Adhikarana atha sandhisitAsitarogapratiShedho nAma caturdasho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातः सन्धिसितासितरोप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana atha sandhisitAsitarogapratiShedho nAma caturdasho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातः सन्धिसितासितरोप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana upanAhacikitsA (2) · Śloka 2
उपनाहं भिषक् स्विन्नं व्रीहिमुखेन भित्वा मण्डलाग्रेण समन्ताल्लेखयेत्| ततः सैन्धवपिप्पलीचूर्णेन सक्षौद्रेण प्रतिसारयेत्| पूर्ववच्चबध्नीयात्| पटोलपत्रामलकक्वाथेनाश्चयोतयेत्||२||
🔊 Audio coming soon
Adhikarana parvaNIcikitsA (3) · Śloka 3
पर्वणीमुत्तरसन्धित्रिभागे बडिशेनावलम्ब्य वृद्धिपत्रे- णार्धमात्रे छिन्द्यात्| अन्यथाऽश्रुनाडी स्यात्| मधुसैन्धव- प्रतिसारितां चार्मवच्चिकित्सेत्||३||
🔊 Audio coming soon
Adhikarana pUyAlasacikitsA (4) · Śloka 4
पूयालसे सिरां विध्येत्ततस्तमुपनाहयेदक्षिपाकोक्तं चेक्षेत| सैन्धवार्द्रककासीसायस्ताम्रैः सुसूक्ष्मैः सक्षौद्रैरञ्जनम्||४||
🔊 Audio coming soon
Adhikarana kRumigranthicikitsA (5) · Śloka 5
कृमिग्रन्थिं करीषेण स्विन्नं भित्वा विलिख्य च कासीससैन्धवत्रिफलामाक्षिकैः प्रतिसारयेत्||५||
🔊 Audio coming soon
Adhikarana shuktikAcikitsA (6) · Śloka 6
शुक्तितकां पित्ताभिष्यन्दवत् साधयेत्||६||
🔊 Audio coming soon
Adhikarana balAsagrathitapiShTakayoshcikitsA (7) · Śloka 7
बलासग्रथितं पिष्टकं च सिराव्यधवर्जं कफाभिष्यन्दवत्| विशेषतस्तिलनालान् यवनालान् वा हरितशलाकान- र्धमासमजाक्षीरेण भवयित्वा शोषयित्वा च दाहयेत्| ततस्तद्भस्म क्षारकल्पेन परिस्राव्यादर्वीलेपाद्विपचेत्| रसक्रियेयं वलासग्रथितशोफोपदेहहरा| अयमेव च कल्पः फणिज्जार्जकास्फोतबिल्वकपित्थनिर्गुण्ड्ये- रण्डकुमुदोत्पलजातीकुसुमेषु पृथक् कार्यः| सैन्धवालमरिचकट्फलशङ्खसमुद्रफेनैर्वर्तिः पिष्टकेऽञ्जनम्| शुण्ठीशिग्रुफलपिप्पलीसैन्धवचूर्णो बीजपूरकर साप्लुतोऽञ्जनं पिष्टकमपहरति| तद्वत्त्रिकटुककट्फल- चूर्णौ बलासग्रथैतं च| बृहतीफलं पिप्पलीतण्डुलपूरितं पुटपाकेन पचेत्| तैस्तण्डुलैश्चूर्णाञ्जनं बलासग्रथैतपिष्टकघ्नम्| अत्यर्थशोफे हरितालसैन्धवशुण्ठीदेवरारुपुनर्नवैर्विडालकः||७||
🔊 Audio coming soon
Adhikarana sirotpAtaharShajAlArjunAnAM cikitsA (8) · Śloka 8
सिरोत्पातहर्षजालार्जुनेषु रक्ताभिष्यन्दवत्प्रतिकुर्यात्| विशेषेण सिराहर्षे स्वर्णगैरिको मधुयुक्तोऽञ्जनम्| स्तन्यान्वितं वा कासीसं क्षौद्रे द्रुतं वा कासीससैन्धवमर्जुने मातुलुङ्गरसेन सशर्करेणाश्च्योतनं मस्तुना वा| शङ्खनाभिर्माक्षिकेण युक्ता सितया वा समुद्रफेनकोऽञ्जनम्| स्फटिककुङ्कुमशङ्खनाभिमधुयष्टिका वा क्षौद्रार्द्रास्तद्वद्वा रसाञ्जनं कासीसं वा||८||
