Adhikarana atha timirapratiShedho nAma ShoDasho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातस्तिमिरप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana atha timirapratiShedho nAma ShoDasho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातस्तिमिरप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana timirANAM ghorarUpatvam (2) · Śloka 2
तिमिरं काचतां याति काचोऽप्यान्ध्यमुपेक्षया| नेत्ररोगेष्वतो घोरं तिमिरं साधयेद्रुतम्||२||
🔊 Audio coming soon
Adhikarana jIvantyAdighRutam (3) · Śloka 3
तुलां पचेत जीवन्त्या द्रोणेऽपां पादशेषिते| तत्क्वाथे द्विगुणक्षीरं घ्रुतप्रस्थं विपाचयेत्| प्रपौण्डरीककाकोलीपिप्पलीलोध्रसैन्धवैः| शताह्वामधुकद्राक्षासितादारुफलत्रयैः| कार्षिकैर्निशि तत्पीतं तिमिरापहरं परम्||३||
🔊 Audio coming soon
Adhikarana drAkShAdighRutam (4) · Śloka 4
द्राक्षाचन्दनमञ्जिष्ठकाकोलीद्वयजीवकैः| सिताशतावरीमेदापुण्ड्राह्वमधुकोत्पलैः| पच्चेज्जीर्णघृतप्रस्थं समक्षीरं पिचून्मितैः| हन्ति तच्छुक्लतिमिररक्तराजीशिरोरुजः||४||
🔊 Audio coming soon
Adhikarana paTolAdighRutam (5) · Śloka 5
पटोलनिम्बकटुकादार्वीसेव्यवरावृषम्| सधन्वयासत्रायन्तीपर्पटं पालिकं पृथक्| प्रस्थमामलकानां च क्वाथयेदर्मणेऽम्भसः| तदाढकेऽर्धपलिकैः पिष्टैः प्रस्थं घृतात्पचेत्| मुस्तभूनिम्बयष्ट्याह्वकुटजोदीव्यचन्दनैः| सव्योषचव्यैस्तत्सर्पिर्घ्राणकर्णाक्षिरोगजित्| विद्रधिज्वरदुष्टारुर्विसर्पापचिकुष्ठनुत्| विशेषाच्छुक्लतिमिरनक्तान्ध्योष्णाम्लदाहहृत्||५||
🔊 Audio coming soon
Adhikarana traiphalaM ghRutam (6) · Śloka 6
त्रिफलाऽष्टपलं क्वाथ्यं पादशेषं जलाढके| तेन तुल्यपयस्केन त्रिफलापलकल्कवान्| अर्धप्रस्थे घृतात्सिद्धः सितया माक्षिकेण वा| युक्तं पिबेत्तत्तिमिरि तद्युक्तं वा वरारसम्||६||
🔊 Audio coming soon
Adhikarana mahAtraiPalaM GRutam (7) · Śloka 7
यष्टीमधुद्विकाकोलीव्याघ्रीकृष्णामृतोत्पलैः| पालिकैः ससिताद्राक्षैर्घृतप्रस्थं पचेत् समैः| अजाक्षीरवरावासामार्कवस्वरसैः पृथक्| महात्रैफलमित्येतत परं दृष्टिविकारजित्||७||
🔊 Audio coming soon
Adhikarana triPalAprayogaH (8) · Śloka 8
त्रैफलेनाथ हविषा लिहानस्त्रिफलां निशि| यष्टीमधुकसंयुक्तां मधुना च परिप्लुताम्| मासमेकं हिताहारः पिबन्नामल्कोदकम्| सौपर्णं लभते चक्षुरित्याह भगवान् निमिः||८||
🔊 Audio coming soon
Adhikarana triPalAsambaddhaprayogAntarANi (9) · Śloka 9
