Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

3. bastisūtrīyā siddhiḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो बस्तिसूत्रीयां सिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3-5) · Śloka 5

कृतक्षणं शैलवरस्य रम्ये स्थितं धनेशायतनस्य पार्श्वे| महर्षिसङ्घैर्वृतमग्निवेशः पुनर्वसुं प्राञ्जलिरन्वपृच्छत्||३|| बस्तिर्नरेभ्यः किमपेक्ष्य दत्तः स्यात् सिद्धिमान् किम्मयमस्य नेत्रम्| कीदृक्प्रमाणाकृति किङ्गुणं च केभ्यश्च किंयोनिगुणश्च बस्तिः||४|| निरूहकल्पः प्रणिधानमात्रा स्नेहस्य का वा शयने विधिः कः| के बस्तयः केषु हिता इतीदं श्रुत्वोत्तरं प्राह वचो महर्षिः||५||

🔊 Audio coming soon

Adhikarana 3 (6) · Śloka 6

समीक्ष्य दोषौषधदेशकालसात्म्याग्निसत्त्वादिवयोबलानि| बस्तिः प्रयुक्तो नियतं गुणाय स्यात् सर्वकर्माणि च सिद्धिमन्ति||६||

🔊 Audio coming soon

Adhikarana 4 (7) · Śloka 7

सुवर्णरूप्यत्रपुताम्ररीतिकांस्यास्थिशस्त्रद्रुमवेणुदन्तैः | नलैर्विषाणैर्मणिभिश्च तैस्तैर्नेत्राणि कार्याणि सु(त्रि)कर्णिकानि ||७||

🔊 Audio coming soon

Adhikarana 5 (8-9) · Śloka 10

षड्द्वादशाष्टाङ्गुलसम्मितानि षड्विंशतिद्वादशवर्षजानाम्| स्युर्मुद्गकर्कन्धुसतीनवाहिच्छिद्राणि वर्त्याऽपिहितानि चैव||८|| यथावयोऽङ्गुष्ठकनिष्ठिकाभ्यां मूलाग्रयोः स्युः परिणाहवन्ति| ऋजूनि गोपुच्छसमाकृतीनि श्लक्ष्णानि च स्युर्गुडिकामुखानि||९|| स्यात् कर्णिकैकाऽग्रचतुर्थभागे मूलाश्रिते बस्तिनिबन्धने द्वे|१०|

🔊 Audio coming soon

Adhikarana 6 (10-11) · Śloka 11

जारद्गवो माहिषहारिणौ वा स्याच्छौकरो बस्तिरजस्य वाऽपि||१०|| दृढस्तनुर्नष्टसिरो विगन्धः कषायरक्तः सुमृदुः सुशुद्धः | नृणां वयो वीक्ष्य यथानुरूपं नेत्रेषु योज्यस्तु सुबद्धसूत्रः||११||

🔊 Audio coming soon

Adhikarana 7 (12) · Śloka 12

बस्तेरलाभे प्लवजो गलो वा स्यादङ्कपादः सुघनः पटो वा|१२|

🔊 Audio coming soon

Adhikarana 8 (12) · Śloka 13

आस्थापनार्हं पुरुषं विधिज्ञः समीक्ष्य पुण्येऽहनि शुक्लपक्षे||१२|| प्रशस्तनक्षत्रमुहूर्तयोगे जीर्णान्नमेकाग्रमुपक्रमेत |१३|