🔊 Audio coming soon
Adhikarana armaNAmauShadham (9) · Śloka 9
अर्म तु पञ्चविधमपि यत्तनुरक्तं धूमाविलं दधिनिभं वा तच्छुक्लवत् कायशिरोविरेकलेखनाञ्जनैरुपाचरेत्||९||
🔊 Audio coming soon
Adhikarana armaNAM shastrakarma (10) · Śloka 10
अथेतरस्मिन् स्निग्धस्यातुरस्य पेया विलेपिजाङ्गलरसा- न्यतमाशितस्य कृतस्वस्त्ययनस्य सुखशयनगलस्यो- त्तानदेहस्य किञ्चिदवाक्शिरसः सुखोष्णाम्बुप्लुततान्त- बस्विन्ननयनस्य सैन्धवेन सबीजपूरकरसेनाञ्जयित्वाङ्गष्ठकेन निमीलितमक्षिविमृन्द्रीयादाबलासग्रथितरूपो- त्पत्तेः| इत्थञ्च संरोषिताक्षस्य प्रचलितेऽर्माधिमांसके निश्चलं परिचारकः शिरो धारयेत्| अन्यश्च वामदक्षिणान्यतरपार्श्वेऽनुकूलं स्थितो दृढ- वस्त्रगर्भाभ्यामङ्गुष्ठाभ्यां वर्त्मनी निक्षिपेत्| अथ वैद्यः कनीनकात् प्रवृद्धेर्मण्यपाङ्गमीक्षमाणस्य यत्र यत्र वली जायते तत्र तत्रार्म बडिशेन मुचुट्या वा नाल्यायतं गृही- त्वा किञ्चिदुन्नम्य कृष्णशुक्लमण्डलाभ्यां सर्वतः सूच्यग्रेण मोक्षयित्व किञ्चिदाञ्छेत्| अधः तीक्ष्णेन मण्ड- लाग्रेण वृद्धिपत्रेण वा विलिख्य कनीनकं चोपानीय कनीनकसममेव चतुर्भागशेषं छिन्द्यात्| वर्जयेच्च कनीनकं सिराश्चाश्रुवहाः| तथा हि नाक्षि व्यापद्यते||१०||
🔊 Audio coming soon
Adhikarana jAlavadarmaNi kriyAvisheShaH (11) · Śloka 11
यत्तु जालवदर्मव्यापि तदेषिण्या यावत्कनीनकमनुसर- न्नुन्मोच्योन्नमय्य पूर्ववत् छिन्द्यात्| तद्वदपाङ्गात् प्रवृद्धे कनीनकमीक्षमाणस्य यावदपाङ्गं चोपनीयापाङ्गसममेव तथा यावद्वर्जयेदपाङ्गं सिराश्चेत्यादि| ततः प्लोतेन रक्तं विशोध्य सम्यक् छिन्नमवेक्ष्य सैन्धवचूर्णेन पुनः पुनः प्रतिसारयेद्यवनालभस्मना वा प्लोतशुद्धं च पुनर्मधुना| ततः शीताम्बुपरिष्कितं सर्पिषा सुखोष्णेन परिषिच्य मधु घृताक्तं पूर्ववत् बध्नीयात्| मूर्ध्नि पादयोश्चास्मै शतधौत- घृतं शीतांश्च प्रदेहान् दद्यात्||११||
🔊 Audio coming soon
Adhikarana armaNAM shastrakarmottarakriyA (12) · Śloka 12
स्नेहोक्तं चाचारमादिशेत्| द्वितीये चाह्नि सायं प्रातर्मधु- कसर्पिषा कोष्णेन शिरस्तथाऽवबद्धमेव चाक्षि सिञ्चेत्| पञ्चाहं चोष्णोदकानुपानं सर्पिः पीत्वा जीर्णे पथ्यमश्नीयात्| तृतीये दिवसे विमुच्य करञ्जबीजसिद्धेन क्षीरेणाक्षि स्वेदयेत्| लोध्रमधुककिंशुकपटोलद्विहरिद्राकोरण्डमु- कुलक्वाथेन मधुमिश्रेणाश्च्योतयेत्| सप्तमेऽहनि सर्वथा मुञ्चेत्| आतपाकाशदर्शनं च परिहरेत्||१२||
🔊 Audio coming soon
Adhikarana upadravapratikAraH (13) · Śloka 13
