Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

14. rājayakṣmacikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातो राजयक्ष्मचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3-12) · Śloka 12

दिवौकसां कथयतामृषिभिर्वै श्रुता कथा| कामव्यसनसंयुक्ता पौराणी शशिनं प्रति||३|| रोहिण्यामतिसक्तस्य शरीरं नानुरक्षतः| आजगामाल्पतामिन्दोर्देहः स्नेहपरिक्षयात्||४|| दुहितॄणामसम्भोगाच्छेषाणां च प्रजापतेः| क्रोधो निःश्वासरूपेण मूर्तिमान् निःसृतो मुखात्||५|| प्रजापतेर्हि दुहितॄरष्टाविंशतिमंशुमान्| भार्यार्थं प्रतिजग्राह न च सर्वास्ववर्तत||६|| गुरुणा तमवध्यातं भार्यास्वसमवर्तिनम्| रजःपरीतमबलं यक्ष्मा शशिनमाविशत्||७|| सोऽभिभूतोऽतिमहता गुरुक्रोधेन निष्प्रभः| देवदेवर्षिसहितो जगाम शरणं गुरुम्||८|| अथ चन्द्रमसः शुद्धां मतिं बुद्ध्वा प्रजापतिः| प्रसादं कृतवान् सोमस्ततोऽश्विभ्यां चिकित्सितः||९|| स विमुक्तग्रहश्चन्द्रो विरराज विशेषतः| ओजसा वर्धितोऽश्विभ्यां शुद्धं सत्त्वमवाप च||१०|| क्रोधो यक्ष्मा ज्वरो रोग एकार्थो दुःखसञ्ज्ञकः| यस्मात् स राज्ञः प्रागासीद्राजयक्ष्मा ततो मतः||११|| स यक्ष्मा हुङ्कृतोऽश्विभ्यां मानुषं लोकमागतः| लब्ध्वा चतुर्विधं हेतुं समाविशति मानवान्||१२||

🔊 Audio coming soon

Adhikarana 3 (13) · Śloka 13

अयथाबलमारम्भं वेगसन्धारणं क्षयम्| यक्ष्मणः कारणं विद्याच्चतुर्थं विषमाशनम्||१३||

🔊 Audio coming soon

Adhikarana 4 (14-19) · Śloka 19

युद्धाध्ययनभाराध्वलङ्घनप्लवनादिभिः| पतनैरभिघातैर्वा साहसैर्वा तथाऽपरैः||१४|| अयथाबलमारम्भैर्जन्तोरुरसि विक्षते| वायुः प्रकुपितो दोषावुदीर्योभौ प्रधावति||१५|| स शिरःस्थः शिरःशूलं करोति गलमाश्रितः| कण्ठोद्ध्वंसं च कासं च स्वरभेदमरोचकम्||१६|| पार्श्वशूलं च पार्श्वस्थो वर्चोभेदं गुदे स्थितः| जृम्भां ज्वरं च सन्धिस्थ उरःस्थश्चोरसो रुजम्||१७|| क्षणनादुरसः कासात् कफं ष्ठीवेत् सशोणितम्| जर्जरेणोरसा कृच्छ्रमुरःशूलातिपीडितः||१८|| इति साहसिको यक्ष्मा रूपैरेतैः प्रपद्यते| एकादशभिरात्मज्ञो भजेत्तस्मान्न साहसम्||१९||

🔊 Audio coming soon

Adhikarana 5 (20-23) · Śloka 23

ह्रीमत्त्वाद्वा घृणित्वाद्वा भयाद्वा वेगमागतम्| वातमूत्रपुरीषाणां निगृह्णाति यदा नरः||२०|| तदा वेगप्रतीघातात् कफपित्ते समीरयन्| ऊर्ध्वं तिर्यगधश्चैव विकारान् कुरुतेऽनिलः||२१|| प्रतिश्यायं च कासं च स्वरभेदमरोचकम्| पार्श्वशूलं शिरःशूलं ज्वरमंसावमर्दनम्||२२|| अङ्गमर्दं मुहुश्छर्दिं वर्चोभेदं त्रिलक्षणम्| रूपाण्येकादशैतानि यक्ष्मा यैरुच्यते महान्||२३||

🔊 Audio coming soon

Adhikarana 6 (24-27) · Śloka 27

ईर्ष्योत्कण्ठाभयत्रासक्रोधशोकातिकर्शनात्| अतिव्यवायानशनाच्छुक्रमोजश्च हीयते||२४|| ततः स्नेहक्षयाद्वायुर्वृद्धो दोषावुदीरयन्| प्रतिश्यायं ज्वरं कासमङ्गमर्दं शिरोरुजम्||२५|| श्वासं विड्भेदमरुचिं पार्श्वशूलं स्वरक्षयम्| करोति चांससन्तापमेकादशगदानिमान् ||२६|| लिङ्गान्यावेदयन्त्येतान्येकादश महागदम्| सम्प्राप्तं राजयक्ष्माणं क्षयात् प्राणक्षयप्रदम्||२७||

