Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

27. visarpacikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातो विसर्पचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3-10) · Śloka 10

कैलासे किन्नराकीर्णे बहुप्रस्रवणौषधे| पादपैर्विविधैः स्निग्धैर्नित्यं कुसुमसम्पदा||३|| वमद्भिर्मधुरान् गन्धान् सर्वतः स्वभ्यलङ्कृते| विहरन्तं जितात्मानमात्रेयमृषिवन्दितम्||४|| महर्षिभिः परिवृतं सर्वभूतहिते रतम्| अग्निवेशो गुरुं काले विनयादिदमुक्तवान्||५|| भगवन्! दारुणं रोगमाशीविषविषोपमम्| विसर्पन्तं शरीरेषु देहिनामुपलक्षये||६|| सहसैव नरास्तेन परीताः शीघ्रकारिणा| विनश्यन्त्यनुपक्रान्तास्तत्र नः संशयो महान्||७|| स नाम्ना केन विज्ञेयः सञ्ज्ञितः केन हेतुना| कतिभेदः कियद्धातुः किन्निदानः किमाश्रयः||८|| सुखसाध्यः कृच्छ्रसाध्यो ज्ञेयो यश्चानुपक्रमः| कथं कैर्लक्षणैः किं च भगवन्! तस्य भेषजम्||९|| तदग्निवेशस्य वचः श्रुत्वाऽऽत्रेयः पुनर्वसुः| यथावदखिलं सर्वं प्रोवाच मुनिसत्तमः||१०||

🔊 Audio coming soon

Adhikarana 3 (11) · Śloka 11

विविधं सर्पति यतो विसर्पस्तेन स स्मृतः| परिसर्पोऽथवा नाम्ना सर्वतः परिसर्पणात्||११||

🔊 Audio coming soon

Adhikarana 4 (12-14) · Śloka 14

स च सप्तविधो दोषैर्विज्ञेयः सप्तधातुकः| पृथक् त्रयस्त्रिभिश्चैको विसर्पो द्वन्द्वजास्त्रयः||१२|| वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः| चत्वार एते विसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः||१३|| आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः| यस्तु कर्दमको घोरः स पित्तकफसम्भवः||१४||

🔊 Audio coming soon

Adhikarana 5 (15) · Śloka 15

रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः| विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्त धातवः||१५||

🔊 Audio coming soon

Adhikarana 6 (16-22) · Śloka 22

लवणाम्लकटूष्णानां रसानामतिसेवनात्| दध्यम्लमस्तुशुक्तानां सुरासौवीरकस्य च||१६|| व्यापन्नबहुमद्योष्णरागषाडवसेवनात्| शाकानां हरितानां च सेवनाच्च विदाहिनाम्||१७|| कूर्चिकानां किलाटानां सेवनान्मन्दकस्य च| दध्नः शाण्डाकिपूर्वाणामासुतानां च सेवनात्||१८|| तिलमाषकुलत्थानां तैलानां पैष्टिकस्य च| ग्राम्यानूपौदकानां च मांसानां लशुनस्य च||१९|| प्रक्लिन्नानामसात्म्यानां विरुद्धानां च सेवनात्| अत्यादानाद्दिवास्वप्नादजीर्णाध्यशनात् क्षतात्||२०|| क्षतबन्धप्रपतनाद्धर्मकर्मातिसेवनात् | विषवाताग्निदोषाच्च विसर्पाणां समुद्भवः||२१|| एतैर्निदानैर्व्यामिश्रैः कुपिता मारुतादयः| दूष्यान् सन्दूष्य रक्तादीन् विसर्पन्त्यहिताशिनाम्||२२||

🔊 Audio coming soon

Adhikarana 7 (23-25) · Śloka 25

बहिःश्रितः श्रितश्चान्तस्तथा चोभयसंश्रितः| विसर्पो बलमेतेषां ज्ञेयं गुरु यथोत्तरम्||२३|| बहिर्मार्गाश्रितं साध्यमसाध्यमुभयाश्रितम्| विसर्पं दारुणं विद्यात् सुकृच्छ्रं त्वन्तराश्रयम्||२४|| अन्तःप्रकुपिता दोषा विसर्पन्त्यन्तराश्रये| बहिर्बहिःप्रकुपिताः सर्वत्रोभयसंश्रिताः||२५||

🔊 Audio coming soon

Adhikarana 8 (26-27) · Śloka 27

मर्मोपघातात् सम्मोहादयनानां विघट्टनात्| तृष्णातियोगाद्वेगानां विषमाणां प्रवर्तनात्||२६|| विद्याद्विसर्पमन्तर्जमाशु चाग्निबलक्षयात्| अतो विपर्ययाद्बाह्यमन्यैर्विद्यात् स्वलक्षणैः||२७||

