Adhikarana 1 (1-2) · Śloka 2
अथातः कतमानिशरीरीयमिन्द्रियं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातः कतमानिशरीरीयमिन्द्रियं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 2 (3-6) · Śloka 6
कतमानि शरीराणि व्याधिमन्ति महामुने!| यानि वैद्यः परिहरेद्येषु कर्म न सिद्ध्यति||३|| इत्यात्रेयोऽग्निवेशेन प्रश्नं पृष्टः सुदुर्वचम्| आचचक्षे यथा तस्मै भगवांस्तन्निबोधत||४|| यस्य वै भाषमाणस्य रुजत्यूर्ध्वमुरो भृशम्| अन्नं च च्यवते भुक्तं स्थितं चापि न जीर्यति||५|| बलं च हीयते शीघ्रं तृष्णा चातिप्रवर्धते| जायते हृदि शूलं च तं भिषक् परिवर्जयेत्||६||
🔊 Audio coming soon
Adhikarana 3 (7-10) · Śloka 10
हिक्का गम्भीरजा यस्य शोणितं चातिसार्यते| न तस्मै भेषजं दद्यात् स्मरन्नात्रेयशासनम्||७|| आनाहश्चातिसारश्च यमेतौ दुर्बलं नरम्| व्याधितं विशतो रोगौ दुर्लभं तस्य जीवितम्||८|| आनाहश्चातितृष्णा च यमेतौ दुर्बलं नरम्| विशतो विजहत्येनं प्राणा नातिचिरान्नरम्||९|| ज्वरः पौर्वाह्णिको यस्य शुष्ककासश्च दारुणः| बलमांसविहीनस्य यथा प्रेतस्तथैव सः||१०||
🔊 Audio coming soon
Adhikarana 4 (11-14) · Śloka 14
यस्य मूत्रं पुरीषं च ग्रथितं सम्प्रवर्तते| निरूष्मणो जठरिणः श्वसनो न स जीवति||११|| श्वयथुर्यस्य कुक्षिस्थो हस्तपादं विसर्पति| ज्ञातिसङ्घं स सङ्क्लेश्य तेन रोगेण हन्यते||१२|| श्वयथुर्यस्य पादस्थस्तथा स्रस्ते च पिण्डिके| सीदतश्चाप्युभे जङ्घे तं भिषक् परिवर्जयेत्||१३|| शूनहस्तं शूनपादं शूनगुह्योदरं नरम्| हीनवर्णबलाहारमौषधैर्नोपपादयेत्||१४||
🔊 Audio coming soon
Adhikarana 5 (15-19) · Śloka 19
उरोयुक्तो बहुश्लेष्मा नीलः पीतः सलोहितः| सततं च्यवते यस्य दूरात्तं परिवर्जयेत्||१५|| हृष्टरोमा सान्द्रमूत्रः शूनः कासज्वरार्दितः | क्षीणमांसो नरो दूराद्वर्ज्यो वैद्येन जानता||१६|| त्रयः प्रकुपिता यस्य दोषाः कष्टाभिलक्षिताः | कृशस्य बलहीनस्य नास्ति तस्य चिकित्सितम्||१७|| ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये| दुर्बलस्य विशेषेण नरस्यान्ताय जायते||१८|| पाण्डुरश्च कृशोऽत्यर्थं तृष्णयाऽभिपरिप्लुतः| डम्बरी कुपितोच्छ्वासः प्रत्याख्येयो विजानता||१९||
🔊 Audio coming soon
Adhikarana 6 (20) · Śloka 20
हनुमन्याग्रहस्तृष्णा बलह्रासोऽतिमात्रया| प्राणाश्चोरसि वर्तन्ते यस्य तं परिवर्जयेत्||२०||
🔊 Audio coming soon
Adhikarana 7 (21-25) · Śloka 25
ताम्यत्यायच्छते शर्म न किञ्चिदपि विन्दति| क्षीणमांसबलाहारो मुमूर्षुरचिरान्नरः||२१|| विरुद्धयोनयो यस्य विरुद्धोपक्रमा भृशम्| वर्धन्ते दारुणा रोगाः शीघ्रं शीघ्रं स हन्यते||२२|| बलं विज्ञानमारोग्यं ग्रहणी मांसशोणितम् | एतानि यस्य क्षीयन्ते क्षिप्रं क्षिप्रं स हन्यते||२३|| आरोग्यं हीयते यस्य प्रकृतिः परिहीयते| सहसा सहसा तस्य मृत्युर्हरति जीवितम्||२४|| तत्र श्लोकः- इत्येतानि शरीराणि व्याधिमन्ति विवर्जयेत्| न ह्येषु धीराः पश्यन्ति सिद्धिं काञ्चिदुपक्रमात्||२५||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 6
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने कतमानिशरीरीयमिन्द्रियं नाम षष्ठोऽध्यायः||६||
🔊 Audio coming soon