Adhikarana atha guhyarogapratiShedho nAmaikonacatvAriMsho~adhyAyaH, pratij~jA (1) · Śloka 1
अथातो गुह्यरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana atha guhyarogapratiShedho nAmaikonacatvAriMsho~adhyAyaH, pratij~jA (1) · Śloka 1
अथातो गुह्यरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana apadaMshAnAM cikitsAkramaH (2) · Śloka 2
अपदंशेषूत्पन्नमात्रेषु पाकपरिहारार्थं मेढ्रमध्ये सिरां विध्येत्| उभयतश्चास्य विधिवद्दोषानपहरेद्विशेषतो विरेचनेन| तद योग्यस्य त्वत्युच्छ्रितानास्थापनेन| यथादोषं चालेपसेकादीनविरतं विदध्यात्| एवं सद्य एव रुक्तोदशोफरागसंरम्भा निवर्तन्ते| पक्वेषु तु शस्त्रमवचारयेत्| सघृतक्षौद्रशर्करेण तिल कल्केनालेपयेत्||२||
🔊 Audio coming soon
Adhikarana apadaMsheShu sAmAnyacikitsA (3) · Śloka 3
जम्ब्वाम्रसुमनोनीपश्वेतकाम्बोजिकाङ्कुरान्| सल्लकीबदीबिल्वपलाशतिनिशोद्भवाः| त्वचः क्षीरिद्रुमाणाञ्च त्रिफलां च पचेज्जले| स क्वाथः क्षालनं तेन पक्वं तैलञ्च रोपणम्| गोजीविडङ्गमधुकसर्वगन्धैश्च पेषितैः| तुत्थगैरिकलोध्रैलामनोह्वालरसाञ्जनैः| हरेणुपुष्पकासीससौराष्ट्रीलवणोत्तमैः| लेपः क्षौद्रद्रुतैः सूक्ष्मैरपदंशव्रणापहः| दार्वीत्वक्शङ्खतार्क्ष्योत्थलाक्षागोक्षीरविड्रसः| सक्षौद्रतैलसर्पिर्भिर्लेपः श्रेष्ठो व्रणेऽथवा| लाक्षाद्राक्षातसीक्षौद्रः क्षौद्रशैलेयतार्क्ष्यजैः| कपाले त्रिफलाऽदग्धा सघृता रोपणी परम्| सामान्यं साधनमिदं...........................||३||
🔊 Audio coming soon
Adhikarana vAtikApadaMshaicikitsA (4) · Śloka 4
............................वातिकं तु प्रलेपयेत्| अपक्वं कुष्ठयष्ट्याह्वसुरदारुपुनर्नवैः| स्निग्धोष्णैर्लोहसरलरास्नापुण्ड्राह्वसंयुतैः| अथवा निचुलैरण्डबीजगोधूमचिक्कसैः||४||
🔊 Audio coming soon
Adhikarana paittikApadaMshacikitsA (5) · Śloka 5
गैरिकाञ्जनमञ्जिष्ठामधुकोशीरपद्मकैः| सचन्दनोत्पलैः शीतैर्घृताढ्यैः पित्तसम्भवम्| पद्मोत्पलमृणालैर्वा ससर्जार्जुनवेतसैः| सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः||५||
🔊 Audio coming soon
Adhikarana shlaiShmikApadaMshacikitsA (6) · Śloka 6
धवसालाश्वकर्णाजकर्णत्वग्भिः कफोत्थितम्| सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत्| रजन्यतिविषामुस्तसरलामरदारुभिः| सपत्रपाठापत्तूरैरथवा श्लेष्मसम्भवम्||६||
🔊 Audio coming soon
Adhikarana pAkaprAptipariharaNam (7) · Śloka 7
न च याति यथा पाकं प्रयतेत तथा भृशम्| पक्वैः स्नायुसिरामांसैः प्रायो नश्यति हि ध्वजः||७||
🔊 Audio coming soon