🔊 Audio coming soon

Adhikarana 9 (28) · Śloka 28

यस्य सर्वाणि लिङ्गानि बलवद्यस्य कारणम्| यस्य चोपद्रवाः कष्टा मर्मगो यश्च हन्ति सः||२८||

🔊 Audio coming soon

Adhikarana 10 (29-30) · Śloka 30

रूक्षोष्णैः केवलो वायुः पूरणैर्वा समावृतः| प्रदुष्टो दूषयन् दूष्यान् विसर्पति यथाबलम्||२९|| तस्य रूपाणि- भ्रमदवथुपिपासानिस्तोदशूलाङ्गमर्दोद्वेष्टनकम्पज्वरतमक- कासास्थिसन्धिभेदविश्लेषणवेपनारोचकाविपाकाश्चक्षुषोराकुलत्वमस्रागमनं पिपीलिकासञ्चार इव चाङ्गेषु, यस्मिंश्चावकाशे विसर्पो विसर्पति सोऽवकाशः श्यावारुणाभासः श्वयथुमान् निस्तोदभेदशूलायामसङ्कोचहर्षस्फुरणैरतिमात्रं प्रपीड्यते, अनुपक्रान्तश्चोपचीयते शीघ्रभेदैः स्फोटकैस्तनुभिररुणाभैः श्यावैर्वा तनुविशदारुणाल्पास्रावैः, विबद्धवातमूत्रपुरीषश्च भवति, निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत इति वातविसर्पः||३०||

🔊 Audio coming soon

Adhikarana 11 (31-32) · Śloka 32

पित्तमुष्णोपचारेण विदाह्यम्लाशनैश्चितम्| दूष्यान् सन्दूष्य धमनीः पूरयन् वै विसर्पति||३१|| तस्य रूपाणि- ज्वरस्तृष्णा मूर्च्छा मोहश्छर्दिररोचकोऽङ्गभेदः स्वेदोऽतिमात्रमन्तर्दाहः प्रलापः शिरोरुक् चक्षुषोराकुलत्वमस्वप्नमरतिर्भ्रमः शीतवातवारितर्षोऽतिमात्रं हरितहारिद्रनेत्रमूत्रवर्चस्त्वं हरितहारिद्ररूपदर्शनं च, यस्मिंश्चावकाशे विसर्पोऽनुसर्पति सोऽवकाशस्ताम्रहरितहारिद्रनीलकृष्णरक्तानां वर्णानामन्यतमं पुष्यति, सोत्सेधैश्चातिमात्रं दाहसम्भेदनपरीतैः स्फोटकैरुपचीयते तुल्यवर्णास्रावैश्चिरपाकैश्च, निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत इति पित्तविसर्पः||३२||

🔊 Audio coming soon

Adhikarana 12 (33-34) · Śloka 34

स्वाद्वम्ललवणस्निग्धगुर्वन्नस्वप्नसञ्चितः| कफः सन्दूषयन् दूष्यान् कृच्छ्रमङ्गे विसर्पति||३३|| तस्य रूपाणि- शीतकः शीतज्वरो गौरवं निद्रा तन्द्राऽरोचको मधुरास्यत्वमास्योपलेपो निष्ठीविका छर्दिरालस्यं स्तैमित्यमग्निनाशो दौर्बल्यं च, यस्मिंश्चावकाशे विसर्पोऽनुसर्पति सोऽवकाशः श्वयथुमान् पाण्डुर्नातिरक्तः स्नेहसुप्तिस्तम्भगौरवैरन्वितोऽल्पवेदनः कृच्छ्रपाकैश्चिरकारिभिर्बहुलत्वगुपलेपैः स्फोटः श्वेतपाण्डुभिरनुबध्यते, प्रभिन्नस्तु श्वेतं पिच्छिलं तन्तुमद्धनमनुबद्धं स्निग्धमास्रावं स्रवति, ऊर्ध्वं च गुरुभिः स्थिरैर्जालावततैः स्निग्धैर्बहुलत्वगुपलेपैर्व्रणैरनुबध्यतेऽनुषङ्गी च भवति, श्वेतनखनयनवदनत्वङ्मूत्रवर्चस्त्वं, निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत इति श्लेष्मविसर्पः||३४||

