Adhikarana 1 (1-2) · Śloka 2
अथातो विसर्पचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पूर्वाध्याये छर्दिवेगविघाताद्विसर्पाणामुत्पत्तेश्छर्द्यनन्तरं विसर्पस्य चिकित्सितमुच्यते| छर्देश्च रक्तदूषकत्वं विधिशोणितीये “छर्देर्वेगप्रतीघातात्” (सू.अ.२८) इत्यादिना “शरत्कालस्वभावाच्च शोणितं सम्प्रदूष्यति” (सू.अ.२८) इत्यन्तेनोक्तम्||१-२||
Adhikarana 2 (3-10) · Śloka 10
कैलासे किन्नराकीर्णे बहुप्रस्रवणौषधे|
पादपैर्विविधैः स्निग्धैर्नित्यं कुसुमसम्पदा||३||
वमद्भिर्मधुरान् गन्धान् सर्वतः स्वभ्यलङ्कृते|
विहरन्तं जितात्मानमात्रेयमृषिवन्दितम्||४||
महर्षिभिः परिवृतं सर्वभूतहिते रतम्|
अग्निवेशो गुरुं काले विनयादिदमुक्तवान्||५||
भगवन्! दारुणं रोगमाशीविषविषोपमम्|
विसर्पन्तं शरीरेषु देहिनामुपलक्षये||६||
सहसैव नरास्तेन परीताः शीघ्रकारिणा|
विनश्यन्त्यनुपक्रान्तास्तत्र नः संशयो महान्||७||
स नाम्ना केन विज्ञेयः सञ्ज्ञितः केन हेतुना|
कतिभेदः कियद्धातुः किन्निदानः किमाश्रयः||८||
सुखसाध्यः कृच्छ्रसाध्यो ज्ञेयो यश्चानुपक्रमः|
कथं कैर्लक्षणैः किं च भगवन्! तस्य भेषजम्||९||
तदग्निवेशस्य वचः श्रुत्वाऽऽत्रेयः पुनर्वसुः|
यथावदखिलं सर्वं प्रोवाच मुनिसत्तमः||१०||
कैलासे इत्यादि| प्रश्नोऽत्र देशगुणोपदर्शनपरः, शोभने हि देशे सुमनसो गुरवः शिष्यैः पृष्टाः सम्यग्वदन्ति| कुसुमसम्पदा पुष्पफलसम्पत्त्या| मधुरान् गन्धान् इष्टान् गन्धान्| विहरन्तं विचरन्तम्| जितात्मानं जितेन्द्रियम्| आशीविषाः सर्पाः| उपलक्षये पश्यामि| अनुपक्रान्ता गदाः केचिद्विनश्यन्ति, यथाव्यङ्गतिलकादयः; किचित्तु उपक्रान्ता अपि चिरेण घ्नन्ति, यथा- मेहगुल्मादयः; अनेन तु गृहीताः शीघ्रमेव विनश्यन्तीति त्वराविशेषं चिकित्सिते दर्शयति| सञ्ज्ञितः केन हेतुनेति कस्माद्धेतोर्वक्ष्यमाणविसर्पा विसर्पसञ्ज्ञया आख्याता इत्यर्थः| कियद्धातुरिति कतिधातुकारणकः| कथं कैर्लक्षणैरिति कथम्भूतः कैर्लक्षणैर्ज्ञेय इत्यर्थः||३-१०||
Adhikarana 3 (11) · Śloka 11
विविधं सर्पति यतो विसर्पस्तेन स स्मृतः|
परिसर्पोऽथवा नाम्ना सर्वतः परिसर्पणात्||११||
विविधमित्यादिना यथाक्रमं प्रश्नानामुत्तरमाह| विविधं सर्पतीति अध ऊर्ध्वं तिर्यक् तथा स्फोटशोफादिभिः प्रसरतीति विसर्पः| परिसर्पशब्दार्थं व्याकरोति- परिसर्पोऽथवेत्यादि| परितः सर्वतः, परिशब्दः सर्वतोऽर्थे इत्यर्थः; किंवा परिसर्पणशब्देन सर्पणमात्रमुच्यते, सर्वतःशब्देन परिशब्दार्थो व्याक्रियते, तेनोक्तं- सर्वतः परिसर्पणादिति||११||
Adhikarana 4 (12-14) · Śloka 14
स च सप्तविधो दोषैर्विज्ञेयः सप्तधातुकः|
पृथक् त्रयस्त्रिभिश्चैको विसर्पो द्वन्द्वजास्त्रयः||१२||
वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः|
चत्वार एते विसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः||१३||
आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः|
यस्तु कर्दमको घोरः स पित्तकफसम्भवः||१४||
सप्तविधो दोषैरिति दोषभेदात् सप्तविधो भवति| एतेन साध्यासाध्यभेदोऽप्यस्य सम्भवतीति दर्शयति||१२-१४||
Adhikarana 5 (15) · Śloka 15
रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः|
विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्त धातवः||१५||
पृथगित्यादिना निर्दिष्टं सप्तविधत्वं दर्शयति| रक्तमित्यादिना सप्तधातुत्वं स्फुटयति| रक्तादिदोषत्वं कुष्ठे यद्यप्यस्ति, तथाऽपि विसर्पणशीलैर्दोषैर्विसर्पाः, कुष्ठानि तु चिरक्रियैर्दोषैर्जायन्त इत्यादि कुष्ठचिकित्सिते एव प्रपञ्चितमनुसरणीयम्| दोषास्त्रयो मला इत्यत्र दोषशब्देनैव वातादिप्राप्तौ मला इति अत्यर्थदुष्ट्यां शरीरमलिनीकरणत्वं प्रतिपादयितुमुक्तम्| उक्तं चान्यत्र- “शरीरदूषणाद्दोषा मलिनीकरणान्मलाः| धारणाद्धातवश्च स्युर्वातपित्तकफास्त्रयः” इति||१५||
Adhikarana 6 (16-22) · Śloka 22
लवणाम्लकटूष्णानां रसानामतिसेवनात्|
दध्यम्लमस्तुशुक्तानां सुरासौवीरकस्य च||१६||
व्यापन्नबहुमद्योष्णरागषाडवसेवनात्|
शाकानां हरितानां च सेवनाच्च विदाहिनाम्||१७||
कूर्चिकानां किलाटानां सेवनान्मन्दकस्य च|
दध्नः शाण्डाकिपूर्वाणामासुतानां च सेवनात्||१८||
तिलमाषकुलत्थानां तैलानां पैष्टिकस्य च|
ग्राम्यानूपौदकानां च मांसानां लशुनस्य च||१९||
प्रक्लिन्नानामसात्म्यानां विरुद्धानां च सेवनात्|
अत्यादानाद्दिवास्वप्नादजीर्णाध्यशनात् क्षतात्||२०||
क्षतबन्धप्रपतनाद्धर्मकर्मातिसेवनात् |
विषवाताग्निदोषाच्च विसर्पाणां समुद्भवः||२१||
एतैर्निदानैर्व्यामिश्रैः कुपिता मारुतादयः|
