Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

28. tr̥ṣṇācikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातस्तृष्णाचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

ज्ञानप्रशमतपोभिः ख्यातोऽत्रिसुतो जगद्धितेऽभिरतः| तृष्णानां प्रशमार्थं चिकित्सितं प्राह पञ्चानाम्||३||

🔊 Audio coming soon

Adhikarana 3 (4-7) · Śloka 7

क्षोभाद्भयाच्छ्रमादपि शोकात्क्रोधाद्विलङ्घनान्मद्यात्| क्षाराम्ललवणकटुकोष्णरूक्षशुष्कान्नसेवाभिः||४|| धातुक्षयगदकर्षणवमनाद्यतियोगसूर्यसन्तापैः| पित्तानिलौ प्रवृद्धौ सौम्यान्धातूंश्च शोषयतः||५|| रसवाहिनीश्च नालीर्जिह्वामूलगलतालुकक्लोम्नः | संशोष्य नृणां देहे कुरुतस्तृष्णां महाबलावेतौ||६|| पीतं पीतं हि जलं शोषयतस्तावतो न याति शमम्| घोरव्याधिकृशानां प्रभवत्युपसर्गभूता सा||७||

🔊 Audio coming soon

Adhikarana 4 (8) · Śloka 8

प्राग्रूपं मुखशोषः, स्वलक्षणं सर्वदाऽम्बुकामित्वम्| तृष्णानां सर्वासां लिङ्गानां लाघवमपायः||८||

🔊 Audio coming soon

Adhikarana 5 (9-10) · Śloka 10

मुखशोषस्वरभेदभ्रमसन्तापप्रलापसंस्तम्भान्| ताल्वोष्ठकण्ठजिह्वाकर्कशतां चित्तनाशं च||९|| जिह्वानिर्गममरुचिं बाधिर्यं मर्मदूयनं सादम्| तृष्णोद्भूता कुरुते, पञ्चविधां लिङ्गतः शृणु ताम्||१०||

🔊 Audio coming soon

Adhikarana 6 (11) · Śloka 11

अब्धातुं देहस्थं कुपितः पवनो यदा विशोषयति| तस्मिञ्शुष्के शुष्यत्यबलस्तृष्यत्यथ विशुष्यन्||११||

🔊 Audio coming soon

Adhikarana 7 (12) · Śloka 12

निद्रानाशः शिरसो भ्रमस्तथा शुष्कविरसमुखता च स्रोतोऽवरोध इति च स्याल्लिङ्गं वाततृष्णायाः||१२||

🔊 Audio coming soon

Adhikarana 8 (13-14) · Śloka 14

पित्तं मतमाग्नेयं कुपितं चेत्तापयत्यपां धातुम्| सन्तप्तः स हि जनयेत्तृष्णां दाहोल्बणां नॄणाम्||१३|| तिक्तास्यत्वं शिरसो दाहः शीताभिनन्दता मूर्च्छा| पीताक्षिमूत्रवर्चस्त्वमाकृतिः पित्ततृष्णायाः||१४||

🔊 Audio coming soon

Adhikarana 9 (15) · Śloka 15

तृष्णा याऽऽमप्रभवा साऽप्याग्नेयाऽऽमपित्तजनितत्वात् | लिङ्गं तस्याश्चारुचिराध्मानकफप्रसेकौ च||१५||

🔊 Audio coming soon

Adhikarana 10 (16) · Śloka 16

देहो रसजोऽम्बुभवो रसश्च तस्य क्षयाच्च तृष्येद्धि| दीनस्वरः प्रताम्यन् संशुष्कहृदयगलतालुः ||१६||

🔊 Audio coming soon

Adhikarana 11 (17) · Śloka 17

भवति खलु योपसर्गात्तृष्णा सा शोषिणी कष्टा| ज्वरमेहक्षयशोषश्वासाद्युपसृष्टदेहानाम् ||१७||

🔊 Audio coming soon

Adhikarana 12 (18) · Śloka 18

सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रसक्तानाम्| घोरोपद्रवयुक्तास्तृणा मरणाय विज्ञेयाः||१८||

🔊 Audio coming soon

Adhikarana 13 (19-22) · Śloka 22

नाग्निं विना हि तर्षः पवनाद्वा तौ हि शोषणे हेतू| अब्धातोरतिवृद्धावपां क्षये तृष्यते नरो हि||१९|| गुर्वन्नपयःस्नेहैः सम्मूर्च्छद्भिर्विदाहकाले च| यस्तृष्येद्वृतमार्गे तत्राप्यनिलानलौ हेतू||२०|| तीक्ष्णोष्णरूक्षभावान्मद्यं पित्तानिलौ प्रकोपयति| शोषयतोऽपां धातुं तावेव हि मद्यशीलानाम्||२१|| तप्तास्विव सिकतासु हि तोयमाशु शुष्यति क्षिप्तम्| तेषां सन्तप्तानां हिमजलपानाद्भवति शर्म||२२||