गव्यं घृतं लोहरजोभाजने बादरे स्थितम्| त्रिफलाचूर्णसहितं पीतं तिमिरनाशनम्| पुराणं च सिताभीरुयष्टीमधुकचूर्णवत्| निषिक्तमग्निवर्णैर्वा जीर्णं सर्पिरयोगुडैः| हेमरूप्यायसैश्चूर्णैर्युक्तां वा त्रिफलां पृथक्| घृतक्षौद्रान्वितामद्यात्केवलां वा विचूर्णिताम्| ताप्यायस्त्रिफलाचूर्णं मधुजीर्णघृतद्रुतम्| लोहपात्रे स्थितं मांसं माषराशौ च भक्षयेत्| सक्तून् वाद्यात्ससर्पिष्कां त्रिफलाचूर्णसंयुतान्| भुञ्जीत वा सुसिद्धेन सूपेनामलकैः सह| प्रातर्भक्तस्य वा पूर्वमद्यात्पथ्यां पृथक्पृथक्| मृद्वीकाशर्कराक्षौद्रैः सततं तिमिरातुरः||९||
🔊 Audio coming soon
Adhikarana timiraghnaM nAvanam (10) · Śloka 10
क्वाथोसनात् भृङ्गरसस्तैलं कालतिलोद्भवम्| लोहपात्रे तदेकत्र साधितं नावनं हितम्||१०||
🔊 Audio coming soon
Adhikarana timiraghnaM cUrNA~jjanam (11) · Śloka 11
स्रोतोजांशांश्चतुष्षष्टिं हेमायोरुप्यताम्रकैः| युक्तान् प्रत्येकमेकांशैरन्धमूषोदरस्थितान्| ध्मापयित्वा समावृत्तं ततस्तच्च निषेचयेत्| रसस्कन्धकषायेण सप्तकृत्वः पृथक्पृथक्| वैडूर्यमुक्ताशङ्खानां त्रिभिर्भागैर्युतं ततः| चूर्णाञ्जनं प्रयुञ्जीत तत्सर्वं तिमिरापहम्||११||
🔊 Audio coming soon
Adhikarana aparaM cUrNA~jjanam (12) · Śloka 12
निर्दग्धं बदराङ्गारैस्तुत्थं चेत्थं निशोचितम्| क्रमादजापयः सर्पिः क्षौद्रस्तस्मात् पलद्वयम्| कार्षिकैस्ताप्यमरिचस्रोतोजकटुकानतैः| युक्तं पलेन यष्ट्याश्च मूषान्तर्ध्मातचूर्णितम्| हन्ति काचार्मनक्तान्ध्यरक्तराजीः सुशीलितः| चूर्णो विशेषात्तिमिरं भास्करो भास्करो यथा||१२||
🔊 Audio coming soon
Adhikarana sukhAvatI varttiH (13) · Śloka 13
मनोह्वासैन्धवव्योषशङ्खनाभीरसाञ्जनम्| कतकं चन्दनं फेनो विडङ्गानि सितोपला| कुक्कुटाण्डकपालञ्च जलपिष्टा सुखावती| हन्त्येषा मधुना घृष्टा काचतैमिर्यशुक्लकान्||१३||
🔊 Audio coming soon
Adhikarana dRuShTipradA varttiH (14) · Śloka 14
त्रिफलाकुक्कुटाण्डत्वक्कासीसमयसो रजः| नीलोत्पलं विडङ्गानि फेनं च सरितां पतेः| आजेन पयसा पिष्ट्वा लेपयेत्ताम्रभाजनम्| सप्तरात्रे गते भूयः पिष्टं क्षीरेण वर्त्तयेत्| एषा दृष्टिप्रदा वर्त्तिरपि स्याद्भिन्नचक्षुषः||१४||
🔊 Audio coming soon
Adhikarana rAgavati timire~a~jjanadvayam (15) · Śloka 15
अञ्जनं कृष्णसर्पास्ये निहितं कुशवेष्टिते| ततस्ततः समुद्धृत्य मासात्सञ्चूर्णयेत् सह| सुमनः क्षारकैः शुष्कैरर्धांशैः सैन्धवेन च| प्रयोजयेद्रागवति तिमिरे तद्वराञ्जनम्| पयसा त्रयमेतच्च चूर्णयित्वा सुभावितम्||१५||
🔊 Audio coming soon
Adhikarana pratidoShaM sAdhanopakramaH (16) · Śloka 16
