Adhikarana 1 (1-2) · Śloka 2
अथातः फलमात्रासिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातः फलमात्रासिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 2 (3-14) · Śloka 14
भगवन्तमुदारसत्त्वधीश्रुतिविज्ञानसमृद्धमत्रिजम्| फलबस्तिवरत्वनिश्चये सविवादा मुनयोऽभ्युपागमन्||३|| भृगुकौशिककाप्यशौनकाः सपुलस्त्यासितगौतमादयः| कतमत् प्रवरं फलादिषु स्मृतमास्थापनयोजनास्विति||४|| कफपित्तहरं वरं फलेष्वथ जीमूतकमाह शौनकः| मृदुवीर्यतयाऽभिनत्ति तच्छकृदित्याह नृपोऽथ वामकः||५|| कटुतुम्बममन्यतोत्तमं वमने दोषसमीरणं च तत्| तदवृष्यमशैत्यतीक्ष्णताकटुरौक्ष्यादिति गौतमोऽब्रवीत् ||६|| कफपित्तनिबर्हणं परं स च धामार्गवमित्यमन्यत | तदमन्यत वातलं पुनर्बडिशो ग्लानिकरं बलापहम्||७|| कुटजं प्रशशंस चोत्तमं न बलघ्नं कफपित्तहारि च| अतिविज्जलमौर्ध्वभागिकं पवनक्षोभि च काप्य आह तत्||८|| कृतवेधनमाह वातलं कफपित्तं प्रबलं हरेदिति| तदसाध्विति भद्रशौनकः कटुकं चातिबलघ्नमित्यपि||९|| इति तद्वचनानि हेतुभिः सुविचित्राणि निशम्य बुद्धिमान् | प्रशशंस फलेषु निश्चयं परमं चात्रिसुतोऽब्रवीदिदम्||१०|| फलदोषगुणान् सरस्वती प्रति सर्वैरपि सम्यगीरिता| न तु किञ्चिददोषनिर्गुणं गुणभूयस्त्वमतो विचिन्त्यते ||११|| इह कुष्ठहिता गरागरी हितमिक्ष्वाकु तु मेहिने मतम्| कुटजस्य फलं हृदामये प्रवरं कोठफलं च पाण्डुषु||१२|| उदरे कृतवेधनं हितं, मदनं सर्वगदाविरोधि तु| मधुरं सकषायतिक्तकं तदरूक्षं सकटूष्णविज्जलम्||१३|| कफपित्तहृदाशुकारि चाप्यनपायं पवनानुलोमि च| फलनाम विशेषतस्त्वतो लभतेऽन्येषु फलेषु सत्स्वपि||१४||
🔊 Audio coming soon
Adhikarana 3 (15-18) · Śloka 18
गुरुणेति वचस्युदाहृते मुनिसङ्घेन च पूजिते ततः | प्रणिपत्य मुदा समन्वितः सहितः शिष्यगणोऽनुपृष्टवान्||१५|| सर्वकर्मगुणकृद्गुरुणोक्तो बस्तिरूर्ध्वमथ नैति नाभितः| नाभ्यधो गुदमतः स शरीरात् सर्वतः कथमपोहति दोषान् ||१६|| तद्गुरुरब्रवीदिदं शरीरं तन्त्रयतेऽनिलः सङ्गविघातात् | केवल एव दोषसहितो वा स्वाशयगः प्रकोपमुपयाति||१७|| तं पवनं सपित्तकफविट्कं शुद्धिकरोऽनुलोमयति बस्तिः| सर्वशरीरगश्च गदसङ्घस्तत्प्रशमात् प्रशान्तिमुपयाति||१८||
🔊 Audio coming soon
Adhikarana 4 (19-22) · Śloka 22
अथाधिगम्यार्थमखण्डितं धिया गजोष्ट्रगोश्वाव्यजकर्म रोगनुत्| अपृच्छदेनं स च बस्तिमब्रवीद्विधिं च तस्याह पुनः प्रचोदितः||१९|| आजोरणौ सौम्य गजोष्ट्रयोः कृते गवाश्वयोर्बस्तिमुशन्ति माहिषम्| अजाविकानां तु जरद्गवोद्भवं वदन्ति बस्तिं तदुपायचिन्तकाः||२०|| अरत्निमष्टादशषोडशाङ्गुलं तथैव नेत्रं हि दशाङ्गुलं क्रमात्| गजोष्ट्रगोश्वाव्यजबस्तिसन्धौ चतुर्थभागोपनयं हितं वदेत् ||२१|| प्रस्थस्त्वजाव्योर्हि निरूहमात्रा गवादिषु द्वित्रिगुणं यथाबलम्| निरूहमुष्ट्रस्य तथाऽऽढकद्वयं गजस्य वृद्धिस्त्वनुवासनेऽष्टमः||२२||