दूष्यान् सन्दूष्य रक्तादीन् विसर्पन्त्यहिताशिनाम्||२२||
जायते कैश्च हेतुभिरित्यस्योत्तरं- लवणाम्लेत्यादि| उष्णानामिति उष्णवीर्याणां, सैन्धवामलकादीनां लवणाम्लकटूनामपि शीतवीर्यत्वादुष्णानामिति कृतम्| हरितानामिति हरितशाकवर्गपठितानामार्द्रकादीनाम्| कूर्चिका दधिकूर्चिका तक्रकूर्चिका च, किलाटः नष्टक्षीरपिण्डः| मन्दकस्येति मन्दजातस्य दध्नः| शाण्डाकिपूर्वाणामिति शाण्डाकीसन्धानानाम्| अजीर्णेऽशनमजीर्णाशनं, किंवा अजीर्णस्यापरिणतस्याशनम्; अविदग्धे पूर्वदिनान्नेऽशनमध्यशनम्| व्यामिश्रैः सम्मिश्रैः||१६-२२||
Adhikarana 7 (23-25) · Śloka 25
बहिःश्रितः श्रितश्चान्तस्तथा चोभयसंश्रितः|
विसर्पो बलमेतेषां ज्ञेयं गुरु यथोत्तरम्||२३||
बहिर्मार्गाश्रितं साध्यमसाध्यमुभयाश्रितम्|
विसर्पं दारुणं विद्यात् सुकृच्छ्रं त्वन्तराश्रयम्||२४||
अन्तःप्रकुपिता दोषा विसर्पन्त्यन्तराश्रये|
बहिर्बहिःप्रकुपिताः सर्वत्रोभयसंश्रिताः||२५||
साध्यासाध्यविभागज्ञानार्थं शाखाश्रितत्वादीनाह- बहिरित्यादि| यथोत्तरमिति बहिःश्रितादन्तःश्रितः, अन्तःश्रितादुभयाश्रितो गुरुरित्यर्थः| अन्तराश्रये इति अन्तःशरीरे, बहिरिति शाखायां, सर्पति||२३-२५||
Adhikarana 8 (26-27) · Śloka 27
मर्मोपघातात् सम्मोहादयनानां विघट्टनात्|
तृष्णातियोगाद्वेगानां विषमाणां प्रवर्तनात्||२६||
विद्याद्विसर्पमन्तर्जमाशु चाग्निबलक्षयात्|
अतो विपर्ययाद्बाह्यमन्यैर्विद्यात् स्वलक्षणैः||२७||
अन्तराश्रयादि विसर्पलक्षणमाह- मर्मोपघातादित्यादि| मर्मेति हृदयम्| विद्यात् स्वलक्षणैरिति वक्ष्यमाणविसर्पलक्षणैः||२६-२७||
Adhikarana 9 (28) · Śloka 28
यस्य सर्वाणि लिङ्गानि बलवद्यस्य कारणम्|
यस्य चोपद्रवाः कष्टा मर्मगो यश्च हन्ति सः||२८||
यस्य सर्वाणीति अन्तराश्रयबहिराश्रयविसर्पलक्षणानि||२८||
Adhikarana 10 (29-30) · Śloka 30
रूक्षोष्णैः केवलो वायुः पूरणैर्वा समावृतः|
प्रदुष्टो दूषयन् दूष्यान् विसर्पति यथाबलम्||२९||
तस्य रूपाणि- भ्रमदवथुपिपासानिस्तोदशूलाङ्गमर्दोद्वेष्टनकम्पज्वरतमक- कासास्थिसन्धिभेदविश्लेषणवेपनारोचकाविपाकाश्चक्षुषोराकुलत्वमस्रागमनं पिपीलिकासञ्चार इव चाङ्गेषु, यस्मिंश्चावकाशे विसर्पो विसर्पति सोऽवकाशः श्यावारुणाभासः श्वयथुमान् निस्तोदभेदशूलायामसङ्कोचहर्षस्फुरणैरतिमात्रं प्रपीड्यते, अनुपक्रान्तश्चोपचीयते शीघ्रभेदैः स्फोटकैस्तनुभिररुणाभैः श्यावैर्वा तनुविशदारुणाल्पास्रावैः, विबद्धवातमूत्रपुरीषश्च भवति, निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत इति वातविसर्पः||३०||
रूक्षोष्णैरित्यादिना पृथग्घेतुलक्षणमाह| अत्र च रूक्षादिभिः स्वतन्त्रः, पूरणेन च मार्गावरोधात् कुपितः परतन्त्रो वायुर्ज्ञेयः| उष्णं च यद्यपि न साक्षाद्वातजनकं तथाऽपि रूक्षसम्बन्धादुष्णं वातं करोति| उष्णसम्बद्धत्वसामान्यसम्प्राप्तिसम्प्राप्तमिह यत् पित्तं तज्जन्यत इति ज्ञेयम्| दवथुः चक्षुरादिष्वत्यर्थतापः, दवथुश्च पैत्तिकोऽप्यत्र उत्सर्गसिद्धविसर्पार्थगामिपित्तरक्तसम्भवाद्भवति||२९-३०||
Adhikarana 11 (31-32) · Śloka 32
पित्तमुष्णोपचारेण विदाह्यम्लाशनैश्चितम्|
दूष्यान् सन्दूष्य धमनीः पूरयन् वै विसर्पति||३१||
तस्य रूपाणि- ज्वरस्तृष्णा मूर्च्छा मोहश्छर्दिररोचकोऽङ्गभेदः स्वेदोऽतिमात्रमन्तर्दाहः प्रलापः शिरोरुक् चक्षुषोराकुलत्वमस्वप्नमरतिर्भ्रमः शीतवातवारितर्षोऽतिमात्रं हरितहारिद्रनेत्रमूत्रवर्चस्त्वं हरितहारिद्ररूपदर्शनं च, यस्मिंश्चावकाशे विसर्पोऽनुसर्पति सोऽवकाशस्ताम्रहरितहारिद्रनीलकृष्णरक्तानां वर्णानामन्यतमं पुष्यति, सोत्सेधैश्चातिमात्रं दाहसम्भेदनपरीतैः स्फोटकैरुपचीयते तुल्यवर्णास्रावैश्चिरपाकैश्च, निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत इति पित्तविसर्पः||३२||
पित्तमित्यादिना पैत्तिकमाह| धमनीः पूरयन्निति पदं यद्यपि पैत्तिके एवाक्तं, तथाऽपि ‘समानेष्वर्थेष्वेकत्राभिहितो विधिरन्यत्राप्यनुसञ्जनीयः’ इति न्यायादन्यविसर्पेष्वपि ज्ञेयम्| अयं च समानो विधिः पित्तप्रधानत्वाद्विसर्पाणां पित्तविकारे एवोक्तः| शीतवातशीततोययोस्तृष्णा शीतवातवारितर्षः| अवकाशे इति देशे||३१-३२||
Adhikarana 12 (33-34) · Śloka 34
स्वाद्वम्ललवणस्निग्धगुर्वन्नस्वप्नसञ्चितः|
कफः सन्दूषयन् दूष्यान् कृच्छ्रमङ्गे विसर्पति||३३||
