Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

9. trimarmīyā siddhiḥ

Adhikarana 1 (1-2) · Śloka 2

अथातस्त्रिमर्मीयां सिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

सप्तोत्तरं मर्मशतमस्मिञ्छरीरे स्कन्धशाखासमाश्रितमग्निवेश!| तेषामन्यतमपीडायां समधिका पीडा भवति, चेतनानिबन्धवैशेष्यात्| तत्र शाखाश्रितेभ्यो मर्मभ्यः स्कन्धाश्रितानि गरीयांसि, शाखानां तदाश्रितत्वात्; स्कन्धाश्रितेभ्योऽपि हृद्वस्तिशिरांसि, तन्मूलत्वाच्छरीरस्य||३||

🔊 Audio coming soon

Adhikarana 3 (4-5) · Śloka 5

तत्र हृदये दश धमन्यः प्राणापानौ मनो बुद्धिश्चेतना महाभूतानि च नाभ्यामरा इव प्रतिष्ठितानि, शिरसि इन्द्रियाणि इन्द्रियप्राणवहानि च स्रोतांसि सूर्यमिव गभस्तयः संश्रितानि, बस्तिस्तु स्थूलगुदमुष्कसेवनीशुक्रमूत्रवाहिनीनां नाडी(ली)नां मध्ये मूत्रधारोऽम्बुवहानां सर्वस्रोतसामुदधिरिवापगानां प्रतिष्ठा , बहुभिश्च तन्मूलैर्मर्मसञ्ज्ञकैः स्रोतोभिर्गगनमिव दिनकरकरैर्व्याप्तमिदं शरीरम्||४|| तेषां त्रयाणामन्यतमस्यापि भेदादाश्वेव शरीरभेदः स्यात्, आश्रयनाशादाश्रितस्यापि विनाशः; तदुपघातात्तु घोरतरव्याधिप्रादुर्भावः; तस्मादेतानि विशेषेण रक्ष्याणि बाह्याभिघाद्वातादिभ्यश्च||५||

🔊 Audio coming soon

Adhikarana 4 (6) · Śloka 6

तत्र हृद्यभिहते कासश्वासबलक्षयकण्ठशोषक्लोमाकर्षणजिह्वानिर्गममुखतालुशोषापस्मारोन्मादप्रलापचित्तनाशादयः स्युः; शिरस्यभिहते मन्यास्तम्भार्दितचक्षुर्विभ्रममोहोद्वेष्टनचेष्टानाशकासश्वासहनुग्रहमूकगद्गदत्वाक्षिनिमीलन- गण्डस्पन्दनजृम्भणलालास्रावस्वरहानिवदनजिह्मत्वादीनि, बस्तौ तु वातमूत्रवर्चोनिग्रहवङ्क्षणमेहनबस्तिशूलकुण्डलोदावर्तगुल्मानिलाष्ठीलोपस्तम्भनाभिकुक्षिगुदश्रोणिग्रहादयः ; वाताद्युपसृष्टानां त्वेषां लिङ्गानि चिकित्सिते सक्रियाविधीन्युक्तानि||६||

🔊 Audio coming soon

Adhikarana 5 (7) · Śloka 7

किन्त्वेतानि विशेषतोऽनिलाद्रक्ष्याणि, अनिलो हि पित्तकफसमुदीरणे हेतुः प्राणमूलं च, स बस्तिकर्मसाध्यतमः, तस्मान्न बस्तिसमं किञ्चित् कर्म मर्मपरिपालनमस्ति| तत्र षडास्थापनस्कन्धान् विमाने द्वौ चानुवासनस्कन्धाविह च विहितान् बस्तीन् बुद्ध्या विचार्य महामर्मपरिपालनार्थं प्रयोजयेद्वातव्याधिचिकित्सां च||७||