🔊 Audio coming soon

Adhikarana 14 (23) · Śloka 23

शिशिरस्नातस्योष्मा रुद्धः कोष्ठं प्रपद्य तर्षयति| तस्मान्नोष्णक्लान्तो भजेत सहसा जलं शीतम् ||२३||

🔊 Audio coming soon

Adhikarana 15 (24) · Śloka 24

लिङ्गं सर्वास्वेतास्वनिलक्षयपित्तजं भवत्यथ तु| पृथगागमाच्चिकित्सितमतः प्रवक्ष्यामि तृष्णानाम्||२४||

🔊 Audio coming soon

Adhikarana 16 (25-26) · Śloka 26

अपां क्षयाद्धि तृष्णा संशोष्य नरं प्रणाशयेदाशु| तस्मादैन्द्रं तोयं समधु पिबेत्तद्गुणं वाऽन्यत्||२५|| किञ्चित्तुवरानुरसं तनु लघु शीतलं सुगन्धि सुरसं च| अनभिष्यन्दि च यत्तत्क्षितिगतमप्यैन्द्रवज्ज्ञेयम्||२६||

🔊 Audio coming soon

Adhikarana 17 (27-33) · Śloka 33

शृतशीतं ससितोपलमथवा शरपूर्वपञ्चमूलेन| लाजासक्तुसिताह्वामधुयुतमैन्द्रेण वा मन्थम्||२७|| वाट्यं वाऽऽमयवानां शीतं मधुशर्करायुतं दद्यात्| पेयां वा शालीनां दद्याद्वा कोरदूषाणाम्||२८|| पयसा शृतेन भोजनमथवा मधुशर्करायुतं योज्यम्| पारावतादिकरसैर्घृतभृष्टैर्वाऽप्यलवणाम्लैः||२९|| तृणपञ्चमूलमुञ्जातकैः प्रियालैश्च जाङ्गलाः सुकृताः| शस्ता रसाः पयो वा तैः सिद्धं शर्करामधुमत्||३०|| शतधौतघृतेनाक्तः पयः पिबेच्छीततोयमवगाह्य| मुद्गमसूरचणकजा रसास्तु भृष्टा घृते देयाः||३१|| मधुरैः सजीवनीयैः शीतैश्च सतिक्तकैः शृतं क्षीरम्| पानाभ्यञ्जनसेकेष्विष्टं मधुशर्करायुक्तम्||३२|| तज्जं वा घृतमिष्टं पानाभ्यङ्गेषु नस्यमपि च स्यात्| नारीपयः सशर्करमुष्ट्र्या अपि नस्यमिक्षुरसः||३३||

🔊 Audio coming soon

Adhikarana 18 (34-39) · Śloka 39

क्षीरेक्षुरसगुडोदकसितोपलाक्षौद्रसीधुमार्द्वीकैः | वृक्षाम्लमातुलुङ्गैर्गण्डूषास्तालुशोषघ्नाः||३४|| जम्ब्वाम्रातकबदरीवेतसपञ्चवल्कपञ्चाम्लैः| हृन्मुखशिरःप्रदेहाःसघृता मूर्च्छाभ्रमतृष्णाघ्नाः स्युः||३५|| दाडिमदधित्थलोध्रैः सविदारीबीजपूरकैः शिरसः| लेपो गौरामलकैर्घृतारनालायुतैश्च हितः||३६|| शैवलपङ्काम्बुरुहैः साम्लैः सघृतैश्च शक्तुभिर्लेपः| मस्त्वारनालार्द्रवसनकमलमणिहारसंस्पर्शाः||३७|| शिशिराम्बुचन्दनार्द्रस्तनतटपाणितलगात्रसंस्पर्शाः| क्षौमार्द्रनिवसनानां वराङ्गनानां प्रियाणां च||३८|| हिमवद्दरीवनसरित्सरोऽम्बुजपवनेन्दुपादशिशिराणाम्| रम्यशिशिरोदकानां स्मरणं कथाश्च तृष्णाघ्नाः||३९||

🔊 Audio coming soon

Adhikarana 19 (40) · Śloka 41

वातघ्नमन्नपानं मृदु लघु शीतं च वाततृष्णायाम्| क्षयकासनुच्छृतं क्षीरघृतमूर्ध्ववाततृष्णाघ्नम् ||४०|| स्याज्जीवनीयसिद्धं क्षीरघृतं वातपित्तजे तर्ष|४१|