सामान्यं साधनं त्वेतत्प्रतिदोषमतः श्रुणु||१६||
🔊 Audio coming soon
Adhikarana vAtajatimiracikitsA (17) · Śloka 17
वातजे तिमिरे तत्र दशमूलाम्भसा घृतम्| क्षीरे चतुर्गुणे श्रेष्ठाकल्कपक्वं पिबेत्ततः| त्रिफलापञ्चमूलानां कषायं क्षीरसंयुतम्| एरण्डतैलसंयुक्तं योजयेत विरेचनम्| शङ्खिनीतिल्वकश्यामादन्तीर्निष्क्वाथ्य वा जले| त्रिवृत्कल्कप्रतीवापं तेन पक्वं घृतं पिबेत्| प्रपौण्डरीकबृहतीबलानलदसैन्धवैः| दारुबिल्वाढकीकृष्णाहरिद्रामधुयष्टिभिः| सिद्धं चतुर्गुणक्षीरं तैलं नस्तो निषेचयेत्| सितैरण्डजटासिंहीफलदारुनिशानतैः| शताह्वाबिल्वमूलैश्च तैलं पक्वं पयोन्वितम्| नस्यं सर्वोर्ध्वजत्रूत्थवातश्लेष्मामयार्तिषु| वसाञ्जने वा वैयाघ्री वराही वा प्रशस्यते| गृध्राहिकुक्कुटोत्था वा मधुकेनान्विता पृथक्| प्रत्यञ्जनं च स्रोतोजं रसक्षीरघृतैः क्रमात्| निषिक्तं पूर्ववद्योज्यं तिमिरघ्नमनुत्तमम्| न चेदेवं शमं याति ततस्तर्पणमाचरेत्| शताह्वाकुष्ठनलदकाकोलीद्वययष्टिभिः| प्रपौण्डरीकसरलपिप्पलीदेवदारुभिः| सर्पिरष्टगुणक्षीरं पक्वं तर्पणमुत्तमम्| प्रसादनं स्नेहनं च पुटपाकं प्रयोजयेत्| वातपीनसवच्चात्र निरूहं सानुवासनम्||१७||
🔊 Audio coming soon
Adhikarana pittajatimiracikitsA (18) · Śloka 18
पित्तजे तिमिरे सर्पिर्जीवनीयफलत्रयैः| विपाचितं पाययित्वा स्निग्धस्य व्यधयेत्सिराम्| शर्करैलात्रिवृच्चूर्णैर्मधुयुक्तैविरिचयेत्| मञ्जिष्ठालोध्रमधुकशारिवाचन्दनैः श्रृतम्| जलं सशर्करास्तन्यं नेत्रसेके प्रशस्यते| स्तन्यं वा पद्मकोशीरक्षीरिवृक्षाङ्कुरैः श्रृतम्| तप्तैर्निर्वापितं सर्पिरसकृल्लोहपिण्डकैः| विमर्दितसिताद्राक्षं हिमं तच्चाक्षिसेचनम्| शीतानालेपसेकादीन् मुखे मूर्ध्नि च शीलयेत्| शारिवापद्मकोशीरमुस्ताशावरचन्दनैः| वर्त्तिः शस्ताञ्जने चूर्णस्तथा पद्मोत्पलाञ्जनैः| सनागपुष्पकर्पूरयष्ट्याह्वस्वर्णगैरिकैः| नस्यं चाज्यं श्रृतं क्षीरजीवनीयसितोत्पलैः| लोध्रमूर्वाप्रपुण्ड्राह्वमांसीयष्ट्याह्वचन्दनै| सोशीरैः साधितं सर्पिः सक्षीरं तर्पणे हितम्| एभिरेवौषधैश्छागे पक्वे यकृति तद्रसे| पूर्ववत् पुटपाकश्च कार्यस्तिमिरनाशनः||१८||
🔊 Audio coming soon
Adhikarana kaPajatimiracikitsA (19) · Śloka 19
