Adhikarana 1 (1-2) · Śloka 2
अथात उन्मादचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथात उन्मादचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 2 (3) · Śloka 3
बुद्धिस्मृतिज्ञानतपोनिवासः पुनर्वसुः प्राणभृतां शरण्यः| उन्मादहेत्वाकृतिभेषजानि कालेऽग्निवेशाय शशंस पृष्टः||३||
🔊 Audio coming soon
Adhikarana 3 (4) · Śloka 4
विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम्| उन्मादहेतुर्भयहर्षपूर्वो मनोऽभिघातो विषमाश्च चेष्टाः||४||
🔊 Audio coming soon
Adhikarana 4 (5) · Śloka 5
तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य| स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः||५||
🔊 Audio coming soon
Adhikarana 5 (6-7) · Śloka 7
धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च| अबद्धवाक्त्वं हृदयं च शून्यं सामान्यमुन्मादगदस्य लिङ्गम्||६|| स मूढचेता न सुखं न दुःखं नाचारधर्मौ कुत एव शान्तिम्| विन्दत्यपास्तस्मृतिबुद्धिसञ्ज्ञो भ्रमत्ययं चेत इतस्ततश्च||७||
🔊 Audio coming soon
Adhikarana 6 (8) · Śloka 8
समुद्भ्रमं बुद्धिमनःस्मृतीनामुन्मादमागन्तुनिजोत्थमाहुः|८|
🔊 Audio coming soon
Adhikarana 7 (8-10) · Śloka 10
तस्योद्भवं पञ्चविधं पृथक् तु वक्ष्यामि लिङ्गानि चिकित्सितं च||८|| रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनिलोऽतिवृद्धः| चिन्तादिजुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम्||९|| अस्थानहासस्मितनृत्यगीतवागङ्गविक्षेपणरोदनानि| पारुष्यकार्श्यारुणवर्णताश्च जीर्णे बलं चानिलजस्य रूपम्||१०||
🔊 Audio coming soon
Adhikarana 8 (11-12) · Śloka 12
अजीर्णकट्वम्लविदाह्यशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम्| उन्मादमत्युग्रमनात्मकस्य हृदि श्रितं पूर्ववदाशु कुर्यात्||११|| अमर्षसंरम्भविनग्नभावाः सन्तर्जनातिद्रवणौष्ण्यरोषाः | प्रच्छायशीतान्नजलाभिलाषाः पीता च भाः पित्तकृतस्य लिङ्गम्||१२||
🔊 Audio coming soon
Adhikarana 9 (13-14) · Śloka 14
सम्पूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि सम्प्रवृद्धः| बुद्धिं स्मृतिं चाप्युपहत्य चित्तं प्रमोहयन् सञ्जनयेद्विकारम्||१३|| वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियताऽतिनिद्रा| छर्दिश्च लाला च बलं च भुङ्क्ते नखादिशौक्ल्यं च कफात्मकस्य||१४||
🔊 Audio coming soon
Adhikarana 10 (15) · Śloka 15
यः सन्निपातप्रभवोऽतिघोरः सर्वैः समस्तैः स च हेतुभिः स्यात्| सर्वाणि रूपाणि बिभर्ति तादृग्विरुद्घभैषज्यविधिर्विवर्ज्यः||१५||
🔊 Audio coming soon
Adhikarana 11 (16) · Śloka 16