सशोफे तु नेत्रे धूमः शिरोविरेचनञ्च| अनुपशान्तरागे सिराविस्रावणम् सास्रावे नस्यम्| तिलान् सुलिखितान् मधुककाकोलीसुनिषण्णकपञ्च- मूलशर्कराशृतशीते पयसि सप्ताहं भावितांस्तेनैव पयसापीडयेत्| मधुकशतह्वाशारिवानन्तागरुकाकोलीहरेणु- कैलावालुकचूर्णञ्च पीड्यमानेषु षोडशभागेन प्रक्षिपेत्| तत्तैलमेभिरेवौषधैः पयसा चाष्टगुणेन सिद्धं नावना- दश्रुरागघ्नं दृष्टिप्रसादनञ्च| कृष्णगते तु व्रणे व्रणशुक्लवत्क्रिया| अर्मशेषे तु लेखनाञ्जनानि||१३||
🔊 Audio coming soon
Adhikarana samyakchinnAyuktacchinnalakShaNAni ayukte pratikArashca (14) · Śloka 14
तत्र सम्यक् छिन्ने वर्णविशुद्धिः स्वस्थता च| हीनच्छेदात्पुनर्वृद्धी रागाश्रुपातप्रकाशदर्शनाक्षमत्वादि च| अति- च्छेदादक्षिपाकस्तम्भस्फुरणास्रस्रुतितिमिरसंरम्भविबद्ध- वर्त्मनि| तेषु यथास्वं दोषोद्रेकात् प्रतिकुर्यात्| नाग- रमनश्शिलालैलासैन्धवशर्कराभिरर्धकर्षांशाभिर्युक्तं रसाञ्जनार्धपलं क्षौद्रद्रुतमञ्जनादर्मशेषश्लेष्मतिमिरपिल्ला- मयघ्नम्||१४||
🔊 Audio coming soon
Adhikarana sirAjAle karmavisheShaH (15) · Śloka 15
सिराजाले सिरा यास्तु स्थूलाः कठिनाश्च ता बडिशेन गॄहीत्वा मण्डलाग्रेणोल्लिखेत्||१५||
🔊 Audio coming soon
Adhikarana sirApiTakAyAM karmavisheShaH (16) · Śloka 16
सिरापिटकाः सूच्यग्रेणावलम्बिताः कृष्णमनुपघ्नन् छिन्द्यात्| सूक्ष्मास्त्ववलिखेत्| अर्मवच्यैतयोः शेषमाचरेत्||१६||
🔊 Audio coming soon
Adhikarana shuklakeShu cikitsAkramaH (17) · Śloka 17
शुक्लकेषु यथास्वदोषानुसारेण त्रिफलाघृतपानरक्त- मोक्षविरेचनाश्च्योतनमुखालेपनस्यतर्पणपुटपाकान् प्रयुञ्जीत||१७||
🔊 Audio coming soon
Adhikarana vraNashukle cikitsA (18) · Śloka 18
तत्र व्रणशुक्ले त्रिबृन्निर्यूहेण त्रिर्विपक्वं सर्पिः पाययेत्| सिरां च विध्येत्| दुष्टशेषं च पिण्डितमक्षिगमसृक् जलौकोभिरपहरेत्| मधुककाकोलीमृद्वीकोत्पलविदारीक्वाथेन मञ्जिष्ठाक्षीरकाकोलीमधुकक्वथि- ताजक्षीरेण वा सशर्करेणाश्च्योतयेत्| शीतैश्चास्य शिरोवक्त्रं दिह्यात् सिञ्चेच्च| एवमप्यनुबद्धवेदनं शताह्वा- यष्ट्याह्ववता घृतमण्डेनानुवासयेत्| अपि च अश्रु रागरुजाशान्तिं यदा यस्योपलक्षयेत्| तदा तदाञ्जनैः शुक्लं लेखणियैरुपाचरेत्||१८||
🔊 Audio coming soon
Adhikarana vaiDUryAdivartiH (19) · Śloka 19
वैदूर्यस्फटिकशङ्खमुक्ताविद्रुमरुप्यायस्रपुताम्रसीसालमनः- शिलाकुक्कुटाण्डत्वक्समुद्रफेनरसाञ्जनसैन्धवैरजापयः- पिष्टैर्वर्तयश्छायाशुष्काः क्षौद्रघृष्टाः प्रातः सायं च प्रयु क्ता व्रणशुक्लनुदः| करवराहगोगर्दभाश्वाजोष्ट्रदशनाः शङ्खमुक्तासमुद्रफेनाश्च मरिचचतुर्थाशयुता जलपिष्टा वर्तयः क्षतशुक्लहराः| लाक्षासुवर्णगैरिकचन्दनजातीमुकुलैर्वतिरसृक्पित्तप्रसा- दनी व्रणशुक्लहरा च||१९||
🔊 Audio coming soon
Adhikarana nimnashuklacikitsA (20) · Śloka 20
