Adhikarana 1 (1-2) · Śloka 2
अथातश्छर्दिचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातश्छर्दिचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 2 (3) · Śloka 3
यशस्विनं ब्रह्मतपोद्युतिभ्यां ज्वलन्तमग्न्यर्कसमप्रभावम्| पुनर्वसुं भूतहिते निविष्टं पप्रच्छ शिष्योऽत्रिजमग्निवेशः||३||
🔊 Audio coming soon
Adhikarana 3 (4-5) · Śloka 5
याश्छर्दयः पञ्च पुरा त्वयोक्ता रोगाधिकारे भिषजां वरिष्ठ!| तासां चिकित्सां सनिदानलिङ्गां यथावदाचक्ष्व नृणां हितार्थम्||४|| तदग्निवेशस्य वचो निशम्य प्रीतो भिषक्श्रेष्ठ इदं जगाद| याश्छर्दयः पञ्च पुरा मयोक्तास्ता विस्तरेण ब्रुवतो निबोध||५||
🔊 Audio coming soon
Adhikarana 4 (6) · Śloka 6
दोषैः पृथक्त्रिप्रभवाश्चतस्रो द्बिष्टार्थयोगादपि पञ्चमी स्यात्|६|
🔊 Audio coming soon
Adhikarana 5 (6) · Śloka 6
तासां हृदुत्क्लेशकफप्रसेकौ द्वेषोऽशने चैव हि पूर्वरूपम्||६||
🔊 Audio coming soon
Adhikarana 6 (7-9) · Śloka 9
व्यायामतीक्ष्णौषधशोकरोगभयोपवासाद्यतिकर्शितस्य| वायुर्महास्रोतसि सम्प्रवृद्ध उत्क्लेश्य दोषांस्तत ऊर्ध्वमस्यन्||७|| आमाशयोत्क्लेशकृतां च मर्म प्रपीडयंश्छर्दिमुदीरयेत्तु| हृत्पार्श्वपीडामुखशोषमूर्धनाभ्यर्तिकासस्वरभेदतोदैः||८|| उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम्| कृच्छ्रेण चाल्पं महता च वेगेनार्तोऽनिलाच्छर्दयतीह दुःखम्||९||
🔊 Audio coming soon
Adhikarana 7 (10-11) · Śloka 11
अजीर्णकट्वम्लविदाह्यशीतैरामाशये पित्तमुदीर्णवेगम्| रसायनीभिर्विसृतं प्रपीड्य मर्मोर्ध्वमागम्य वमिं करोति||१०|| मूर्च्छापिपासामुखशोषमूर्धताल्वक्षिसन्तापतमोभ्रमार्तः| पीतं भृशोष्णं हरितं सतिक्तं धूम्रं च पित्तेन वमेत् सदाहम्||११||
🔊 Audio coming soon
Adhikarana 8 (12-13) · Śloka 13
स्निग्धातिगुर्वामविदाहिभोज्यैः स्वप्नादिभिश्चैव कफोऽतिवृद्धः| उरः शिरो मर्म रसायनीश्च सर्वाः समावृत्य वमिं करोति||१२|| तन्द्रास्यमाधुर्यकफप्रसेकसन्तोषनिद्रारुचिगौरवार्तः| स्निग्धं घनं स्वादु कफाद्विशुद्धं सलोमहर्षोऽल्परुजं वमेत्तु||१३||
🔊 Audio coming soon
Adhikarana 9 (14-15) · Śloka 15
समश्नतः सर्वरसान् प्रसक्तमामप्रदोषर्तुविपर्ययैश्च| सर्वे प्रकोपं युगपत् प्रपन्नाश्छर्दिं त्रिदोषां जनयन्ति दोषाः||१४|| शूलाविपाकारुचिदाहतृष्णाश्वासप्रमोहप्रबला प्रसक्तम्| छर्दिस्त्रिदोषाल्लवणाम्लनीलसान्द्रोष्णरक्तं वमतां नृणां स्यात्||१५||
🔊 Audio coming soon
Adhikarana 10 (16-17) · Śloka 17
विट्स्वेदमूत्राम्बुवहानि वायुः स्रोतांसि संरुध्य यदोर्ध्वमेति| उत्सन्नदोषस्य समाचितं तं दोषं समुद्धूय नरस्य कोष्ठात्||१६|| विण्मूत्रयोस्तत् समवर्णगन्धं तृट्श्वासहिक्कार्तियुतं प्रसक्तम्| प्रच्छर्दयेद्दुष्टमिहातिवेगात्तयाऽर्दितश्चाशु विनाशमेति||१७||