🔊 Audio coming soon

Adhikarana 6 (8) · Śloka 8

भूयश्च हृद्युपसृष्टे हिङ्गुचूर्णं लवणानामन्यतमचूर्णसंयुक्तं मातुलुङ्गस्य रसेनान्येन वाऽम्लेन हृद्येन वा पाययेत्, स्थिरादिपञ्चमूलीरसः सशर्करः पानार्थं, बिल्वादिपञ्चमूलरससिद्धा च यवागूः, हृद्रोगविहितं च कर्म; मूर्ध्नि तु वातोपसृष्टेऽभ्यङ्गस्वेदनोपनाहस्नेहपाननस्तःकर्मावपीडनधूमादीनि; बस्तौ तु कुम्भीस्वेदः, वर्तयः, श्यामादिभिर्गोमूत्रसिद्धो निरूहः, बिल्वादिभिश्च सुरासिद्धः, शरकाशेक्षुदर्भगोक्षुरकमूलशृतक्षीरैश्च त्रपुसैर्वारुखराश्वाबीजयवर्षभकवृद्धिकल्कितो निरूहः, पीतदारुसिद्धतैलेनानुवासनं, तैल्वकं च सर्पिर्विरेकार्थं, शतावरीगोक्षुरकबृहतीकण्टकारिकागुडूचीपुनर्नवोशीरमधुकद्विसारिवालोध्रश्रेयसीकुशकाशमूलकषायक्षीरचतुर्गुणं बलावृषर्षभकखराश्वोपकुञ्चिकावत्सकत्रपुसैर्वारुबीजशितिवारकमधुकवचाशतपुष्पाश्मभेदकवर्षाभूमदनफलकल्कसिद्धं तैलमुत्तरबस्तिर्निरूहो वा शुद्धस्निग्धस्विन्नस्य बस्तिशूलमूत्रविकारहर इति||८||

🔊 Audio coming soon

Adhikarana 7 (9-10) · Śloka 10

भवन्ति चात्र श्लोकाः- हृदये मूर्ध्नि बस्तौ च नृणां प्राणाः प्रतिष्ठिताः| तस्मात्तेषां सदा यत्नं कुर्वीत परिपालने||९|| आबाधवर्जनं नित्यं स्वस्थवृत्तानुवर्तनम्| उत्पन्नार्तिविघातश्च मर्मणां परिपालनम्||१०||

🔊 Audio coming soon

Adhikarana 8 (11) · Śloka 11

अत उर्ध्वं विकारा ये त्रिमर्मीये चिकित्सिते| न प्रोक्ता मर्मजास्तेषां कांश्चिद्वक्ष्यामि सौषधान्||११||

🔊 Audio coming soon

Adhikarana 9 (12-15) · Śloka 15

क्रुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रपद्यते| पीडयन् हृदयं गत्वा शिरः शङ्खौ च पीडयन्||१२|| धनुर्वन्नमयेद्गात्राण्याक्षिपेन्मोहयेत्तथा| (नमयेच्चाक्षिपेच्चाङ्गान्युच्छ्वासं निरुणद्धि च)| कृच्छ्रेण चाप्युच्छ्वसिति स्तब्धाक्षोऽथ निमीलकः ||१३|| कपोत इव कूजेच्च निःसञ्ज्ञः सोऽपतन्त्रकः| दृष्टिं संस्तम्भ्य सञ्ज्ञां च हत्वा कण्ठेन कूजति||१४|| हृदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः| वायुना दारुणं प्राहुरेके तमपतानकम्||१५||

🔊 Audio coming soon

Adhikarana 10 (16-20) · Śloka 20

श्वसनं कफवाताभ्यां रुद्धं तस्य विमोक्षयेत्| तीक्ष्णैः प्रधमनैः सञ्ज्ञां तासु मुक्तासु विन्दति||१६|| मरिचं शिग्रुबीजानि विडङ्गं च फणिज्झकम्| एतानि सूक्ष्मचूर्णानि दद्याच्छीर्षविरेचनम्||१७|| तुम्बुरूण्यभया हिङ्गु पौष्करं लवणत्रयम्| यवक्वाथाम्बुना पेयं हृद्ग्रहे चापतन्त्रके ||१८|| हिङ्ग्वम्लवेतसं शुण्ठीं ससौवर्चलदाडिमम्| पिबेद्वातकफघ्नं च कर्म हृद्रोगनुद्धितम्||१९|| शोधना बस्तयस्तीक्ष्णा न हितास्तस्य कृत्स्नशः| सौवर्चलाभयाव्योषैः सिद्धं तस्मै घृतं हितम्||२०||

