Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

2. apāmārgataṇḍulīyō'dhyāyaḥ

Adhikarana 1 (1-6) · Śloka 6

अथातोऽपामार्गतण्डुलीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२|| अपामार्गस्य बीजानि पिप्पलीर्मरिचानि च| विडङ्गान्यथ शिग्रूणि सर्षपांस्तुम्बुरूणि च||३|| अजाजीं चाजगन्धां च पीलून्येलां हरेणुकाम्| पृथ्वीकां सुरसां श्वेतां कुठेरकफणिज्झकौ||४|| शिरीषबीजं लशुनं हरिद्रे लवणद्वयम्| ज्योतिष्मतीं नागरं च दद्याच्छीर्षविरेचने||५|| गौरवे शिरसः शूले पीनसेऽर्धावभेदके| क्रिमिव्याधावपस्मारे घ्राणनाशे प्रमोहके||६||

🔊 Audio coming soon

Adhikarana 2 (7-8) · Śloka 8

मदनं मधुकं निम्बं जीमूतं कृतवेधनम्| पिप्पलीकुटजेक्ष्वाकूण्येलां धामार्गवाणि च||७|| उपस्थिते श्लेष्मपित्ते व्याधावामाशयाश्रये| वमनार्थं प्रयुञ्जीत भिषग्देहमदूषयन्||८||

🔊 Audio coming soon

Adhikarana 3 (9-10) · Śloka 10

त्रिवृतां त्रिफलां दन्तीं नीलिनीं सप्तलां वचाम्| कम्पिल्लकं गवाक्षीं च क्षीरिणीमुदकीर्यकाम्||९|| पीलून्यारग्वधं द्राक्षां द्रवन्तीं निचुलानि च| पक्वाशयगते दोषे विरेकार्थं प्रयोजयेत्||१०||

🔊 Audio coming soon

Adhikarana 4 (11-14) · Śloka 14

पाटलां चाग्निमन्थं च बिल्वं श्योनाकमेव च| काश्मर्यं शालपर्णीं च पृश्निपर्णीं निदिग्धिकाम्||११|| बलां श्वदंष्ट्रां बृहतीमेरण्डं सपुनर्नवम्| यवान् कुलत्थान् कोलानि गुडूचीं मदनानि च||१२|| पलाशं कत्तृणं चैव स्नेहांश्च लवणानि च| उदावर्ते विबन्धेषु युञ्ज्यादास्थापनेषु च||१३|| अत एवौषधगणात् सङ्कल्प्यमनुवासनम्| मारुतघ्नमिति प्रोक्तः सङ्ग्रहः पाञ्चकर्मिकः||१४||

🔊 Audio coming soon

Adhikarana 5 (15) · Śloka 15

तान्युपस्थितदोषाणां स्नेहस्वेदोपपादनैः| पञ्चकर्माणि कुर्वीत मात्राकालौ विचारयन्||१५||

🔊 Audio coming soon

Adhikarana 6 (16) · Śloka 16

मात्राकालाश्रया युक्तिः, सिद्धिर्युक्तौ प्रतिष्ठिता| तिष्ठत्युपरि युक्तिज्ञो द्रव्यज्ञानवतां सदा||१६||

🔊 Audio coming soon

Adhikarana 7 (17) · Śloka 17

अत ऊर्ध्वं प्रवक्ष्यामि यवागूर्विविधौषधाः| विविधानां विकाराणां तत्साध्यानां निवृत्तये||१७||

🔊 Audio coming soon

Adhikarana 8 (18-33) · Śloka 33

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः| यवागूर्दीपनीया स्याच्छूलघ्नी चोपसाधिता||१८|| दधित्थबिल्वचाङ्गेरीतक्रदाडिमसाधिता| पाचनी ग्राहिणी, पेया सवाते पाञ्चमूलिकी||१९|| शालपर्णीबलाबिल्वैः पृश्निपर्ण्या च साधिता| दाडिमाम्ला हिता पेया पित्तश्लेष्मातिसारिणाम्||२०|| पयस्यर्धोदके च्छागे ह्रीवेरोत्पलनागरैः| पेया रक्तातिसारघ्नी पृश्निपर्ण्या च साधिता||२१|| दद्यात् सातिविषां पेयां सामे साम्लां सनागराम्| श्वदंष्ट्राकण्टकारीभ्यां मूत्रकृच्छ्रे सफाणिताम्||२२|| विडङ्गपिप्पलीमूलशिग्रुभिर्मरिचेन च| तक्रसिद्धा यवागूः स्यात् क्रिमिघ्नी ससुवर्चिका||२३|| मृद्वीकासारिवालाजपिप्पलीमधुनागरैः| पिपासाघ्नी, विषघ्नी च सोमराजीविपाचिता||२४|| सिद्धा वराहनिर्यूहे यवागूर्बृंहणी मता| गवेधुकानां भृष्टानां कर्शनीया समाक्षिका||२५|| सर्पिष्मती बहुतिला स्नेहनी लवणान्विता| कुशामलकनिर्यूहे श्यामाकानां विरूक्षणी||२६|| दशमूलीशृता कासहिक्काश्वासकफापहा| यमके मदिरासिद्धा पक्वाशयरुजापहा||२७|| शाकैर्मांसैस्तिलैर्माषैः सिद्धा वर्चो निरस्यति| जम्ब्वाम्रास्थिदधित्थाम्लबिल्वैः साङ्ग्राहिकी मता||२८|| क्षारचित्रकहिङ्ग्वम्लवेतसैर्भेदिनी मता| अभयापिप्पलीमूलविश्वैर्वातानुलोमनी ||२९|| तक्रसिद्धा यवागूः स्याद्धृतव्यापत्तिनाशिनी| तैलव्यापदि शस्ता स्यात्तक्रपिण्याकसाधिता||३०|| गव्यमांसरसैः साम्ला विषमज्वरनाशिनी| कण्ठ्या यवानां यमके पिप्पल्यामलकैः शृता||३१|| ताम्रचूडरसे सिद्धा रेतोमार्गरुजापहा| समाषविदला वृष्या घृतक्षीरोपसाधिता||३२|| उपोदिकादधिभ्यां तु सिद्धा मदविनाशिनी| क्षुधं हन्यादपामार्गक्षीरगोधारसैः शृता||३३||

🔊 Audio coming soon

Adhikarana 9 (34) · Śloka 34

तत्र श्लोकः- अष्टाविंशतिरित्येता यवाग्वः परिकीर्तिताः| पञ्चकर्माणि चाश्रित्य प्रोक्तो भैषज्यसङ्ग्रहः||३४||

🔊 Audio coming soon

Adhikarana 10 (35) · Śloka 35

पूर्वं मूलफलज्ञानहेतोरुक्तं यदौषधम्| पञ्चकर्माश्रयज्ञानहेतोस्तत् कीर्तितं पुनः||३५||

🔊 Audio coming soon

Adhikarana 11 (36) · Śloka 36

स्मृतिमान् हेतुयुक्तिज्ञो जितात्मा प्रतिपत्तिमान्| भिषगौषधसंयोगैश्चिकित्सां कर्तुमर्हति||३६||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 2

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽपामार्गतण्डुलीयो नाम द्वितीयोऽध्यायः||२||

🔊 Audio coming soon