तस्य रूपाणि- शीतकः शीतज्वरो गौरवं निद्रा तन्द्राऽरोचको मधुरास्यत्वमास्योपलेपो निष्ठीविका छर्दिरालस्यं स्तैमित्यमग्निनाशो दौर्बल्यं च, यस्मिंश्चावकाशे विसर्पोऽनुसर्पति सोऽवकाशः श्वयथुमान् पाण्डुर्नातिरक्तः स्नेहसुप्तिस्तम्भगौरवैरन्वितोऽल्पवेदनः कृच्छ्रपाकैश्चिरकारिभिर्बहुलत्वगुपलेपैः स्फोटः श्वेतपाण्डुभिरनुबध्यते, प्रभिन्नस्तु श्वेतं पिच्छिलं तन्तुमद्धनमनुबद्धं स्निग्धमास्रावं स्रवति, ऊर्ध्वं च गुरुभिः स्थिरैर्जालावततैः स्निग्धैर्बहुलत्वगुपलेपैर्व्रणैरनुबध्यतेऽनुषङ्गी च भवति, श्वेतनखनयनवदनत्वङ्मूत्रवर्चस्त्वं, निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत इति श्लेष्मविसर्पः||३४||
स्वाद्वम्लेत्यादिना कफजमाह| हेत्वन्तरेष्वपि श्लेष्मणो विद्यमानेषु स्वाद्वादीनामभिधानमेषामेव प्रायो विसर्पजनकत्वात्| एवं वातपित्तजनकहेत्वभिधानेऽपि वर्णनीयम्| कृच्छ्रमङ्गे विसर्पति शीघ्र शरीरे न विसर्पति| शीतकः शीतम्| ऊर्ध्वमिति अत ऊर्ध्वकालम्; किंवा ऊर्ध्वकाये, श्लेष्मण ऊर्ध्वकये एवावस्थानात्| जालावततैरिति जालावततैरिवेत्यर्थः| अनुषङ्गी चिरकालस्थायी||३३-३४||
Adhikarana 13 (35-36) · Śloka 36
वातपित्तं प्रकुपितमतिमात्रं स्वहेतुभिः|
परस्परं लब्धबलं दहद्गात्रं विसर्पति||३५||
तदुपतापादातुरः सर्वशरीरमङ्गारैरिवाकीर्यमाणं मन्यते, छर्द्यतीसारमूर्च्छादाहमोहज्वरतमकारोचकास्थिसन्धिभेदतृष्णाविपाकाङ्गभेदादिभिश्चाभिभूयते, यं यं चावकाशं विसर्पोऽनुसर्पति सोऽवकाशः शान्ताङ्गारप्रकाशोऽतिरक्तो वा भवति, अग्निदग्धप्रकारैश्च स्फोटैरुपचीयते, स शीघ्रगत्वादाश्वेव मर्मानुसारी भवति, मर्मणि चोपतप्ते पवनोऽतिबलो भिनत्त्यङ्गान्यतिमात्रं प्रमोहयति सञ्ज्ञां, हिक्काश्वासौ जनयति, नाशयति निद्रां, स नष्टनिद्रः प्रमूढसञ्ज्ञो व्यथितचेता न क्वचन सुखमुपलभते, अरतिपरीतः स्थानादासनाच्छय्यां क्रान्तुमिच्छति, क्लिष्टभूयिष्ठश्चाशु निद्रां भजति, दुर्बलो दुःखप्रबोधश्च भवति; तमेवंविधमग्निविसर्पपरीतमचिकित्स्यं विद्यात्||३६||
वातपित्तमित्यादिनाऽग्निविसर्पलक्षणमाह| परस्परं लब्धबलमिति वातपित्तं चान्योन्यं वर्धितशक्तिकम्| शान्ताङ्गारप्रकाश इति निर्वाणाङ्गारसदृशः कृष्ण इत्यर्थः| स्थानात् उर्ध्वावस्थानात्| क्रान्तुं गन्तुम्| एवंविधमित्यनेन अग्निविसर्पस्य ‘अनुपहते मर्मणि’ इत्यादिना साध्यत्वेन वक्ष्यमाणाऽवस्था व्यवस्थिता||३५-३६||
Adhikarana 14 (37-38) · Śloka 38
कफपित्तं प्रकुपित्तं बलवत् स्वेन हेतुना|
विसर्पत्येकदेशे तु प्रक्लेदयति देहिनम्||३७||
तद्विकाराः- शीतज्वरः शिरोगुरुत्वं दाहः स्तैमित्यमङ्गावसदनं निद्रा तन्द्रा मोहोऽन्नद्वेषः प्रलापोऽग्निनाशो दौर्बल्यमस्थिभेदो मूर्च्छा पिपासा स्रोतसां प्रलेपो जाड्यमिन्द्रियाणां प्रायोपवेशनमङ्गविक्षेपोऽङ्गमर्दोऽरतिरौत्सुक्यं चोपजायते, प्रायश्चामाशये विसर्पत्यलसक एकदेशग्राही च, यस्मिंश्चावकाशे विसर्पो विसर्पति सोऽवकाशो रक्तपीतपाण्डुपिडकावकीर्ण इव मेचकाभः कालो मलिनः स्निग्धो बहूष्मा गुरुः स्तिमितवेदनः श्वयथुमान् गम्भीरपाको निरास्रावः शीघ्रक्लेदः स्विन्नक्लिन्नपूतिमांसत्वक् क्रमेणाल्परुक् परामृष्टोऽवदीर्यते कर्दम इवावपीडितोऽन्तरं प्रयच्छत्युपक्लिन्नपूतिमांसत्यागी सिरास्नायुसन्दर्शी कुणपगन्धी च भवति सञ्ज्ञास्मृतिहन्ता च; तं कर्दमविसर्पपरीतमचिकित्स्यं विद्यात्||३८||
कफपित्तमित्यादिना कर्दमविसर्पमाह| प्रायाश्चामाशये विसर्पतीति कर्दमस्य कफपित्तजन्यत्वात् कफपित्तयोश्च आमाशयस्थितत्वादिति भावः| अलसक इति मन्दविसर्पी| एकदेशग्राही न सर्वशरीरव्यापकः| मलिनः मलदिग्धः| स्तिमितवेदन इति मन्दवेदनः| गम्भीरपाकः अन्तःपाकः| अन्तरं प्रयच्छतीति अवकाशं ददाति| एतस्य कर्दमसारूप्यात् कर्दमसञ्ज्ञा ज्ञेया| तं कर्दमविसर्पपरीतमचिकित्स्यं विद्यादिति यथोक्तसर्वलक्षणं कर्दममसाध्यं विद्यात्; असम्पूर्णलक्षणं प्रति तु चिकित्सां वक्ष्यत्येव||३७-३८||
Adhikarana 15 (39) · Śloka 39
स्थिरगुरुकठिनमधुरशीतस्निग्धान्नपानाभिष्यन्दिसेविनामव्यायामादिसेविनामप्रतिकर्मशीलानां श्लेष्मा वायुश्च प्रकोपमापद्यते, तावुभौ दुष्टप्रवृद्धावतिबलौ प्रदूष्य दूष्यान् विसर्पाय कल्पेते; तत्र वायुः श्लेष्मणा विबद्धमार्गस्तमेव श्लेष्माणमनेकधा भिन्दन् क्रमेण ग्रन्थिमालां कृच्छ्रपाकसाध्यां कफाशये सञ्जनयति, उत्सन्नरक्तस्य वा प्रदूष्य रक्तं सिरास्नायुमांसत्वगाश्रितं ग्रन्थीनां मालां कुरुते तीव्ररुजानां स्थूलानामणूनां वा दीर्घवृत्तरक्तानां, तदुपतापाज्ज्वरातिसारकासहिक्काश्वासशोष- प्रमोहवैवर्ण्यारोचकाविपाकप्रसेकच्छर्दिर्मूर्च्छाङ्गभङ्गनिद्रारतिसदनाद्याः प्रादुर्भवन्त्युपद्रवाः; स एतैरुपद्रुतः सर्वकर्मणां विषयमतिपतितो विवर्जनीयो भवतीति ग्रन्थिविसर्पः||३९||