🔊 Audio coming soon

Adhikarana 9 (13-19) · Śloka 20

बलां गुडूचीं त्रिफलां सरास्नां द्वे पञ्चमूले च पलोन्मितानि||१३|| अष्टौ फलान्यर्धतुलां च मांसाच्छागात् पचेदप्सु चतुर्थशेषम्| पूतं यवानीफलबिल्वकुष्ठवचाशताह्वाघनपिप्पलीनाम्||१४|| कल्कैर्गुडक्षौद्रघृतैः सतैलैर्युतं सुखोष्णैस्तु पिचुप्रमाणैः| गुडात् पलं द्विप्रसृतां तु मात्रां स्नेहस्य युक्त्या मधु सैन्धवं च||१५|| प्रक्षिप्य बस्तौ मथितं खजेन सुबद्धमुच्छ्वास्य च निर्वलीकम्| अङ्गुष्ठमध्येन मुखं पिधाय नेत्राग्रसंस्थामपनीय वर्तिम्||१६|| तैलाक्तगात्रं कृतमूत्रविट्कं नातिक्षुधार्तं शयने मनुष्यम्| समेऽथवेषन्नतशीर्षके वा नात्युच्छ्रिते स्वास्तरणोपपन्ने||१७|| सव्येन पार्श्वेन सुखं शयानं कृत्वर्जुदेहं स्वभुजोपधानम्| सङ्कोच्य सव्येतरदस्य सक्थि वामं प्रसार्य प्रणयेत्ततस्तम्||१८|| स्निग्धे गुदे नेत्रचतुर्थभागं स्निग्धं शनैरृज्वन पृष्ठवंशम्| अकम्पनावेपनलाघवादीन् पाण्योर्गुणांश्चापि विदर्शयंस्तम् ||१९|| प्रपीड्य चैकग्रहणेन दत्तं नेत्रं शनैरेव ततोऽपकर्षेत्|२०|

🔊 Audio coming soon

Adhikarana 10 (20-22) · Śloka 23

तिर्यक् प्रणीते तु न याति धारा गुदे व्रणः स्याच्चलिते तु नेत्रे||२०|| दत्तः शनैर्नाशयमेति बस्तिः कण्ठं प्रधावत्यतिपीडितश्च| शीतस्त्वतिस्तम्भकरो विदाहं मूर्च्छां च कुर्यादतिमात्रमुष्णः||२१|| स्निग्धोऽतिजाड्यं पवनं तु रूक्षस्तन्वल्पमात्रालवणस्त्वयोगम्| करोति मात्राभ्यधिकोऽतियोगं क्षामं तु सान्द्रः सुचिरेण चैति||२२|| दाहातिसारौ लवणोऽति कुर्यात्तस्मात् सुयुक्तं सममेव दद्यात्|२३|

🔊 Audio coming soon

Adhikarana 11 (23) · Śloka 24

पूर्वं हि दद्यान्मधु सैन्धवं तु स्नेहं विनिर्मथ्यं ततोऽनु कल्कम्||२३|| विमथ्य संयोज्य पुनर्द्रवैस्तं बस्तौ निदध्यान्मथितं खजेन|२४|

🔊 Audio coming soon

Adhikarana 12 (24) · Śloka 25

वामाश्रये हि ग्रहणीगुदे च तत् पार्श्वसंस्थस्य सुखोपलब्धिः||२४|| लीयन्त एवं वलयश्च तस्मात् सव्यं शयानोऽर्हति बस्तिदानम्|२५|

🔊 Audio coming soon

Adhikarana 13 (25) · Śloka 26

विड्वातवेगो यदि चार्धदत्ते निष्कृष्य मुक्ते प्रणयेदशेषम् ||२५|| उत्तानदेहश्च कृतोपधानः स्याद्वीर्यमाप्नोति तथाऽस्य देहम् |२६|

🔊 Audio coming soon

Adhikarana 14 (26) · Śloka 26

एकोऽपकर्षत्यनिलं स्वमार्गात् पित्तं द्वितीयस्तु कफं तृतीयः||२६||

🔊 Audio coming soon

Adhikarana 15 (27-29) · Śloka 30

प्रत्यागते कोष्णजलावसिक्तः शाल्यन्नमद्यात्तनुना रसेन| जीर्णे तु सायं लघु चाल्पमात्रं भुक्तोऽनुवास्यः परिबृंहणार्थम्||२७|| निरूहपादांशसमेन तैलेनाम्लानिलघ्नौषधसाधितेन| दत्त्वा स्फिचौ पाणितलेन हन्यात् स्नेहस्य शीघ्रागमरक्षणार्थम्||२८|| ईषच्च पादाङ्गुलियुग्ममाञ्छेदुत्तानदेहस्य तलौ प्रमृज्यात्| स्नेहेन पार्ष्ण्यङ्गुलिपिण्डिकाश्च ये चास्य गात्रावयवा रुगार्ताः||२९|| तांश्चावमद्गीत सुखं ततश्च निद्रामुपासीत कृतोपधानः|३०|