🔊 Audio coming soon

Adhikarana 13 (35-36) · Śloka 36

वातपित्तं प्रकुपितमतिमात्रं स्वहेतुभिः| परस्परं लब्धबलं दहद्गात्रं विसर्पति||३५|| तदुपतापादातुरः सर्वशरीरमङ्गारैरिवाकीर्यमाणं मन्यते, छर्द्यतीसारमूर्च्छादाहमोहज्वरतमकारोचकास्थिसन्धिभेदतृष्णाविपाकाङ्गभेदादिभिश्चाभिभूयते, यं यं चावकाशं विसर्पोऽनुसर्पति सोऽवकाशः शान्ताङ्गारप्रकाशोऽतिरक्तो वा भवति, अग्निदग्धप्रकारैश्च स्फोटैरुपचीयते, स शीघ्रगत्वादाश्वेव मर्मानुसारी भवति, मर्मणि चोपतप्ते पवनोऽतिबलो भिनत्त्यङ्गान्यतिमात्रं प्रमोहयति सञ्ज्ञां, हिक्काश्वासौ जनयति, नाशयति निद्रां, स नष्टनिद्रः प्रमूढसञ्ज्ञो व्यथितचेता न क्वचन सुखमुपलभते, अरतिपरीतः स्थानादासनाच्छय्यां क्रान्तुमिच्छति, क्लिष्टभूयिष्ठश्चाशु निद्रां भजति, दुर्बलो दुःखप्रबोधश्च भवति; तमेवंविधमग्निविसर्पपरीतमचिकित्स्यं विद्यात्||३६||

🔊 Audio coming soon

Adhikarana 14 (37-38) · Śloka 38

कफपित्तं प्रकुपित्तं बलवत् स्वेन हेतुना| विसर्पत्येकदेशे तु प्रक्लेदयति देहिनम्||३७|| तद्विकाराः- शीतज्वरः शिरोगुरुत्वं दाहः स्तैमित्यमङ्गावसदनं निद्रा तन्द्रा मोहोऽन्नद्वेषः प्रलापोऽग्निनाशो दौर्बल्यमस्थिभेदो मूर्च्छा पिपासा स्रोतसां प्रलेपो जाड्यमिन्द्रियाणां प्रायोपवेशनमङ्गविक्षेपोऽङ्गमर्दोऽरतिरौत्सुक्यं चोपजायते, प्रायश्चामाशये विसर्पत्यलसक एकदेशग्राही च, यस्मिंश्चावकाशे विसर्पो विसर्पति सोऽवकाशो रक्तपीतपाण्डुपिडकावकीर्ण इव मेचकाभः कालो मलिनः स्निग्धो बहूष्मा गुरुः स्तिमितवेदनः श्वयथुमान् गम्भीरपाको निरास्रावः शीघ्रक्लेदः स्विन्नक्लिन्नपूतिमांसत्वक् क्रमेणाल्परुक् परामृष्टोऽवदीर्यते कर्दम इवावपीडितोऽन्तरं प्रयच्छत्युपक्लिन्नपूतिमांसत्यागी सिरास्नायुसन्दर्शी कुणपगन्धी च भवति सञ्ज्ञास्मृतिहन्ता च; तं कर्दमविसर्पपरीतमचिकित्स्यं विद्यात्||३८||

🔊 Audio coming soon

Adhikarana 15 (39) · Śloka 39

स्थिरगुरुकठिनमधुरशीतस्निग्धान्नपानाभिष्यन्दिसेविनामव्यायामादिसेविनामप्रतिकर्मशीलानां श्लेष्मा वायुश्च प्रकोपमापद्यते, तावुभौ दुष्टप्रवृद्धावतिबलौ प्रदूष्य दूष्यान् विसर्पाय कल्पेते; तत्र वायुः श्लेष्मणा विबद्धमार्गस्तमेव श्लेष्माणमनेकधा भिन्दन् क्रमेण ग्रन्थिमालां कृच्छ्रपाकसाध्यां कफाशये सञ्जनयति, उत्सन्नरक्तस्य वा प्रदूष्य रक्तं सिरास्नायुमांसत्वगाश्रितं ग्रन्थीनां मालां कुरुते तीव्ररुजानां स्थूलानामणूनां वा दीर्घवृत्तरक्तानां, तदुपतापाज्ज्वरातिसारकासहिक्काश्वासशोष- प्रमोहवैवर्ण्यारोचकाविपाकप्रसेकच्छर्दिर्मूर्च्छाङ्गभङ्गनिद्रारतिसदनाद्याः प्रादुर्भवन्त्युपद्रवाः; स एतैरुपद्रुतः सर्वकर्मणां विषयमतिपतितो विवर्जनीयो भवतीति ग्रन्थिविसर्पः||३९||