🔊 Audio coming soon
Adhikarana 11 (18) · Śloka 18
द्विष्टप्रतीपाशुचिपूत्यमेध्यबीभत्सगन्धाशनदर्शनैश्च| यच्छर्दयेत्तप्तमना मनोध्नैर्द्विष्टार्थसंयोगभवा मता सा||१८||
🔊 Audio coming soon
Adhikarana 12 (19) · Śloka 19
क्षीणस्य या छर्दिरतिप्रवृद्धा सोपद्रवा शोणितपूययुक्ता| सचन्द्रिकां तां प्रवदन्त्यसाध्यां साध्यां चिकित्सेदनुपद्रवां च||१९||
🔊 Audio coming soon
Adhikarana 13 (20-22) · Śloka 22
आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात्| प्राक्कारयेन्मारुतजां विमुच्य संशोधनं वा कफपित्तहारि||२०|| चूर्णानि लिह्यान्मधुनाऽभयानां हृद्यानि वा यानि विरेचनानि| मद्यैः पयोभिश्च युतानि युक्त्या नयन्त्यधो दोषमुदीर्णमूर्ध्वम्||२१|| वल्लीफलाद्यैर्वमनं पिबेद्वा यो दुर्बलस्तं शमनैश्चिकित्सेत्| रसैर्मनोज्ञैर्लघुभिर्विशुष्कैर्भक्ष्यैः सभोज्यैर्विविधैश्च पानैः||२२||
🔊 Audio coming soon
Adhikarana 14 (23-25) · Śloka 25
सुसंस्कृतास्तित्तिरिबर्हिलावरसा व्यपोहन्त्यनिलप्रवृत्ताम्| छर्दिं तथा कोलकुलत्थधान्यबिल्वादिमूलाम्लयवैश्च यूषः||२३|| वातात्मिकायां हृदयद्रवार्तो नरः पिबेत् सैन्धववद्धृतं तु| सिद्धं तथा धान्यकनागराभ्यां दध्ना च तोयेन च दाडिमस्य||२४|| व्योषेण युक्तां लवणैस्त्रिभिश्च घृतस्य मात्रामथवा विदध्यात्| स्निग्धानि हृद्यानि च भोजनानि रसैः सयूषैर्दधिदाडिमाम्लैः||२५||
🔊 Audio coming soon
Adhikarana 15 (26-33) · Śloka 33
पित्तात्मिकायामनुलोमनार्थं द्राक्षाविदारीक्षुरसैस्त्रिवृत् स्यात्| कफाशयस्थं त्वतिमात्रवृद्धं पित्तं हरेत् स्वादुभिरूर्ध्वमेव||२६|| शुद्धाय काले मधुशर्कराभ्यां लाजैश्च मन्थं यदि वाऽपि पेयाम्| प्रदापयेन्मुद्गरसेन वाऽपि शाल्योदनं जाङ्गलजै रसैर्वा||२७|| सितोपलामाक्षिकपिप्पलीभिः कुल्माषलाजायवसक्तुगृञ्जान्| खर्जूरमांसान्यथ नारिकेलं द्राक्षामथो वा बदराणि लिह्यात्||२८|| स्रोतोजलाजोत्पलकोलमज्जचूर्णानि लिह्यान्मधुनाऽभयां च| कोलास्थिमज्जाञ्जनमक्षिकाविड्लाजासितामागधिकाकणान् वा||२९|| द्राक्षारसं वाऽपि पिबेत् सुशीतं मृद्भृष्टलोष्टप्रभवं जलं वा| जम्ब्वाम्रयोः पल्लवजं कषायं पिबेत् सुशीतं मधुसंयुतं वा||३०|| निशि स्थितं वारि समुद्गकृष्णं सोशीरधान्यं चणकोदकं वा| गवेधुकामूलजलं गुडूच्या जलं पिबेदिक्षुरसं पयो वा||३१|| सेव्यं पिबेत् काञ्चनगैरिकं वा सबालकं तण्डुलधावनेन| धात्रीरसेनोत्तमचन्दनं वा तृष्णावमिघ्नानि समाक्षिकाणि||३२|| कल्कं तथा चन्दनचव्यमांसीद्राक्षोत्तमाबालकगैरिकाणाम्| शीताम्बुना गैरिकशालिचूर्णं मूर्वां तथा तण्डुलधावनेन||३३||
🔊 Audio coming soon