स्थिरेत्यादिना ग्रन्थिविसर्पमाह| दुष्टप्रवृद्धाविति परस्परदूषकत्वेन प्रवृद्धौ| कृच्छ्रपाकसाध्यामिति च कृच्छ्रपाकां कृच्छ्रसाध्यां च; कृच्छ्रपाकता च चिरेण पाकाज्ज्ञेया| उत्सन्नरक्तस्येति वृद्धरक्तस्य| सिरास्नायुमांसेत्यादौ ग्रन्थिविसर्पं कुरुत इति योज्यं; तेन तीव्ररुजादियुक्तानां ग्रन्थीनामाश्रयं ग्रन्थिविसर्पं कुरुत इत्यर्थः| तदुपतापादिति तेन ग्रन्थिविसर्पेण पीडनात्| सर्वकर्मणां विषयमतिपतितो भवतीति सर्वचिकित्साविषयतामतिक्रान्तो भवतीत्यर्थः| सशब्देन चेह यथोक्तोपद्रवयुक्त एव ग्रन्थिविसर्पः प्रत्यवमृश्यते| अयं च ग्रन्थिविसर्पस्तन्त्रान्तरे अपचीसञ्ज्ञया कथ्यत इत्याहुः||३९||
Adhikarana 16 (40) · Śloka 40
उपद्रवस्तु खलु रोगोत्तरकालजो रोगाश्रयो रोग एव स्थूलोऽणुर्वा, रोगात् पश्चाज्जायत इत्युपद्रवसञ्ज्ञः|
तत्र प्रधानो व्याधिः, व्याधेर्गुणभूत उपद्रवः, तस्य प्रायः प्रधानप्रशमे प्रशमो भवति|
स तु पीडाकरतरो भवति पश्चादुत्पद्यमानो व्याधिपरिक्लिष्टशरीरत्वात्; तस्मादुपद्रवं त्वरमाणोऽभिबाधेत||४०||
विसर्पाणां बहूपद्रवतया अनुषङ्गादिहैवोपद्रवस्वरूपं व्याकरोति- उपद्रवस्त्वित्यादि| तुशब्दः मूलव्याधिव्यवच्छेदे, अथवा तुशब्दः प्रकाशने| रोगोत्तरकालज इति रोगमध्यकालजः; एतेन रोगसहोत्पन्नस्य लिङ्गस्य व्यवच्छेदः| यानि च लिङ्गान्यपि कदाचिद्रोगोत्तरकालजानि भवन्ति तानि रोगेण सह प्राय उत्पद्यमानतया न रोगोत्तरकालजान्येव, तेन न तेषामुपद्रवत्वम्| रोगाश्रय इति रोगारम्भकदोषप्रकोपजन्यतया रोगेण समं तुल्यकारणः| एतेन गलगण्डे जाते स्वहेतूत्पन्नानां ज्वरादीनां रोगोत्तरकालजानामप्युपद्रवत्वं निषेधयति| रोग एवेत्यनेन मूलव्याधेः पृथग्रोगशब्देन व्यवह्रियमाणमुपद्रवं ग्राहयति; तेन व्याध्यवस्थाया रोगोत्तरकालजाया व्यवच्छेदं करोति| ततश्च शोथस्य या व्रणरूपाऽवस्था तस्या व्युदासः, तथा सर्वासामपि व्याध्यवस्थानामवस्थालक्षणयुक्तानां व्युदासः कृतो भवति; अवस्था व्याधेरवश्यम्भावितया मूलव्याधिस्वरूपा एव, उपद्रवस्तु नावश्यं भवति| यद्यपि केचिन्महाबलदोषारब्धा व्याधय उपद्रवयुक्ता एवोत्पद्यन्ते, सहोत्पन्ने चोपद्रवार्थो नास्ति, तथाऽपि ये गदा उपद्रवरूपा जायन्ते ते तत्र सहोत्पन्ना अपि योग्यतया उपद्रवा भण्यन्ते| परमार्थतस्तु सहभाविनो नोपद्रवलक्षणयुक्ताः, किन्तु रोगसङ्करत्वेन तत्र जायन्त इति| एतदुपद्रवलक्षणार्थो एव सुश्रुतः- “तत्रौपसर्गिको नाम यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजति स तन्मूल एवोपद्रवसञ्ज्ञः” (सु.सू.अ.३५) इति| उपद्रवप्रकारमाह- स्थूलोऽणुर्वेति| उपद्रवसञ्ज्ञानिरुक्तिमाह- पश्चाज्जायत इति उपद्रवसञ्ज्ञ इति| एतेन उपद्रवति व्याध्युत्पादसमीपे उपैतीति उपद्रवः, इति निरुक्तिः कृता भवति| व्याधेर्गुणभूत इति मूलव्याध्यपेक्षयाऽप्रधानमित्यर्थः| गुणभूतत्वे एव हेतुमाह- तस्य प्रायः प्रधानप्रशमे शम इति|- मूलव्याधिप्रशमाधीनप्रशमत्वादुपद्रवस्याप्राधान्यमित्यर्थः| प्रायःशब्देन च व्यभिचारवाचिना क्वचिदुपद्रवस्य स्वतन्त्रा चिकित्साऽप्युक्ता| उपद्रवस्य आशुचिकित्स्यत्वं व्युत्पादयन्नाह- स त्वित्यादि| व्याधिपरिक्लिष्टशरीरत्वादिति दिग्योगे पञ्चमी; तेन व्याधिपरिक्लिष्टस्य पश्चादुत्पद्यमानतया पीडाकरतरो भवतीति वाक्यार्थः| उपसंहरति- तस्मादित्यादि| अभिबाधेतेति त्वरया चिकित्सेत्; सा च चिकित्सा मूलव्याधिप्रशमनेन तथा स्वतन्त्राऽपि भवतीत्युक्तमेव||४०||
Adhikarana 17 (41) · Śloka 41
सर्वायतनसमुत्थं सर्वलिङ्गव्यापिनं सर्वधात्वनुसारिणमाशुकारिणं महात्ययिकमिति सन्निपातविसर्पमचिकित्स्यं विद्यात्||४१||
सम्प्रति प्रक्रान्तं सन्निपातविसर्पमाह- सर्वेत्यादि| सर्वायतनसमुत्थमिति सर्वहेतुभवम्| सर्वलिङ्गव्यापिनमिति वातादिजोक्तसर्वलक्षणयुक्तम्| सर्वधात्वनुसारिणमिति विसर्पाश्रयत्वेनोक्तानामनुक्तानामपि च धातूनामाश्रयित्वं दर्शयति| तथा हि मसूरिकाया विसर्परूपाया एव तन्त्रान्तरे सकलधात्वाश्रयत्वमुक्तं, तदुत्सर्गतो विसर्पाणां दोषातिमात्रदुष्ट्या सप्तधातुकेतरधातुदुष्टिरपि भवतीति||४१||
Adhikarana 18 (42) · Śloka 42
तत्र वातपित्तश्लेष्मनिमित्ता विसर्पास्त्रयः साध्या भवन्ति; अग्निकर्दमाख्यौ पुनरनुपसृष्टे मर्मणि अनुपगते वा सिरास्नायुमांसक्लेदे साधारणक्रियाभिरुभावेवाभ्यस्यमानौ प्रशान्तिमापद्येयाताम्, अनादरोपक्रान्तः पुनस्तयोरन्यतरो हन्याद्देहमाश्वेवाशीविषवत्; तथा ग्रन्थिविसर्पमजातोपद्रवमारभेत चिकित्सितुम्, उपद्रवोपद्रुतं त्वेनं परिहरेत्; सन्निपातजं तु सर्वधात्वनुसारित्वादाशुकारित्वाद्विरुद्धोपक्रमत्वाच्चासाध्यं विद्यात्||४२||
मर्मणीति हृदयादिप्रधानमर्मणि| साधारणक्रियाभिरिति आरम्भकदोषयोः समानाभिः क्रियाभिः| अभ्यस्यमानाविति सततमुपचर्यमाणौ| अनादरोपक्रान्त इति असम्यगुपक्रान्तः| तेन पूर्वं सर्वथाऽनुपक्रमे “ये हन्युरनुपक्रान्ताः” (सू.अ.१८) इत्यनेन मारकत्वमुक्तम्, इह तु असम्यगुपक्रमे इति विशेषः||४२||