देवर्षिगन्धर्वपिशाचयक्षरक्षःपितॄणामभिधर्षणानि| आगन्तुहेतुर्नियमव्रतादि मिथ्याकृतं कर्म च पूर्वदेहे||१६||
🔊 Audio coming soon
Adhikarana 12 (17) · Śloka 17
अमर्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादिभिर्यः| उन्मादकालोऽनियतश्च यस्य भूतोत्थमुन्मादमुदाहरेत्तम्||१७||
🔊 Audio coming soon
Adhikarana 13 (18) · Śloka 18
अदूषयन्तः पुरुषस्य देहं देवादयः स्वैस्तु गुणप्रभावैः| विशन्त्यदृश्यास्तरसा यथैव च्छायातपौ दर्पणसूर्यकान्तौ||१८||
🔊 Audio coming soon
Adhikarana 14 (19) · Śloka 19
आघातकालो हि स पूर्वरूपः प्रोक्तो निदानेऽथ सुरादिभिश्च| उन्मादरूपाणि पृथङ्निबोध कालं च गम्यान् पुरुषांश्च तेषाम्||१९||
🔊 Audio coming soon
Adhikarana 15 (20) · Śloka 20
तद्यथा- सौम्यदृष्टिं गम्भीरमधृष्यमकोपनमस्वप्नभोजनाभिलाषिणमल्पस्वेदमूत्रपुरीषवातं शुभगन्धं फुल्लपद्मवदनमिति देवोन्मत्तं विद्यात्; गुरुवृद्धसिद्धर्षीणामभिशापाभिचाराभिध्यानानुरूपचेष्टाहारव्याहारं तैरुन्मत्तं विद्यात्; अप्रसन्नदृष्टिमपश्यन्तं निद्रालुं प्रतिहतवाचमनन्नाभिलाषमरोचकाविपाकपरीतं च पितृभिरुन्मत्तं विद्यात्; (चण्डं साहसिकं तीक्ष्णं गम्भीरमधृष्यं) मुखवाद्यनृत्यगीतान्नपानस्नानमाल्यधूपगन्धरतिं रक्तवस्त्रबलिकर्महास्यकथानुयोगप्रियं शुभगन्धं च गन्धर्वोन्मत्तं विद्यात्; असकृत्स्वप्नरोदनहास्यं नृत्यगीतवाद्यपाठकथान्नपानस्नानमाल्यधूपगन्धरतिं रक्तविप्लुताक्षं द्विजातिवैद्यपरिवादिनं रहस्यभाषिणं च यक्षोन्मत्तं विद्यात्; नष्टनिद्रमन्नपानद्वेषिणमनाहारमप्यतिबलिनं शस्त्रशोणितमांसरक्तमाल्याभिलाषिणं सन्तर्जकं च राक्षसोन्मत्तं विद्यात्; प्रहासनृत्यप्रधानं देवविप्रवैद्यद्वेषावज्ञाभिः स्तुतिवेदमन्त्रशास्त्रोदाहरणैः काष्ठादिभिरात्मपीडनेन च ब्रह्मराक्षसोन्मत्तं विद्यात्; अस्वस्थचित्तं स्थानमलभमानं नृत्यगीतहासिनं बद्धाबद्धप्रलापिनं सङ्करकूटमलिनरथ्याचेलतृणाश्मकाष्ठाधिरोहणरतिं भिन्नरूक्षस्वरं नग्नं विधावन्तं नैकत्र तिष्ठन्तं दुःखान्यावेदयन्तं नष्टस्मृतिं च पिशाचोन्मत्तं विद्यात्||२०||
🔊 Audio coming soon
Adhikarana 16 (21) · Śloka 21
तत्र चौक्षाचारं तपःस्वाध्यायकोविदं नरं प्रायः शुक्लप्रतिपदि त्रयोदश्यां च छिद्रमवेक्ष्याभिधर्षयन्ति देवाः, स्नानशुचिविविक्तसेविनं धर्मशास्त्रश्रुतिवाक्यकुशलं प्रायः षष्ठ्यां नवम्यां चर्षयः, मातृपितृगुरुवृद्धसिद्धाचार्योपसेविनं प्रायो दशम्याममावस्यायां च पितरः, गन्धर्वाः स्तुतिगीतवादित्ररतिं परदारगन्धमाल्यप्रियं चौक्षाचारं प्रायो द्वादश्यां चतुर्दश्यां च, सत्त्वबलरूपगर्वशौर्ययुक्तं माल्यानुलेपनहास्यप्रियमतिवाक्करणं प्रायः शुक्लैकादश्यां सप्तम्यां च यक्षाः, स्वाध्यायतपोनियमोपवासब्रह्मचर्यदेवयतिगुरुपूजाऽरतिं भ्रष्टशौचं ब्राह्मणमब्राह्मणं वा ब्राह्म्णवादिनं शूरमानिनं देवागारसलिलक्रीडनरतिं प्रायः शुक्लपञ्चम्यां पूर्णचन्द्रदर्शने च ब्रह्मराक्षसाः, रक्षःपिशाचास्तु हीनसत्त्वं पिशुनं स्त्रैणं लुब्धं शठं प्रायो द्वितीयातृतीयाष्टमीषु; इत्यपरिसङ्ख्येयानां ग्रहाणामाविष्कृततमा ह्यष्टावेते व्याख्याताः||२१||
