Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

2. atulyagōtrīyaśārīram

Adhikarana 1 (1-2) · Śloka 2

अथातोऽतुल्यगोत्रीयं शारीरं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

अतुल्यगोत्रस्य रजःक्षयान्ते रहोविसृष्टं मिथुनीकृतस्य| किं स्याच्चतुष्पात्प्रभवं च षड्भ्यो यत् स्त्रीषु गर्भत्वमुपैति पुंसः||३||

🔊 Audio coming soon

Adhikarana 3 (4) · Śloka 4

शुक्रं तदस्य प्रवदन्ति धीरा यद्धीयते गर्भसमुद्भवाय| वाय्वग्निभूम्यब्गुणपादवत्तत् षड्भ्यो रसेभ्यः प्रभवश्च तस्य||४||

🔊 Audio coming soon

Adhikarana 4 (5) · Śloka 5

सम्पूर्णदेहः समये सुखं च गर्भः कथं केन च जायते स्त्री| गर्भं चिराद्विन्दति सप्रजाऽपि भूत्वाऽथवा नश्यति केन गर्भः||५||

🔊 Audio coming soon

Adhikarana 5 (6-10) · Śloka 10

शुक्रासृगात्माशयकालसम्पद् यस्योपचारश्च हितैस्तथाऽन्नैः | गर्भश्च काले च सुखी सुखं च सञ्जायते सम्परिपूर्णदेहः||६|| योनिप्रदोषान्मनसोऽभितापाच्छुक्रासृगाहारविहारदोषात्| अकालयोगाद्बलसङ्क्षयाच्च गर्भं चिराद्विन्दति सप्रजाऽपि||७|| असृङ्गिरुद्धं पवनेन नार्या गर्भं व्यवस्यन्त्यबुधाः कदाचित्| गर्भस्य रूपं हि करोति तस्यास्तदसृगस्रवि विवर्धमानम्||८|| तदग्निसूर्यश्रमशोकरोगैरूष्णान्नपानैरथवा प्रवृत्तम्| दृष्ट्वाऽसृगेकं न च गर्भसञ्ज्ञं केचिन्नरा भूतहृतं वदन्ति||९|| ओजोशनानां रजनीचराणामाहारहेतोर्न शरीरमिष्टम्| गर्भं हरेयुर्यदि ते न मातुर्लब्धावकाशा न हरेयुरोजः||१०||

🔊 Audio coming soon

Adhikarana 6 (11) · Śloka 11

कन्यां सुतं वा सहितौ पृथग्वा सुतौ सुते वा तनयान् बहून् वा| कस्मात् प्रसूते सुचिरेण गर्भमेकोऽभिवृद्धिं च यमेऽभ्युपैति||११||

🔊 Audio coming soon

Adhikarana 7 (12-16) · Śloka 16

रक्तेन कन्यामधिकेन पुत्रं शुक्रेण तेन द्विविधीकृतेन| बीजेन कन्यां च सुतं च सूते यथास्वबीजान्यतराधिकेन||१२|| शुक्राधिकं द्वैधमुपैति बीजं यस्याः सुतौ सा सहितौ प्रसूते| रक्ताधिकं वा यदि भेदमेति द्विधा सुते सा सहिते प्रसूते||१३|| भिनत्ति यावद्बहुधा प्रपन्नः शुक्रार्तवं वायुरतिप्रवृद्धः| तावन्त्यपत्यानि यथाविभागं कर्मात्मकान्यस्ववशात् प्रसूते||१४|| आहारमाप्नोति यदा न गर्भः शोषं समाप्नोति परिस्रुतिं वा| तं स्त्री प्रसूते सुचिरेण गर्भं पुष्टो यदा वर्षगणैरपि स्यात्||१५|| कर्मात्मकत्वाद्विषमांशभेदाच्छुक्रासृजोर्वृद्धिमुपैति कुक्षौ| एकोऽधिको न्यूनतरो द्वितीय एवं यमेऽप्यभ्यधिको विशेषः||१६||

🔊 Audio coming soon

Adhikarana 8 (17) · Śloka 17

कस्माद्द्विरेताः पवनेन्द्रियो वा संस्कारवाही नरनारिषण्डौ| वक्री तथेर्ष्याभिरतिः कथं वा सञ्जायते वातिकषण्डको वा||१७||