🔊 Audio coming soon

Adhikarana 16 (40) · Śloka 40

उपद्रवस्तु खलु रोगोत्तरकालजो रोगाश्रयो रोग एव स्थूलोऽणुर्वा, रोगात् पश्चाज्जायत इत्युपद्रवसञ्ज्ञः| तत्र प्रधानो व्याधिः, व्याधेर्गुणभूत उपद्रवः, तस्य प्रायः प्रधानप्रशमे प्रशमो भवति| स तु पीडाकरतरो भवति पश्चादुत्पद्यमानो व्याधिपरिक्लिष्टशरीरत्वात्; तस्मादुपद्रवं त्वरमाणोऽभिबाधेत||४०||

🔊 Audio coming soon

Adhikarana 17 (41) · Śloka 41

सर्वायतनसमुत्थं सर्वलिङ्गव्यापिनं सर्वधात्वनुसारिणमाशुकारिणं महात्ययिकमिति सन्निपातविसर्पमचिकित्स्यं विद्यात्||४१||

🔊 Audio coming soon

Adhikarana 18 (42) · Śloka 42

तत्र वातपित्तश्लेष्मनिमित्ता विसर्पास्त्रयः साध्या भवन्ति; अग्निकर्दमाख्यौ पुनरनुपसृष्टे मर्मणि अनुपगते वा सिरास्नायुमांसक्लेदे साधारणक्रियाभिरुभावेवाभ्यस्यमानौ प्रशान्तिमापद्येयाताम्, अनादरोपक्रान्तः पुनस्तयोरन्यतरो हन्याद्देहमाश्वेवाशीविषवत्; तथा ग्रन्थिविसर्पमजातोपद्रवमारभेत चिकित्सितुम्, उपद्रवोपद्रुतं त्वेनं परिहरेत्; सन्निपातजं तु सर्वधात्वनुसारित्वादाशुकारित्वाद्विरुद्धोपक्रमत्वाच्चासाध्यं विद्यात्||४२||

🔊 Audio coming soon

Adhikarana 19 (43-49) · Śloka 49

तत्र साध्यानां साधनमनुव्याख्यास्यामः||४३|| लङ्घनोल्लेखने शस्ते तिक्तकानां च सेवनम्| कफस्थानगते सामे रूक्षशीतैः प्रलेपयेत्||४४|| पित्तस्थानगतेऽप्येतत् सामे कुर्याच्चिकित्सितम्| शोणितस्यावसेकं च विरेकं च विशेषतः||४५|| मारुताशयसम्भूतेऽप्यादितः स्याद्विरूक्षणम्| रक्तपित्तान्वयेऽप्यादौ स्नेहनं न हितं मतम्||४६|| वातोल्बणे तिक्तघृतं पैत्तिके च प्रशस्यते| लघुदोषे, महादोषे पैत्तिके स्याद्विरेचनम्||४७|| न घृतं बहुदोषाय देयं यन्न विरेचयेत्| तेन दोषो ह्युपष्टब्धस्त्वङ्मांसरुधिरं पचेत्||४८|| तस्माद्विरेकमेवादौ शस्तं विद्याद्विसर्पिणः| रुधिरस्यावसेकं च तद्ध्यस्याश्रयसञ्ज्ञितम्||४९||

🔊 Audio coming soon

Adhikarana 20 (50-53) · Śloka 53

इति वीसर्पनुत् प्रोक्तं समासेन चिकित्सितम्| एतदेव पुनः सर्वं व्यासतः सम्प्रवक्ष्यते||५०|| मदनं मधुकं निम्बं वत्सकस्य फलानि च| वमनं सम्प्रदातव्यं विसर्पे कफपित्तजे||५१|| पटोलपिचुमर्दाभ्यां पिप्पल्या मदनेन च| विसर्पे वमनं शस्तं तथा चेन्द्रयवैः सह||५२|| यांश्च योगान् प्रवक्ष्याभि कल्पेषु कफपित्तिनाम्| विसर्पिणां प्रयोज्यास्ते दोषनिर्हरणाः शिवाः||५३||