🔊 Audio coming soon
Adhikarana 17 (22) · Śloka 22
सर्वेष्वपि तु खल्वेषु यो हस्तावुद्यम्य रोषसंरम्भान्निःशङ्कमन्येष्वात्मनि वा निपातयेत् स ह्यसाध्यो ज्ञेयः; तथा यः साश्रुनेत्रो मेढ्रप्रवृत्तरक्तः क्षतजिह्वः प्रस्रुतनासिकश्छिद्यमानचर्माऽप्रतिहन्यमानवाणिः सततं विकूजन् दुर्वर्णस्तृषार्तः पूतिगन्धश्च स हिंसार्थिनोन्मत्तो ज्ञेयः; तं परिवर्जयेत्||२२||
🔊 Audio coming soon
Adhikarana 18 (23) · Śloka 23
रत्यर्चनाकामोन्मादिनौ तु भिषगभिप्रायाचाराभ्यां बुद्ध्वा तदङ्गोपहारबलिमिश्रेण| मन्त्रभैषज्यविधिनोपक्रमेत्||२३||
🔊 Audio coming soon
Adhikarana 19 (24-32) · Śloka 33
तत्र द्वयोरपि निजागन्तुनिमित्तयोरुन्मादयोः समासविस्तराभ्यां भेषजविधिमनुव्याख्यास्यामः||२४|| उन्मादे वातजे पूर्वं स्नेहपानं विशेषवित्| कुर्यादावृतमार्गे तु सस्नेहं मृदु शोधनम्||२५|| कफपित्तोद्भवेऽप्यादौ वमनं सविरेचनम्| स्निग्धस्विन्नस्य कर्तव्यं शुद्धे संसर्जनक्रमः||२६|| निरूहं स्नेहबस्तिं च शिरसश्च विरेचनम्| ततः कुर्याद्यथादोषं तेषां भूयस्त्वमाचरेत्||२७|| हृदिन्द्रियशिरःकोष्ठे संशुद्धे वमनादिभिः| मनःप्रसादमाप्नोति स्मृतिं सञ्ज्ञां च विन्दति||२८|| शुद्धस्याचारविभ्रंशे तीक्ष्णं नावनमञ्जनम्| ताडनं च मनोबुद्धिदेहसंवेजनं हितम्||२९|| यः सक्तोऽविनये पट्टैः संयम्य सुदृढैः सुखैः| अपेतलोहकाष्ठाद्ये संरोध्यश्च तमोगृहे||३०|| तर्जनं त्रासनं दानं हर्षणं सान्त्वनं भयम्| विस्मयो विस्मृतेर्हेतोर्नयन्ति प्रकृतिं मनः||३१|| प्रदेहोत्सादनाभ्यङ्गधूमाः पानं च सर्पिषः| प्रयोक्तव्यं मनोबुद्धिस्मृतिसञ्ज्ञाप्रबोधनम्||३२|| सर्पिःपानादिरागन्तोर्मन्त्रादिश्चेष्यते विधिः|३३|
🔊 Audio coming soon
Adhikarana 20 (33-41) · Śloka 41
अतः सिद्धतमान्योगाञ्छृणून्मादविनाशनान्||३३|| हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम्| चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनम्||३४|| विशाला त्रिफला कौन्ती देवदार्वेलवालुकम्| स्थिरा नतं रजन्यौ द्वे सारिवे द्वे प्रियङ्गुका||३५|| नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमकेशरम्| तालीशपत्रं बृहती मालत्याः कुसुमं नवम्||३६|| विडङ्गं पृश्निपर्णी च कुष्ठं चन्दनपद्मकौ| अष्टाविंशतिभिः कल्कैरेतैरक्षसमन्वितैः||३७|| चतुर्गुणे