🔊 Audio coming soon

Adhikarana 16 (30) · Śloka 31

भागाः कषायस्य तु पञ्च, पित्ते स्नेहस्य षष्ठः प्रकृतौ स्थिते च||३०|| वाते विवृद्धे तु चतुर्थभागो, मात्रा निरूहेषु कफेऽष्टभागः|३१|

🔊 Audio coming soon

Adhikarana 17 (31-32) · Śloka 33

निरूहमात्रा प्रसृतार्धमाद्ये वर्षे ततोऽर्धप्रसृताभिवृद्धिः||३१|| आद्वादशात् स्यात् प्रसृताभिवृद्धिरष्टादशाद् द्वादशतः परं स्युः| आसप्ततेस्तद्विहितं प्रमाणमतः परं षोडशवद्विधेयम्||३२|| निरूहमात्रा प्रसृतप्रमाणा बाले च वृद्धे च मृदुर्विशेषः|३३|

🔊 Audio coming soon

Adhikarana 18 (33) · Śloka 34

नात्युच्छ्रितं नाप्यतिनीचपादं सपादपीठं शयनं प्रशस्तम्||३३|| प्रधानमृद्वास्तरणोपपन्नं प्राक्शीर्षकं शुक्लपटोत्तरीयम्|३४|

🔊 Audio coming soon

Adhikarana 19 (34) · Śloka 35

भोज्यं पुनर्व्याधिमवेक्ष्य तद्वत् प्रकल्पयेद्यूषपयोरसाद्यैः||३४|| सर्वेषु विद्याद्विधिमेतमाद्यं वक्ष्यामि बस्तीनत उत्तरीयान्|३५|

🔊 Audio coming soon

Adhikarana 20 (35-45) · Śloka 45

द्विपञ्चमूलस्य रसोऽम्लयुक्तः सच्छागमांसस्य सपूर्वपेष्यः||३५|| त्रिस्नेहयुक्तः प्रवरो निरूहः सर्वानिलव्याधिहरः प्रदिष्टः| स्थिरादिवर्गस्य बलापटोलत्रायन्तिकैरण्डयवैर्युतस्य||३६|| प्रस्थो रसाच्छागरसार्धयुक्तः साध्यः पुनः प्रस्थसमस्तु यावत्| प्रियङ्गुकृष्णाघनकल्कयुक्तः सतैलसर्पिर्मधुसैन्धवश्च||३७|| स्याद्दीपनो मांसबलप्रदश्च चक्षुर्बलं चापि ददाति बस्तिः | एरण्डमूलं त्रिपलं पलाशा ह्रस्वानि मूलानि च यानि पञ्च||३८|| रास्नाश्वगन्धातिबलागुडूची पुनर्नवारग्वधदेवदारु| भागाः पलांशा मदनाष्टयुक्ता जलद्विकंसे क्वथितेऽष्टशेषे||३९|| पेष्याः शताह्वा हपुषा प्रियङ्गुः सपिप्पलीकं मधुकं बला च| रसाञ्जनं वत्सकबीजमुस्तं भागाक्षमात्रं लवणांशयुक्तम्||४०|| समाक्षिकस्तैलयुतः समूत्रो बस्तिर्नृणां दीपनलेखनीयः| जङ्घोरुपादत्रिकपृष्ठशूलं कफावृतिं मारुतनिग्रहं च||४१|| विण्मूत्रवातग्रहणं सशूलमाध्मानतामश्मरिशर्करे च| आनाहमर्शोग्रहणीप्रदोषानेरण्डबस्तिः शमयेत् प्रयुक्तः||४२|| चतुष्पले तैलघृतस्य भृष्टाच्छागाच्छतार्धो दधिदाडिमाम्लः| रसः सपेष्यो बलमांसवर्णरेतोग्निदश्चान्ध्यशिरोर्तिशस्तः ||४३|| जलद्विकंसेऽष्टपलं पलाशात् पक्त्वा रसोऽर्धाढकमात्रशेषः| कल्कैर्वचामागधिकापलाभ्यां युक्तः शताह्वाद्विपलेन चापि||४४|| ससैन्धवः क्षौद्रयुतः सतैलो देयो निरूहो बलवर्णकारी| आनाहपार्श्वामययोनिदोषान् गुल्मानुदावर्तरुजं च हन्यात्||४५||