Adhikarana 19 (43-49) · Śloka 49
तत्र साध्यानां साधनमनुव्याख्यास्यामः||४३||
लङ्घनोल्लेखने शस्ते तिक्तकानां च सेवनम्|
कफस्थानगते सामे रूक्षशीतैः प्रलेपयेत्||४४||
पित्तस्थानगतेऽप्येतत् सामे कुर्याच्चिकित्सितम्|
शोणितस्यावसेकं च विरेकं च विशेषतः||४५||
मारुताशयसम्भूतेऽप्यादितः स्याद्विरूक्षणम्|
रक्तपित्तान्वयेऽप्यादौ स्नेहनं न हितं मतम्||४६||
वातोल्बणे तिक्तघृतं पैत्तिके च प्रशस्यते|
लघुदोषे, महादोषे पैत्तिके स्याद्विरेचनम्||४७||
न घृतं बहुदोषाय देयं यन्न विरेचयेत्|
तेन दोषो ह्युपष्टब्धस्त्वङ्मांसरुधिरं पचेत्||४८||
तस्माद्विरेकमेवादौ शस्तं विद्याद्विसर्पिणः|
रुधिरस्यावसेकं च तद्ध्यस्याश्रयसञ्ज्ञितम्||४९||
तत्र साध्यानामित्यादिना चिकित्सामाह| उल्लेखनं वमनम्| कफस्थानगत इति ऊर्ध्वकायगते| पित्तस्थानत्वेन मध्यशरीरं, मारुताशयशब्देन च पक्वाशयाधःशरीरं गृह्यते| वातोल्बणे तिक्तघृतं पैत्तिके च प्रशस्यते लघुदोषे इति च्छेदः; तेन लघुदोषे पैत्तिके इति योज्यम्| बहुदोषायेति पित्तस्य प्रकृतत्वाद् बहुपित्तायेत्यर्थः| तेनेति अविरेचनघृतेन| तद्ध्यस्याश्रितसञ्ज्ञितमिति तत् शोणितमस्य विसर्पस्य आश्रयत्वेन कथितं, तेन शोणितावसेकादाश्रयोच्छेदेन विसर्पोच्छेदो भवतीत्यर्थः||४३-४९||
Adhikarana 20 (50-53) · Śloka 53
इति वीसर्पनुत् प्रोक्तं समासेन चिकित्सितम्|
एतदेव पुनः सर्वं व्यासतः सम्प्रवक्ष्यते||५०||
मदनं मधुकं निम्बं वत्सकस्य फलानि च|
वमनं सम्प्रदातव्यं विसर्पे कफपित्तजे||५१||
पटोलपिचुमर्दाभ्यां पिप्पल्या मदनेन च|
विसर्पे वमनं शस्तं तथा चेन्द्रयवैः सह||५२||
यांश्च योगान् प्रवक्ष्याभि कल्पेषु कफपित्तिनाम्|
विसर्पिणां प्रयोज्यास्ते दोषनिर्हरणाः शिवाः||५३||
व्यासत इति विस्तरेण| कफपित्तजे इति व्यस्तसमस्तकफपित्तजे||५०-५३||
Adhikarana 21 (54-61) · Śloka 61
मुस्तनिम्बपटोलानां चन्दनोत्पलयोरपि|
सारिवामलकोशीरमुस्तानां वा विचक्षणः||५४||
कषायान् पाययेद्वैद्यः सिद्धान् वीसर्पनाशनान्|
किराततिक्तकं लोध्रं चन्दनं सदुरालभम्||५५||
नागरं पद्मकिञ्जल्कमुत्पलं सबिभीतकम्|
मधुकं नागपुष्पं च दद्याद्वीसर्पशान्तये||५६||
प्रपौण्डरीकं मधुकं पद्मकिञ्जल्कमुत्पलम्|
नागपुष्पं च लोध्रं च तेनैव विधिना पिबेत्||५७||
द्राक्षां पर्पटकं शुण्ठीं गुडूचीं धन्वयासकम्|
निशापर्युषितं दद्यात्तृष्णावीसर्पशान्तये||५८||
पटोलं पिचुमर्दं च दार्वीं कटुकरोहिणीम्|
यष्ट्याह्वां त्रायमाणां च दद्याद्वीसर्पशान्तये||५९||
पटोलादिकषायं वा पिबेत्त्रिफलया सह|
मसूरविदलैर्युक्तं घृतमिश्रं प्रदापयेत्||६०||
पटोलपत्रमुद्गानां रसमामलकस्य च|
पाययेत घृतोन्मिश्रं नरं वीसर्पपीडितम्||६१||
किराततिक्तादिरपि कषाययोग एव| तेनैव विधिनेति मुस्तादियोगोक्तकषायविधिना| निशापर्युषितमिति शीतकषायम्| अयं च शीतकषायविधिः पटोलमित्यादावपि योज्यः| मसूरविदलैरिति मसूराणां विदलैः; न चात्र विदला श्यामा, तस्याः स्त्रीलिङ्गत्वात्||५४-६१||
Adhikarana 22 (62-67) · Śloka 68
यच्च सर्पिर्महातिक्तं पित्तकुष्ठनिबर्हणम्|
निर्दिष्टं तदपि प्राज्ञो दद्याद्वीसर्पशान्तये||६२||
त्रायमाणाघृतं सिद्धं गौल्मिके यदुदाहृतम्|
विसर्पाणां प्रशान्त्यर्थं दद्यात्तदपि बुद्धिमान्||६३||
त्रिवृच्चूर्णं समालोड्य सर्पिषा पयसाऽपि वा|
घर्माम्बुना वा संयोज्य मृद्वीकानां रसेन वा||६४||
विरेकार्थं प्रयोक्तव्यं सिद्धं वीसर्पनाशनम्|
त्रायमाणाशृतं वाऽपि पयो दद्याद्विरेचनम्||६५||
त्रिफलारससंयुक्तं सर्पिस्त्रिवृतया सह|
प्रयोक्तव्यं विरेकार्थं विसर्पज्वरनाशनम्||६६||
रसमामलकानां वा घृतमिश्रं प्रदापयेत्|
स एव गुरुकोष्ठाय त्रिवृच्चूर्णयुतो हितः||६७||
दोषे कोष्ठगते भूय एतत् कुर्याच्चिकित्सितम्|६८|
त्रिफलारसेत्यादौ त्रिफलारसादिभिः समं मिश्रितं घृतं देयम्| गुरुकोष्ठायेति क्रूरकोष्ठाय; अन्ये दोषपूर्णकोष्ठं गुरुकोष्ठमाहुः| दोषे कोष्ठगते भूय इत्यत्र भूयःशब्दः प्रायोवाची||६२-६७||-
Adhikarana 23 (68-70) · Śloka 70
शाखादुष्टे तु रुधिरे रक्तमेवादितो हरेत्||६८||
भिषग्वातान्वितं रक्तं विषाणेन विनिर्हरेत्|
पित्तान्वितं जलौकोभिः, कफान्वितमलाबुभिः||६९||
यथासन्नं विकारस्य व्यधयेदाशु वा सिराम्|
त्वङ्मांसस्नायुसङ्क्लेदो रक्तक्लेदाद्धि जायते||७०||