🔊 Audio coming soon

Adhikarana 11 (21-24) · Śloka 24

मधुरस्निग्धगुर्वन्नसेवनाच्चिन्तनाच्छ्रमात् | शोकाद्व्याध्यनुषङ्गाच्च वायुनोदीरितः कफः||२१|| यदाऽसौ समवस्कन्द्य हृदयं हृदयाश्रयान्| समावृणोति ज्ञानादींस्तदा तन्द्रोपजायते||२२|| हृदये व्याकुलीभावो वाक्चेष्टेन्द्रियगौरवम्| मनोबुद्ध्यप्रसादश्च तन्द्राया लक्षणं मतम्||२३|| कफघ्नं तत्र कर्तव्यं शोधनं शमनानि च| व्यायामो रक्तमोक्षश्च भोज्यं च कटुतिक्तकम्||२४||

🔊 Audio coming soon

Adhikarana 12 (25-26) · Śloka 26

मूत्रौकसादो जठरं कृच्छ्रमुत्सङ्गसङ्क्षयौ| मूत्रातीतोऽनिलाष्ठीला वातबस्त्युष्णमारुतौ||२५|| वातकुण्डलिका ग्रन्थिर्विड्घातो बस्तिकुण्डलम्| त्रयोदशैते मूत्रस्य दोषास्ताँल्लिङ्गतः शृणु||२६||

🔊 Audio coming soon

Adhikarana 13 (27-28) · Śloka 28

पित्तं कफो द्वावपि वा बस्तौ संहन्यते यदा| मारुतेन तदा मूत्रं रक्तं पीतं घनं सृजेत्||२७|| सदाहं श्वेतसान्द्रं वा सर्वैर्वा लक्षणैर्युतम्| मूत्रौकसादं तं विद्यात् पित्तश्लेष्महरैर्जयेत्||२८||

🔊 Audio coming soon

Adhikarana 14 (29-31) · Śloka 31

विधारणात् प्रतिहतं वातोदावर्तितं यदा| पूरयत्युदरं मूत्रं तदा तदनिमित्तरुक्||२९|| अपक्तिमूत्रविट्सङ्गैस्तन्मूत्रजठरं वदेत्| मूत्रवैरेचनीं तत्र चिकित्सां सम्प्रयोजयेत्||३०|| हिङ्गुद्विरुत्तरं चूर्णं त्रिमर्मीये प्रकीर्तितम्| हन्यान्मूत्रोदरानाहमाध्मानं गुदमेढ्रयोः||३१||