🔊 Audio coming soon

Adhikarana 7 (28-32) · Śloka 32

विविधान्यन्नपानानि वैषम्येण समश्नतः| जनयन्त्यामयान् घोरान्विषमान्मारुतादयः||२८|| स्रोतांसि रुधिरादीनां वैषम्याद्विषमं गताः| रुद्ध्वा रोगाय कल्पन्ते पुष्यन्ति च न धातवः||२९|| प्रतिश्यायं प्रसेकं च कासं छर्दिमरोचकम्| ज्वरमंसाभितापं च छर्दनं रुधिरस्य च||३०|| पार्श्वशूलं शिरःशूलं स्वरभेदमथापि च| कफपित्तानिलकृतं लिङ्गं विद्याद्यथाक्रमम्||३१|| इति व्याधिसमूहस्य रोगराजस्य हेतुजम्| रूपमेकादशविधं हेतुश्चोक्तश्चतुर्विधः||३२||

🔊 Audio coming soon

Adhikarana 8 (33-37) · Śloka 38

पूर्वरूपं प्रतिश्यायो दौर्बल्यं दोषदर्शनम्| अदोषेष्वपि भावेषु काये बीभत्सदर्शनम्||३३|| घृणित्वमश्नतश्चापि बलमांसपरिक्षयः| स्त्रीमद्यमांसप्रियता प्रियता चावगुण्ठने||३४|| मक्षिकाघुणकेशानां तृणानां पतनानि च| प्रायोऽन्नपाने केशानां नखानां चाभिवर्धनम्||३५|| पतत्रिभिः पतङ्गैश्च श्वापदैश्चाभिधर्षणम्| स्वप्ने केशास्थिराशीनां भस्मनश्चाधिरोहणम्||३६|| जलाशयानां शैलानां वनानां ज्योतिषामपि| शुष्यतां क्षीयमाणानां पततां यच्च दर्शनम्||३७|| प्राग्रूपं बहुरूपस्य तज्ज्ञेयं राजयक्ष्मणः|३८|

🔊 Audio coming soon

Adhikarana 9 (38-47) · Śloka 47

रूपं त्वस्य यथोद्देशं निर्देक्ष्यामि सभेषजम्||३८|| यथास्वेनोष्मणा पाकं शारीरा यान्ति धातवः| स्रोतसा च यथास्वेन धातुः पुष्यति धातुतः||३९|| स्रोतसां सन्निरोधाच्च रक्तादीनां च सङ्क्षयात्| धातूष्मणां चापचयाद्राजयक्ष्मा प्रवर्तते||४०|| तस्मिन् काले पचत्यग्निर्यदन्नं कोष्ठसंश्रितम्| मलीभवति तत् प्रायः कल्पते किञ्चिदोजसे||४१|| तस्मात् पुरीषं संरक्ष्यं विशेषाद्राजयक्ष्मिणः| सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम्||४२|| रसः स्रोतःसु रुद्धेषु स्वस्थानस्थो विदह्यते | स ऊर्ध्वं कासवेगेन बहुरूपः प्रवर्तते||४३|| जायन्ते व्याधयश्चातः षडेकादश वा पुनः| येषां सङ्घातयोगेन राजयक्ष्मेति कथ्यते||४४|| कासोंऽसतापो वैस्वर्यं ज्वरः पार्श्वशिरोरुजा| छर्दनं रक्तकफयोः श्वासवर्चोगदोऽरुचिः||४५|| रूपाण्येकादशैतानि यक्ष्मणः षडिमानि वा| कासो ज्वरः पार्श्वशूलं स्वरवर्चोगदोऽरुचिः||४६|| सर्वैरर्धैस्त्रिभिर्वाऽपि लिङ्गैर्मांसबलक्षये| युक्तो वर्ज्यश्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा||४७||

🔊 Audio coming soon

Adhikarana 10 (48-50) · Śloka 50

घ्राणमूले स्थितः श्लेष्मा रुधिरं पित्तमेव वा| मारुताध्मातशिरसो मारुतं श्यायते प्रति||४८|| प्रतिश्यायस्ततो घोरो जायते देहकर्शनः| तस्य रूपं शिरःशूलं गौरवं घ्राणविप्लवः||४९|| ज्वरः कासः कफोत्क्लेशः स्वरभेदोऽरुचिः क्लमः| इन्द्रियाणामसामर्थ्यं यक्ष्मा चातः प्रजायते||५०||