🔊 Audio coming soon

Adhikarana 20 (41-46) · Śloka 46

पैत्ते द्राक्षाचन्दनखर्जूरोशीरमधुयुतं तोयम्||४१|| लोहितशालितण्डुलखर्जूरपरूषकोत्पलद्राक्षाः| मधु पक्वलोष्टमेव च जले स्थितं शीतलं पेयम्||४२|| लोहितशालिप्रस्थः सलोध्रमधुकाञ्जनोत्पलः क्षुण्णः| पक्वामलोष्टजलमधुसमायुतो मृन्मये पेयः||४३|| वटमातुलुङ्गवेतसपल्लवकुशकाशमूलयष्ट्याह्वैः| सिद्धेऽम्भस्यग्निनिभां कृष्णमृदं कृष्णसिकतां वा||४४|| तप्तानि नवकपालान्यथवा निर्वाप्य पाययेताच्छम्| आपाकशर्करं वाऽमृतवल्ल्युदकं तृषां हन्ति||४५|| क्षीरवतां मधुराणां शीतानां शर्करामधुविमिश्राः| शीतकषाया मृद्भृष्टसंयुताः पित्ततृष्णाघ्नाः||४६||

🔊 Audio coming soon

Adhikarana 21 (47-56) · Śloka 56

व्योषवचाभल्लातकतिक्तकषायास्तथाऽऽमतृष्णाघ्नाः| यच्चोक्तं कफजायां वम्यां तच्चैव कार्यं स्यात्||४७|| स्तम्भारुच्यविपाकालस्यच्छर्दिषु कफानुगां तृष्णाम्| ज्ञात्वा दधिमधुतर्पणलवणोष्णजलैर्वमनमिष्टम्||४८|| दाडिममम्लफलं वाऽप्यन्यत् सकषायमथ लेहम्| पेयमथवा प्रदद्याद्रजनीशर्करायुक्तम् ||४९|| क्षयकासेन तु तुल्या क्षयतृष्णा सा गरीयसी नॄणाम्| क्षीणक्षतशोषहितैस्तस्मात्तां भेषजैः शमयेत्||५०|| पानतृषार्तः पानं त्वर्धोदकमम्ललवणगन्धाढ्यम्| शिशिरस्नातः पानं मद्याम्बु गुडाम्बु वा तृषितः||५१|| भक्तोपरोधतृषितः स्नेहतृषार्तोऽथवा तनुयवागूम्| प्रपिबेद्गुरुणा तृषितो भुक्तेन तदुद्धरेद्भुक्तम्||५२|| मद्याम्बु वाऽम्बु कोष्णं बलवांस्तृषितः समुल्लिखेत् पीत्वा| मागधिकाविशदमुखः सशर्करं वा पिबेन्मन्थम्||५३|| बलवांस्तु तालुशोषे पिबेद्धृतं तृष्यमद्याच्च| सर्पिर्भृष्टं क्षीरं मांसरसांश्चाबलः स्निग्धान्||५४|| अतिरूक्षदुर्बलानां तर्षं शमयेन्नृणामिहाशु पयः| छागो वा घृतभृष्टः शीतो मधुरो रसो हृद्यः||५५|| स्निग्धेऽन्ने भुक्ते या तृष्णा स्यात्तां गुडाम्बुना शमयेत्| तर्षं मूर्च्छाभिहतस्य रक्तपित्तापहैर्हन्यात्||५६||

🔊 Audio coming soon

Adhikarana 22 (57-62) · Śloka 62

तृट्दाहमूर्च्छाभ्रमक्लममदात्ययास्रविषपित्ते | शस्तं स्वभावशीतं, शृतशीतं सन्निपातेऽम्भः||५७|| हिक्काश्वासनवज्वरपीनसघृतपीतपार्श्वगलरोगे| कफवातकृते स्त्याने सद्यःशुद्धे च हितमुष्णम्||५८|| पाण्डूदरपीनसमेहगुल्ममन्दानलातिसारेषु| प्लीह्नि च तोयं न हितं काममसह्ये पिबेदल्पम्||५९|| पूर्वामयातुरः सन् दीनस्तृष्णार्दितो जलं काङ्क्षन्| न लभेत स चेन्मरणमाश्वेवाप्नुयाद्दीर्घरोगं वा||६०|| तस्माद्धान्याम्बु पिबेत्तृष्यन् रोगी सशर्कराक्षौद्रम्| यद्वा तस्यान्यत्स्यात् सात्म्यं रोगस्य तच्चेष्टम्||६१|| तस्यां विनिवृत्तायां तज्जन्य उपद्रवः सुखं जेतुम्| तस्मात्तृष्णां पूर्वं जयेद्बहुभ्योऽपि रोगेभ्यः||६२||

🔊 Audio coming soon

Adhikarana 23 (63) · Śloka 63

तत्र श्लोकः- हेतू यथाऽग्निपवनौ कुरुतः सोपद्रवां च पञ्चानाम्| तृष्णानां पृथगाकृतिरसाध्यता साधनं चोक्तम्||६३||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 22

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने तृष्णारोगचिकित्सितं नाम द्वाविंशोऽध्यायः||२२||

🔊 Audio coming soon