🔊 Audio coming soon

Adhikarana 15 (32-48) · Śloka 49

मूत्रितस्य व्यवायात्तु रेतो वातोद्धतं च्युतम्| पूर्वं मूत्रस्य पश्चाद्वा स्रवेत् कृच्छ्रं तदुच्यते||३२|| खवैगुण्यानिलाक्षेपैः किञ्चिन्मूत्रं च तिष्ठति| मणिसन्धौ स्रवेत् पश्चात्तदरुग्वाऽथ चातिरुक्||३३|| मूत्रोत्सङ्गः स विच्छिन्नमुच्छेषगुरुशेफसः | वाताकृतिर्भवेद्वातान्मूत्रे शुष्यति सङ्क्षयः||३४|| चिरं धारयतो मूत्रं त्वरया न प्रवर्तते| मेहमानस्य मन्दं वा मूत्रातीतः स उच्यते||३५|| आध्मापयन् बस्तिगुदं रुद्ध्वा वायुश्चलोन्नताम्| कुर्यात्तीव्रार्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम्||३६|| मूत्रं धारयतो बस्तौ वायुः क्रुद्धो विधारणात्| मूत्ररोधार्तिकण्डूभिर्वातबस्तिः स उच्यते||३७|| उष्मणा सोष्मकं मूत्रं शोषयन् रक्तपीतकम्| उष्णवातः सृजेत् कृच्छ्राद्बस्त्युपस्थार्तिदाहवान्||३८|| गतिसङ्गादुदावृत्तः स मूत्रस्थानमार्गयोः| मूत्रस्य विगुणो वायुर्भग्नव्याविद्धकुण्डली||३९|| मूत्रं विहन्ति संस्तम्भभङ्गगौरववेष्टनैः| तीव्ररुङ्मूत्रविट्सङ्गैर्वातकुण्डलिकेति सा||४०|| रक्तं वातकफाद्दुष्टं बस्तिद्वारे सुदारुणम्| ग्रन्थिं कुर्यात् स कृच्छ्रेण सृजेन्मूत्रं तदावृतम्||४१|| अश्मरीसमशूलं तं रक्तग्रन्थिं प्रचक्षते| रूक्षदुर्बलयोर्वातेनोदावृत्तं शकृद्यदा||४२|| मूत्रस्रोतः प्रपद्येत विट्संसृष्टं तदा नरः| विड्गन्धं मूत्रयेत् कृच्छ्राद्विड्विघातं विनिर्दिशेत्||४३|| द्रुताध्वलङ्घनायासादभिघातात् प्रपीडनात्| स्वस्थानाद्वस्तिरुद्वृत्तः स्थूलस्तिष्ठति गर्भवत्||४४|| शूलस्पन्दनदाहार्तो बिन्दुं बिन्दुं स्रवत्यपि| पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्तिमान्||४५|| बस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम्| पवनप्रबलं प्रायो दुर्निवारमबुद्धिभिः||४६|| तस्मिन् पित्तान्विते दाहः शूलं मूत्रविवर्णता| श्लेष्मणा गौरवं शोफः स्निग्धं मूत्रं घनं सितम्||४७|| श्लेष्मरुद्धबिलो बस्तिः पित्तोदीर्णो न सिध्यति| अविभ्रान्तबिलः साध्यो न तु यः कुण्डलीकृतः||४८|| स्याद्वस्तौ कुण्डलीभूते हृन्मोहः श्वास एव च|४९|

🔊 Audio coming soon

Adhikarana 16 (49) · Śloka 50

दोषाधिक्यमवेक्ष्यैतान् मूत्रकृच्छ्रहरैर्जयेत्||४९|| बस्तिमुत्तरबस्तिं च सर्वेषामेव दापयेत्|५०|

🔊 Audio coming soon

Adhikarana 17 (50-57) · Śloka 57

पुष्पनेत्रं तु हैमं स्याच्छ्लक्ष्णमौत्तरबस्तिकम्||५०|| जात्यश्वहनवृन्तेन समं गोपुच्छसंस्थितम्| रौप्यं वा सर्षपच्छिद्रं द्विकर्णं द्वादशाङ्गुलम्||५१|| तेनाजबस्तियुक्तेन स्नेहस्यार्धपलं नयेत्| यथावयोविशेषेण स्नेहमात्रां विकल्प्य वा||५२|| स्नातस्य भुक्तभक्तस्य रसेन पयसाऽपि वा| सृष्टविण्मूत्रवेगस्य पीठे जानुसमे मृदौ||५३|| ऋजोः सुखोपविष्टस्य हृष्टे मेढ्रे घृताक्तया| शलाकयाऽन्विष्य गतिं यद्यप्रतिहता व्रजेत्||५४|| ततः शेफःप्रमाणेन पुष्पनेत्रं प्रवेशयेत्| गुदवन्मूत्रमार्गेण प्रणयेदनु सेवनीम्||५५|| हिंस्यादतिगतं बस्तिमूने स्नेहो न गच्छति| सुखं प्रपीड्य निष्कम्पं निष्कर्षेन्नेत्रमेव च||५६|| प्रत्यागते द्वितीयं च तृतीयं च प्रदापयेत्| अनागच्छन्नुपेक्ष्यस्तु रजनीव्युषितस्य च||५७||

🔊 Audio coming soon

Adhikarana 18 (58-61) · Śloka 61

पिप्पलीलवणागारधूमापामार्गसर्षपैः| वार्ताकुरसनिर्गुण्डीशम्पाकैः ससहाचरैः||५८|| मूत्राम्लपिष्टैः सगुडैर्वर्तिं कृत्वा प्रवेशयेत्| अग्रे तु सर्षपाकारां पश्चार्धे माषसम्मिताम्||५९|| नेत्रदीर्घां घृताभ्यक्तां सुकुमारामभङ्गुराम्| नेत्रवन्मूत्रनाड्यां तु पायौ चाङ्गुष्ठसम्मिताम्||६०|| स्नेहे प्रत्यागते ताभ्यामानुवासनिको विधिः| परिहारश्च सव्यापत् ससम्यग्दत्तलक्षणः||६१||