Adhikarana avashiShTApadaMshayoshcikitsA (8) · Śloka 8
अपदंशद्वये शिष्टे प्रत्याख्यायाचरेत् क्रियाम्||८||
🔊 Audio coming soon
Adhikarana arshasAM cikitsA (9) · Śloka 9
अर्शांसि यथायोगं शुद्धदेहस्य शस्त्रक्षाराग्निभिः साध येत्| उपदंशोक्ता चात्र रसक्रिया लेपः||९||
🔊 Audio coming soon
Adhikarana sarShapikAcikitsA (10) · Śloka 10
सर्षपिकां विलिख्य कषायैरवचूर्णयेत्| तैरेव च तैलं व्रणरोपणं कुर्यात्||१०||
🔊 Audio coming soon
Adhikarana avamanthacikitsA (11) · Śloka 11
अवमन्थे जलौकसो योजयेत्| पक्वभिन्नं धवतिन्दुक सल्लकीपत्तङ्गसर्जकृतेन तैलेन रोपयेत्||११||
🔊 Audio coming soon
Adhikarana kumbhIkAcikitsA (12) · Śloka 12
तद्वत् कुम्भीकामुपचरेत्| लोध्रतिन्दुकत्रिफलाकृतस्तु लेपस्तैलं च रोपणम्||१२||
🔊 Audio coming soon
Adhikarana alajIcikitsA (13) · Śloka 13
अलजीं स्रुतरक्तां कषायैरवचूर्णयेत्| तेष्वेव च तैलं व्रणरोपणार्थं कुर्वीत||१३||
🔊 Audio coming soon
Adhikarana uttamAcikitsA (14) · Śloka 14
उत्तमां पिटकां शस्त्रेण च्छित्वा कषायचूर्णप्रदेहैर्मधु मद्भिरुपाचरेत्||१४||
🔊 Audio coming soon
Adhikarana puShkarikAdInAM cikitsA (15) · Śloka 15
पुष्करिकासंव्यूढास्पर्शहानित्वक्पाकेषु पित्तविसर्पोक्तो विधिः||१५||
🔊 Audio coming soon
Adhikarana mRuditacikitsA (16) · Śloka 16
मृदितं कोष्णेन बलातैलेन परिषेचयेत्| मधुरद्रव्यकल्कै श्च सुखोष्णैर्घृतस्निग्धैरुपनाहयेत्||१६||
🔊 Audio coming soon
Adhikarana aShThIlikAcikitsA (17) · Śloka 17
अष्ठीलिकां जलौकोभिर्ग्रहयेत्| तथाऽनुपशमे श्लेष्म ग्रन्थिमिव शस्त्रेणोद्धरेत्||१७||
🔊 Audio coming soon
Adhikarana nivRuttacikitsA (18) · Śloka 18
निवृत्तं सर्पिषाभ्यज्य स्वेदयेत्| स्विन्नमुपनाहयेत्त्रिरात्रं पञ्चरात्रं वा साल्वलेन| ततो भूयः स्वेदयित्वा घृतेना भ्यज्य शनैः शनैश्चर्म समानयन् मणिमवपीडयेत्| पीड यित्वा च पुनरुपनाहयेत्| स्निग्धोष्णं चान्नपानम्||१८||
🔊 Audio coming soon
Adhikarana avapATikAcikitsA (19) · Śloka 19
अवपाटिकायामप्ययं विधिः||१९||
🔊 Audio coming soon
Adhikarana niruddhamaNicikitsA (20) · Śloka 20
निरुद्धमणौ सुवर्णादिकृतां दारुजां वा जतुसृतां नाडी मुभयतोद्वारं स्नेहाभ्यक्तां स्रोतसि प्रणिधाय सूकरशिं शुमारयोर्वसया मज्ज्ञा वा परिषेचयेत्| चक्रतैलेन वा| वातहरसिद्धेन वा त्रिवृतेन| तृतीये तृतीये चाहनि नाडीं पीनतरां विदध्यात्| एवमस्य स्रोतोद्वारं विवर्धयेत् स्निग्धं चाहारं भोजयेत्| एवमनुपशान्तौ शस्त्रेण सेवनीं परिहृत्य दारयित्वा सद्यः क्षतवदुपाचरेत्||२०||