🔊 Audio coming soon

Adhikarana 9 (18-21) · Śloka 21

बीजात् समांशादुपतप्तबीजात् स्त्रीपुंसलिङ्गी भवति द्विरेताः| शुक्राशयं गर्भगतस्य हत्वा करोति वायुः पवनेन्द्रियत्वम्||१८|| शुक्राशयद्वारविघट्टनेन संस्कारवाहं कुरुतेऽनिलश्च| मन्दाल्पबीजावबलावहर्षौ क्लीबौ च हेतुर्विकृतिद्वयस्य||१९|| मातुर्व्यवायप्रतिघेन वक्री स्याद्बीजदौर्बल्यतया पितुश्च| ईर्ष्याभिभूतावपि मन्दहर्षावीर्ष्यारतेरेव वदन्ति हेतुम्||२०|| वाय्वग्निदोषाद्वृषणौ तु यस्य नाशं गतौ वातिकषण्डकः सः| इत्येवमष्टौ विकृतिप्रकाराः कर्मात्मकानामुपलक्षणीयाः||२१||

🔊 Audio coming soon

Adhikarana 10 (22) · Śloka 22

गर्भस्य सद्योऽनुगतस्य कुक्षौ स्त्रीपुन्नपुंसामुदरस्थितानाम्| किं लक्षणं? कारणमिष्यते किं सरूपतां येन च यात्यपत्यम्||२२||

🔊 Audio coming soon

Adhikarana 11 (23-27) · Śloka 27

निष्ठीविका गौरवमङ्गसादस्तन्द्राप्रहर्षौ हृदये व्यथा च| तृप्तिश्च बीजग्रहणं च योन्यां गर्भस्य सद्योऽनुगतस्य लिङ्गम्||२३|| सव्याङ्गचेष्टा पुरुषार्थिनी स्त्री स्त्रीस्वप्नपानाशनशीलचेष्टा| सव्यात्तगर्भा न च वृत्तगर्भा सव्यप्रदुग्धा स्त्रियमेव सूते||२४|| पुत्रं त्वतो लिङ्गविपर्ययेण व्यामिश्रलिङ्गा प्रकृतिं तृतीयाम्| गर्भोपपत्तौ तु मनः स्त्रिया यं जन्तुं व्रजेत्तत्सदृशं प्रसूते||२५|| गर्भस्य चत्वारि चतुर्विधानि भूतानि मातापितृसम्भवानि| आहारजान्यात्मकृतानि चैव सर्वस्य सर्वाणि भवन्ति देहे||२६|| तेषां विशेषाद्बलवन्ति यानि भवन्ति मातापितृकर्मजानि| तानि व्यवस्येत् सदृशत्वहेतुं सत्त्वं यथानूकमपि व्यवस्येत्||२७||

🔊 Audio coming soon

Adhikarana 12 (28) · Śloka 28

कस्मात् प्रजां स्त्री विकृतां प्रसूते हीनाधिकाङ्गीं विकलेन्द्रियां वा| देहात् कथं देहमुपैति चान्यमात्मा सदा कैरनुबध्यते च||२८||

🔊 Audio coming soon

Adhikarana 13 (29-30) · Śloka 30

बीजात्मकर्माशयकालदोषैर्मातुस्तथाऽऽहारविहारदोषैः| कुर्वन्ति दोषा विविधानि दुष्टाः संस्थानवर्णेन्द्रियवैकृतानि||२९|| वर्षासु काष्टाश्मघनाम्बुवेगास्तरोः सरित्स्रोतसि संस्थितस्य| यथैव कुर्युर्विकृतिं तथैव गर्भस्य कुक्षौ नियतस्य दोषाः||३०||