🔊 Audio coming soon
Adhikarana 5 (23-26) · Śloka 26
कलिङ्गकुष्ठे मधुकं च पिप्पली वचा शताह्वा मदनं रसाञ्जनम्| हितानि सर्वेषु गुडः ससैन्धवो द्विपञ्चमूलं च विकल्पना त्वियम्||२३|| गजेऽधिकाऽश्वत्थवटाश्वकर्णकाः सखादिरप्रग्रहशालतालजाः| तथा च पर्ण्यौ धवशिग्रुपाटली मधूकसाराः सनिकुम्भचित्रकाः||२४|| पलाशभूतीकसुराह्वरोहिणीकषाय उक्तस्त्वधिको गवां हितः| पलाशदन्तीसुरदारुकत्तृणद्रवन्त्य उक्तास्तुरगस्य चाधिकाः||२५|| खरोष्ट्रयोः पीलुकरीरखादिराः शम्याकबिल्वादिगणस्य च च्छदाः| अजाविकानां त्रिफलापरूषकं कपित्थकर्कन्धु सबिल्वकोलजम्||२६||
🔊 Audio coming soon
Adhikarana 6 (27) · Śloka 27
अथाग्निवेशः सततातुरान् नरान् हितं च पप्रच्छ गुरुस्तदाह च| सदाऽऽतुराः श्रोत्रियराजसेवकास्तथैव वेश्या सह पण्यजीविभिः||२७||
🔊 Audio coming soon
Adhikarana 7 (28-30) · Śloka 30
द्विजो हि वेदाध्ययनव्रताह्निकक्रियादिभिर्देहहितं न चेष्टते | नृपोपसेवी नृपचित्तरक्षणात् परानुरोधाद्बहुचिन्तनाद्भयात् ||२८|| नृचित्तवर्तिन्युपचारतत्परा मृजाभि(वि)भूषानिरता पणाङ्गना| सदासनादत्यनुबन्धविक्रयक्रयादिलोभादपि पण्यजीविनः||२९|| सदैव ते ह्यागतवेगनिग्रहं समाचरन्ते न च कालभोजनम्| अकालनिर्हारविहारसेविनो भवन्ति येऽन्येऽपि सदाऽऽतुराश्च ते||३०||
🔊 Audio coming soon
Adhikarana 8 (31-36) · Śloka 36
समीरणं वेगविधारणोद्धतं विबन्धसर्वाङ्गरुजाकरं भिषक्| समीक्ष्य तेषां फलवर्तिमादितः सुकल्पितां स्नेहवतीं प्रयोजयेत्||३१|| पुनर्नवैरण्डनिकुम्भचित्रकान् सदेवदारुत्रिवृतानिदिग्धिकान्| महान्ति मूलानि च पञ्च यानि विपाच्य मूत्रे दधिमस्तुसंयुते||३२|| सतैलसर्पिर्लवणैश्च पञ्चभिर्विमूर्च्छितं बस्तिमथ प्रयोजयेत्| निरूहितं धन्वरसेन भोजितं निकुम्भतैलेन ततोऽनुवासयेत्||३३|| बलां सरास्नां फलबिल्वचित्रकान् द्विपञ्चमूलं कृतमालकात् फलम्| यवान् कुलत्थांश्च पचेज्जलाढके रसः स पेष्यैस्तु कलिङ्गकादिभिः||३४|| सतैलसर्पिर्गुडसैन्धवो हितः सदातुराणां बलवर्णवर्धनः| तथाऽनुवास्ये मधुकेन साधितं फलेन बिल्वेन शताह्वयाऽपि वा||३५|| सजीवनीयस्तु रसोऽनुवासने निरूहणे चालवणः शिशोर्हितः| न चान्यदाश्वङ्गबलाभिवर्धनं निरूहबस्तेः शिशुवृद्धयोः परम्||३६||
🔊 Audio coming soon
Adhikarana 9 (37) · Śloka 37
तत्र श्लोकः- फलकर्म बस्तिवरता नेत्रं यद्बस्तयो गवादीनाम्| सततातुराश्च दिष्टाः फलमात्रायां हितं चैषाम्||३७||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 11
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने फलमात्रासिद्धिर्नामैकादशोऽध्यायः||११||
🔊 Audio coming soon