🔊 Audio coming soon
Adhikarana grathitAdInAM cikitsA (21) · Śloka 21
ग्रथितं नाडीस्वेदेन स्वेदयित्वा स्निग्धोष्णैरुपनाहयेत्| शतपोनकं लिखित्वा कषायर्चूर्णैः सक्षौर्द्रैर्लेपयेत्| विदार्यादिसिद्धेन च तैलेन रोपयेत्| शर्करार्बुदे रक्त विद्रधिवत् साधनम्||२१||
🔊 Audio coming soon
Adhikarana sarvaiShvantaHshuddhicikitsA (22) · Śloka 22
सर्वेषु च यथास्वमन्तः शुद्धिं कषायलेपघृततैलरसक्रिया चूर्णशोधनरोपणान् विदध्यात्||२२||
🔊 Audio coming soon
Adhikarana vAtikIyonivyApaccikitsA (23) · Śloka 23
योनिव्यापदि तु वातिक्यां लवणतैलाक्तां योनिं पिण्ड नाडीकुम्भीप्रभृतिभिः स्वेदयेत्| ततः सुखोष्णाम्बुपरिषि क्तसर्वगात्रां जाङ्गलरसैर्भोजयेत्| बलाद्रोणद्वयनिर्यूहे पयस्यासालपर्णीमागधिकशता वरीकाकनासाश्रावणीशर्कराजीवनीयगर्भं क्षीरचतुर्गुणं घृततैलाढकं साधयेत् तत्पानात् सर्वान् वातपित्तविका रानपोहति गर्भजननं च| शतावरीत्रिफलागुडूचीकाश्मर्यमृद्वीकाकासमर्दकपरूष कहरिद्राद्वयसहचरशुकनासापुनर्नवैः कार्षिकैर्घृतप्रस्थः सिद्धः पीतो वातजान् योनिरोगानपोहति गर्भजननश्च| सैन्धववचोपकुञ्चिकापिप्पलीवृषकयवक्षाराजमोदाजाजी सितोपलाचित्रकचूर्णो मदिरालुलितः सर्पिषा संयावीकृत्य भक्षितो योनिपार्श्ववस्तिवेदनार्शोगुल्महृद्रोगहरः| शूले वृषकरास्नागोक्षुरक शृतं पयः पिबेत्| वृषक मातुलुङ्गमूलमदयन्तिकासैन्धवपिप्पलीकृष्णजीरककल्कं वा मद्येन| तेनैव चार्जकमूलं बिल्वयुक्तं वा पिप्पली युक्तं वा| सौवर्चलोपकुञ्चिका पिप्पलीर्वा मद्येनावन्ति सोमेन वा| दन्तीत्रिफलागुडूचीक्वाथः सुखोष्णो योनेः परिषेकः| कुष्ठतगरदेवदारुवार्ताकिनीसैन्धवैः साधितं तैलं पिचुना धारयेत्| रास्नामालतीच्छिन्नरुहामधुकबलाव्याघ्रीदेवदारुचित्रकयू थिकामूलैः कर्षांशैस्तैलप्रस्थः समूत्रो द्विगुणपयसा विप क्वः पिचुना प्रणीतोऽनिलार्तिहरः| बस्तिकर्म चाभीक्ष्णं स्वेदं च प्रयोजयेद्विशेषतो वातहरैः सुकुमारबलातैलशिरीषतैलैः शतपाकसहस्रपाकैश्चा नुवासनमुत्तरवस्तिञ्च| एष क्रमो विशेषेण योनिर्वेदना कार्कश्यस्तम्भस्रंसस्पर्शहानिघ्नश्च||२३||
🔊 Audio coming soon
Adhikarana aticaraNAdInAM cikitsAkramaH (24) · Śloka 24
अतिचरणादिषु सर्वास्वनिलजास्वयमेव क्रमः||२४||
🔊 Audio coming soon
Adhikarana aticaraNAyAM visheShaH (25) · Śloka 25
धारयेच्चातिचरणायां यवगोधूमकिण्वकुष्ठशतपुष्पा श्रयाह्वप्रियङ्गुबलाखुकर्णीकल्ककृतामुत्कारिकाम्||२५||
🔊 Audio coming soon
Adhikarana prAkcaraNAdiShu punaH kramavisheShaH (26) · Śloka 26
प्राक्चरणाशुष्काविप्लुताकर्णिनीषु तैलमुत्तरबस्तिं दद्यात्||२६||
🔊 Audio coming soon
