Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

2. pañcakarmīyā siddhiḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः पञ्चकर्मीयां सिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

येषां यस्मात् पञ्चकर्माण्यग्निवेश न कारयेत्| येषां च कारयेत्तानि तत् सर्वं सम्प्रवक्ष्यते||३||

🔊 Audio coming soon

Adhikarana 3 (4-7) · Śloka 7

चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च| सद्राजभिषजां द्वेष्टा तद्द्विष्टः शोकपीडितः||४|| यादृच्छिको मुमूर्षुश्च विहीनः करणैश्च यः| वैरी वैद्यविदग्धश्च श्रद्धाहीनः सुशङ्कितः||५|| भिषजामविधेयश्च नोपक्रम्या भिषग्विदा| एतानुपचरन् वैद्यो बहून् दोषानवाप्नुयात्||६|| एभ्योऽन्ये समुपक्रम्या नराः सर्वैरुपक्रमैः| अवस्थां प्रविभज्यैषां वर्ज्यं कार्यं च वक्ष्यते||७||

🔊 Audio coming soon

Adhikarana 4 (8-9) · Śloka 9

अवम्यास्तावत्- क्षतक्षीणातिस्थूलातिकृशबालवृद्धदुर्बलश्रान्तपिपासितक्षुधितकर्मभाराध्वहतोपवासमैथुनाध्ययनव्यायामचिन्ता- प्रसक्तक्षामगर्भिणीसुकुमारसंवृतकोष्ठदुश्छर्दनोर्ध्वरक्तपित्तप्रसक्तच्छर्दिरूर्ध्ववातास्थापितानुवासितहृद्रोगोदावर्तमूत्राघात- प्लीहगुल्मोदराष्ठीलास्वरोपघाततिमिरशिरशङ्खकर्णाक्षिशूलार्ताः||८|| तत्र क्षतस्य भूयः क्षणनाद्रक्तातिप्रवृत्तिः स्यात्, क्षीणातिस्थूलकृशबालवृद्धदुर्बलानामौषधबलासहत्वात् प्राणोपरोधः, श्रान्तपिपासितक्षुधितानां च तद्वत्, कर्मभाराध्वहतोपवासमैथुनाध्ययनव्यायामचिन्ताप्रसक्तक्षामाणां रौक्ष्याद्वातरक्तच्छेदक्षतभयं स्यात्, गर्भिण्या गर्भव्यापदामगर्भभ्रंशाच्चदारुणा रोगप्राप्तिः, सुकुमारस्य हृदयापकर्षणादूर्ध्वमधो वा रुधिरातिप्रवृत्तिः, संवृतकोष्ठदुश्छछर्दनयोरतिमात्रप्रवाहणाद्दोषाः समुत्क्लिष्टा अन्तःकोष्ठे जनयन्त्यन्तर्विसर्पं स्तम्भं जाड्यं वैचित्त्यं मरणं वा, ऊर्ध्वगरक्तपित्तिन उदानमुत्क्षिप्य प्राणान् हरेद्रक्तं चातिप्रवर्तयेत्, प्रसक्तच्छर्देस्तद्वत्, ऊर्ध्ववातास्थापितानुवासितानामूर्ध्वं वातातिप्रवृत्तिः, हृद्रोगिणोहृदयोपरोधः, उदावर्तिनो घोरतर उदावर्तः स्याच्छीघ्रतरहन्ता, मूत्राघातादिभिरार्तानां तीव्रतरशूलप्रादुर्भावः, तिमिरार्तानां तिमिरातिवृद्धिः, शिरःशूलादिषु शूलातिवृद्धिः; तस्मादेते न वम्याः| सर्वेष्वपि तु खल्वेतेषु विषगरविरुद्धाजीर्णाभ्यवहारामकृतेष्वप्रतिषिद्धं शीघ्रतरकारित्वादेषामिति ||९||

🔊 Audio coming soon

Adhikarana 5 (10) · Śloka 10

शेषास्तु वम्याः; विशेषतस्तु पीनसकुष्ठनवज्वरराजयक्ष्मकासश्वासगलग्रहगलगण्डश्लीपदमेहमन्दाग्निविरुद्धाजीर्णान्न विसूचिकालसकविषगरपीतदष्टदिग्धविद्धाधःशोणितपित्तप्रसेक (दुर्नाम ) हृल्लासारोचकाविपाकापच्यपस्मारोन्मादातिसारशोफपाण्डुरोगमुखपाकदुष्टस्तन्यादयः श्लेष्मव्याधयो विशेषेण महारोगाध्यायोक्ताश्च; एतेषु हि वमनं प्रधानतममित्युक्तं केदारसेतुभेदे शाल्याद्यशोषदोषविनाशवत्||१०||