🔊 Audio coming soon

Adhikarana 19 (62-64) · Śloka 65

स्त्रीणामार्तवकाले तु प्रतिकर्म तदाचरेत्| गर्भासना सुखं स्नेहं तदाऽऽदत्ते ह्यपावृता||६२|| गर्भं योनिस्तदा शीघ्रं जिते गृह्णाति मारुते| बस्तिजेषु विकारेषु योनिविभ्रंशजेषु च||६३|| योनिशूलेषु तीव्रेषु योनिव्यापत्स्वसृग्दरे| अप्रस्रवति मूत्रे च बिन्दुं बिन्दुं स्रवत्यपि||६४|| विदध्यादुत्तरं बस्तिं यथास्वौषधसंस्कृतम् |६५|

🔊 Audio coming soon

Adhikarana 20 (65-69) · Śloka 70

पुष्पनेत्रप्रमाणं तु प्रमदानां दशाङ्गुलम्||६५|| मूत्रस्रोतःपरीणाहं मुद्गस्रोतोऽनुवाहि च| अपत्यमार्गे नारीणां विधेयं चतुरङ्गुलम्||६६|| द्व्यङ्गुलं मूत्रमार्गे तु बालायास्त्वेकमङ्गुलम्| उत्तानायाः शयानायाः सम्यक् सङ्कोच्य सक्थिनी||६७|| अथास्याः प्रणयेन्नेत्रमनुवंशगतं सुखम्| द्विस्त्रिश्चतुरिति स्नेहानहोरात्रेण योजयेत्||६८|| बस्तौ , बस्तौ प्रणीते च वर्तिः पीनतरा भवेत्| त्रिरात्रं कर्म कुर्वीत स्नेहमात्रां विवर्धयेत्||६९|| अनेनैव विधानेन कर्म कुर्यात् पुनस्त्र्यहात्|७०|

🔊 Audio coming soon

Adhikarana 21 (70-73) · Śloka 73

अतः शिरोविकाराणां कश्चिद्भेदः प्रवक्ष्यते||७०|| रक्तपित्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः| तीव्ररुग्दाहरागं हि शोफं कुर्वन्ति दारुणम्||७१|| स शिरो विषवद्वेगी निरुध्याशु गलं तथा| त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः||७२|| परं त्र्यहाज्जीवति चेत् प्रत्याख्यायाचरेत् क्रियाम्| शिरोविरेकसेकादि सर्वं वीसर्पनुच्च यत्||७३||

🔊 Audio coming soon

Adhikarana 22 (74-78) · Śloka 78

रूक्षात्यध्यशनात् पूर्ववातावश्यायमैथुनैः| वेगसन्धारणायासव्यायामैः कुपितोऽनिलः||७४|| केवलः सकफो वाऽर्धं गृहीत्वा शिरसस्ततः| मन्याभ्रूशङ्खकर्णाक्षिललाटार्धेऽतिवेदनाम्||७५|| शस्त्रारणिनिभां कुर्यात्तीव्रां सोऽर्धावभेदकः| नयनं वाऽथवा श्रोत्रमतिवृद्धो विनाशयेत्||७६|| चतुःस्नेहोत्तमा मात्रा शिरःकायविरेचनम्| नाडीस्वेदो घृतं जीर्णं बस्तिकर्मानुवासनम्||७७|| उपनाहः शिरोबस्तिर्दहनं चात्र शस्यते| प्रतिश्याये शिरोरोगे यच्चोद्दिष्टं चिकित्सितम्||७८||