🔊 Audio coming soon

Adhikarana 11 (51) · Śloka 51

पिच्छिलं बहलं विस्रं हरितं श्वेतपीतकम्| कासमानो रसं यक्ष्मी निष्ठीवति कफानुगम्||५१||

🔊 Audio coming soon

Adhikarana 12 (52) · Śloka 52

अंसपार्श्वाभितापश्च सन्तापः करपादयोः| ज्वरः सर्वाङ्गगश्चेति लक्षणं राजयक्ष्मणः||५२||

🔊 Audio coming soon

Adhikarana 13 (53-56) · Śloka 56

वातात्पित्तात्कफाद्रक्तात् कासवेगात् सपीनसात्| स्वरभेदो भवेद्वाताद्रूक्षः क्षामश्चलः स्वरः||५३|| तालुकण्ठपरिप्लोषः पित्ताद्वक्तुमसूयते| कफाद्भेदो विबद्धश्च स्वरः खुरखुरायते ||५४|| सन्नो रक्तविबद्धत्वात् स्वरः कृच्छ्रात् प्रवर्तते| कासातिवेगात् कषणः पीनसात्कफवातिकः||५५|| पार्श्वशूलं त्वनियतं सङ्कोचायामलक्षणम्| शिरःशूलं ससन्तापं यक्ष्मिणः स्यात्सगौरवम्||५६||

🔊 Audio coming soon

Adhikarana 14 (57) · Śloka 57

अभिसन्ने शरीरे तु यक्ष्मिणो विषमाशनात्| कण्ठात्प्रवर्तते रक्तं श्लेष्मा चोत्क्लिष्टसञ्चितः||५७||

🔊 Audio coming soon

Adhikarana 15 (58-59) · Śloka 59

रक्तं विबद्धमार्गत्वान्मांसादीन्नानुपद्यते | आमाशयस्थमुत्क्लिष्टं बहुत्वात् कण्ठमेति च||५८|| वातश्लेष्मविबद्धत्वादुरसः श्वासमृच्छति| दोषैरुपहते चाग्नौ सपिच्छमतिसार्यते||५९||

🔊 Audio coming soon

Adhikarana 16 (60-61) · Śloka 61

पृथग्दोषैः समस्तैर्वा जिह्वाहृदयसंश्रितैः| जायतेऽरुचिराहारे द्विष्टैरर्थैश्च मानसैः||६०|| कषायतिक्तमधुरैर्विद्यान्मुखरसैः क्रमात्| वाताद्यैररुचिं जातां मानसीं दोषदर्शनात्||६१||

🔊 Audio coming soon

Adhikarana 17 (62) · Śloka 62

अरोचकात् कासवेगाद्दोषोत्क्लेशाद्भयादपि| छर्दिर्या सा विकाराणामन्येषामप्युपद्रवः||६२||

🔊 Audio coming soon

Adhikarana 18 (63-64) · Śloka 64

सर्वस्त्रिदोषजो यक्ष्मा दोषाणां तु बलाबलम्| परीक्ष्यावस्थिकं वैद्यः शोषिणं समुपाचरेत्||६३|| प्रतिश्याये शिरःशूले कासे श्वासे स्वरक्षये| पार्श्वशूले च विविधाः क्रियाः साधारणीः शृणु||६४||

🔊 Audio coming soon

Adhikarana 19 (65-70) · Śloka 70

पीनसे स्वेदमभ्यङ्गं धूममालेपनानि च| परिषेकावगाहांश्च यावकं वाट्यमेव च||६५|| लवणाम्लकटूष्णांश्च रसान् स्नेहोपबृंहितान्| लावतित्तिरिदक्षाणां वर्तकानां च कल्पयेत्||६६|| सपिप्पलीकं सयवं सकुलत्थं सनागरम्| दाडिमामलकोपेतं स्निग्धमाजं रसं पिबेत्||६७|| तेन षड्विनिवर्तन्ते विकाराः पीनसादयः| मूलकानां कुलत्थानां यूषैर्वा सूपकल्पितैः ||६८|| यवगोधूमशाल्यन्नैर्यथासात्म्यमुपाचरेत्| पिबेत्प्रसादं वारुण्या जलं वा पाञ्चमूलिकम्||६९|| धान्यनागरसिद्धं वा तामलक्याऽथवा शृतम्| पर्णिनीभिश्चतसृभिस्तेन चान्नानि कल्पयेत्||७०||