Adhikarana viplutAyAM visheShaH (27) · Śloka 27
धारयेच्च विप्लुतायां गोमत्स्यान्यतरपित्तेनैकविंशति कृत्वो भावितान् क्षौमनक्तकान् किण्वं वा माक्षिक युक्तमेवमस्याः स्रोतांसि विशुद्ध्यन्ति कण्डूक्लेदशो फाश्च निवर्तन्ते||२७||
🔊 Audio coming soon
Adhikarana karNinyAM visheShaH (28) · Śloka 28
कर्णिन्यां तु कुष्ठार्कपल्लवपिप्पलीसैन्धवैर्बस्तमूत्र पिष्टैर्वर्त्ति कृत्वा धारयेत्| श्लेष्महरञ्च सर्वं कुर्यात्||२८||
🔊 Audio coming soon
Adhikarana udAvRuttAyAM visheShaH (29) · Śloka 29
उदावृत्तायामानूपमांसरसाः क्षीरं स्वेदो दशमूलत्रिवृता क्वाथकल्कसिद्धश्च स्नेहः पानानुवासनोत्तरबस्तिषु| योनिस्रंसे च महायोनिप्रभृतिष्वेष एवं विधिः||२९||
🔊 Audio coming soon
Adhikarana jAtAghnyAdInAM cikitsA (30) · Śloka 30
जातघ्नीरक्तयोनिरक्तक्षयासु कुटजकाऱ्श्मर्यक्वाथ सिद्धं सर्पिरुत्तरबस्तौ दद्यात्| अथवा मृगाजाविवरा हरुधिराम्लदधिमधुघृतानीति||३०||
🔊 Audio coming soon
Adhikarana doShAnusAraM kramavisheShaH (31) · Śloka 31
भवति चात्र- स्नेहेन वेदबस्त्यादि वातलास्वनिलापहम्| कारयेद्रक्तपित्तघ्नं शीतं पित्तकृतासु च| श्लेष्मलासु च रूक्षोष्णं कर्म कुर्याद्यथायथम्| सन्निपाते विमिश्रं तु संसृष्टासु च कारयेत्||३१||
🔊 Audio coming soon
Adhikarana sthApanApavRuttAyAH karma (32) · Śloka 32
स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत्समाम्| पाणिना नमयेत् जिह्यां संवृतां प्रथयेत् पुनः| प्रवेशयेन्निस्सृतां च विवृतां परिवर्तयेत्| स्थापनापवृता योनिर्हि शल्यभूता स्रियामता||३२||
🔊 Audio coming soon
Adhikarana pa~jcakarmabhiH shodhanam (33) · Śloka 33
सर्वां व्यापन्नयोनिं च कर्मभिर्वमनादिभिः| मृदुभिः पञ्चभिर्नारीं स्निग्धस्विन्नामुपाचरेत्||३३||
🔊 Audio coming soon
Adhikarana sthAnApavRuttAyAH karma (34) · Śloka 34
सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते| बस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम्||३४||
🔊 Audio coming soon
Adhikarana doShAdyavasthAnusAraM yogavisheShAH (35) · Śloka 35
हिंस्राकल्कं समीरार्त्तौ कोष्णमभ्यज्य धारयेत्| पञ्चवल्कस्य पित्तार्त्त्तौ श्यामादीनां कफातुरा| वमिन्याप्लुतयोश्चैव स्वेदयित्वा प्रयोजयेत्| तर्पणं स्नेहपिचुभिर्भोजनं चानिलापहम्| सल्लकीजिङ्गिणीजम्बुधवत्वक्पञ्चवल्कलैः| कषायैः साधितात्स्नेहात्पर्युपप्लुतयोः पिचुम्| कुलीरसूकरवसा सर्पिर्भिर्मधुरैः शृतैः| पूरयित्वा महायोनिं बध्नीयात् क्षौमनक्तकः| प्रस्रस्तां सर्पिषाभ्यज्य क्षीरस्विन्नां प्रवेशयेत्| बध्नीयाद्वेशवारस्य पिण्डेनामूत्रकालतः||३५||