निम्नं च शुक्लं सरुजमुन्नमयेत् स्नेहपाननस्यजाङ्गलरसैः| नीरुजं तर्पणपुटपाकाभ्याम्||२०||
🔊 Audio coming soon
Adhikarana tarpaNam (21) · Śloka 21
तत्र तर्पणं मृगविष्किरपिशितं काश्मर्यसुनिषण्णोत्पल मृणालशृङ्गाटककशेरुद्राक्षाक्षीरविदारीजीवनीयांश्च क्षीरेण पाचयेत् तस्मान्नवनीतमुद्धत्य चन्दनमधुशर्करान न्तानीलोत्पलकल्कैरष्टगुणेन च पयसा विपक्वं पूर्ववद्योजयेत्||२१||
🔊 Audio coming soon
Adhikarana puTapAkaH (22) · Śloka 22
पुटपाकञ्च कुक्कुटमुद्धृतान्त्रं वेशवारीकृत्य चन्दन सारिवामधुकशर्करानन्तानीलोत्पलप्रपौण्डरीकजीवनी यकल्कैः समधुघृतैः संसृज्य प्रागिव कल्पयेत्| द्वित्वच्छिन्नमेवं यापयेत्||२२||
🔊 Audio coming soon
Adhikarana shuddhashuklacikitsA (23) · Śloka 23
शुद्धशुक्ले हरिद्रामधुकशारिवालोध्रनिर्यूहेणाश्च्योतनम्| लोध्रचूर्णेन वा तान्तवबद्धेनोष्णाम्बुमृदितेन| शुद्धकोष्ठस्य च दन्तीज्योतिष्मतीकल्कोऽवपीडकः| शिरोविरेचनद्रव्यविपक्वं वा तैलं मर्शः प्रतिमर्शो वा||२३||
🔊 Audio coming soon
Adhikarana vartyAdiyogAH (24) · Śloka 24
शुण्ठीसैन्धवमधुयष्टिकाबृहतीमूलताम्ररजोभिरामलकर- सपिष्टैस्ताम्रपात्रं प्रलेपयेत्| तच्च सघृतैर्यवैरामलक पत्रैश्च बहुशो धूपयेत्| वर्तिरेषा महानीला मधुतोयघृष्टा शुद्धशुक्लं नाशयति| पूर्वोक्ता च दन्तवर्तिः| अशाम्यति तु शुक्ले सर्वत्र पुनः पुनर्यथोक्तमेव पर्यायेण योजयेत्| अन्तरान्तरा च रक्तं विस्रावयेत्| अभिष्यन्दप्रतिषेधं चेक्षेत||२४||
🔊 Audio coming soon
Adhikarana utsAdanAnya~jjanAni (25) · Śloka 25
अथोत्सादनार्थं शुद्धशुक्ले सम्प्रहर्षणानि दद्यात्| त्रिफलारसेन त्र्यहं भावितेन सैन्धवेनाञ्जयेत्| तद्वत् पिप्पलीभिर्वा| मरिचपिप्पलीशिरीषबीजसैन्धवैर्वा| कोलास्थिकतकफलशङ्खद्राक्षामधुकरिवा| बलासग्रथितोक्तक्षाराञ्जनैर्वा||२५||
🔊 Audio coming soon
Adhikarana utsAdanAdupadrave~a~jjanAni - sandhAva~jjanAni (26) · Śloka 26
सम्प्रहर्षणाद्रागाश्रुवेदनासु सन्धावाञ्जनानि युञ्ज्यात्| शङ्खं ताम्रे स्तन्येन घृष्टं सघृतैर्यवैः शमीपत्रैश्च धूपयेत् अनेन सन्धावाञ्जनेनाञ्जयेत्| तद्वत् सुवर्ण रूप्यमयो वा घृष्टं सघृतैर्बदरीपत्रैर्धूपितमञ्जनम्| शङ्खो निस्तुषाश्च हरित मुद्गाः पिष्टा वर्तिश्चूर्णो वा मधुयुक्तोऽञ्जनं शुक्लहर्षणम्| मधुकसारश्च मधुना बिभितकास्थिमञ्जा वा||२६||
🔊 Audio coming soon
Adhikarana pratya~jjanopanAhau (27) · Śloka 27
मसूरा निस्तुषाः स्तन्यपिष्टास्तरुणदर्भाङ्कुरा घृतमाजं गोक्षीरं शरश्चायसे ताम्रेण घृष्टं प्रत्यञ्जनं वेदनाघ्नम्| यवगोधूमजीवनीयमांसीचूर्णेन सघ्रुतशर्करोत्कारिका स्वेदोपनाहे प्रणीता वेदनामपनयति शुक्लं चोत्सादयति| तद्वदानूपमांसवेशवारो वसापयः सर्पिर्विमिश्रः सिद्धः||२७||