🔊 Audio coming soon

Adhikarana 20 (71-76) · Śloka 76

कृशरोत्कारिकामाषकुलत्थयवपायसैः| सङ्करस्वेदविधिना कण्ठं पार्श्वमुरः शिरः||७१|| स्वेदयेत् पत्रभङ्गेण शिरश्च परिषेचयेत्| बलागुडूचीमधुकशृतैर्वा वारिभिः सुखैः||७२|| बस्तमत्स्यशिरोभिर्वा नाडीस्वेदं प्रयोजयेत्| कण्ठे शिरसि पार्श्वे च पयोभिर्वा सवातिकैः||७३|| औदकानूपमांसानि सलिलं पाञ्चमूलिकम्| सस्नेहमारनालं वा नाडीस्वेदे प्रयोजयेत्||७४|| जीवन्त्याः शतपुष्पाया बलाया मधुकस्य च| वचाया वेशवारस्य विदार्या मूलकस्य च||७५|| औदकानूपमांसानामुपनाहाः सुसंस्कृताः| शस्यन्ते सचतुःस्नेहाः शिरःपार्श्वांसशूलिनाम्||७६||

🔊 Audio coming soon

Adhikarana 21 (77-81) · Śloka 81

शतपुष्पा समधुकं कुष्ठं तगरचन्दने| आलेपनं स्यात् सघृतं शिरःपार्श्वांसशूलनुत्||७७|| बला रास्ना तिलाः सर्पिर्मधुकं नीलमुत्पलम्| पलङ्कषा देवदारु चन्दनं केशरं घृतम्||७८|| वीरा बला विदारी च कृष्णगन्धा पुनर्नवा| शतावरी पयस्या च कत्तृणं मधुकं घृतम्||७९|| चत्वार एते श्लोकार्धैः प्रदेहाः परिकीर्तिताः| शस्ताः संसृष्टदोषाणां शिरःपार्श्वांसशूलिनाम्||८०|| नावनं धूमपानानि स्नेहाश्चौत्तरभक्तिकाः| तैलान्यभ्यङ्गयोगीनि बस्तिकर्म तथा परम्||८१||

🔊 Audio coming soon

Adhikarana 22 (82-86) · Śloka 86

शृङ्गालाबुजलौकोभिः प्रदुष्टं व्यधनेन वा| शिरःपार्श्वांसशूलेषु रुधिरं तस्य निर्हरेत्||८२|| प्रदेहः सघृतश्चेष्टः पद्मकोशीरचन्दनैः| दूर्वामधुकमञ्जिष्ठाकेशरैर्वा घृताप्लुतैः||८३|| प्रपौण्डरीकनिर्गुण्डीपद्मकेशरमुत्पलम् | कशेरुकाः पयस्या च ससर्पिष्कं प्रलेपनम्||८४|| चन्दनाद्येन तैलेन शतधौतेन सर्पिषा| अभ्यङ्गः, पयसा सेकः शस्तश्च मधुकाम्बुना||८५|| माहेन्द्रेण सुशीतेन चन्दनादिशृतेन वा| परिषेकः प्रयोक्तव्य इति संशमनी क्रिया||८६||

🔊 Audio coming soon

Adhikarana 23 (87-88) · Śloka 88

दोषाधिकानां वमनं शस्यते सविरेचनम्| स्नेहस्वेदोपपन्नानां सस्नेहं यन्न कर्शनम्||८७|| शोषी मुञ्चति गात्राणि पुरीषस्रंसनादपि| अबलापेक्षिणीं मात्रां किं पुनर्यो विरिच्यते||८८||