🔊 Audio coming soon
Adhikarana vAtavyAdhyuktaM karma (36) · Śloka 36
यच्च वातविकाराणां कर्मोक्तं तच्च कारयेत्| सर्वव्यापत्सु मतिमान् महायोन्यां विशेषतः| न हि वातादृते योनिर्वनितानां प्रदुष्यति| अतो जित्वा तमन्यस्य कुर्याद्दोषस्य भेषजम्||३६||
🔊 Audio coming soon
Adhikarana paittike yogavisheShAH (37) · Śloka 37
पित्तलानां तु योनिनां सेकाभ्यङ्गपिचुक्रियाः| शीताः पित्तजितः कार्याः स्नेहनार्थं घृतानि च| शतावरीमूलतुलाचतुष्कात् क्षुण्णपीडितात्| रसेन क्षीरतुल्येन पाचयेत घृताढकम्| जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः| पिष्टैः प्रियालैश्चाक्षांशैर्मधुकाऱ्द्धपलान्वितैः| सिद्धशीते तु मधुनः पिप्पल्याश्च पलाष्टकम्| शर्कराया दशपलं क्षिपेल्लिह्यात् पिचुं ततः| योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं परम्| क्षतं क्षयमसृक्पित्तं कासं श्वासं हलीमकम्| कामिलां वातरुधिरं विसर्पं हृच्छिरोग्रहम्| अपस्मारार्दितायाममदोन्मादांश्च नाशयेत्| एवमेव पयस्सर्पिर्जीवनीयोपसाधितम्| गर्भदं पित्तजानाञ्च रोगाणां परमं हितम्||३७||
🔊 Audio coming soon
Adhikarana raktayonicikitsAkramaH (38) · Śloka 38
रक्तयोन्यामसृग्वर्णैरनुबन्धमवेक्ष्य च| यथादोषोदयं युञ्ज्याद्रक्तस्थापनमौषधम्||३८||
🔊 Audio coming soon
Adhikarana vAtottarAsRugdaracikitsA (39) · Śloka 39
तिलचूर्णं दधिघृतं फाणितं सौकरी वसा| क्षौद्रयुक्तं जयेत्पीतं वातोत्तरमसृग्दरम्| वराहस्य रसो मेध्यः सकौलत्थश्च तद्गुणः| पत्रकल्को घृते भृष्टो राजादनकपित्थयोः| शर्कराक्षौद्रयष्ट्याह्वनागरैश्च युतं दधि||३९||
🔊 Audio coming soon
Adhikarana pittottarAsRugdaracikitsA (40) · Śloka 40
पयस्योत्पलशालूकबिसकालीयवारिजम्| सपयश्शर्कराक्षौद्रं रक्ते पित्तोत्तरे पिबेत्| तण्डुलीयकमूलं वा सक्षौद्रं तण्डुलाम्भसा| सतार्क्ष्यशैलं लाक्षां वा छागेन पयसा पिबेत्| वासाघृतं महातिक्तं रक्तपित्तहितञ्च यत्||४०||
🔊 Audio coming soon
Adhikarana kaphottarAsRugdaracikitsA (41) · Śloka 41
मधुकं त्रिफलां लोध्रं मुस्तं सौराष्ट्रिकां मधु| मद्यैर्निम्बगुडूच्यौ च कफजेऽसृग्दरे पिबेत्||४१||
🔊 Audio coming soon
Adhikarana puShyAnugaM cUrNam (42) · Śloka 42
पाठां जम्ब्वाम्रयोरस्थिशिलोद्भेदं रसाञ्जनम्| अम्बष्ठां शाल्मलीपिच्छां समङ्गां वत्सकत्वचम्| वाह्नीकबिल्वातिविषालोध्रतोयदगैरिकम्| शुण्ठीमधुकमाचीकरक्तचन्दनकट्फलम्| कट्वङ्गवत्सकानन्ता धातकीमधुकार्जुनम्| पुष्ये गृहीत्वा सञ्च्चूर्ण्य सक्षौद्रं तण्डुलाम्बुना| पिबेदर्शस्वतीसारे रक्तं यच्चोपवेश्यते| दोषा जन्तुकृता ये च बालानां तांश्च नाशयेत्| योनिदोषं रजोदोषं श्यावश्वेतारुणासितम्| चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्||४२||
