Adhikarana 1 (1-3) · Śloka 3
अथातः पुष्पितकमिन्द्रियं व्याख्यास्यामह||१|| इति ह स्माह भगवानात्रेयः||२|| पुष्पं यथा पूर्वरूपं फलस्येह भविष्यतः| तथा लिङ्गमरिष्टाख्यं पूर्वरूपं मरिष्यतः||३||
🔊 Audio coming soon
Adhikarana 1 (1-3) · Śloka 3
अथातः पुष्पितकमिन्द्रियं व्याख्यास्यामह||१|| इति ह स्माह भगवानात्रेयः||२|| पुष्पं यथा पूर्वरूपं फलस्येह भविष्यतः| तथा लिङ्गमरिष्टाख्यं पूर्वरूपं मरिष्यतः||३||
🔊 Audio coming soon
Adhikarana 2 (4-5) · Śloka 5
अप्येवं तु भवेत् पुष्पं फलेनाननुबन्धि यत्| फलं चापि भवेत् किञ्चिद्यस्य पुष्पं न पूर्वजम् ||४|| न त्वरिष्टस्य जातस्य नाशोऽस्ति मरणादृते| मरणं चापि तन्नास्ति यन्नारिष्टपुरःसरम्||५||
🔊 Audio coming soon
Adhikarana 3 (6) · Śloka 6
मिथ्यादृष्टमरिष्टाभमनरिष्टमजानता| अरिष्टं वाऽप्यसम्बुद्धमेतत् प्रज्ञापराधजम्||६||
🔊 Audio coming soon
Adhikarana 4 (7) · Śloka 7
ज्ञानसम्बोधनार्थं तु लिङ्गैर्मरणपूर्वजैः| पुष्पितानुपदेक्ष्यामो नरान् बहुविधैर्बहून् ||७||
🔊 Audio coming soon
Adhikarana 5 (8-16) · Śloka 17
नानापुष्पोपमो गन्धो यस्य भाति दिवानिशम्| पुष्पितस्य वनस्येव नानाद्रुमलतावतः||८|| तमाहुः पुष्पितं धीरा नरं मरणलक्षणैः| स ना संवत्सराद्देहं जहातीति विनिश्चयः||९|| एवमेकैकशः पुष्पैर्यस्य गन्धः समो भवेत्| इष्टैर्वा यदि वाऽनिष्टैः स च पुष्पित उच्यते||१०|| समासेनाशुभान् गन्धानेकत्वेनाथवा पुनः| आजिघ्रेद्यस्य गात्रेषु तं विद्यात् पुष्पितं भिषक्||११|| आप्लुतानाप्लुते काये यस्य गन्धाः शुभाशुभाः| व्यत्यासेनानिमित्ताः स्युः स च पुष्पित उच्यते||१२|| तद्यथा- चन्दनं कुष्ठं तगरागुरुणी मधु| माल्यं मूत्रपुरीषे च मृतानि कुणपानि च||१३|| ये चान्ये विविधात्मानो गन्धा विविधयोनयः| तेऽप्यनेनानुमानेन विज्ञेया विकृतिं गताः||१४|| इदं चाप्यतिदेशार्थं लक्षणं गन्धसंश्रयम्| वक्ष्यामो यदभिज्ञाय भिषङ्मरणमादिशेत्||१५|| वियोनिर्विदुरो गन्धो यस्य गात्रेषु जायते| इष्टो वा यदि वाऽनिष्टो न स जीवति तां समाम्||१६|| एतावद्गन्धविज्ञानं,...|१७|
🔊 Audio coming soon
Adhikarana 6 (17-22) · Śloka 22
...रसज्ञानमतः परम्| आतुराणां शरीरेषु वक्ष्यते विधिपूर्वकम्||१७|| यो रसः प्रकृतिस्थानां नराणां देहसम्भवः| स एषां चरमे काले विकारं भजते द्वयम्||१८|| कश्चिदेवास्यवैरस्यमत्यर्थमुपपद्यते| स्वादुत्वमपरश्चापि विपुलं भजते रसः||१९|| तमनेनानुमानेन विद्याद्विकृतिमागतम्| मनुष्यो हि मनुष्यस्य कथं रसमवाप्नुयात्||२०|| मक्षिकाश्चैव यूकाश्च दंशाश्च मशकैः सह| विरसादपसर्पन्ति जन्तोः कायान्मुमूर्षतः||२१|| अत्यर्थरसिकं कायं कालपक्वस्य मक्षिकाः| अपि स्नातानुलिप्तस्य भृशमायान्ति सर्वशः||२२||
🔊 Audio coming soon
Adhikarana 7 (23) · Śloka 23
तत्र श्लोकः- सामान्येन मयोक्तानि लिङ्गानि रसगन्धयोः| पुष्पितस्य नरस्यैतत्फलं मरणमादिशेत्||२३||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 2
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पुष्पितकमिन्द्रियं नाम द्वितीयोऽध्यायः||२||
🔊 Audio coming soon