🔊 Audio coming soon

Adhikarana 24 (89-102) · Śloka 102

योगान् संशुद्धकोष्ठानां कासे श्वासे स्वरक्षये| शिरःपार्श्वांसशूलेषु सिद्धानेतान्प्रयोजयेत्||८९|| बलाविदारिगन्धाद्यैर्विदार्या मधुकेन वा| सिद्धं सलवणं सर्पिर्नस्यं स्यात्स्वर्यमुत्तमम्||९०|| प्रपौण्डरीकं मधुकं पिप्पली बृहती बला| क्षीरं सर्पिश्च तत्सिद्धं स्वर्यं स्यान्नावनं परम्||९१|| शिरःपार्श्वांसशूलघ्नं कासश्वासनिबर्हणम्| प्रयुज्यमानं बहुशो घृतं चौत्तरभक्तिकम्||९२|| दशमूलेन पयसा सिद्धं मांसरसेन च| बलागर्भं घृतं सद्यो रोगानेतान् प्रबाधते||९३|| भक्तस्योपरि मध्ये वा यथाग्न्यभ्यवचारितम्| रास्नाघृतं वा सक्षीरं सक्षीरं वा बलाघृतम्||९४|| लेहान् कासापहान् स्वर्याञ् श्वासहिक्कानिबर्हणान्| शिरःपार्श्वांसशूलघ्नान् स्नेहांश्चातः परं शृणु||९५|| घृतं खर्जूरमृद्वीकाशर्कराक्षौद्रसंयुतम् | सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम्||९६|| दशमूलशृतात् क्षीरात् सर्पिर्यदुदियान्नवम्| सपिप्पलीकं सक्षौद्रं तत् परं स्वरबोधनम्||९७|| शिरःपार्श्वांसशूलघ्नं कासश्वासज्वरापहम्| पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियाद्घृतम्||९८|| पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे| सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम्||९९|| खर्जूरं पिप्पली द्राक्षा पथ्या शृङ्गी दुरालभा| त्रिफला पिप्पली मुस्तं शृङ्गाटगुडशर्कराः||१००|| वीरा शटी पुष्कराख्यं सुरसः शर्करा गुडः| नागरं चित्रको लाजाः पिप्पल्यामलकं गुडः||१०१|| श्लोकार्धैर्विहितानेतांल्लिह्यान्ना मधुसर्पिषा| कासश्वासापहान्स्वर्यान्पार्श्वशूलापहांस्तथा||१०२||

🔊 Audio coming soon

Adhikarana 25 (103-104) · Śloka 104

सितोपलां तुगाक्षीरीं पिप्पलीं बहुलां त्वचम्| अन्त्यादूर्ध्वं द्विगुणितं लेहयेन्मधुसर्पिषा||१०३|| चूर्णितं प्राशयेद्वा तच्छ्वासकासकफातुरम् | सुप्तजिह्वारोचकिनमल्पाग्निं पार्श्वशूलिनम्||१०४||

🔊 Audio coming soon

Adhikarana 26 (105) · Śloka 105

हस्तपादाङ्गदाहेषु ज्वरे रक्ते तथोर्ध्वगे| वासाघृतं शतावर्या सिद्धं वा परमं हितम्||१०५||

🔊 Audio coming soon

Adhikarana 27 (106-110) · Śloka 110

दुरालभां श्वदंष्ट्रां च चतस्रः पर्णिनीर्बलाम्| भागान्पलोन्मितान् कृत्वा पलं पर्पटकस्य च||१०६|| पचेद्दशगुणे तोये दशभागावशेषिते| रसे सुपूते द्रव्याणामेषां कल्कान् समावपेत्||१०७|| शट्याः पुष्करमूलस्य पिप्पलीत्रायमाणयोः| तामलक्याः किरातानां तिक्तस्य कुटजस्य च||१०८|| फलानां सारिवायाश्च सुपिष्टान् कर्षसम्मितान्| ततस्तेन घृतप्रस्थं क्षीरद्विगुणितं पचेत्||१०९|| ज्वरं दाहं भ्रमं कासमंसपार्श्वशिरोरुजम्| तृष्णां छर्दिमतीसारमेतत् सर्पिर्व्यपोहति||११०||

🔊 Audio coming soon

Adhikarana 28 (111-113) · Śloka 113

जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च| शटीं पुष्करमूलं च व्याघ्रीं गोक्षुरकं बलाम्||१११|| नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम्| पिप्पलीं च समं पिष्ट्वा घृतं वैद्यो विपाचयेत्||११२|| एतद्व्याधिसमूहस्य रोगेशस्य समुत्थितम्| रूपमेकादशविधं सर्पिरग्र्यं व्यपोहति||११३||

🔊 Audio coming soon

Adhikarana 29 (114-116) · Śloka 116

बलां स्थिरां पृश्निपर्णीं बृहतीं सनिदिग्धिकाम्| साधयित्वा रसे तस्मिन्पयो गव्यं सनागरम्||११४|| द्राक्षाखर्जूरसर्पिर्भिः पिप्पल्या च शृतं सह| सक्षौद्रं ज्वरकासघ्नं स्वर्यं चैतत् प्रयोजयेत्||११५|| आजस्य पयसश्चैवं प्रयोगो जाङ्गला रसाः| यूषार्थे चणका मुद्गा मकुष्ठाश्चोपकल्पिताः||११६||