🔊 Audio coming soon

Adhikarana 21 (54-61) · Śloka 61

मुस्तनिम्बपटोलानां चन्दनोत्पलयोरपि| सारिवामलकोशीरमुस्तानां वा विचक्षणः||५४|| कषायान् पाययेद्वैद्यः सिद्धान् वीसर्पनाशनान्| किराततिक्तकं लोध्रं चन्दनं सदुरालभम्||५५|| नागरं पद्मकिञ्जल्कमुत्पलं सबिभीतकम्| मधुकं नागपुष्पं च दद्याद्वीसर्पशान्तये||५६|| प्रपौण्डरीकं मधुकं पद्मकिञ्जल्कमुत्पलम्| नागपुष्पं च लोध्रं च तेनैव विधिना पिबेत्||५७|| द्राक्षां पर्पटकं शुण्ठीं गुडूचीं धन्वयासकम्| निशापर्युषितं दद्यात्तृष्णावीसर्पशान्तये||५८|| पटोलं पिचुमर्दं च दार्वीं कटुकरोहिणीम्| यष्ट्याह्वां त्रायमाणां च दद्याद्वीसर्पशान्तये||५९|| पटोलादिकषायं वा पिबेत्त्रिफलया सह| मसूरविदलैर्युक्तं घृतमिश्रं प्रदापयेत्||६०|| पटोलपत्रमुद्गानां रसमामलकस्य च| पाययेत घृतोन्मिश्रं नरं वीसर्पपीडितम्||६१||

🔊 Audio coming soon

Adhikarana 22 (62-67) · Śloka 68

यच्च सर्पिर्महातिक्तं पित्तकुष्ठनिबर्हणम्| निर्दिष्टं तदपि प्राज्ञो दद्याद्वीसर्पशान्तये||६२|| त्रायमाणाघृतं सिद्धं गौल्मिके यदुदाहृतम्| विसर्पाणां प्रशान्त्यर्थं दद्यात्तदपि बुद्धिमान्||६३|| त्रिवृच्चूर्णं समालोड्य सर्पिषा पयसाऽपि वा| घर्माम्बुना वा संयोज्य मृद्वीकानां रसेन वा||६४|| विरेकार्थं प्रयोक्तव्यं सिद्धं वीसर्पनाशनम्| त्रायमाणाशृतं वाऽपि पयो दद्याद्विरेचनम्||६५|| त्रिफलारससंयुक्तं सर्पिस्त्रिवृतया सह| प्रयोक्तव्यं विरेकार्थं विसर्पज्वरनाशनम्||६६|| रसमामलकानां वा घृतमिश्रं प्रदापयेत्| स एव गुरुकोष्ठाय त्रिवृच्चूर्णयुतो हितः||६७|| दोषे कोष्ठगते भूय एतत् कुर्याच्चिकित्सितम्|६८|

🔊 Audio coming soon

Adhikarana 23 (68-70) · Śloka 70

शाखादुष्टे तु रुधिरे रक्तमेवादितो हरेत्||६८|| भिषग्वातान्वितं रक्तं विषाणेन विनिर्हरेत्| पित्तान्वितं जलौकोभिः, कफान्वितमलाबुभिः||६९|| यथासन्नं विकारस्य व्यधयेदाशु वा सिराम्| त्वङ्मांसस्नायुसङ्क्लेदो रक्तक्लेदाद्धि जायते||७०||