🔊 Audio coming soon
Adhikarana upanAhapracalitadoShasyA~jjanam - lekhanA~jjanam (28) · Śloka 28
अथैवमुपनाहप्रचलितस्य अञ्जनम्| गोखराश्वोष्ट्रदन्ताः समुद्रफेनः शङ्खश्चार्जुनकषायपिष्टा वर्तिर्लेखनी| समुद्रफेनशङ्खखरपरशुकास्थिखरनागाश्वगोबालास्तिन्दुक- कषायपिष्टा वा||२८||
🔊 Audio coming soon
Adhikarana punaH pratya~jjanaM leKana~jca (29) · Śloka 29
प्रत्यञ्जनञ्च तरुणबदरखदिरतिन्दुकास्थ्नामन्तर्धूमदग्धानां चूर्णम्| उत्सन्नं वा सशल्यं वा शुक्लं बालादिभिर्लिखेत् पुटपाकेन वा| बलासग्रथितोक्तक्षाररसक्रियया वा||२९||
🔊 Audio coming soon
Adhikarana sirAshuklacikitsA (30) · Śloka 30
सिराशुक्ले त्वदृष्टिघ्ने तरुणे व्रणशुक्लवत् कुर्यात्| अञ्जनं चास्य प्रपौण्डरीकमधुकहद्रालोहरजोऽञ्ज- नबृहतीक्षीरकाकोलीरजापयः पिष्ट यवैर्घृतयुक्तैरा- मलकीपत्रैश्च पर्यायेण धूपिता वर्तिः| अप्रशान्तमेव मर्मवत्साधयेत्| समाक्षिकं तु रसाञ्जनं प्रतिसारणम्| सक्षमे दिवसे कुक्कुटाण्डकपालस्फ टिकचन्दनमनश्शिलालौरश्ववराहदशनैश्च वर्तिं कृत्वाऽञ्जयेत्| उदधिकफशङ्खचन्दनैरजापयः पिष्टैर्वर्तिर्मधुघृष्टा प्रत्यञ्जनं सिराशुक्लजित्| अनुपशमे पश्यति चातुरे किञ्चिदिदमेवासकृत् कुर्वीत||३०||
🔊 Audio coming soon
Adhikarana ajakAcikitsA (31) · Śloka 31
अजकामदृष्टयुपघातिनी कृष्णान्तजामविस्रावणैर्मधुर- विरेचनैः क्षीरबस्तिभिश्च साधयेत्| सिराशुक्लवच्चशस्त्रकर्मादिविधिनेति| भवति चात्र अजकायामसाध्यायं शुक्लेऽन्यत्र च तद्विधे| वेदनोपशमं स्नेहपानासृक्स्रावणादिभिः| कुर्याद्वीभत्सतां जेतुं शुक्लत्वोत्सेधसाधनम्| नालिकेरास्थिभल्लाततालवंशकरीरजम्| भस्माद्धिः स्रावयेत्ताभिर्भावयेत्करभास्थिजम्| चूर्णं शुक्लेष्वसाध्येषु तद्वैवर्ण्यघ्नम्| साध्येषु साधनायालमिदमेव च शीलितम्||३१||
🔊 Audio coming soon
Adhikarana ajakAyAH vedhanam (32) · Śloka 32
अजकां पार्श्वतो विद्ध्वा सुच्या विस्राव्य चोदकम्| समं प्रपीड्याङ्गुष्ठेन वसार्द्रेणानु पूरयेत्| व्रणं गोमांसचूर्णेन बद्धं बद्धं विमुच्य च| सप्तरात्राद् व्रणे रूढे कृष्णभागे समे स्थिते| स्नेहाञ्जनं च कर्तव्यं नस्यं च क्षीरसर्पिषा| तथापि पुनराध्माते भेदच्छेदादिकां क्रियाम्| युक्त्या कुर्याद्यथा नातिच्छेदेन स्यान्निमज्जनम्||३२||
🔊 Audio coming soon
Adhikarana shuklacikitsopasaMhAraH (33-15) · Śloka 15
नित्यं च शुक्लेषु शृतं यथास्वं पाने च मर्शे च घृतं विदध्यात्| न हीयते लब्धबला तथान्त- स्तीक्षणाञ्जनैर्दृक् प्रततं प्रयुक्तैः||३३|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भाटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे सन्धिसितासितरोगप्रतिषेधो नाम चतुर्दशोऽध्यायः||१५||
🔊 Audio coming soon