जले सम्यग्घृतप्रस्थं विपाचयेत्| अपस्मारे ज्वरे कासे शोषे मन्देऽनले क्षये||३८|| वातरक्ते प्रतिश्याये तृतीयकचतुर्थके| छर्द्यर्शोमूत्रकृच्छ्रेषु विसर्पोपहतेषु च||३९|| कण्डूपाण्ड्वामयोन्मादविषमेहगदेषु च| भूतोपहतचित्तानां गद्गदानामचेसाम्||४०|| शस्तं स्त्रीणां च वन्ध्यानां धन्यमायुर्बलप्रदम्| अलक्ष्मीपापरक्षोघ्नं सर्वग्रहविनाशनम्||४१|| कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च| इति कल्याणकं घृतम्|
🔊 Audio coming soon
Adhikarana 21 (42-44) · Śloka 44
एभ्य एव स्थिरादीनि जले पक्त्वैकविंशतिम्||४२|| रसे तस्मिन् पचेत् सर्पिर्गृष्टिक्षीरे चतुर्गुणे| वीरार्द्रमाषकाकोलीस्वयङ्गुप्तर्षभर्धिभिः||४३|| मेदया च समैः कल्कैस्तत् स्यात् कल्याणकं महत्| बृंहणीयं विशेषेण सन्निपातहरं परम्||४४|| इति महाकल्याणकं घृतम्|
🔊 Audio coming soon
Adhikarana 22 (45-48) · Śloka 48
जटिलां पूतनां केशीं चारटीं मर्कटीं वचाम्| त्रायमाणां जयां वीरां चोरकं कटुरोहिणीम्||४५|| वयःस्थां शूकरीं छत्रामतिच्छत्रां पलङ्कषाम्| महापुरुषदन्तां च कायस्थां नाकुलीद्वयम्||४६|| कटम्भरां वृश्चिकालीं स्थिरां चाहृत्य तैर्घृतम्| सिद्धं चातुर्थकोन्मादग्रहापस्मारनाशनम्||४७|| महापैशाचिकं नाम घृतमेतद्यथाऽमृतम्| बुद्धिस्मृतिकरं चैव बालानां चाङ्गवर्धनम्||४८|| इति महापैशाचिकं घृतम्|
🔊 Audio coming soon
Adhikarana 23 (49-56) · Śloka 56
लशुनानां शतं त्रिंशदभयास्त्र्यूषणात् पलम्| गवां चर्ममसीप्रस्थो द्व्याढकं क्षीरमूत्रयोः||४९|| पुराणसर्पिषः प्रस्थ एभिः सिद्धं प्रयोजयेत्| हिङ्गुचूर्णपलं शीते दत्त्वा च मधुमाणिकाम्||५०|| तद्दोषागन्तुसम्भूतानुन्मादान् विषमज्वरान्| अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनैः||५१|| इति लशुनाद्यं घृतम्| लशुनस्याविनष्टस्य तुलार्धं निस्तुषीकृतम्| तदर्धं दशमूलस्य द्व्याढकेऽपां विपाचयेत्||५२|| पादशेषे घृतप्रस्थं लशुनस्य रसं तथा| कोलमूलकवृक्षाम्लमातुलुङ्गार्द्रकै रसैः||५३|| दाडिमाम्बुसुरामस्तुकाञ्जिकाम्लैस्तदर्धिकैः| साधयेत्त्रिफलादारुलवणव्योषदीप्यकैः||५४|| यवानीचव्यहिङ्ग्वम्लवेतसैश्च पलार्धिकैः| सिद्धमेतत् पिबेच्छूलगुल्मार्शोजठरापहम्||५५|| ब्रध्नपाण्ड्वामयप्लीहयोनिदोषज्वरकृमीन्| वातश्लेष्मामयान् सर्वानुन्मादांश्चापकर्षति||५६|| इत्यपरं लशुनाद्यं घृतम्|
🔊 Audio coming soon
Adhikarana 24 (57-62) · Śloka 63