🔊 Audio coming soon

Adhikarana 24 (71-97) · Śloka 98

अन्तःशरीरे संशुद्धे दोषे त्वङ्मांससंश्रिते| आदितो वाऽल्पदोषाणां क्रिया बाह्या प्रवक्ष्यते||७१|| उदुम्बरत्वङ्मधुकं पद्मकिञ्जल्कमुत्पलम्| नागपुष्पं प्रियङ्गुश्च प्रदेहः सघृतो हितः||७२|| न्यग्रोधपादास्तरुणाः कदलीगर्भसंयुताः| बिसग्रन्थिश्च लेपः स्याच्छतधौतघृताप्लुतः||७३|| कालीयं मधुकं हेम वन्यं चन्दनपद्मकौ| एला मृणालं फलिनी प्रलेपः स्याद्धृताप्लुतः||७४|| शाद्वलं च मृणालं च शङ्खं चन्दनमुत्पलम्| वेतसस्य च मूलानि प्रदेहः स्यात् सतण्डुलः||७५|| सारिवा पद्मकिञ्जल्कमुशीरं नीलमुत्पलम्| मञ्जिष्ठा चन्दनं लोध्रमभया च प्रलेपनम्||७६|| नलदं च हरेणुश्च लोध्रं मधुकपद्मकौ | दूर्वा सर्जरसश्चैव सघृतं स्यात् प्रलेपनम्||७७|| यावकाः सक्तवश्चैव सर्पिषा सह योजिताः| प्रदेहो मधुकं वीरा सघृता यवसक्तवः||७८|| बलामुत्पलशालूकं वीरामगुरुचन्दनम्| कुर्यादालेपनं वैद्यो मृणालं च बिसान्वितम्||७९|| यवचूर्णं समधुकं सघृतं च प्रलेपनम्| हरेणवो मसुराश्च समुद्गाः श्वेतशालयः||८०|| पृथक् पृथक् प्रदेहाः स्युः सर्वे वा सर्पिषा सह| पद्मिनीकर्दमः शीतो मौक्तिकं पिष्टमेव वा||८१|| शङ्खः प्रवालः शुक्तिर्वा गैरिकं वा घृताप्लुतम्| (पृथगेते प्रदेहाश्च हिता ज्ञेया विसर्पिणाम् )| प्रपौण्डरीकं मधुकं बला शालूकमुत्पलम्||८२|| न्यग्रोधपत्रदुग्धीके सघृतं स्यात् प्रलेपनम्| बिसानि च मृणालं च सघृताश्च कशेरुकाः||८३|| शतावरीविदार्योश्च कन्दौ धौतघृताप्लुतौ| शैवालं नलमूलानि गोजिह्वा वृषकर्णिका||८४|| इन्द्राणिशाकं सघृतं शिरीषत्वग्बलाघृतम् | न्यग्रोधोदुम्बरप्लक्षवेतसाश्वत्थपल्लवैः||८५|| त्वक्कल्कैर्बहुसर्पिर्भिः शीतैरालेपनं हितम्| प्रदेहाः सर्व एवैते वातपित्तोल्बणे शुभाः||८६|| सकफे तु प्रवक्ष्यामि प्रदेहानपरान् हितान्| त्रिफलां पद्मकोशीरं समङ्गां करवीरकम्||८७|| नलमूलान्यनन्तां च प्रदेहमुपकल्पयेत्| खदिरं सप्तपर्णं च मुस्तमारग्वधं धवम्||८८|| कुरण्टकं देवदारु दद्यादालेपनं भिषक्| आरग्वधस्य पत्राणि त्वचं श्लेष्मातकस्य च||८९|| इन्द्राणिशाकं काकाह्वां शिरीषकुसुमानि च| शैवालं नलमूलानि वीरां गन्धप्रियङ्गुकाम्||९०|| त्रिफलां मधुकं वीरां शिरीषकुसुमानि च| प्रपौण्डरीकं ह्रीबेरं दार्वीत्वङ्मधुकं बलाम्||९१|| पृथगालेपनं कुर्याद्द्वन्द्वशः सर्वशोऽपि वा| प्रदेहाः सर्व एवैते देयाः स्वल्पघृताप्लुताः||९२|| वातपित्तोल्बणे ये तु प्रदेहास्ते घृताधिकाः| घृतेन शतधौतेन प्रदिह्यात् केवलेन वा||९३|| घृतमण्डेन शीतेन पयसा मधुकाम्बुना| पञ्चवल्ककषायेण सेचयेच्छीतलेन वा||९४|| वातासृक्पित्तबहुलं विसर्पं बहुशो भिषक्| सेचनास्ते प्रदेहा ये त एव घृतसाधनाः||९५|| ते चूर्णयोगा वीसर्पव्रणानामवचूर्णनाः| दूर्वास्वरससिद्धं च घृतं स्याद्व्रणरोपणम्||९६|| दार्वीत्वङ्मधुकं लोध्रं केशरं चावचूर्णनम्| पटोलः पिचुमर्दश्च त्रिफला मधुकोत्पले||९७|| एतत् प्रक्षालनं सर्पिर्व्रणचूर्णं प्रलेपनम्|९८|