शाखाश्रयदोषैर्दुष्टे रक्ते चिकित्सामाह- शाखादुष्ट इत्यादि| शाखादुष्टे रक्ते दोषविशेषेण रक्तावसेकोपायमाह- वातान्वितमित्यादि| रक्तावसेकविधानं चेह पराधिकारत्वान्नोक्तं, तच्च सुश्रुते ज्ञेयम्| यथासन्नमिति या विकारप्रत्यासन्ना सिरा तां व्यधयेत्| सिराव्यधश्च सर्वसाधारणः| रक्तानपहरणे दोषमाह- त्वङ्मांसेत्यादि||६८-७०||
Adhikarana 24 (71-97) · Śloka 98
अन्तःशरीरे संशुद्धे दोषे त्वङ्मांससंश्रिते|
आदितो वाऽल्पदोषाणां क्रिया बाह्या प्रवक्ष्यते||७१||
उदुम्बरत्वङ्मधुकं पद्मकिञ्जल्कमुत्पलम्|
नागपुष्पं प्रियङ्गुश्च प्रदेहः सघृतो हितः||७२||
न्यग्रोधपादास्तरुणाः कदलीगर्भसंयुताः|
बिसग्रन्थिश्च लेपः स्याच्छतधौतघृताप्लुतः||७३||
कालीयं मधुकं हेम वन्यं चन्दनपद्मकौ|
एला मृणालं फलिनी प्रलेपः स्याद्धृताप्लुतः||७४||
शाद्वलं च मृणालं च शङ्खं चन्दनमुत्पलम्|
वेतसस्य च मूलानि प्रदेहः स्यात् सतण्डुलः||७५||
सारिवा पद्मकिञ्जल्कमुशीरं नीलमुत्पलम्|
मञ्जिष्ठा चन्दनं लोध्रमभया च प्रलेपनम्||७६||
नलदं च हरेणुश्च लोध्रं मधुकपद्मकौ |
दूर्वा सर्जरसश्चैव सघृतं स्यात् प्रलेपनम्||७७||
यावकाः सक्तवश्चैव सर्पिषा सह योजिताः|
प्रदेहो मधुकं वीरा सघृता यवसक्तवः||७८||
बलामुत्पलशालूकं वीरामगुरुचन्दनम्|
कुर्यादालेपनं वैद्यो मृणालं च बिसान्वितम्||७९||
यवचूर्णं समधुकं सघृतं च प्रलेपनम्|
हरेणवो मसुराश्च समुद्गाः श्वेतशालयः||८०||
पृथक् पृथक् प्रदेहाः स्युः सर्वे वा सर्पिषा सह|
पद्मिनीकर्दमः शीतो मौक्तिकं पिष्टमेव वा||८१||
शङ्खः प्रवालः शुक्तिर्वा गैरिकं वा घृताप्लुतम्|
(पृथगेते प्रदेहाश्च हिता ज्ञेया विसर्पिणाम् )|
प्रपौण्डरीकं मधुकं बला शालूकमुत्पलम्||८२||
न्यग्रोधपत्रदुग्धीके सघृतं स्यात् प्रलेपनम्|
बिसानि च मृणालं च सघृताश्च कशेरुकाः||८३||
शतावरीविदार्योश्च कन्दौ धौतघृताप्लुतौ|
शैवालं नलमूलानि गोजिह्वा वृषकर्णिका||८४||
इन्द्राणिशाकं सघृतं शिरीषत्वग्बलाघृतम् |
न्यग्रोधोदुम्बरप्लक्षवेतसाश्वत्थपल्लवैः||८५||
त्वक्कल्कैर्बहुसर्पिर्भिः शीतैरालेपनं हितम्|
प्रदेहाः सर्व एवैते वातपित्तोल्बणे शुभाः||८६||
सकफे तु प्रवक्ष्यामि प्रदेहानपरान् हितान्|
त्रिफलां पद्मकोशीरं समङ्गां करवीरकम्||८७||
नलमूलान्यनन्तां च प्रदेहमुपकल्पयेत्|
खदिरं सप्तपर्णं च मुस्तमारग्वधं धवम्||८८||
कुरण्टकं देवदारु दद्यादालेपनं भिषक्|
आरग्वधस्य पत्राणि त्वचं श्लेष्मातकस्य च||८९||
इन्द्राणिशाकं काकाह्वां शिरीषकुसुमानि च|
शैवालं नलमूलानि वीरां गन्धप्रियङ्गुकाम्||९०||
त्रिफलां मधुकं वीरां शिरीषकुसुमानि च|
प्रपौण्डरीकं ह्रीबेरं दार्वीत्वङ्मधुकं बलाम्||९१||
पृथगालेपनं कुर्याद्द्वन्द्वशः सर्वशोऽपि वा|
प्रदेहाः सर्व एवैते देयाः स्वल्पघृताप्लुताः||९२||
वातपित्तोल्बणे ये तु प्रदेहास्ते घृताधिकाः|
घृतेन शतधौतेन प्रदिह्यात् केवलेन वा||९३||
घृतमण्डेन शीतेन पयसा मधुकाम्बुना|
पञ्चवल्ककषायेण सेचयेच्छीतलेन वा||९४||
वातासृक्पित्तबहुलं विसर्पं बहुशो भिषक्|
सेचनास्ते प्रदेहा ये त एव घृतसाधनाः||९५||
ते चूर्णयोगा वीसर्पव्रणानामवचूर्णनाः|
दूर्वास्वरससिद्धं च घृतं स्याद्व्रणरोपणम्||९६||
दार्वीत्वङ्मधुकं लोध्रं केशरं चावचूर्णनम्|
पटोलः पिचुमर्दश्च त्रिफला मधुकोत्पले||९७||
एतत् प्रक्षालनं सर्पिर्व्रणचूर्णं प्रलेपनम्|९८|
संशुद्धे इति विरेचनशोणितमोक्षणाभ्याम्| आदित इति उत्पत्तावेव| बाह्या इति आलेपपरिषेकादिकाः| न्यग्रोधपादा इति वटप्ररोहाः| कदलीगर्भः गर्भस्था कदली| कालेयं कालेयककाष्ठमिति ख्यातम्| हेम इति नागकेशरचूर्णम्| वन्यं कैवर्तमुस्तकम्| शाद्वलं दुर्वा| मृणालम् उशीरम् | वीरा विदारीकन्दः| हरेणवः वर्तुलकलायाः| श्वेतशालयः अकण्डितशुक्लधान्यानि| दुग्धिका स्वनामख्याता| मृणालं पद्मनालिका| वृषकर्णी मूषिकपर्णिका| काकाह्वा काष्ठोदुम्बरिका| इन्द्राणिः निर्गुण्डी| बलाघृतमिति छेदः| प्लक्षः अल्पदीर्घपत्रः पर्कटी| प्रदेहानपरानित्यनेन पूर्वोक्तप्रदेहा अपि सकफे हिता इति सूचयतीत्येके; पूर्वोक्तप्रदेहापेक्षयैव ‘अपरान्’ इति पदं कृतं, तेन पूर्वोक्तप्रदेहानां भिन्नविषयाणां कफेऽनधिकार इति पश्यामः| अनन्ता उत्पलसारिवा| कुरण्टकः अम्लानकः| श्लेष्मातकः ‘बहुवारक’ इति प्रसिद्धः| इन्द्राणीशाकं केचित् मत्स्याक्षकमाहुः, निर्गुण्डीमेवापरे| गन्धप्रियङ्गुः प्रियङ्गुरेव| शेवालमित्यादिर्व्यस्तसमस्तयोगः| सर्व एवेत्यत्र एते इति कफविहिताः प्रदेहाः| वातपित्तोल्बणे इत्यत्र यद्यपि वातोल्बणे साक्षात् प्रदेहा न विहिताः, तथाऽपि रक्तपित्तोल्बणे ये विहिताः कफे वा, तत्रैव द्रव्यगुणमालोच्य ये वातहरद्रव्यकृता लक्ष्यन्ते त एवाधिकर्तव्या इति ज्ञेयम्| घृतमण्डः घृतसन्तानिका घृतोपरिभवा| पञ्चवल्कं तन्त्रान्तरे- “न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः| सर्वैरेकत्रसंयुक्तैः पञ्चवल्कलमुच्यते” इत्यनेनोक्तम्| अन्ये तु वेतसस्थाने गन्धमुण्डमत्र ग्राहयन्ति| प्रदेहार्थोक्तद्रव्याण्येव परिषेचने घृतसाधने व्रणावचूर्णनेऽपि विदध्यात्| दार्वीत्यादौ एतत्प्रक्षालनमिति एतैर्दार्व्यादिभिः प्रक्षालनार्थक्वाथः कर्तव्यः, तथा घृतं चैतैरेव साधनीयं, तथा चूर्णं च प्रलेपनं कर्तव्यम्||७१-९७||-