🔊 Audio coming soon
Adhikarana garbhasrAvoktA cikitsA (43) · Śloka 43
सर्वेषु गर्भस्रावोक्तं प्रदरेषु प्रशस्यते||४३||
🔊 Audio coming soon
Adhikarana raktakShaye cikitsA (44) · Śloka 44
रक्तक्षयायां क्षीरञ्च जीवनीय शृतं पिबेत्||४४||
🔊 Audio coming soon
Adhikarana shlaiShmike yonidoShe varttayaH (45) · Śloka 45
योन्यां बलासदुष्टायां वर्त्तिः संशोधने हिता| वाराहे बहुशः पित्ते भावितैर्नक्तकैः कृताः| भावितं पयसाऽर्कस्य माषचूर्णं ससैन्धवम्| वर्त्तिः कृता क्षणं धार्या सेक्तव्यानुसुखाम्बुना| पिप्पलीमाषमरिचशताह्वाकुष्ठसैन्धवैः| प्रदेशिन्यङ्गुलीतुल्या वर्त्तिर्योनिविशोधनी||४५||
🔊 Audio coming soon
Adhikarana udumbarashalATusiddhaM tailam (46) · Śloka 46
उदुम्बरशलाटूनां द्रोणं द्रोणेऽम्भसः पचेत्| सपञ्चवल्कतिलकमालतीनिम्बपल्लवे| निशास्थिते जले तस्मिंस्तैलप्रस्थं विपाचयेत्| पलाशशाल्मलीलाक्षाधवनिर्यासवल्कलैः| पिष्टैर्युक्तं ततः स्नेहपिचुं योनौ निधापयेत्| सशर्करैः कषायैश्च शीतैः कुर्वीत सेचनम्| पिच्छिला विवृता योनिश्चिरदुष्टा तु दारुणा| सप्ताहाच्छुध्यति क्षिप्रमपत्यं च समश्नुते||४६||
🔊 Audio coming soon
Adhikarana udumbarasiddhatailam (47) · Śloka 47
उदुम्बरस्य दुग्धेन षट्कृत्वो भावितात्तिलात्| तैलं क्वाथेन तस्यैव कार्यं धार्यं च पूर्ववत्||४७||
🔊 Audio coming soon
Adhikarana dhAtakyAditailam (48) · Śloka 48
धातक्यामलकीपत्रस्रोतोजमधुकोत्पलैः| जम्ब्वाम्रसारकासीसलोध्रकट्फलतिन्दुकैः| सौराष्ट्रिकादाडिमत्वगुदुम्बरशलाटुभिः| अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत्| तैलप्रस्थं तदभ्यङ्गपिचुबस्तिषु योजयेत्| शूनोत्तानोन्नता स्तब्धा पिच्छिला स्राविणी तथा| विप्लुतोपप्लुता योनिः सिध्येत्सस्फोटशूलिनी||४८||
🔊 Audio coming soon
Adhikarana dhAvanam (49) · Śloka 49
अर्कनिम्बाम्रकोशाम्रबिल्वबूकधवोद्भवैः| करीरजिङ्गिणीजम्बूकरञ्जार्जुनशिग्रुजैः| पलाशसिध्रकोत्थैश्च कषायैर्द्धावनं परम्| शुक्तसीधुमधून्मिश्रैर्योनेः स्रावनिवारणम्| कुर्यात् सतक्रगो मूत्रशुक्तैर्वा त्रिफलारसैः||४९||
🔊 Audio coming soon
Adhikarana yavAntAdishIlanam (50) · Śloka 50
यवान्नमभयारिष्टं शीधु तैलं च शीलयेत्| पिप्पल्ययोरजः पथ्याप्रयोगांश्च समाक्षिकान्||५०||
🔊 Audio coming soon
Adhikarana pANDurAsRugdaracikitsA (51) · Śloka 51