🔊 Audio coming soon

Adhikarana 6 (11-12) · Śloka 12

अविरेच्यास्तु सुभगक्षतगुदमुक्तनालाधोभागरक्तपित्तिविलङ्घितदुर्बलेन्द्रियाल्पाग्निनिरूढकामादिव्यग्राजीर्णिनवज्वरि- मदात्ययिताध्मातशल्यार्दिताभिहतातिस्निग्धरूक्षदारुणकोष्ठाः क्षतादयश्च गर्भिण्यन्ताः||११|| तत्र सुभगस्य सुकुमारोक्तो दोषः स्यात्, क्षतगुदस्य क्षते गुदे प्राणोपरोधकरीं रुजां जनयेत्, मुक्तनालमतिप्रवृत्त्या हन्यात्, अधोभागरक्तपित्तिनं तद्वत्, विलङ्घितदुर्बलेन्द्रियाल्पाग्निनिरूढा औषधवेगं न सहेरन्, कामादिव्यग्रमनसो न प्रवर्तते कृच्छ्रेण वा प्रवर्तमानमयोगदोषान् कुर्यात्, अजीर्णिन आमदोषः स्यात्, नवज्वरिणोऽविपक्वान् दोषान् न निर्हरेद् वातमेव च कोपयेत्, मदात्ययितस्य मद्यक्षीणे देहे वायुः प्राणोपरोधं कुर्यात्, आध्मातस्याधमतो वा पुरीषकोष्ठे निचितो वायुर्विसर्पन् सहसाऽऽनाहं तीव्रतरं मरणं वा जनयेत्, शल्यार्दिताभिहतयोः क्षते वायुराश्रितो जीवितं हिंस्यात्, अतिस्निग्धस्यातियोगभयं भवेत्, रूक्षस्य वायुरङ्गप्रग्रहं कुर्यात्, दारुणकोष्ठस्य विरेचनोद्धता दोषा हृच्छूलपर्वभेदानाहाङ्गमर्दच्छर्दिमूर्च्छाक्लमाञ्जनयित्वा प्राणान् हन्युः, क्षतादीनां गर्भिण्यन्तानां छर्दनोक्तो दोषः स्यात्; तस्मादेते न विरेच्याः||१२||

🔊 Audio coming soon

Adhikarana 7 (13) · Śloka 13

शेषास्तु विरेच्याः; विशेषतस्तु कुष्ठज्वरमेहोर्ध्वरक्तपित्तभगन्दरोदरार्शोब्रधप्लीहगुल्मार्बुदगलगण्डग्रन्थिविसूचिकालसकमूत्राघातक्रिमिकोष्ठविसर्प- पाण्डुरोगशिरःपार्श्वशूलोदावर्तनेत्रास्यदाहहृद्रोगव्यङ्गनीलिकानेत्रनासिकास्यस्रवणहलीमकश्वासकासकामला- पच्यपस्मारोन्मादवातरक्तयोनिरेतोदोषतैमिर्यारोचकाविपाकच्छर्दिश्वयथूदरविस्फोटकादयः पित्तव्याधयो विशेषेण महारोगाध्यायोक्ताश्च; एतेषु हि विरेचनं प्रधानतममित्युक्तमग्न्युपशमेऽग्निगृहवत्||१३||