हिङ्गुना हिङ्गुपर्ण्या च सकायस्थवयःस्थया| सिद्धं सर्पिर्हितं तद्वद्वयःस्थाहिङ्गुचोरकैः||५७|| केवलं सिद्धमेभिर्वा पुराणं पाययेद्घृतम्| पाययित्वोत्तमां मात्रां श्वभ्रे रुन्ध्याद्गृहेऽपि वा||५८|| विशेषतः पुराणं च घृतं तं पाययेद्भिषक्| त्रिदोषघ्नं पवित्रत्वाद्विशेषाद्ग्रहनाशनम्||५९|| गुणकर्माधिकं पानादास्वादात् कटुतिक्तकम्| उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम्||६०|| लाक्षारसनिभं शीतं तद्धि सर्वग्रहापहम्| मेध्यं विरेचनेष्वग्र्यं प्रपुराणमतः परम्||६१|| नासाध्यं नाम तस्यास्ति यत् स्याद्वर्षशतस्थितम्| दृष्टं स्पृष्टमथाघ्रातं तद्धि सर्वग्रहापहम्||६२|| अपस्मारग्रहोन्मादवतां शस्तं विशेषतः|६३|
🔊 Audio coming soon
Adhikarana 25 (63-75) · Śloka 76
एतानौषधयोगान् वा विधेयत्वमगच्छति||६३|| अञ्जनोत्सादनालेपनावनादिषु योजयेत्| शिरीषो मधुकं हिङ्गु लशुनं तगरं वचा||६४|| कुष्ठं च बस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम्| तद्वद्व्योषं हरिद्रे द्वे मञ्जिष्ठाहिङ्गुसर्षपाः||६५|| शिरीषबीजं चोन्मादग्रहापस्मारनाशनम्| पिष्ट्वा तुल्यमपामार्गं हिङ्ग्वालं हिङ्गुपत्रिकाम्||६६|| वार्तिः स्यान्मरिचार्धांशा पित्ताभ्यां गोशृगालयोः| तयाऽञ्जयेदपस्मारभूतोन्मादज्वरार्दितान्||६७|| भूतार्तानमरार्तांश्च नरांश्चैव दृगामये| मरिचं चातपे मांसं सपित्तं स्थितमञ्जनम्||६८|| वैकृतं पश्यतः कार्यं दोषभूतहतस्मृतेः| सिद्धार्थको वचा हिङ्गु करञ्जो देवदारु च||६९|| मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक् कटुत्रिकम्| समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम्||७०|| बस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम्| नस्यमालेपनं चैव स्नानमुद्वर्तनं तथा||७१|| अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापहः| भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते||७२|| सर्पिरेतेन सिद्धं वा सगोमूत्रं तदर्थकृत्| प्रसेके पीनसे गन्धैर्धूमवर्तिं कृतां पिबेत्||७३|| वैरेचनिकधूमोक्तैः श्वेताद्यैर्वा सहिङ्गुभिः| शल्लकोलूकमार्जारजम्बूकवृकबस्तजैः||७४|| मूत्रपित्तशकृल्लोमनखैश्चर्मभिरेव च| सेकाञ्जनं प्रधमनं नस्यं धूमं च कारयेत्||७५|| वातश्लेष्मात्मके प्रायः ...|७६|
🔊 Audio coming soon
Adhikarana 26 (76-77) · Śloka 77
... पैत्तिके तु प्रशस्यते| तिक्तकं जीवनीयं च सर्पिः स्नेहश्च मिश्रकः||७६|| शीतानि चान्नपानानि मधुराणि मृदूनि च| शङ्खकेशान्तसन्धौ वा मोक्षयेज्ज्ञो भिषक् सिराम्| उन्मादे विषमे चैव ज्वरेऽपस्मार एव च||७७||
🔊 Audio coming soon
Adhikarana 27 (78) · Śloka 78
घृतमांसवितृप्तं वा निवाते स्थापयेत् सुखम्| त्यक्त्वा मतिस्मृतिभ्रंशं सञ्ज्ञां लब्ध्वा प्रमुच्यते ||७८||
🔊 Audio coming soon
Adhikarana 28 (79-84) · Śloka 84