श्लेष्मोद्भवेऽमृताक्वथवराकणश्रृतं घृतम्| विध्येत् सिरां पीतवतो दद्याच्चानुविरेचनम्| क्वाथं पूगाभयाशुण्ठीकृष्णाकुम्भनिकुम्भजम्| करञ्जकट्फलवचात्रिफलापञ्चकोलकैः| सदार्वीकैः पयोयुक्तं सिद्धं तैलं च नावनम्| शङ्खप्रियङ्गुनैपालीकटुत्रिकफलत्रिकैः| दृग्वैमल्याय विमला वर्त्तिः स्यात्कोकिला पुनः| कृष्णलोहरजोव्योषसैन्धवत्रिफलाञ्जनैः| पीताख्या द्विनिशाकुष्ठनतपत्रकणोषणैः| पत्रपीतावराव्योषशिलालनतसैन्धवैः| मनोह्वाशङ्खसिन्धूत्थमरिचैस्तैमिरं जयेत्| वर्त्तिः प्रगाढमप्याशु शुक्लपिल्लामयार्म च| तालीसपाठाकिणिहीवेल्लमांसीनिशाभयैः| पिष्टैः क्षीरिद्रुमक्वाथे घृतं सिद्धं च तर्पणम्| पुटपाकं च पिशितैर्जाङ्गलैः सैन्धवान्वितैः| सपिप्पलीमधुघृतैः कल्कितैः प्रागिवाचरेत्| शिग्रुपत्रैर्जलस्विन्नैः कार्यः स्वेदश्च मात्रया||१९||
🔊 Audio coming soon
Adhikarana raktajatimiracikitsA (20) · Śloka 20
रक्तजे पित्तवत् कार्यम्...................||२०||
🔊 Audio coming soon
Adhikarana sannipAtajatimiracikitsA (21) · Śloka 21
..................सन्निपाते यथोल्बणाम्| व्याघ्रर्श्यगोशिखिवसा यवक्वाथपयोयुता| दूर्वामधुककल्केन विपक्वा तर्पणे हिता| यष्ट्यनन्ताद्विबृहतीपिप्पलीलवणद्वयैः| सलोहचन्दनैः पक्वं यकृता शल्यकस्य च| मृगगोधाशशानां च पुटपाकं प्रकल्पयेत्| दद्यादुशीरनिर्यूहे चूर्णितं कणसैन्धवम्| तत्स्रुतं सघृतं भूयः पचेत् क्षौद्रं क्षिपेद्धने| शीते चास्मिन् हितमिदं सर्वजे तिमिरेऽञ्जनम्| कुष्ठं वा शर्करोपेतमान्तरिक्षेण वारिण| निष्क्वाथ्यं सर्पिक्षौद्राभ्यां संसृष्टं प्रागिवाञ्जनम्| स्रोतोऽञ्जनं ससौवीरं वेष्टयित्वाऽजमेदसा| वटपत्रैरनु तथा दर्भैः कृष्णमृदाऽनु च| गोमयानलपक्वं तत् प्रशस्तं चूर्णमञ्जनम्| उरभ्रशल्यकश्वाविण्मार्जारशिखिजन्मभिः| वसाभिर्विधिनानेन योगा योज्याः पृथक्पृथक्| वटप्ररोहमधुकदूर्वालोध्रतिलोत्पलैः| पयोम्बुपिष्टैः सघृतैः शिरोवक्त्रं च लेपयेत्| कुर्याच्छिरः परिषेकमेभिरेव पयः श्रृतैः||२१||
🔊 Audio coming soon
Adhikarana saMsargajatimiracikitsA (22) · Śloka 22
सन्निपाते यदुदितं दोषोद्रेकं विभज्य तत्| संसर्गेऽपि प्रयुञ्जीत......................||२२||
🔊 Audio coming soon
Adhikarana kAcacikitsA (23) · Śloka 23
........................काचे तिमिरवत् क्रिया| न तु तत्र सिरां विध्येत् दृक्स्थिता यन्त्रपीडतान्| कुर्यारान्ध्यं मला दद्यात्स्राव्ये त्वस्रे जलौकसः||२३||
🔊 Audio coming soon
Adhikarana dhUmarAdInAM cikitsA (24) · Śloka 24
धूमराख्याम्लपित्तोष्णविदाहे जीर्णसर्पिषा| स्निग्धं विरेचयेच्छीतैश्शीतैर्दिह्याच्च सर्वतः| गोशकृद्रसदुग्धाज्यैर्विपक्वं शस्यतेऽञ्जनम्| स्वर्णगैरिकतालीसचूर्णावापा रसक्रिया||२४||
🔊 Audio coming soon
Adhikarana niSAndhyatimirayoScikitsA (25) · Śloka 25
