Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

6. vājīkaraṇā'dhyāyaḥ - āsiktakṣīrīyō vājīkaraṇapādaḥ

Adhikarana 1 (1-2) · Śloka 2

अथात आसिक्तक्षीरिकं वाजीकरणपादं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3-9) · Śloka 9

आसिक्तक्षीरमापूर्णमशुष्कं शुद्धषष्टिकम्| उदूखले समापोथ्य पीडयेत् क्षीरमर्दितम्||३|| गृहीत्वा तं रसं पूतं गव्येन पयसा सह| बीजानामात्मगुप्ताया धान्यमाषरसेन च||४|| बलायाः शूर्पपर्ण्योश्च जीवन्त्या जीवकस्य च | ऋद्ध्यर्षभककाकोलीश्वदंष्ट्रामधुकस्य च||५|| शतावर्या विदार्याश्च द्राक्षाखर्जूरयोरपि| संयुक्तं मात्रया वैद्यः साधयेत्तत्र चावपेत्||६|| तुगाक्षीर्याः समाषाणां शालीनां षष्टिकस्य च| गोधूमानां च चूर्णानि यैः स सान्द्रीभवेद्रसः||७|| सान्द्रीभूतं च कुर्यात् प्रभूतमधुशर्करम्| गुलि(टि)का बदरैस्तुल्यास्ताश्च सर्पिषि भर्जयेत्||८|| ता यथाग्नि प्रयुञ्जानः क्षीरमांसरसाशनः| पश्यत्यपत्यं विपुलं वृद्धोऽप्यात्मजमक्षयम्||९|| (इत्यपत्यकरी षष्टिकादिगुटिका)|

🔊 Audio coming soon

Adhikarana 3 (10-17) · Śloka 17

चटकानां सहंसानां दक्षाणां शिखिनां तथा| शिशुमारस्य नक्रस्य भिषक् शुक्राणि संहरेत्||१०|| गव्यं सर्पिर्वराहस्य कुलिङ्गस्य वसामपि| षष्टिकानां च चूर्णानि चूर्णं गोधूमकस्य च||११|| एभिः पूपलिकाः कार्याः शष्कुल्यो वर्तिकास्तथा| पूपा धानाश्च विविधा भक्ष्याश्चान्ये पृथग्विधाः||१२|| एषां प्रयोगाद्भक्ष्याणां स्तब्धेनापूर्णरेतसा| शेफसा वाजिवद्याति यावदिच्छं स्त्रियो नरः||१३|| (इति वृष्यपूपलिकादियोगाः)| आत्मगुप्ताफलं माषान् खर्जूराणि शतावरीम्| शृङ्गाटकानि मृद्वीकां साधयेत् प्रसृतोन्मितम्||१४|| क्षीरप्रस्थं जलप्रस्थमेतत् प्रस्थावशेषितम्| शुद्धेन वाससा पूतं योजयेत् प्रसृतैस्त्रिभिः||१५|| शर्करायास्तुगाक्षीर्याः सर्पिषोऽभिनवस्य च| तत् पाययेत सक्षौद्रं षष्टिकान्नं च भोजयेत्||१६|| जरापरीतोऽप्यबलो योगेनानेन विन्दति| नरोऽपत्यं सुविपुलं युवेव च स हृष्यति||१७|| (इत्यपत्यकरः स्वरसः)|

🔊 Audio coming soon

Adhikarana 4 (18-20) · Śloka 20

खर्जूरीमस्तकं माषान् पयस्यां च शतावरीम्| खर्जूराणि मधूकानि मृद्वीकामजडाफलम्||१८|| पलोन्मितानि मतिमान् साधयेत् सलिलाढके| तेन पादावशेषेण क्षीरप्रस्थं विपाचयेत्||१९|| क्षीरशेषेण तेनाद्याद् घृताढ्यं षष्टिकौदनम्| सशर्करेण संयोग एष वृष्यः परं स्मृतः||२०|| (इति वृष्यक्षीरम्)|

🔊 Audio coming soon

Adhikarana 5 (21-23) · Śloka 23

जीवकर्षभकौ मेदां जीवन्तीं श्रावणीद्वयम्| खर्जूरं मधुकं द्राक्षां पिप्पलीं विश्वभेषजम्||२१|| शृङ्गाटकं विदारीं च नवं सर्पिः पयो जलम्| सिद्धं घृतावशेषं तच्छर्कराक्षौद्रपादिकम्||२२|| षष्टिकान्नेन संयुक्तमुपयोज्यं यथाबलम्| वृष्यं बल्यं च वर्ण्यं च कण्ठ्यं बृंहणमुत्तमम्||२३|| (इति वृष्यघृतम्)|

🔊 Audio coming soon

Adhikarana 6 (24-26) · Śloka 26

दध्नः सरं शरच्चन्द्रसन्निभं दोषवर्जितम्| शर्कराक्षौद्रमरिचैस्तुगाक्षीर्या च बुद्धिमान्||२४|| युक्त्या युक्तं ससूक्ष्मैलं नवे कुम्भे शुचौ पटे| मार्जितं प्रक्षिपेच्छीते घृताढ्ये षष्टिकौदने||२५|| पिबेन्मात्रां रसालायास्तं भुक्त्वा षष्टिकौदनम् | वर्णस्वरबलोपेतः पुमांस्तेन वृषायते||२६|| (वृष्यो दधिसरप्रयोगः)|

🔊 Audio coming soon

Adhikarana 7 (27-29) · Śloka 29

चन्द्रांशुकल्पं पयसा घृताढ्यं षष्टिकौदनम्| शर्करामधुसंयुक्तं प्रयुञ्जानो वृषायते||२७|| (इति वृष्यः षष्टिकौदनप्रयोगः)| तप्ते सर्पिषि नक्राण्डं ताम्रचूडाण्डमिश्रितम्| युक्तं षष्टिकचूर्णेन सर्पिषाऽभिनवेन च||२८|| पक्त्वा पूपलिकाः खादेद्वारुणीमण्डपो नरः| य इच्छेदश्ववद्गन्तुं प्रसेक्तुं गजवच्च यः||२९|| (इति वृष्यपूपलिकाः)|

🔊 Audio coming soon

Adhikarana 8 (30-31) · Śloka 31

भवतश्चात्र- एतैः प्रयोगैर्विधिवद्वपुष्मान् वीर्योपपन्नो बलवर्णयुक्तः| हर्षान्वितो वाजिवदष्टवर्षो भवेत् समर्थश्च वराङ्गनासु||३०|| यद्यच्च किञ्चिन्मनसः प्रियं स्याद्रम्या वनान्ताः पुलिनानि शैलाः| इष्टाः स्त्रियो भूषणगन्धमाल्यं प्रिया वयस्याश्च तदत्र योग्यम् ||३१||

🔊 Audio coming soon

Adhikarana 9 (32) · Śloka 32

तत्र श्लोकः- आसिक्तक्षीरिके पादे ये योगाः परिकीर्तिताः| अष्टावपत्यकामैस्ते प्रयोज्याः पौरुषार्थिभिः||३२||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 2

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये आसिक्तक्षीरिको नाम वाजीकरणपादो द्वितीयः||२||

🔊 Audio coming soon