🔊 Audio coming soon

Adhikarana 14 (31-36) · Śloka 36

भूतैश्चतुर्भिः सहितः सुसूक्ष्मैर्मनोजवो देहमुपैति देहात्| कर्मात्मकत्वान्न तु तस्य दृश्यं दिव्यं विना दर्शनमस्ति रूपम्||३१|| स सर्वगः सर्वशरीरभृच्च स विश्वकर्मा स च विश्वरूपः| स चेतनाधातुरतीन्द्रियश्च स नित्ययुक् सानुशयः स एव ||३२|| रसात्ममातापितृसम्भवानि भूतानि विद्याद्दश षट् च देहे| चत्वारि तत्रात्मनि संश्रितानि स्थितस्तथाऽऽत्मा च चतुर्षु तेषु||३३|| भूतानि मातापितृसम्भवानि रजश्च शुक्रं च वदन्ति गर्भे| आप्याय्यते शुक्रमसृक् च भूतैर्यैस्तानि भूतानि रसोद्भवानि||३४|| भूतानि चत्वारि तु कर्मजानि यान्यात्मलीनानि विशन्ति गर्भम्| स बीजधर्मा ह्यपरापराणि देहान्तराण्यात्मनि याति याति||३५|| रूपाद्धि रूपप्रभवः प्रसिद्धः कर्मात्मकानां मनसो मनस्तः| भवन्ति ये त्वाकृतिबुद्धिभेदारजस्तमस्तत्र च कर्म हेतुः||३६||

🔊 Audio coming soon

Adhikarana 15 (37-38) · Śloka 38

अतीन्द्रियैस्तैरतिसूक्ष्मरूपैरात्मा कदाचिन्न वियुक्तरूपः| न कर्मणा नैव मनोमतिभ्यां न चाप्यहङ्कारविकारदोषैः||३७|| रजस्तमोभ्यां हि मनोऽनुबद्धं ज्ञानं विना तत्र हि सर्वदोषाः| गतिप्रवृत्त्योस्तु निमित्तमुक्तं मनः सदोषं बलवच्च कर्म||३८||

🔊 Audio coming soon

Adhikarana 16 (39) · Śloka 39

रोगाः कुतः संशमनं किमेषां हर्षस्य शोकस्य च किं निमित्तम्| शरीरसत्त्वप्रभवा विकाराः कथं न शान्ताः पुनरापतेयुः||३९||

🔊 Audio coming soon

Adhikarana 17 (40) · Śloka 40

प्रज्ञापराधो विषमास्तथाऽर्था हेतुस्तृतीयः परिणामकालः| सर्वामयानां त्रिविधा च शान्तिर्ज्ञानार्थकालाः समयोगयुक्ताः||४०||

🔊 Audio coming soon

Adhikarana 18 (41) · Śloka 41

धर्म्याः क्रिया हर्षनिमित्तमुक्तास्ततोऽन्यथा शोकवशं नयन्ति| शरीरसत्त्वप्रभवास्तु रोगास्तयोरवृत्त्या न भवन्ति भूयः||४१||

🔊 Audio coming soon

Adhikarana 19 (42) · Śloka 42

रूपस्य सत्त्वस्य च सन्ततिर्या नोक्तस्तदादिर्नहि सोऽस्ति कश्चित्| तयोरवृत्तिः क्रियते पराभ्यां धृतिस्मृतिभ्यां परया धिया च||४२||

🔊 Audio coming soon

Adhikarana 20 (43) · Śloka 43

सत्याश्रये वा द्विविधे यथोक्ते पूर्वं गदेभ्यः प्रतिकर्म नित्यम्| जितेन्द्रियं नानुपतन्ति रोगास्तत्कालयुक्तं यदि नास्ति दैवम्||४३||

🔊 Audio coming soon

Adhikarana 21 (44) · Śloka 44

दैवं पुरा यत् कृतमुच्यते तत् तत् पौरुषं यत्त्विह कर्म दृष्टम्| प्रवृत्तिहेतुर्विषमः स दृष्टो निवृत्तिहेतुर्हि समः स एव||४४||

🔊 Audio coming soon

Adhikarana 22 (45) · Śloka 45

हैमन्तिकं दोषचयं वसन्ते प्रवाहयन् ग्रैष्मिकमभ्रकाले| घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगानृतुजान्न जातु ||४५||

🔊 Audio coming soon

Adhikarana 23 (46-48) · Śloka 48

नरो हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः| दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः||४६|| मतिर्वचः कर्म सुखानुबन्धं सत्त्वं विधेयं विशदा च बुद्धिः| ज्ञानं तपस्तत्परता च योगे यस्यास्ति तं नानुपतन्ति रोगाः||४७|| तत्र श्लोकः| इहाग्निवेशस्य महार्थयुक्तं षट्त्रिंशकं प्रश्नगणं महर्षिः| अतुल्यगोत्रे भगवान् यथावन्निर्णीतवान् ज्ञानविवर्धनार्थम्||४८||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 2

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थानेऽतुल्यगोत्रीयं शारीरं नाम द्वितीयोऽध्यायः||२||

🔊 Audio coming soon