🔊 Audio coming soon

Adhikarana 30 (117-133) · Śloka 134

ज्वराणां शमनीयो यः पूर्वमुक्तः क्रियाविधिः| यक्ष्मिणां ज्वरदाहेषु ससर्पिष्कः प्रशस्यते||११७|| कफप्रसेके बलवाञ् श्लैष्मिकश्छर्दयेन्नरः| पयसा फलयुक्तेन माधुकेन रसेन वा||११८|| सर्पिष्मत्या यवाग्वा वा वमनीयोपसिद्धया| वान्तोऽन्नकाले लघ्वन्नमाददीत सदीपनम्||११९|| यवगोधूममाध्वीकसिध्वरिष्टसुरासवान्| जाङ्गलानि च शूल्यानि सेवमानः कफं जयेत्||१२०|| श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति| कफप्रसेकं तं विद्वान् स्निग्धोष्णेनैव निर्जयेत्||१२१|| क्रिया कफप्रसेके या वम्यां सैव प्रशस्यते| हृद्यानि चान्नपानानि वातघ्नानि लघूनि च||१२२|| प्रायेणोपहताग्नित्वात् सपिच्छमतिसार्यते| प्राप्नोति चास्यवैरस्यं न चान्नमभिनन्दति||१२३|| तस्याग्निदीपनान् योगानतीसारनिबर्हणान्| वक्त्रशुद्धिकरान् कुर्यादरुचिप्रतिबाधकान्||१२४|| सनागरानिन्द्रयवान् पाययेत्तण्डुलाम्बुना| सिद्धां यवागूं जीर्णे च चाङ्गेरीतक्रदाडिमैः||१२५|| पाठा बिल्वं यमानी च पातव्यं तक्रसंयुतम्| दुरालभा शृङ्गवेरं पाठा च सुरया सह||१२६|| जम्ब्वाम्रमध्यं बिल्वं च सकपित्थं सनागरम्| पेयामण्डेन पातव्यमतीसारनिवृत्तये||१२७|| एतानेव च योगांस्त्रीन् पाठादीन् कारयेत् खडान्| ससूप्यधान्यान्सस्नेहान् साम्लान्सङ्ग्रहणान् परम्||१२८|| वेतसार्जुनजम्बूनां मृणालीकृष्णगन्धयोः| श्रीपर्ण्या मदयन्त्याश्च यूथिकायाश्च पल्लवान्||१२९|| मातुलुङ्गस्य धातक्या दाडिमस्य च कारयेत्| स्नेहाम्ललवणोपेतान् खडान् साङ्ग्राहिकान् परम्||१३०|| चाङ्गेर्याश्चुक्रिकायाश्च दुग्धिकायाश्च कारयेत्| खडान्दधिसरोपेतान् ससर्पिष्कान्सदाडिमान्||१३१|| मांसानां लघुपाकानां रसाः साङ्ग्राहिकैर्युताः| व्यञ्जनार्थं प्रशस्यन्ते भोज्यार्थं रक्तशालयः||१३२|| स्थिरादिपञ्चमूलेन पाने शस्तं शृतं जलम्| तक्रं सुरा सचुक्रीका दाडिमस्याथवा रसः||१३३|| इत्युक्तं भिन्नशकृतां दीपनं ग्राहि भेषजम्|१३४|

🔊 Audio coming soon

Adhikarana 31 (134-140) · Śloka 140

परं मुखस्य वैरस्यनाशनं रोचनं शृणु ||१३४|| द्वौ कालौ दन्तपवनं भक्षयेन्मुखधावनम्| तद्वत् प्रक्षालयेदास्यं धारयेत् कवलग्रहान्||१३५|| पिबेद्धूमं ततो मृष्टमद्याद्दीपनपाचनम्| भेषजं पानमन्नं च हितमिष्टोपकल्पितम्||१३६|| त्वङ्मुस्तमेला धान्यानि मुस्तमामलकं त्वचम्| दार्वीत्वचो यवानी च तेजोह्वा पिप्पली तथा||१३७|| यवानी तिन्तिडीकं च पञ्चैते मुखधावनाः| श्लोकपादेष्वभिहिता रोचना मुखशोधनाः||१३८|| गुटिकां धारयेदास्ये चूर्णैर्वा शोधयेन्मुखम्| एषामालोडितानां वा धारयेत् कवलग्रहान्||१३९|| सुरामाध्वीकसीधूनां तैलस्य मधुसर्पिषोः| कवलान् धारयेदिष्टान् क्षीरस्येक्षुरसस्य च||१४०||

🔊 Audio coming soon

Adhikarana 32 (141-144) · Śloka 144

यवानीं तिन्तिडीकं च नागरं साम्लवेतसम्| दाडिमं बदरं चाम्लं कार्षिकं चोपकल्पयेत्||१४१|| धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम्| पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च||१४२|| शर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत्| जिह्वाविशोधनं हृद्यं तच्चूर्णं भक्तरोचनम्||१४३|| हृत्प्लीहपार्श्वशूलघ्नं विबन्धानाहनाशनम्| कासश्वासहरं ग्राहि ग्रहण्यर्शोविकारनुत्||१४४|| इति यवानीषाडवम्|