पुराणगुडकासीसपिप्पलीकट्फलाद्रजः| भावितं त्रिफलाम्भोभिः शुष्कं गोविड्रसाप्लुतम्| निशान्ध्यतिमिरे सद्यो गुलिका हन्ति तत्कृता| दध्ना विघृष्टं मरिचं रात्र्यन्धाञ्जनमुत्तमम्| भृष्टं घृतं कुम्भयोनेः पत्रैः पाने च पूजितम्| कारञ्जिकोत्पलस्वर्णगैरिकाम्भोजकेसरैः| पोविड्रसेन पिष्टेयं वर्त्तिर्नक्तान्ध्यनाशिनी| क्षौद्रजातीरसाभ्यां वा द्विहरिद्रारसाञ्जनैः| अजामूत्रेण वा कौन्तीकृष्णास्रोतोजसैन्धवः| गोशकृद्रसपिष्टैर्वा द्विनिशापिप्पलीयुतैः| कालानुसारितालीसपत्रयष्ट्याह्वनागरैः| कणा वा कापिले पित्ते मासार्धं परिभाविता| यकृत्पित्तेषु वा गोधाशशर्श्यरुरुबर्हिणाम्| खदेच्च प्लीहयकृती माहिषे तैलसर्पिषा| घृते सिद्धानि जीवन्त्याः पल्लवानि च भक्षयेत्| तथाऽतिमुक्तकैरण्डसोहलाभीरुजानि च||२५||
🔊 Audio coming soon
Adhikarana akShiroge pathyApathyam (26) · Śloka 26
व्रणवच्चाक्षिरोगेषु भोज्याभोज्यानि निर्दिशेत्| अविधारितवेगस्य भजतोऽञ्जननावनम्| त्यजतः क्रोधशोकौ च तिमिरं नाश्नुतेऽन्तरम्| त्रिफलामश्नतो रात्रौ संस्कृतं पिबतो घृतम्| भुक्त्वा चापिबतस्तोयं तिमिरं लघु शाम्यति| सुषभव्यं सुकन्यां च स्कन्दं च्यवनमश्विनौ| षडोतान् यः स्मरेन्नित्यं तस्य चक्षुर्न हीयते||२६||
🔊 Audio coming soon
Adhikarana BrAmakaM timiram ( timirABAsaH ) (27) · Śloka 27
चिन्ताभिग़ातभीशोकरौक्ष्यामोत्कुटिकासनात्| विरेकनस्यवमनपुटपाकादिविभ्रमात्| विदग्धाहारवमनात् क्षुत्तृष्णादिविधारणात्| अक्षिरोगावसानाश्च पश्येत्तिमिररोगिवत्| यथास्वं तत्र युञ्जीत दोषादीन् वीक्ष्य भैषजम्||२७||
🔊 Audio coming soon
Adhikarana upaghAtaja timiracikitsA (28) · Śloka 28
सूर्योपरागानलविद्युदादि विलोकनेनोपहतेक्षणस्य| सन्तर्पणं स्निग्धहिमादि योज्यं तथाञ्जंनं हेमघृतेन घृष्टम्||२८||
🔊 Audio coming soon
Adhikarana cakShUrakShAyAH praSaMsA (29) · Śloka 29
चक्षूरक्षायां सर्वकालं मनुष्यै- र्यत्नः कर्त्तव्यो जीविते यावदिच्छा| व्यर्थो लोकोऽयं तुल्यरात्रिन्दिवानां पुंसामन्धानां विद्यमानेऽपि वित्ते||२९||
🔊 Audio coming soon
Adhikarana cakShUrakShA (30-16) · Śloka 16
त्रिफलारुधिरस्रुतिर्विशुद्धिर्मनसो निर्वृतिरञ्जनं सनस्यम्| शकुनाशनता सपादपूजा घृतपानं च सदैव नेत्ररक्षा| अहितादर्शनात्सदा निवृत्तिर्भृशभास्वच्चलसूक्ष्मवीक्षणाच्चं| मुनिना निमिनोपदिष्टमेतत्परमं रक्षणमीक्षणस्य पुंसाम्| तमालतुटिकुङ्कुमान्यसितमुत्पलं पिप्पली सिताञ्जनमयोरजोमरिचकाकमाचीत्वचः| सयष्टिमधुकाञ्जनान्युदधिफेनमक्ष्यामये ष्वनुत्तममतोऽञ्जनं विमलमाशु तैमिर्यहृत्||३०|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे तिमिरप्रतिषेधो नाम षोडशोऽध्यायः||१६||
🔊 Audio coming soon