🔊 Audio coming soon

Adhikarana 8 (14-15) · Śloka 15

अनास्थाप्यास्तु अजीर्ण्यतिस्निग्धपीतस्नेहोत्क्लिष्टदोषाल्पाग्नियानक्लान्तातिदुर्बलक्षुत्तृष्णाश्रमार्तातिकृशभुक्तभक्तपीतोदकवमितविरिक्तकृतनस्तः कर्मकुद्धभीतमत्तमूर्च्छितप्रसक्तच्छर्दिनिष्ठीविकाश्वासकासहिक्काबद्धच्छिद्रोदकोदराध्मानालसकविसूचिकामप्रजातामातिसार- मधुमेहकुष्ठार्ताः||१४|| तत्राजीर्ण्यतिस्निग्धपीतस्नेहानां दूष्योदरं मूर्च्छाश्वयथुर्वा स्यात्, उत्क्लिष्टदोषमन्दाग्न्योररोचकस्तीव्रः, यानक्लान्तस्य क्षोभव्यापन्नो बस्तिराशु देहं शोषयेत्, अतिदुर्बलक्षुत्तृष्णाश्रमार्तानां पूर्वोक्तोदोषः स्यात्, अतिकृशस्य कार्श्यं पुनर्जनयेत्, भुक्तभक्तपीतोदकयोरुत्क्लिश्योर्ध्वमधो वा वायुर्बस्तिमुत्क्षिप्य क्षिप्रं घोरान् विकाराञ्जनयेत्, वमितविरिक्तयोस्तु रूक्षं शरीरं निरूहः क्षतं क्षार इव दहेत्, कृतनस्तःकर्मणो विभ्रंशं भृशसंरुद्धस्रोतसः कुर्यात्, क्रुद्धभीतयोर्बस्तिरूर्ध्वमुपप्लवेत्, मत्तमूर्च्छितयो र्भृशं विचलितायां सञ्ज्ञायां चित्तोपघाताद् व्यापत् स्यात्, प्रसक्तच्छर्दिर्निष्ठीविकाश्वासकासहिक्कार्तानामूर्ध्वीभूतो वायुरूर्ध्वं बस्तिं नयेत्, बद्धच्छिद्रोदकोदराध्मानार्तानां भृशतरमाध्याप्य बस्तिः प्राणान् हिंस्यात्, अलसकविसूचिकामप्रजातामातिसारिणामामकृतो दोषः स्यात्, मधुमेहकुष्ठिनोर्व्याधेः पुनर्वृद्धिः; तस्मादेते नास्थाप्याः||१५||

🔊 Audio coming soon

Adhikarana 9 (16) · Śloka 16

शेषास्त्वास्थाप्याः; विशेषतस्तु सर्वाङ्गैकाङ्गकुक्षिरोगवातवर्चोमूत्रशुक्रसङ्गबलवर्णमांसरेतःक्षयदोषाध्मानाङ्गसुप्तिक्रिमिकोष्ठोदावर्तशुद्धातिसार- पर्वभेदाभितापप्लीहगुल्मशूलहृद्रोगभगन्दरोन्मादज्वरब्रध्नशिरःकर्णशूलहृदयपार्श्वपृष्ठकटीग्रहवेपनाक्षेपकगौरवातिलाघव- रजःक्षयार्तविषमाग्निस्फिग्जानुजङ्घोरुगुल्फपार्ष्णिप्रपदयोनिबाह्वङ्गुलिस्तनान्तदन्तनखपर्वास्थिशूल- शोषस्तम्भान्त्रकूजपरिकर्तिकाल्पाल्पसशब्दोग्रगन्धोत्थानादयो वातव्याधयो विशेषेण महारोगाध्यायोक्ताश्च; एतेष्वास्थापनं प्रधानतममित्युक्तं वनस्पतिमूलच्छेदवत्||१६||

🔊 Audio coming soon

Adhikarana 10 (17-19) · Śloka 19

य एवानास्थाप्यास्त एवाननुवास्याः स्युः; विशेषतस्त्वभुक्तभक्तनवज्वरपाण्डुरोगकामलाप्रमेहार्शःप्रतिश्यायारोचकमन्दाग्निदुर्बलप्लीहकफोदरोरुस्तम्भवर्चोभेद- विषगरपीतपित्तकफाभिष्यन्दगुरुकोष्ठश्लीपदगलगण्डापचिक्रिमिकोष्ठिनः ||१७|| तत्राभुक्तभक्तस्यानावृतमार्गत्वादूर्ध्वमतिवर्तते स्नेहः, नवज्वरपाण्डुरोगकामलाप्रमेहिणां दोषानुत्क्लिश्योदरञ्जनयेत्, अर्शसस्यार्शांस्यभिष्यन्द्याध्मानं कुर्यात्, अरोचकार्तस्यान्नगृद्धिं पुनर्हन्यात्, मन्दाग्निदुर्बलयोर्मन्दतरमग्निं कुर्यात्, प्रतिश्यायप्लीहादिमतां भृशमुत्क्लिष्टदोषाणां भूय एव दोषं वर्धयेत्; तस्मादेते नानुवास्याः||१८|| य एवास्थाप्यास्त एवानुवास्याः; विशेषतस्तु रूक्षतीक्ष्णाग्नयः केवलवातरोगार्ताश्च; एतेषु ह्यनुवासनं प्रधानतममित्युक्तं मूले द्रुमप्रसेकवत्||१९||