🔊 Audio coming soon

Adhikarana 33 (145-148) · Śloka 148

तालीशपत्रं मरिचं नागरं पिप्पली शुभा| यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके||१४५|| पिप्पल्यष्टगुणा चात्र प्रदेया सितशर्करा| कासश्वासारुचिहरं तच्चूर्णं दीपनं परम्||१४६|| हृत्पाण्डुग्रहणीदोषशोषप्लीहज्वरापहम्| वम्यतीसारशूलघ्नं मूढवातानुलोमनम्||१४७|| कल्पयेद्गुटिकां चैतच्चूर्णं पक्त्वा सितोपलाम्| गुटिका ह्यग्निसंयोगाच्चूर्णाल्लघुतराः स्मृताः||१४८|| इति तालीशाद्यं चूर्णं गुटिकाश्च|

🔊 Audio coming soon

Adhikarana 34 (149-172) · Śloka 172

शुष्यतां क्षीणमांसानां कल्पितानि विधानवित्| दद्यान्मांसादमांसानि बृंहणानि विशेषतः||१४९|| शोषिणे बार्हिणं दद्याद्बर्हिशब्देन चापरान्| गृध्रानुलूकांश्चाषांश्च विधिवत् सूपकल्पितान्||१५०|| काकांस्तित्तिरिशब्देन वर्मिशब्देन चोरगान्| भृष्टान् मत्स्यान्त्रशब्देन दद्याद्गण्डूपदानपि||१५१|| लोपाकान् स्थूलनकुलान् बिडालांश्चोपकल्पितान्| शृगालशावांश्च भिषक् शशशब्देन दापयेत्||१५२|| सिंहानृक्षांस्तरक्षूंश्च व्याघ्रानेवंविधांस्तथा| मांसादान् मृगशब्देन दद्यान्मांसाभिवृद्धये||१५३|| गजखड्गितुरङ्गाणां वेशवारीकृतं भिषक्| दद्यान्महिषशब्देन मांसं मांसाभिवृद्धये||१५४|| मांसेनोपचिताङ्गानां मांसं मांसकरं परम्| तीक्ष्णोष्णलाघवाच्छस्तं विशेषान्मृगपक्षिणाम्||१५५|| मांसानि यान्यनभ्यासादनिष्टानि प्रयोजयेत्| तेषूपधा, सुखं भोक्तुं तथा शक्यानि तानि हि||१५६|| जानञ्जुगुप्सन्नैवाद्याज्जग्धं वा पुनरुल्लिखेत्| तस्माच्छद्मोपसिद्धानि मांसान्येतानि दापयेत्||१५७|| बर्हितित्तिरिदक्षाणां हंसानां शूकरोष्ट्रयोः| खरगोमहिषाणां च मांसं मांसकरं परम्||१५८|| योनिरष्टविधा चोक्ता मांसानामन्नपानिके| तां परीक्ष्य भिषग्विद्वान् दद्यान्मांसानि शोषिणे||१५९|| प्रसहा भूशयानूपवारिजा वारिचारिणः| आहारार्थं प्रदातव्या मात्रया वातशोषिणे||१६०|| प्रतुदा विष्किराश्चैव धन्वजाश्च मृगद्विजाः| कफपित्तपरीतानां प्रयोज्याः शोषरोगिणाम्||१६१|| विधिवत्सूपसिद्धानि मनोज्ञानि मृदूनि च| रसवन्ति सुगन्धीनि मांसान्येतानि भक्षयेत्||१६२|| मांसमेवाश्नतः शोषो माध्वीकं पिबतोऽपि च| नियतानल्पचित्तस्य चिरं काये न तिष्ठति||१६३|| वारुणीमण्डनित्यस्य बहिर्मार्जनसेविनः| अविधारितवेगस्य यक्ष्मा न लभतेऽन्तरम्||१६४|| प्रसन्नां वारुणीं सीधुमरिष्टानासवान्मधु| यथार्हमनुपानार्थं पिबेन्मांसानि भक्षयन्||१६५|| मद्यं तैक्ष्ण्यौष्ण्यवैशद्यसूक्ष्मत्वात् स्रोतसां मुखम्| प्रमथ्य विवृणोत्याशु तन्मोक्षात् सप्त धातवः||१६६|| पुष्यन्ति धातुपोषाच्च शीघ्रं शोषः प्रशाम्यति| मांसादमांसस्वरसे सिद्धं सर्पिः प्रयोजयेत्||१६७|| सक्षौद्रं, पयसा सिद्धं सर्पिर्दशगुणेन वा| सिद्धं मधुरकैर्द्रव्यैर्दशमूलकषायकैः||१६८|| क्षीरमांसरसोपेतैर्घृतं शोषहरं परम्| पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः||१६९|| सयावशूकैः सक्षीरैः स्रोतसां शोधनं घृतम्| रास्नाबलागोक्षुरकस्थिरावर्षाभुसाधितम्||१७०|| जीवन्तीपिप्पलीगर्भं सक्षीरं शोषनुद्घृतम्| यवाग्वा वा पिबेन्मात्रां लिह्याद्वा मधुना सह||१७१|| सिद्धानां सर्पिषामेषामद्यादन्नेन वा सह| शुष्यतामेष निर्दिष्टो विधिराभ्यवहारिकः||१७२||

