Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

7. vājīkaraṇā'dhyāyaḥ - māṣaparṇabhr̥tīyō vājīkaraṇapādaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो माषपर्णभृतीयं वाजीकरणपादं व्यख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3-5) · Śloka 5

माषपर्णभृतां धेनुं गृष्टिं पुष्टां चतुःस्तनीम्| समानवर्णवत्सां च जीवद्वत्सां च बुद्धिमान्||३|| रोहिणीमथवा कृष्णामूर्ध्वशृङ्गीमदारुणाम्| इक्ष्वादामर्जुनादां वा सान्द्रक्षीरां च धारयेत्||४|| केवलं तु पयस्तस्याः शृतं वाऽशृतमेव वा| शर्कराक्षौद्रसर्पिर्भिर्युक्तं तद्वृष्यमुत्तमम्||५||

🔊 Audio coming soon

Adhikarana 3 (6-7) · Śloka 7

शुक्रलैर्जीवनीयैश्च बृंहणैर्बलवर्धनैः| क्षीरसञ्जननैश्चैव पयः सिद्धं पृथक् पृथक्||६|| युक्तं गोधूमचूर्णेन सघृतक्षौद्रशर्करम्| पर्यायेण प्रयोक्तव्यमिच्छता शुक्रमक्षयम्||७||

🔊 Audio coming soon

Adhikarana 4 (8-10) · Śloka 10

मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम्| श्वदंष्ट्रां क्षीरिकां माषान् गोधूमाञ्छालिषष्टिकान्||८|| पयस्यर्धोदके पक्त्वा कार्षिकानाढकोन्मिते| विवर्जयेत् पयःशेषं तत् पूतं क्षौद्रसर्पिषा||९|| युक्तं सशर्करं पीत्वा वृद्धः सप्ततिकोऽपि वा| विपुलं लभतेऽपत्यं युवेव च स हृष्यति||१०||

🔊 Audio coming soon

Adhikarana 5 (11) · Śloka 11

मण्डलैर्जातरूपस्य तस्या एव पयः शृतम्| अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम्||११||

🔊 Audio coming soon

Adhikarana 6 (12-14) · Śloka 14

त्रिंशत् सुपिष्टाः पिप्पल्यः प्रकुञ्चे तैलसर्पिषोः| भृष्टाः सशर्कराक्षौद्राः क्षीरधारावदोहिताः||१२|| पीत्वा यथाबलं चोर्ध्वं षष्टिकं क्षीरसर्पिषा| भुक्त्वा न रात्रिमस्तब्धं लिङ्गं पश्यति ना क्षरत्||१३|| (इति वृष्यः पिप्पलीयोगः)| श्वदंष्ट्राया विदार्याश्च रसे क्षीरचतुर्गुणे| घृताढ्यः साधितो वृष्यो माषषष्टिकपायसः||१४|| (इति वृष्यपायसयोगः)|

🔊 Audio coming soon

Adhikarana 7 (15-17) · Śloka 17

फलानां जीवनीयानां स्निग्धानां रुचिकारिणाम्| कुडवश्चूर्णितानां स्यात् स्वयङ्गुप्ताफलस्य च||१५|| कुडवश्चैव माषाणां द्वौ द्वौ च तिलमुद्गयोः| गोधूमशालिचूर्णानां कुडवः कुडवो भवेत्||१६|| सर्पिषः कुडवश्चैकस्तत् सर्वं क्षीरमर्दितम् | पक्त्वा पूपलिकाः खादेद्बह्व्यः स्युर्यस्य योषितः||१७|| (इति वृष्यपूपलिकाः)|

🔊 Audio coming soon

Adhikarana 8 (18) · Śloka 18

घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत्| शर्करापिप्पलीक्षौद्रयुक्तं तद्वृष्यमुत्तमम्||१८|| (इति वृष्यं शतावरीघृतम्)|

🔊 Audio coming soon

Adhikarana 9 (19) · Śloka 19

कर्षं मधुकचूर्णस्य घृतक्षौद्रसमांशिकम् | प्रयुङ्क्ते यः पयश्चानु नित्यवेगः स ना भवेत्||१९|| (इति वृष्यमधुकयोगः)|

🔊 Audio coming soon

Adhikarana 10 (20-25) · Śloka 25

घृतक्षीराशनो निर्भीर्निर्व्याधिर्नित्यगो युवा| सङ्कल्पप्रवणो नित्यं नरः स्त्रीषु वृषायते||२०|| कृतैककृत्याः सिद्धार्था ये चान्योऽन्यानुवर्तिनः| कलासु कुशलास्तुल्याः सत्त्वेन वयसा च ये||२१|| कुलमाहात्म्यदाक्षिण्यशीलशौचसमन्विताः| ये कामनित्या ये हृष्टा ये विशोका गतव्यथाः||२२|| ये तुल्यशीला ये भक्ता ये प्रिया ये प्रियंवदाः| तैर्नरः सह विस्रब्धः सुवयस्यैर्वृषायते||२३|| अभ्यङ्गोत्सादनस्नानगन्धमाल्यविभूषणैः| गृहशय्यासनसुखैर्वासोभिरहतैः प्रियैः||२४|| विहङ्गानां रुतैरिष्टैः स्त्रीणां चाभरणस्वनैः| संवाहनैर्वरस्त्रीणामिष्टानां च वृषायते||२५||

🔊 Audio coming soon

Adhikarana 11 (26-28) · Śloka 28

मत्तद्विरेफाचरिताः सपद्माः सलिलाशयाः| जात्युत्पलसुगन्धीनि शीतगर्भगृहणि च||२६|| नद्यः फेनोत्तरीयाश्च गिरयो नीलसानवः| उन्नतिर्नीलमेघानां, रम्यचन्द्रोदया निशाः||२७|| वायवः सुखसंस्पर्शाः कुमुदाकरगन्धिनः| रतिभोगक्षमा रात्र्यः सङ्कोचागुरुवल्लभाः||२८||

🔊 Audio coming soon

Adhikarana 12 (29-31) · Śloka 31

सुखाः सहायाः परपुष्टघुष्टाः फुल्ला वनान्ता विशदान्नपानाः| गान्धर्वशब्दाश्च सुगन्धयोगाः सत्त्वं विशालं निरुपद्रवं च||२९|| सिद्धार्थता चाभिनवश्च कामः स्त्री चायुधं सर्वमिहात्मजस्य| वयो नवं जातमदश्च कालो हर्षस्य योनिः परमा नराणाम्||३०|| तत्र श्लोकः- प्रहर्षयोनयो योगा व्याख्याता दश पञ्च च| माषपर्णभृतीयेऽस्मिन् पादे शुक्रबलप्रदाः ||३१||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 3

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये माषपर्णभृतीयो नाम वाजीकरणपादस्तृतीयः||३||

🔊 Audio coming soon