🔊 Audio coming soon

Adhikarana 21 (46-55) · Śloka 55

यष्ट्याह्वयस्याष्टपलेन सिद्धं पयः शताह्वाफलपिप्पलीभिः| युक्तं ससर्पिर्मधु वातरक्तवैस्वर्यवीसर्पहितो निरूहः||४६|| यष्ट्याह्वलोध्राभयचन्दनैश्च शृतं पयोऽग्र्यं कमलोत्पलैश्च| सशर्करं क्षौद्रयुतं सुशीतं पित्तामयान् हन्ति सजीवनीयम्||४७|| द्विकार्षिकाश्चन्दनपद्मकर्धियष्ट्याह्वरास्नावृषसारिवाश्च| सलोध्रमञ्जिष्ठमथाप्यनन्ताबलास्थिरादितृणपञ्चमूलम् ||४८|| तोये समुत्क्वाथ्य रसेन तेन शृतं पयोऽर्धाढकमम्बुहीनम्| जीवन्तिमेदर्धिशतावरीभिर्वीराद्विकाकोलिकशेरुकाभिः||४९|| सितोपलाजीवकपद्मरेणु प्रपौण्डरीकैः कमलोत्पलैश्च| लोध्रात्मगुप्तामधुकैर्विदारीमुञ्जातकैः केशरचन्दनैश्च||५०|| पिष्टैर्घृतक्षौद्रयुतैर्निरूहं ससैन्धवं शीतलमेव दद्यात्| प्रत्यागते धन्वरसेन शालीन् क्षीरेण वाऽद्यात् परिषिक्तगात्रः||५१|| दाहातिसारप्रदरास्रपित्तहृत्पाण्डुरोगान् विषमज्वरं च| सगुल्ममूत्रग्रहकामलादीन् सर्वामयान् पित्तकृतान्निहन्ति||५२|| द्राक्षादिकाश्मर्यमधूकसेव्यैः ससारिवाचन्दनशीतपाक्यैः| पयः शृतं श्रावणिमुद्गपर्णीतुगात्मगुप्तामधुयष्टिकल्कैः||५३|| गोधूमचूर्णैश्च तथाऽक्षमात्रैः सक्षौद्रसर्पिर्मधुयष्टितैलैः| पथ्याविदारीक्षुरसैर्गुडेन बस्तिं युतं पित्तहरं विदध्यात्||५४|| हृन्नाभिपार्श्वोत्तमदेहदाहे दाहेऽन्तरस्थे च सकृच्छ्रमूत्रे| क्षीणे क्षते रेतसि चापि नष्टे पैत्तेऽतिसारे च नृणां प्रशस्तः||५५||