🔊 Audio coming soon

Adhikarana 11 (20-21) · Śloka 21

अशिरोविरेचनार्हास्तु अजीर्णिभुक्तभक्तपीतस्नेहमद्यतोयपातुकामाः स्नातशिराः स्नातुकामः क्षुत्तृष्णाश्रमार्तमत्तमूर्च्छितशस्त्रदण्डहतव्यवायव्यायामपानक्लान्तनवज्वरशोकाभितप्तविरिक्तानुवासितगर्भिणीनवप्रतिश्यायार्ताः, अनृतौ दुर्दिने चेति||२०|| तत्राजीर्णिभुक्तभक्तयोर्दोष ऊर्ध्ववहानि स्रोतांस्यावृत्य कासश्वासच्छर्दिप्रतिश्यायाञ्जनयेत्, पीतस्नेहमद्यतोयपातुकामानां कृते च पिबतां मुखनासास्रावाक्ष्युपदेहतिमिरशिरोरोगाञ्जनयेत्, स्नातशिरसः कृते च स्नानाच्छिरसः प्रतिश्यायं, क्षुधार्तस्य वातप्रकोपं, तृष्णार्तस्य पुनस्तृष्णाभिवृद्धिं मुखशोषं च, श्रमार्तमत्तमूर्च्छितानामास्थापनोक्तं दोषं जनयेत्, शस्त्रदण्डहतयोस्तीव्रतरां रुजं जनयेत्, व्यवायव्यायामपानक्लान्तानां शिरःस्कन्धनेत्रोरःपीडनं, नवज्वरशोकाभितप्तयोरूष्मा नेत्रनाडीरनुसृत्य तिमिरं ज्वरवृद्धिं च कुर्यात्, विरिक्तस्य वायुरिन्द्रियोपघातं कुर्यात्, अनुवासितस्य कफः शिरोगुरुत्वकण्डूक्रिमिदोषाञ्जनयेत्, गर्भिण्या गर्भं स्तम्भयेत् स काणः कुणिः पक्षहतः पीठसर्पी वा जायते, नवप्रतिश्यायार्तस्य स्रोतांसि व्यापादयेत्, अनृतौ दुर्दिने च शीतदोषान् पूतिनस्यं शिरोरोगं च जनयेत्; तस्मादेते न शिरोविरेचनार्हाः||२१||

🔊 Audio coming soon

Adhikarana 12 (22) · Śloka 22

शेषास्त्वर्हाः, विशेषतस्तु शिरोदन्तमन्यास्तम्भगलहनुग्रहपीनसगलशुण्डिकाशालूकशुक्रतिमिरवर्त्मरोगव्यङ्गो पजिह्विकार्धावभेदकग्रीवास्कन्धांसास्यनासिकाकर्णाक्षिमूर्धकपालशिरोरोगार्दितापतन्त्रकापतानकगलगण्ड- दन्तशूलहर्षचालाक्षिराज्यर्बुदस्वरभेदवाग्ग्रहगद्गदक्रथनादय ऊर्ध्वजत्रुगताश्चवातादिविकाराः परिपक्वाश्च; एतेषु शिरोविरेचनं प्रधानतममित्युक्तं, तद्ध्युत्तमाङ्गमनुप्रविश्य मुञ्जादीषिकामिवासक्तां केवलं विकारकरं दोषमपकर्षति||२२||

🔊 Audio coming soon

Adhikarana 13 (23) · Śloka 23

प्रावृट्शरद्वसन्तेतरेष्वात्ययिकेषु रोगेषु नावनं कुर्यात् कृत्रिमगुणोपधानात्; ग्रीष्मे पूर्वाह्णे, शीते मध्याह्ने, वर्षास्वदुर्दिने चेति||२३||

🔊 Audio coming soon

Adhikarana 14 (24-28) · Śloka 28

तत्र श्लोकाः- इति पञ्चविधं कर्म विस्तरेण निदर्शितम्| येभ्यो यन्न हितं यस्मात् कर्म येभ्यश्च यद्धितम्||२४|| न चैकान्तेन निर्दिष्टेऽप्यर्थेऽभिनिविशेद्बुधः| स्वयमप्यत्र वैद्येन तर्क्यं बुद्धिमता भवेत्||२५|| उत्पद्येत हि साऽवस्था देशकालबलं प्रति| यस्यां कार्यमकार्यं स्यात् कर्म कार्यं च वर्जितम्||२६|| छर्दिर्हृद्रोगगुल्मानां वमनं स्वे चिकित्सिते| अवस्थां प्राप्य निर्दिष्टं कुष्ठिनां बस्तिकर्म च||२७|| तस्मात् सत्यपि निर्देशे कुर्यादूह्य स्वयं धिया| विना तर्केण या सिद्धिर्यदृच्छासिद्धिरेव सा||२८||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 2

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने पञ्चकर्मीयसिद्धिर्नाम द्वितीयोऽध्यायः||२||

🔊 Audio coming soon