Adhikarana 25 (98-107) · Śloka 107
प्रदेहाः सर्व एवैते कर्तव्याः सम्प्रसादनाः ||९८||
क्षणे क्षणे प्रयोक्तव्याः पूर्वमुद्धृत्य लेपनम्|
अधावनोद्धृते पूर्वे प्रदेहा बहुशोऽघनाः||९९||
देयाः प्रदेहाः कफजे पर्याधानोद्धृते घनाः|
त्रिभागाङ्गुष्ठमात्रः स्यात् प्रलेपः कल्कपेषितः||१००||
नातिस्निग्धो न रूक्षश्च न पिण्डो न द्रवः समः|
न च पर्युषितं लेपं कदाचिदवचारयेत्||१०१||
न च तेनैव लेपेन पुनर्जातु प्रलेपयेत्|
क्लेदवीसर्पशूलानि सोष्णाभावात् प्रवर्तयेत्||१०२||
लेपो ह्युपरि पट्टस्य कृतः स्वेदयति व्रणम्|
स्वेदजाः पिडकास्तस्य कण्डूश्चैवोपजायते||१०३||
उपर्युपरि लेपस्य लेपो यद्यवचार्यते|
तानेव दोषाञ्जनयेत् पट्टस्योपरि यान् कृतः||१०४||
अतिस्निग्धोऽतिद्रवश्च लेपो यद्यवचार्यते|
त्वचि न श्लिष्यते सम्यङ्न दोषं शमयत्यपि||१०५||
तन्वालिप्तं न कुर्वीत संशुष्को ह्यापुटायते|
न चौषधिरसो व्याधिं प्राप्नोत्यपि च शुष्यति||१०६||
तन्वालिप्तेन ये दोषास्तानेव जनयेद्भृशम्|
संशुष्कः पीडयेद्व्याधिं निःस्नेहो ह्यवचारितः||१०७||
सम्प्रसादना इति सवर्णकराः, सवर्णत्वे साध्ये कर्तव्या इत्यर्थः; किंवा सम्प्रसादना इति रक्तपित्तप्रसादनाः; तेनायमर्थः- य एते रक्तपित्ते प्रदेहाः कर्तव्या उक्तास्ते क्षणे क्षणे पूर्वं लेपनमुद्धृत्य प्रयोक्तव्याः, न चिरेण नापि पूर्वप्रलेपनोपरीत्यर्थः| अशुष्कावस्थायां पूर्वलेपे उद्धृते सति बहुशः अघना प्रतनुकाश्च कर्तव्याः| कफप्रदेहानां विशेषमाह- देया इत्यादि| पर्याधानोद्धृत इति शुष्कोद्धृते||९८-१०७||
Adhikarana 26 (108-114) · Śloka 114
अन्नपानानि वक्ष्यामि विसर्पाणां निवृत्तये|
लङ्घितेभ्यो हितो मन्थो रूक्षः सक्षौद्रशर्करः||१०८||
मधुरः किञ्चिदम्लो वा दाडिमामलकान्वितः|
सपरूषकमृद्वीकः सखर्जूरः शृताम्बुना||१०९||
तर्पणैर्यवशालीनां सस्नेहा चावलेहिका|
जीर्णे पुराणशालीनां यूषैर्भुञ्जीत भोजनम्||११०||
मुद्गान्मसूरांश्चणकान् यूषार्थमुपकल्पयेत्|
अनम्लान् दाडिमाम्लान् वा पटोलामलकैः सह||१११||
जाङ्गलानां च मांसानां रसांस्तस्योपकल्पयेत्|
रूक्षान् परूषकद्राक्षादाडिमामलकान्वितान्||११२||
रक्ताः श्वेता महाह्वाश्च शालयः षष्टिकैः सह|
भोजनार्थे प्रशस्यन्ते पुराणाः सुपरिस्रुताः||११३||
यवगोधूमशालीनां सात्म्यान्येव प्रदापयेत्|
येषां नात्युचितः शालिर्नरा ये च कफाधिकाः||११४||
भेषजमभिधायान्नपानमाह- अन्नपानानीत्यादि| जीर्णे इति अवलेहिकारूपेऽन्ने जीर्णे| जाङ्गलानामित्यादौ रूक्षानित्यनेन रससंस्कारकस्नेहविरहेण मत्स्याद्यतिस्निग्धमांसापेक्षया रूक्षमांसकृतत्वेन रूक्षत्वं ज्ञेयम्| रक्ता श्वेता महाह्वाश्चेति रक्तशालयः श्वेतशालयो महाशालयश्च; श्वेतशालिर्मागधे ‘पुण्डरीकशालिः’ इति ख्यातः| यवगोधूमेत्यादि यवगोधूमसात्म्यानां तावत् सात्म्यं यवगोधूममेव प्रयोजयेत्| येषां च शालिर्नात्युचितो नाभ्यस्तस्तेषां यवगोधूमावेव देयौ, तयोः कफविरुद्धात्वाद् विसर्पहितत्वाच्च| उक्तं हि- “सर्वं मधुरं कफकरमन्यत्र पुराणाच्छालियवगोधूमात्” (सू.अ.२७) इति||१०८-११४||
Adhikarana 27 (115) · Śloka 115
विदाहीन्यन्नपानानि विरुद्धं स्वपनं दिवा|
क्रोधव्यायामसूर्याग्निप्रवातांश्च विवर्जयेत्||११५||
विसर्पे वर्ज्यान्याह- विदाहीनीत्यादि||११५||
Adhikarana 28 (116-117) · Śloka 117
कुर्याच्चिकित्सितादस्माच्छीतप्रायाणि पैत्तिके|
रूक्षप्रायाणि कफजे स्नैहिकान्यनिलात्मके||११६||
वातपित्तप्रशमनमग्निवीसर्पणे हितम्|
कफपित्तप्रशमनं प्रायः कर्दमसञ्ज्ञिते||११७||
विसर्पे दोषभेदेन चिकित्सामाह- कुर्यादित्यादि||११६-११७||
Adhikarana 29 (118-138) · Śloka 138
रक्तपित्तोत्तरं दृष्ट्वा ग्रन्थिवीसर्पमादितः|
रूक्षणैर्लङ्घनैः सेकैः प्रदेहैः पाञ्चवल्कलैः||११८||
सिरामोक्षैर्जलौकोभिर्वमनैः सविरेचनैः|
घृतैः कषायतिक्तैश्च कालज्ञः समुपाचरेत्||११९||
ऊर्ध्वं चाधश्च शुद्धाय रक्ते चाप्यवसेचिते|
वातश्लेष्महरं कर्म ग्रन्थिवीसर्पिणे हितम्||१२०||
उत्कारिकाभिरुष्णाभिरुपनाहः प्रशस्यते|
स्निग्धाभिर्वेशवारैर्वा ग्रन्थिवीसर्पशूलिनाम्||१२१||
दशमूलोपसिद्धेन तैलेनोष्णेन सेचयेत्|
कुष्ठतैलेन चोष्णेन पाक्यक्षारयुतेन च||१२२||