🔊 Audio coming soon

Adhikarana 25 (98-107) · Śloka 107

प्रदेहाः सर्व एवैते कर्तव्याः सम्प्रसादनाः ||९८|| क्षणे क्षणे प्रयोक्तव्याः पूर्वमुद्धृत्य लेपनम्| अधावनोद्धृते पूर्वे प्रदेहा बहुशोऽघनाः||९९|| देयाः प्रदेहाः कफजे पर्याधानोद्धृते घनाः| त्रिभागाङ्गुष्ठमात्रः स्यात् प्रलेपः कल्कपेषितः||१००|| नातिस्निग्धो न रूक्षश्च न पिण्डो न द्रवः समः| न च पर्युषितं लेपं कदाचिदवचारयेत्||१०१|| न च तेनैव लेपेन पुनर्जातु प्रलेपयेत्| क्लेदवीसर्पशूलानि सोष्णाभावात् प्रवर्तयेत्||१०२|| लेपो ह्युपरि पट्टस्य कृतः स्वेदयति व्रणम्| स्वेदजाः पिडकास्तस्य कण्डूश्चैवोपजायते||१०३|| उपर्युपरि लेपस्य लेपो यद्यवचार्यते| तानेव दोषाञ्जनयेत् पट्टस्योपरि यान् कृतः||१०४|| अतिस्निग्धोऽतिद्रवश्च लेपो यद्यवचार्यते| त्वचि न श्लिष्यते सम्यङ्न दोषं शमयत्यपि||१०५|| तन्वालिप्तं न कुर्वीत संशुष्को ह्यापुटायते| न चौषधिरसो व्याधिं प्राप्नोत्यपि च शुष्यति||१०६|| तन्वालिप्तेन ये दोषास्तानेव जनयेद्भृशम्| संशुष्कः पीडयेद्व्याधिं निःस्नेहो ह्यवचारितः||१०७||

🔊 Audio coming soon

Adhikarana 26 (108-114) · Śloka 114

अन्नपानानि वक्ष्यामि विसर्पाणां निवृत्तये| लङ्घितेभ्यो हितो मन्थो रूक्षः सक्षौद्रशर्करः||१०८|| मधुरः किञ्चिदम्लो वा दाडिमामलकान्वितः| सपरूषकमृद्वीकः सखर्जूरः शृताम्बुना||१०९|| तर्पणैर्यवशालीनां सस्नेहा चावलेहिका| जीर्णे पुराणशालीनां यूषैर्भुञ्जीत भोजनम्||११०|| मुद्गान्मसूरांश्चणकान् यूषार्थमुपकल्पयेत्| अनम्लान् दाडिमाम्लान् वा पटोलामलकैः सह||१११|| जाङ्गलानां च मांसानां रसांस्तस्योपकल्पयेत्| रूक्षान् परूषकद्राक्षादाडिमामलकान्वितान्||११२|| रक्ताः श्वेता महाह्वाश्च शालयः षष्टिकैः सह| भोजनार्थे प्रशस्यन्ते पुराणाः सुपरिस्रुताः||११३|| यवगोधूमशालीनां सात्म्यान्येव प्रदापयेत्| येषां नात्युचितः शालिर्नरा ये च कफाधिकाः||११४||

🔊 Audio coming soon

Adhikarana 27 (115) · Śloka 115

विदाहीन्यन्नपानानि विरुद्धं स्वपनं दिवा| क्रोधव्यायामसूर्याग्निप्रवातांश्च विवर्जयेत्||११५||

🔊 Audio coming soon

Adhikarana 28 (116-117) · Śloka 117

कुर्याच्चिकित्सितादस्माच्छीतप्रायाणि पैत्तिके| रूक्षप्रायाणि कफजे स्नैहिकान्यनिलात्मके||११६|| वातपित्तप्रशमनमग्निवीसर्पणे हितम्| कफपित्तप्रशमनं प्रायः कर्दमसञ्ज्ञिते||११७||

