचेत्तत्पूर्व वदेव प्रयुक्तं परमपचीघ्नम्||१९||
🔊 Audio coming soon
Adhikarana amarmajeShu gaNDeShu shastrakarma (20) · Śloka 20
अमर्मजांश्च गण्डानपक्वानेवोद्धृत्याग्निना क्षारेण वा प्रसाधयेत्| सर्षपवृक्षादनीक्वाथैर्व्रणक्षालनम्| तिलकु न्तलक्षारपिष्टस्तिलकल्कः सुखोष्णो लेपः| काककृ कलासगोधाहिनिर्मोककूर्माणामन्यतमस्यान्तर्धूमदग्धस्य मषीङ्गुदतैलप्लुताभ्यङ्गः| मांसीसर्जरसकार्पासीफल सैन्धवैः स्तन्यपिष्टैस्तैलं विपक्वमभ्यङ्गो व्रणकाठिन्यघ्नः सर्पाजगरवसे तैलं च समं त्रयमेतदपचीघ्नम्| श्ली पदोक्तानि च तैलानि प्रयोजयेत्| एवमनुपशमे वामपार्श्वजायां दक्षिणजङ्घापृष्ठमध्यादिन्द्र वस्तेरध ऊर्ध्वं वा शस्त्रेणाक्षिमात्रं व्रणं कृत्वा मत्स्या ण्डजालनिभं मेदोपनीयाऽग्निना दहेत्| अनेनेतरपार्श्वजा व्याख्याता| एवमुभयपार्श्वजायामुभयतः| यवमुद्गप्रायं च गण्डमालासु भोजनम्||२०||
🔊 Audio coming soon
Adhikarana vAtajanADIcikitsA (21) · Śloka 21
नाडीमनिलजामुपनाह्य पूयगतिमस्या निश्शेषमेषित्वाऽ वदारयेच्छस्त्रेण| ततस्तिलापामार्गफलकल्केन ससै न्धवेन पूरयित्वा बध्नीयात्||२१||
🔊 Audio coming soon
Adhikarana pittajanADIcikitsA (22) · Śloka 22
पित्तजां सघृतक्षीरया पद्मकादिकृतयोत्कारिकयोऽपना हिताम्| विदारिताञ्च तिलनागदन्तीमञ्जिष्ठाकल्केन पूर येत्| श्यामात्रिभण्डीत्रिफलातिल्वकहरिद्राद्वयकल्क क्षीरसंस्कृतं सर्पिरभ्यङ्गः| परं नाडीनिबर्हणम्||२२||
🔊 Audio coming soon
Adhikarana kaphajanADicikitsA (23) · Śloka 23
श्लेष्मजां सक्तुकुलत्थकिण्वसर्षपैरुपनाह्य विदार्य च निम्बतैलसैन्धवसौराष्ट्रीनिकुम्भैर्लेपयेत्| दन्तीचित्रकस्व र्जिकासैन्धवतालीसनलदपूतिकापामार्गफलैस्तैलं समूत्रं पाचितमभ्यङ्गः||२३||
🔊 Audio coming soon
Adhikarana shalyajanADIcikitsA (24) · Śloka 24
शल्यहेतुकीं पाटयित्वा सर्वशः शल्यं विशोध्य मधुघृत तिलकल्कप्रतिच्छन्नां बध्नीयात्| बिल्वकपित्थकुम्भी खर्जूरवनस्पतिशलाटुक्वाथे प्रियङ्गुमुस्तोरुपूगशकुनसु गन्धिकालोध्रमोचरसधातकीपुष्पगर्भां तैलं प्रसाधितं साधयत्याशु शल्यजां गतिम्||२४||
🔊 Audio coming soon
Adhikarana ashastrakRutyArhanADIcikitsA (25) · Śloka 25
अशस्त्रकृत्यां नाड्यां भेदिन्यैषिण्याऽन्ते समुद्भिद्य क्षा राक्तं सूत्रं प्रवेशयेत्| तदसन्निधाने त्वितरयैषिण्या च तेनावदीर्णायां तदनुस्यूतमन्यदन्यत् क्षारसूत्रं सञ्चारये दागतिभेदादमनपायेऽभ्युपायः| सूक्ष्मानेकगतिषु भग न्दरेषु मूलेषु च छिद्रितेषु ग्रन्थ्यर्बुदेष्विति||२५||
🔊 Audio coming soon
Adhikarana atideshena vraNacikitsA (26-35) · Śloka 35
भवति चात्र- व्रणेषु दुष्टसूक्ष्मास्यगम्भरादिषु साधनम्| या वर्त्यो यानि तैलानि तन्नाडीष्वपि कल्पयेत्| विभीतकाम्रास्थिवटप्रवालहरेणुकाशाल्मलिबीजयुक्ता| वराहविष्ठा च मषी सुदग्धा तैलप्लुता सर्वगतीर्निहन्ति| धत्तूरकं मदनकोद्रवजञ्च बीजं कोशातकी शुकनसा मृगभाजनी च| अङ्कोलजञ्च कुसुमं परिकल्प्य चूर्णं लाक्षोदकापहृतदोषगतौ प्रयोज्यम्| मिश्रितं तेन तैलञ्च परमं गतिरोपणम्| सौवहेषु च कन्देषु कृतं वज्राह्वयेषु च| भल्लातकार्कमरिचैर्लवणोत्तमेन सिद्धं विडङ्गरजनीद्वयचित्रकैश्च| तैलं समार्कवरसैर्विनिहन्ति कृच्छ्रां नाडीं कफानिलकृतामपचीव्रणांश्च||२६|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्ग संग्रहसंहितायामुत्तरतन्त्रे ग्रन्थ्यर्बुदश्लीपदापची नाडीप्रतिषेधो नाम पञ्चत्रिंशोऽध्यायः||३५||
🔊 Audio coming soon