Adhikarana 16 (34-39) · Śloka 39
कफात्मिकायां वमनं प्रशस्तं सपिप्पलीसर्षपनिम्बतोयैः| पिण्डीतकैः सैन्धवसम्प्रयुक्तैर्वम्यां कफामाशयशोधनार्थम्||३४|| गोधूमशालीन् सयवान् पुराणान् यूषैः पटोलामृतचित्रकाणाम्| व्योषस्य निम्बस्य च तक्रसिद्धैर्यूषैः फलाम्लैः कटुभिस्तथाऽद्यात्||३५|| रसांश्च शूल्यानि च जाङ्गलानां मांसानि जीर्णान्मधुसीध्वरिष्टान्| रागांस्तथा षाडवपानकानि द्राक्षाकपित्थैः फलपूरकैश्च||३६|| मुद्गान्मसूरांश्चणकान् कलायान् भृष्टान् युतान्नागरमाक्षिकाभ्याम्| लिह्यात्तथैव त्रिफलाविडङ्गचूर्णं विडङ्गप्लवयोरथो वा||३७|| सजाम्बवं वा बदराम्लचूर्णं मुस्तायुतां कर्कटकस्य शृङ्गीम्| दुरालभां वा मधुसम्प्रयुक्तां लिह्यात् कफच्छर्दिविनिग्रहार्थम्||३८|| मनःशिलायाः फलपूरकस्य रसैः कपित्थस्य च पिप्पलीनाम्| क्षौद्रेण चूर्णं मरिचैश्च युक्तं लिहञ्जयेच्छर्दिमुदीर्णवेगाम्||३९||
🔊 Audio coming soon
Adhikarana 17 (40) · Śloka 40
यैषा पृथक्त्वेन मया क्रियोक्ता तां सन्निपातेऽपि समस्य बुद्ध्या| दोषर्तुरोगाग्निबलान्यवेक्ष्य प्रयोजयेच्छास्त्रविदप्रमत्तः||४०||
🔊 Audio coming soon
Adhikarana 18 (41-44) · Śloka 44
मनोभिघाते तु मनोनुकूला वाचः समाश्वासनहर्षणानि| लोकप्रसिद्धाः श्रुतयो वयस्याः शृङ्गारिकाश्चैव हिता विहाराः||४१|| गन्धा विचित्रा मनसोऽनुकूला मृत्पुष्पशुक्ताम्लफलादिकानाम्| शाकानि भोज्यान्यथ पानकानि सुसंस्कृताः षाडवरागलेहाः||४२|| यूषा रसाः काम्बलिका खडाश्च मांसानि धाना विविधाश्च भक्ष्याः| फलानि मूलानि च गन्धवर्णरसैरुपेतानि वमिं जयन्ति||४३|| गन्धं रसं स्पर्शमथापि शब्दं रूपं च यद्यत् प्रियमप्यसात्म्यम्| तदेव दद्यात् प्रशमाय तस्यास्तज्जो हि रोगः सुख एव जेतुम्||४४||
🔊 Audio coming soon
Adhikarana 19 (45) · Śloka 45
छर्द्युत्थितानां च चिकित्सितात् स्वाच्चिकित्सितं कार्यमुपद्रवाणाम्| अतिप्रवृत्तासु विरेचनस्य कर्मातियोगे विहितं विधेयम्||४५||
🔊 Audio coming soon
Adhikarana 20 (46-47) · Śloka 47
वमिप्रसङ्गात् पवनोऽप्यवश्यं धातुक्षयाद्धृद्धिमुपैति तस्मात्| चिरप्रवृत्तास्वनिलापहानि कार्याण्युपस्तम्भनबृंहणानि||४६|| सर्पिर्गुडाः क्षीरविधिर्घृतानि कल्याणकत्र्यूषणजीवनानि| वृष्यास्तथा मांसरसाः सलेहाश्चिरप्रसक्तां च वमिं जयन्ति||४७||
🔊 Audio coming soon
Adhikarana 21 (48) · Śloka 48
तत्र श्लोकः- हेतुं सङ्ख्यां लक्षणमुपद्रवान् साध्यतां न योगांश्च| छर्दीनां प्रशमार्थं प्राह चिकित्सितं मुनिवर्यः||४८||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 20
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने छर्दिचिकित्सितं नाम विंशोऽध्यायः||२०||
🔊 Audio coming soon