🔊 Audio coming soon

Adhikarana 22 (56-64) · Śloka 64

कोषातकारग्वधदेवदारुशार्ङ्गेष्टमूर्वाकुटजार्कपाठाः | पक्त्वा कुलत्थान् बृहतीं च तोये रसस्य तस्य प्रसृता दश स्युः||५६|| तान् सर्षपैलामदनैः सकुष्ठैरक्षप्रमाणैः प्रसृतैश्च युक्तान्| फलाह्वतैलस्य समाक्षिकस्य क्षारस्य तैलस्य च सार्षपस्य||५७|| दद्यान्निरूहं कफरोगिणे ज्ञो मन्दाग्नये चाप्यशनद्विषे च| पटोलपथ्यामरदारुभिर्वा सपिप्पलीकैः क्वथितैर्जलेऽग्नौ||५८|| द्विपञ्चमूले त्रिफलां सबिल्वां फलानि गोमूत्रयुतः कषायः| कलिङ्गपाठाफलमुस्तकल्कः ससैन्धवः क्षारयुतः सतैलः||५९|| निरूहमुख्यः कफजान् विकारान् सपाण्डुरोगालसकामदोषान्| हन्यात्तथा मारुतमूत्रसङ्गं बस्तेस्तथाऽऽटोपमथापि घोरम्||६०|| रास्नामृतैरण्डविडङ्गदार्वीसप्तच्छदोशीरसुराह्वनिम्बैः| शम्पाकभूनिम्बपटोलपाठातिक्ताखुपर्णीदशमूलमुस्तैः||६१|| त्रायन्तिकाशिग्रुफलत्रिकैश्च क्वाथः सपिण्डीतकतोयमूत्रः| यष्ट्याह्वकृष्णाफलिनीशताह्वारसाञ्जनश्वेतवचाविडङ्गैः||६२|| कलिङ्गपाठाम्बुदसैन्धवैश्च कल्कैः ससर्पिर्मधुतैलमिश्रः| अयं निरूहः क्रिमिकुष्ठमेहब्रध्नोदराजीर्णकफातुरेभ्यः||६३|| रूक्षौषधैरप्यपतर्पितेभ्य एतेषु रोगेष्वपि सत्सु दत्तः| निहत्य वातं ज्वलनं प्रदीप्य विजित्य रोगांश्च बलं करोति||६४||

🔊 Audio coming soon

Adhikarana 23 (65-68) · Śloka 68

पुनर्नवैरण्डवृषाश्मभेदवृश्चीरभूतीकबलापलाशाः | द्विपञ्चमूलं च पलांशिकानि क्षुण्णानि धौतानि फलानि चाष्टौ||६५|| बिल्वं यवान् कोलकुलत्थधान्यफलानि चैव प्रसृतोन्मितानि| पयोजलद्व्याढकवच्छृतं तत् क्षीरावशेषं सितवस्त्रपूतम्||६६|| वचाशताह्वामरदारुकुष्ठयष्ट्याह्वसिद्धार्थकपिप्पलीनाम् | कल्कैर्यवान्या मदनैश्च युक्तं नात्युष्णशीतं गुडसैन्धवाक्तम्||६७|| क्षौद्रस्य तैलस्य च सर्पिषश्च तथैव युक्तं प्रसृतैस्त्रिभिश्च | दद्यान्निरूहं विधिना विविज्ञः स सर्वसंसर्गकृतामयघ्नः||६८||

🔊 Audio coming soon

Adhikarana 24 (69) · Śloka 69

स्निग्धोष्ण एकः पवने समांसो द्वौ स्वादुशीतौ पयसा च पित्ते| त्रयः समूत्राः कटुकोष्णतीक्ष्णाः कफे निरूहा न परं विधेयाः||६९||

🔊 Audio coming soon

Adhikarana 25 (70-71) · Śloka 71

रसेन वाते प्रतिभोजनं स्यात् क्षीरेण पित्ते तु कफे च यूषैः| तथाऽनुवास्येषु च बिल्वतैलं स्याज्जीवनीयं फलसाधितं च||७०|| इतीदमुक्तं निखिलं यथावद्बस्तिप्रदानस्य विधानमग्र्यम्| योऽधीत्य विद्वानिह बस्तिकर्म करोति लोके लभते स सिद्धिम्||७१||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 3

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने बस्तिसूत्रीयसिद्धिर्नाम तृतीयोऽध्यायः||३||

🔊 Audio coming soon