🔊 Audio coming soon

Adhikarana 23 (79-83) · Śloka 83

सन्धारणादजीर्णाद्यैर्मस्तिष्कं रक्तमारुतौ| दुष्टौ दूषयतस्तच्च दुष्टं ताभ्यां विमूर्च्छितम्||७९|| सूर्योदयेंऽशुसन्तापाद्द्रवं विष्यन्दते शनैः| ततो दिने शिरःशूलं दिनवृद्ध्या विवर्धते||८०|| दिनक्षये ततः स्त्याने मस्तिष्के सम्प्रशाम्यति| सूर्यावर्तः स तत्र स्यात् सर्पिरौत्तरभक्तिकम्||८१|| शिरःकायविरेकौ च मूर्ध्ना त्रिस्नेहधारणम् | जाङ्गलैरुपनाहश्च घृतक्षीरैश्च सेचनम् ||८२|| बर्हितित्तिरिलावादिशृतक्षीरोत्थितं घृतम्| स्यान्नावनं जीवनीयक्षीराष्टगुणसाधितम्||८३||

🔊 Audio coming soon

Adhikarana 24 (84-87) · Śloka 87

(उपवासातिशोकातिरूक्षशीताल्पभोजनैः )| दुष्टा दोषास्त्रयो मन्यापश्चाद्घाटासु वेदनाम्||८४|| तीव्रां कुर्वन्ति सा चाक्षिभ्रूशङ्खेष्ववतिष्ठते| स्पन्दनं गण्डपार्श्वस्य नेत्ररोगं हनुग्रहम्||८५|| सोऽनन्तवातस्तं हन्यात् सिरार्कावर्तनाशनैः| वातो रूक्षादिभिः क्रुद्धः शिरःकम्पमुदीरयेत्||८६|| तत्रामृताबलारास्नामहाश्वेताश्वगन्धकैः| स्नेहस्वेदादि वातघ्नं शस्तं नस्यं च तर्पणम्||८७||

🔊 Audio coming soon

Adhikarana 25 (88) · Śloka 88

नस्तःकर्म च कुर्वीत शिरोरोगेषु शास्त्रविद्| द्वारं हि शिरसो नासा तेन तद् व्याप्य हन्ति तान्||८८||

🔊 Audio coming soon

Adhikarana 26 (89-92) · Śloka 92

नावनं चावपीडश्च ध्मापनं धूम एव च| प्रतिमर्शश्च विज्ञेयं नस्तःकर्म तु पञ्चधा||८९|| स्नेहनं शोधनं चैव द्विविधं नावनं स्मृतम्| शोधनः स्तम्भनश्च स्यादवपीडो द्विधा मतः ||९०|| चूर्णस्याध्मापनं तद्धि देहस्रोतोविशोधनम् | विज्ञेयस्त्रिविधो धूमः प्रागुक्तः शमनादिकः||९१|| प्रतिमर्शो भवेत् स्नेहो निर्दोष उभयार्थकृत्| एवं तद्रेचनं कर्म तर्पणं शमनं त्रिधा||९२||

🔊 Audio coming soon

Adhikarana 27 (93-95) · Śloka 96

स्तम्भसुप्तिगुरुत्वाद्याः श्लैष्मिका ये शिरोगदाः| शिरोविरेचनं तेषु नस्तःकर्म प्रशस्यते||९३|| ये च वातात्मका रोगाः शिरःकम्पार्दितादयः| शिरसस्तर्पणं तेषु नस्तःकर्म प्रशस्यते ||९४|| रक्तपित्तादिरोगेषु शमनं नस्यमिष्यते| ध्मापनं धूमपानं च तथा योग्येषु शस्यते ||९५|| (दोषादिकं समीक्ष्यैव भिषक् सम्यक् च कारयेत्)|९६|

🔊 Audio coming soon

Adhikarana 28 (96-97) · Śloka 98

फलादिभेषजं प्रोक्तं शिरसो यद्विरेचनम्||९६|| तच्चूर्णं कल्पयेत्तेन पचेत् स्नेहं विरेचनम्| यदुक्तं मधुरस्कन्धे भेषजं तेन तर्पणम्||९७|| साधयित्वा भिषक् स्नेहं नस्तः कुर्याद्विधानवित्|९८|