रोहीतकजटाकल्कं पाण्डुरेऽसृग्दरे पिबेत्| धात्रीमज्ज्ञोऽथवा कल्कं सितामाक्षिकसंयुतम्| मधुनामलकीचूर्णं रसं वा प्राशयेत् सिते| सलोध्रवल्केन वटत्वक्कषायेण धावयेत्| आस्रावे क्षौमपट्टान् वा भावितांस्तेन धारयेत्| प्लक्षत्वक्चूर्णपिण्डं वा धारयेन्मधुना कृतम्| योन्या स्नेहाक्तया लोध्रप्रियङ्गुमधुकस्य वा| धार्या मधुकृता वर्त्तिः कषायाणाम् च भूरिशः| स्रावच्छेदार्थमभ्यक्तां धूपयेद्वा घृताप्लुतैः| सरलागुग्गुलुयवैः सतैलैः कटुमत्स्यकैः||५१||
🔊 Audio coming soon
Adhikarana paicchilye cUrNam (52) · Śloka 52
कासीसं त्रिफला काङ्क्षी साम्रजम्ब्वस्थि धातकी| पैच्छिल्ये क्षौद्रसंयुक्तश्चूर्णो वैशद्यकारकः||५२||
🔊 Audio coming soon
Adhikarana daurgandhye cikitsA (53) · Śloka 53
पलाशधातकीजम्बूसमङ्गामोचसर्जजः| दुर्गन्धे पिच्छिले क्लेदे स्तम्भनश्चूर्ण इष्यते| आरग्वधादिवर्गस्य कषायः परिषेचनम्||५३||
🔊 Audio coming soon
Adhikarana stabdhakArkashyayoshcikitsA (54) · Śloka 54
स्तब्धानां कर्कशानाञ्च कार्यं मार्दवकारकम्| धारणं वेशवारस्य कृसरा पायसस्य वा||५४||
🔊 Audio coming soon
Adhikarana pUtigandhe cikitsA (55) · Śloka 55
दुर्गन्धानां कषायः स्यात्तैलं वा कल्क एव वा| चूर्णो वा सर्वगन्धानां पूतिगन्धापकर्षणः||५५||
🔊 Audio coming soon
Adhikarana bastidravyANi (56) · Śloka 56
श्लेष्मलानां कटुप्रायाः समूत्रा बस्तयो हिताः| पित्ते समधुकक्षीरा वाते तैलाम्लसंयुताः| सन्निपातसमुत्थायाः कर्म साधरणं हितम्||५६||
🔊 Audio coming soon
Adhikarana yonibIjayoH shuddhermahattvam (57) · Śloka 57
एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः| अदुष्टे प्राकृते बीजे बीजोपक्रमणे सति||५७||
🔊 Audio coming soon
Adhikarana puruShendriyaparIkShaNam (58) · Śloka 58
पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रियम्| परीक्ष्य वर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत्||५८||
🔊 Audio coming soon
Adhikarana phalasarpiH (59-39) · Śloka 39
मञ्जिष्ठाकुष्ठतगरत्रिफलाशर्करावचाः| द्वे निशे मधुकं मेदा दीप्यकः कटुरोहिणी| पयस्या हिङ्गु काकोली वाजिगन्धा शतावरी| पिष्ट्वाक्षांशं घृतप्रस्थं पचेत् क्षीरचतुर्गुणम्| योनिशुक्रप्रदोषेषु तत्सर्वेषु प्रशस्यते| आयुष्यं पौष्टिकं मेध्यं धन्यं पुंसवनं परम्| फलसर्पिरिति ख्यातं पुष्पे पीतं फलाय यत्| म्रियमाणप्रजानां च गर्भिणीनां च पूजितम्| एतत्परं च बालानां ग्रहघ्नं देहवर्द्धनम्||५९|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे गुह्यरोग प्रतिषेधो नामौकोनचत्वारिंशोऽध्यायः||३९||
🔊 Audio coming soon