🔊 Audio coming soon

Adhikarana 35 (173-178) · Śloka 179

बहिःस्पर्शनमाश्रित्य वक्ष्यतेऽतः परं विधिः| स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत्||१७३|| स्रोतोविबन्धमोक्षार्थं बलपुष्ट्यर्थमेव च| उत्तीर्णं मिश्रकैःस्नेहैः पुनराक्तैः सुखैः करैः||१७४|| मृद्नीयात् सुखमासीनं सुखं चोत्सादयेन्नरम्| जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम्||१७५|| अश्वगन्धामपामार्गं तर्कारीं मधुकं बलाम्| विदारीं सर्षपं कुष्ठं तण्डुलानतसीफलम्||१७६|| माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत्| यवचूर्णत्रिगुणितं दध्ना युक्तं समाक्षिकम्||१७७|| एतदुत्सादनं कार्यं पुष्टिवर्णबलप्रदम्| गौरसर्षपकल्केन कल्कैश्चापि सुगन्धिभिः||१७८|| स्नायादृतुसुखैस्तोयैर्जीवनीयौषधैः शृतैः|१७९|

🔊 Audio coming soon

Adhikarana 36 (179-189) · Śloka 189

गन्धैः समाल्यैर्वासोभिर्भूषणैश्च विभूषितः||१७९|| स्पृश्यान् संस्पृश्य सम्पूज्य देवताः सभिषग्द्विजाः| इष्टवर्णरसस्पर्शगन्धवत् पानभोजनम्||१८०|| इष्टमिष्टैरुपहितं सुखमद्यात् सुखप्रदम्| समातीतानि धान्यानि कल्पनीयानि शुष्यताम्||१८१|| लघून्यहीनवीर्याणि स्वादूनि गन्धवन्ति च| यानि प्रहर्षकारीणि तानि पथ्यतमानि हि||१८२|| यच्चोपदेक्ष्यते पथ्यं क्षतक्षीणचिकित्सिते| यक्ष्मिणस्तत् प्रयोक्तव्यं बलमांसाभिवृद्धये||१८३|| अभ्यङ्गोत्सादनैश्चैव वासोभिरहतैः प्रियैः| यथर्तुविहितैः स्नानैरवगाहैर्विमार्जनैः||१८४|| बस्तिभिः क्षीरसर्पिर्भिर्मांसैर्मांसरसौदनैः| इष्टैर्मद्यैर्मनोज्ञानां गन्धानामुपसेवनैः||१८५|| सुहृदां रमणीयानां प्रमदानां च दर्शनैः| गीतवादित्रशब्दैश्च प्रियश्रुतिभिरेव च||१८६|| हर्षणाश्वासनैर्नित्यं गुरूणां समुपासनैः| ब्रह्मचर्येण दानेन तपसा देवतार्चनैः||१८७|| सत्येनाचारयोगेन मङ्गल्यैरप्यहिंसया| वैद्यविप्रार्चनाच्चैव रोगराजो निवर्तते||१८८|| यया प्रयुक्तया चेष्ट्या राजयक्ष्मा पुरा जितः| तां वेदविहितामिष्टिमारोग्यार्थी प्रयोजयेत्||१८९||

🔊 Audio coming soon

Adhikarana 37 (190-191) · Śloka 191

तत्र श्लोकौ- प्रागुत्पत्तिर्निमित्तानि प्राग्रूपं रूपसङ्ग्रहः| समासाद् व्यासतश्चोक्तं भेषजं राजयक्ष्मणः||१९०|| नामहेतुरसाध्यत्वं साध्यत्वं कृच्छ्रसाध्यता| इत्युक्तः सङ्ग्रहः कृत्स्नो राजयक्ष्मचिकित्सिते||१९१||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 8

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने राजयक्ष्मचिकित्सितं नामाष्टमोऽध्यायः||८||

🔊 Audio coming soon