🔊 Audio coming soon

Adhikarana 29 (118-138) · Śloka 138

रक्तपित्तोत्तरं दृष्ट्वा ग्रन्थिवीसर्पमादितः| रूक्षणैर्लङ्घनैः सेकैः प्रदेहैः पाञ्चवल्कलैः||११८|| सिरामोक्षैर्जलौकोभिर्वमनैः सविरेचनैः| घृतैः कषायतिक्तैश्च कालज्ञः समुपाचरेत्||११९|| ऊर्ध्वं चाधश्च शुद्धाय रक्ते चाप्यवसेचिते| वातश्लेष्महरं कर्म ग्रन्थिवीसर्पिणे हितम्||१२०|| उत्कारिकाभिरुष्णाभिरुपनाहः प्रशस्यते| स्निग्धाभिर्वेशवारैर्वा ग्रन्थिवीसर्पशूलिनाम्||१२१|| दशमूलोपसिद्धेन तैलेनोष्णेन सेचयेत्| कुष्ठतैलेन चोष्णेन पाक्यक्षारयुतेन च||१२२|| गोमूत्रैः पत्रनिर्यूहैरुष्णैर्वा परिषेचयेत्| सुखोष्णया प्रदिह्याद्वा पिष्टया चाश्वगन्धया||१२३|| शुष्कमूलककल्केन नक्तमालत्वचाऽपि वा| बिभीतकत्वचां वाऽपि कल्केनोष्णेन लेपयेत्||१२४|| बलां नागबलां पथ्यां भूर्जग्रन्थिं बिभीतकम्| वंशपत्राण्यग्निमन्थं कुर्याद्ग्रन्थिप्रलेपनम्||१२५|| दन्ती चित्रकमूलत्वक् सुधार्कपयसी गुडः| भल्लातकास्थि कासीसं लेपो भिन्द्याच्छिलामपि||१२६|| बहिर्मार्गास्थितं ग्रन्थिं किं पुनः कफसम्भवम्| दीर्घकालस्थितं ग्रन्थिं भिन्द्याद्वा भेषजैरिमैः||१२७|| मूलकानां कुलत्थानां यूषैः सक्षारदाडिमैः| गोधूमान्नैर्यवान्नैर्वा ससीधुमधुशर्करैः||१२८|| सक्षौद्रैर्वारुणीमण्डैर्मातुलुङ्गरसान्वितैः| त्रिफलायाः प्रयोगैश्च पिप्पलीक्षौद्रसंयुतैः||१२९|| मुस्तभल्लातशक्तूनां प्रयोगैर्माक्षिकस्य च| देवदारुगुडूच्योश्च प्रयोगैर्गिरिजस्य च||१३०|| धूमैर्विरेकैः शिरसः पूर्वोक्तैर्गुल्मभेदनैः| अयोलवणपाषाणहेमताम्रप्रपीडनैः||१३१|| आभिः क्रियाभिः सिद्धाभिर्विविधाभिर्बली स्थिरः| ग्रन्थिः पाषाणकठिनो यदा नैवोपशाम्यति||१३२|| अथास्य दाहः क्षारेण शरैर्हेम्नाऽथ वा हितः| पाकिभिः पाचयित्वा वा पाटयित्वा समुद्धरेत्||१३३|| मोक्षयेद्बहुशश्चास्य रक्तमुत्क्लेशमागतम्| पुनश्चापहृते रक्ते वातश्लेष्मजिदौषधम्||१३४|| धूमो विरेकः शिरसः स्वेदनं परिमर्दनम्| अप्रशाम्यति दोषे च पाचनं वा प्रशस्यते||१३५|| प्रक्लिन्नं दाहपाकाभ्यां भिषक् शोधनरोपणैः| बाह्यैश्चाभ्यन्तरैश्चैव व्रणवत् समुपाचरेत्||१३६|| कम्पिल्लकं विडङ्गानि दार्वीं कारञ्जकं फलम्| पिष्ट्वा तैलं विपक्तव्यं ग्रन्थिव्रणचिकित्सितम्||१३७|| द्विव्रणीयोपदिष्टेन कर्मणा चाप्युपाचरेत्| देशकालविभागज्ञो व्रणान् वीसर्पजान् बुधः||१३८|| इति ग्रन्थिविसर्पचिकित्सा|

🔊 Audio coming soon

Adhikarana 30 (139-140) · Śloka 140

य एव विधिरुद्दिष्टो ग्रन्थीनां विनिवृत्तये| स एव गलगण्डानां कफजानां निवृत्तये||१३९|| गलगण्डास्तु वातोत्था ये कफानुगता नृणाम्| घृतक्षीरकषायाणामभ्यासान्न भवन्ति ते||१४०||

🔊 Audio coming soon

Adhikarana 31 (141-143) · Śloka 143

यानीहोक्तानि कर्माणि विसर्पाणां निवृत्तये| एकतस्तानि सर्वाणि रक्तमोक्षणमेकतः||१४१|| विसर्पो न ह्यसंसृष्टो रक्तपित्तेन जायते| तस्मात् साधारणं सर्वमुक्तमेतच्चिकित्सितम्||१४२|| विशेषो दोषवैषम्यान्न च नोक्तः समासतः| समासव्यासनिर्दिष्टां क्रियां विद्वानुपाचरेत्||१४३||

🔊 Audio coming soon

Adhikarana 32 (144-146) · Śloka 146

तत्र श्लोकाः- निरुक्तं नामभेदाश्च दोषा दूष्याणि हेतवः| आश्रयो मार्गतश्चैव विसर्पगुरुलाघवम्||१४४|| लिङ्गान्युपद्रवा ये च यल्लक्षण उपद्रवः| साध्यत्वं, न च, साध्यानां साधनं च यथाक्रमम्||१४५|| इति पिप्रक्षवे सिद्धिमग्निवेशाय धीमते| पुनर्वसुरुवाचेदं विसर्पाणां चिकित्सितम्||१४६||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 21

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने विसर्पचिकित्सितं नामैकविंशोऽध्यायः||२१||

🔊 Audio coming soon