गोमूत्रैः पत्रनिर्यूहैरुष्णैर्वा परिषेचयेत्|
सुखोष्णया प्रदिह्याद्वा पिष्टया चाश्वगन्धया||१२३||
शुष्कमूलककल्केन नक्तमालत्वचाऽपि वा|
बिभीतकत्वचां वाऽपि कल्केनोष्णेन लेपयेत्||१२४||
बलां नागबलां पथ्यां भूर्जग्रन्थिं बिभीतकम्|
वंशपत्राण्यग्निमन्थं कुर्याद्ग्रन्थिप्रलेपनम्||१२५||
दन्ती चित्रकमूलत्वक् सुधार्कपयसी गुडः|
भल्लातकास्थि कासीसं लेपो भिन्द्याच्छिलामपि||१२६||
बहिर्मार्गास्थितं ग्रन्थिं किं पुनः कफसम्भवम्|
दीर्घकालस्थितं ग्रन्थिं भिन्द्याद्वा भेषजैरिमैः||१२७||
मूलकानां कुलत्थानां यूषैः सक्षारदाडिमैः|
गोधूमान्नैर्यवान्नैर्वा ससीधुमधुशर्करैः||१२८||
सक्षौद्रैर्वारुणीमण्डैर्मातुलुङ्गरसान्वितैः|
त्रिफलायाः प्रयोगैश्च पिप्पलीक्षौद्रसंयुतैः||१२९||
मुस्तभल्लातशक्तूनां प्रयोगैर्माक्षिकस्य च|
देवदारुगुडूच्योश्च प्रयोगैर्गिरिजस्य च||१३०||
धूमैर्विरेकैः शिरसः पूर्वोक्तैर्गुल्मभेदनैः|
अयोलवणपाषाणहेमताम्रप्रपीडनैः||१३१||
आभिः क्रियाभिः सिद्धाभिर्विविधाभिर्बली स्थिरः|
ग्रन्थिः पाषाणकठिनो यदा नैवोपशाम्यति||१३२||
अथास्य दाहः क्षारेण शरैर्हेम्नाऽथ वा हितः|
पाकिभिः पाचयित्वा वा पाटयित्वा समुद्धरेत्||१३३||
मोक्षयेद्बहुशश्चास्य रक्तमुत्क्लेशमागतम्|
पुनश्चापहृते रक्ते वातश्लेष्मजिदौषधम्||१३४||
धूमो विरेकः शिरसः स्वेदनं परिमर्दनम्|
अप्रशाम्यति दोषे च पाचनं वा प्रशस्यते||१३५||
प्रक्लिन्नं दाहपाकाभ्यां भिषक् शोधनरोपणैः|
बाह्यैश्चाभ्यन्तरैश्चैव व्रणवत् समुपाचरेत्||१३६||
कम्पिल्लकं विडङ्गानि दार्वीं कारञ्जकं फलम्|
पिष्ट्वा तैलं विपक्तव्यं ग्रन्थिव्रणचिकित्सितम्||१३७||
द्विव्रणीयोपदिष्टेन कर्मणा चाप्युपाचरेत्|
देशकालविभागज्ञो व्रणान् वीसर्पजान् बुधः||१३८||
इति ग्रन्थिविसर्पचिकित्सा|
ग्रन्थिविसर्पचिकित्सामाह- रक्तपित्तोत्तरमित्यादि| उत्कारिकाभिरित्यादिनोपनाहमाह| उपनाह उष्णो बहलो लेपः| पाक्यक्षारयुतेनेति पाकेन सुश्रुताद्युक्तविधानेन कृतः क्षारः पाक्यक्षारः, किंवा ‘यवक्षारयुतेन’ इति पाठः| गोमूत्रैरित्यादौ पत्रम् एरण्डादिपत्रम्| नक्तमालः करञ्जः| बिभीतकत्वचामित्यत्र कल्केनेति योज्यम्| दन्तीत्यादौ यो लेपो शिलामपि भिन्द्यात् स कफग्रन्थिं नितरामेव भिन्द्यादिति भावः| इमैरिति वक्ष्यमाणैः| गिरिजं शिलाजतु; गिरिजप्रयोगश्च रसायनोक्तो ज्ञेयः| मुस्तसक्तवः “मुस्तं व्योष” (चि.अ.७) इत्यादिना कुष्ठोक्ताः| भल्लातकसक्तवः रसायनोक्ताः| माक्षिकस्येति धातुमाक्षिकस्य| पूर्वोक्तैर्गुल्मभेदनैरिति विमार्गाजपदादर्शैः| अयोलवणेत्यादि तप्तायःप्रभृतिभिः पीडनैरित्यर्थः| शरैर्हेम्नेति शरेण हेम्ना वा तापितेन| पाकिभिरिति पाचनपिण्डैः| पुनश्चेत्यादिना उक्ता अपि धूमादयः पुनरपनीतग्रन्थिविषयतया विधीयन्ते, तेन चेह न पुनरुक्तिः||११८-१३८||
Adhikarana 30 (139-140) · Śloka 140
य एव विधिरुद्दिष्टो ग्रन्थीनां विनिवृत्तये|
स एव गलगण्डानां कफजानां निवृत्तये||१३९||
गलगण्डास्तु वातोत्था ये कफानुगता नृणाम्|
घृतक्षीरकषायाणामभ्यासान्न भवन्ति ते||१४०||
ग्रन्थिचिकित्सितमुक्तं गलगण्डगण्डमालायामप्यतिदिशन्नाह- य एवेत्यादिना| गलगण्डानामिति वचनाद् गण्डमालाऽपि विवक्षिता||१३९-१४०||
Adhikarana 31 (141-143) · Śloka 143
यानीहोक्तानि कर्माणि विसर्पाणां निवृत्तये|
एकतस्तानि सर्वाणि रक्तमोक्षणमेकतः||१४१||
विसर्पो न ह्यसंसृष्टो रक्तपित्तेन जायते|
तस्मात् साधारणं सर्वमुक्तमेतच्चिकित्सितम्||१४२||
विशेषो दोषवैषम्यान्न च नोक्तः समासतः|
समासव्यासनिर्दिष्टां क्रियां विद्वानुपाचरेत्||१४३||
विसर्पे रक्तमोक्षणस्तुतिमाह- यानीत्यादि| रक्तमोक्षणमेव कुतः प्रधानमित्याह- विसर्पो नेत्यादि| साधारणमिति वातकफविसर्पे रक्तपित्तहरं चिकित्सितम्| न च नोक्त इति उक्त इत्यर्थः||१४१-१४३||
Adhikarana 32 (144-146) · Śloka 146
तत्र श्लोकाः- निरुक्तं नामभेदाश्च दोषा दूष्याणि हेतवः|
आश्रयो मार्गतश्चैव विसर्पगुरुलाघवम्||१४४||
लिङ्गान्युपद्रवा ये च यल्लक्षण उपद्रवः|
साध्यत्वं, न च, साध्यानां साधनं च यथाक्रमम्||१४५||
इति पिप्रक्षवे सिद्धिमग्निवेशाय धीमते|
पुनर्वसुरुवाचेदं विसर्पाणां चिकित्सितम्||१४६||
निरुक्तमित्यादिसङ्ग्रहः| यल्लक्षण उपद्रव इति यादृग्लक्षण उपद्रवः| न चेति न साध्यमित्यर्थः| पिप्रक्षवे प्रष्टुमिच्छवे||१४४-१४६||
Adhikarana puShpikA · Śloka 21
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने विसर्पचिकित्सितं नामैकविंशोऽध्यायः||२१||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थाने विसर्पचिकित्सितं नामैकविंशोऽध्यायः||२१||