आश्वासयेत् सुहृद्वा तं वाक्यैर्धर्मार्थसंहितैः| ब्रूयादिष्टविनाशं वा दर्शयेदद्भुतानि वा||७९|| बद्धं सर्षपतैलाक्तं न्यसेद्वोत्तानमातपे| कपिकच्छ्वाऽथवा तप्तैर्लोहतैलजलैः स्पृशेत्||८०|| कशाभिस्ताडयित्वा वा सुबद्धं विजने गृहे| रुन्ध्याच्चेतो हि विभ्रान्तं व्रजत्यस्य तथा शमम्||८१|| सर्पेणोद्धृतदंष्ट्रेण दान्तैः सिंहैर्गजैश्च तम्| त्रासयेच्छस्त्रहस्तैर्वा तस्करैः शत्रुभिस्तथा||८२|| अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम्| त्रासयेयुर्वधेनैनं तर्जयन्तो नृपाज्ञया||८३|| देहदुःखभयेभ्यो हि परं प्राणभयं स्मृतम्| तेन याति शमं तस्य सर्वतो विप्लुतं मनः||८४||
🔊 Audio coming soon
Adhikarana 29 (85-86) · Śloka 86
इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते| तस्य तत्सदृशप्राप्तिसान्त्वाश्वासैः शमं नयेत्||८५|| कामशोकभयक्रोधहर्षेर्ष्यालोभसम्भवान्| परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत्||८६||
🔊 Audio coming soon
Adhikarana 30 (87-95) · Śloka 95
बुद्ध्वा देशं वयः सात्म्यं दोषं कालं बलाबले| चिकित्सितमिदं कुर्यादुन्मादे भूतदोषजे||८७|| देवर्षिपितृगन्धर्वैरुन्मत्तस्य तु बुद्धिमान्| वर्जयेदञ्जनादीनि तीक्ष्णानि क्रूरकर्म च||८८|| सर्पिष्पानादि तस्येह मृदु भैषज्यमाचरेत्| पूजां बल्युपहारांश्च मन्त्राञ्जनविधींस्तथा||८९|| शान्तिकर्मेष्टिहोमांश्च जपस्वस्त्ययनानि च| वेदोक्तान् नियमांश्चापि प्रायश्चित्तानि चाचरेत्||९०|| भूतानामधिपं देवमीश्वरं जगतः प्रभुम्| पूजयन् प्रयतो नित्यं जयत्युन्मादजं भयम्||९१|| रुद्रस्य प्रमथा नाम गणा लोके चरन्ति ये| तेषां पूजां च कुर्वाण उन्मादेभ्यः प्रमुच्यते||९२|| बलिभिर्मङ्गलैर्होमैरोषध्यगदधारणैः| सत्याचारतपोज्ञानप्रदाननियमव्रतैः||९३|| देवगोब्रह्मणानां च गुरूणां पूजनेन च| आगन्तुः प्रशमं याति सिद्धैर्मन्त्रौषधैस्तथा||९४|| यच्चोपदेक्ष्यते किञ्चिदपस्मारचिकित्सिते| उन्मादे तच्च कर्तव्यं सामान्याद्धेतुदूष्ययोः||९५||
🔊 Audio coming soon
Adhikarana 31 (96) · Śloka 96
निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः| निजागन्तुभिरुन्मादैः सत्त्ववान् न स युज्यते||९६||
🔊 Audio coming soon
Adhikarana 32 (97) · Śloka 97
प्रसादश्चेन्द्रियार्थनां बुद्ध्यात्ममनसां तथा| धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम्||९७||
🔊 Audio coming soon
Adhikarana 33 (98) · Śloka 98
तत्र श्लोकः- उन्मादानां समुत्थानं लक्षणं सचिकित्सितम्| निजागन्तुनिमित्तानामुक्तवान् भिषगुत्तमः||९८||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 9
इत्याग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलपूरिते चिकित्सास्थाने उन्मादचिकित्सितं नाम नवमोऽध्यायः||९||
🔊 Audio coming soon