🔊 Audio coming soon

Adhikarana 29 (98-110) · Śloka 110

प्राक्सूर्ये मध्यसूर्ये वा प्राक्कृतावश्यकस्य च||९८|| उत्तानस्य शयानस्य शयने स्वास्तृते सुखम्| प्रलम्बशिरसः किञ्चित् किञ्चित् पादोन्नतस्य च||९९|| दद्यान्नासापुटे स्नेहं तर्पणं बुद्धिमान् भिषक्| अनवाक्शिरसो नस्यं न शिरः प्रतिपद्यते||१००|| अत्यवाक्शिरसो नस्यं मस्तुलुङ्गेऽवतिष्ठति| अत एवंशयानस्य शुद्ध्यर्थं स्वेदयेच्छिरः||१०१|| संस्वेद्य नासामुन्नम्य वामेनाङ्गुष्ठपर्वणा| हस्तेन दक्षिणेनाथ कुर्यादुभयतः समम्||१०२|| प्रणाड्या पिचुना वाऽपि नस्तःस्नेहं यथाविधि| कृते च स्वेदयेद्भूय आकर्षेच्च पुनः पुनः||१०३|| तं स्नेहं श्लेष्मणा साकं तथा स्नेहो न तिष्ठति| स्वेदेनोत्क्लेशितः श्लेष्मा नस्तःकर्मण्युपस्थितः ||१०४|| भूयः स्नेहस्य शैत्येन शिरसि स्त्यायते ततः| श्रोत्रमन्यागलाद्येषु विकाराय स कल्पते||१०५|| ततो नस्तःकृते धूमं पिबेत् कफविनाशनम् | हितान्नभुङ्निवातोष्णसेवी स्यान्नियतेन्द्रियः||१०६|| विधिरेषोऽवपीडस्य कार्यः प्रध्मापनस्य तु| तत् षडङ्गुलया नाड्या धमेच्चूर्णं मुखेन तु||१०७|| विरिक्तशिरसं तूष्णं पाययित्वाऽम्बु भोजयेत्| लघु त्रिष्वविरुद्धं च निवातस्थमतन्द्रितः||१०८|| विरेकशुद्धो दोषस्य कोपनं यस्य सेवते| स दोषो विचरंस्तत्र करोति स्वान् गदान् बहून्||१०९|| यथास्वं विहितां तेषु क्रियां कुर्याद्विचक्षणः| अकालकृतजातानां रोगाणामनुरूपतः||११०||

🔊 Audio coming soon

Adhikarana 30 (111-115) · Śloka 115

अजीर्णे भोजने भुक्ते तोये पीतेऽथ दुर्दिने| प्रतिश्याये नवे स्नाते स्नेहपानेऽनुवासने||१११|| नावनं स्नेहनं रोगान् करोति श्लैष्मिकान् बहून्| तत्र श्लेष्महरः सर्वस्तीक्ष्णोष्णादिर्विधिर्हितः||११२|| क्षामे विरेचिते गर्भे व्यायामाभिहते तृषि| वातो रूक्षेण नस्येन क्रुद्धः स्वाञ्जनयेद्गदान्||११३|| तत्र वातहरः सर्वो विधिः स्नेहनबृंहणः| स्वेदादिः, स्याद्घृतं क्षीरं गर्भिण्यास्तु विशेषतः||११४|| ज्वरशोकातितप्तानां तिमिरं मद्यपस्य तु| रूक्षैः शीताञ्जनैर्लेपैः पुटपाकैश्च साधयेत् ||११५||

🔊 Audio coming soon

Adhikarana 31 (116-117) · Śloka 117

स्नेहनं शोधनं चैव द्विविधं नावनं मतम्| प्रतिमर्शस्तु नस्यार्थं करोति न च दोषावान्||११६|| नस्तः स्नेहाङ्गुलिं दद्यात् प्रातर्निशि च सर्वदा| न चोच्छिङ्घेदरोगाणां प्रतिमर्शः स दार्ढ्यकृत्||११७||

🔊 Audio coming soon

Adhikarana 32 (118-119) · Śloka 119

तत्र श्लोकौ- त्रीणि यस्मात् प्रधानानि मर्माण्यभिहतेषु च| तेषु लिङ्गं चिकित्सां च रोगभेदाश्च सौषधाः||११८|| विधिरुत्तरबस्तेश्च नस्तःकर्मविधिस्तथा| सव्यापद्भेषजं सिद्धौ मर्माख्यायां प्रकीर्तितम्||११९||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 9

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने त्रिमर्मीयसिद्धिर्नाम नवमोऽध्यायः||९||

🔊 Audio coming soon