Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

17. kiyantaḥśirasīyō'dhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः कियन्तःशिरसीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3-7) · Śloka 7

कियन्तः शिरसि प्रोक्ता रोगा हृदि च देहिनाम्| कति चाप्यनिलादीनां रोगा मानविकल्पजाः||३|| क्षयाः कति समाख्याताः पिडकाः कति चानघ!| गतिः कतिविधा चोक्ता दोषाणां दोषसूदन!||४|| हुताशवेशस्य वचस्तच्छ्रुत्वा गुरुरब्रवीत्| पृष्टवानसि यत् सौम्य! तन्मे शृणु सविस्तरम्||५|| दृष्टाः पञ्च शिरोरोगाः पञ्चैव हृदयामयाः| व्याधीनां ह्यधिका षष्टिर्दोषमानविकल्पजा||६|| दशाष्टौ च क्षयाः सप्त पिडका माधुमेहिकाः| दोषाणां त्रिविधा चोक्ता गतिर्विस्तरतः शृणु||७||

🔊 Audio coming soon

Adhikarana 3 (8-11) · Śloka 11

सन्धारणाद्दिवास्वप्नाद्रात्रौ जागरणान्मदात्| उच्चैर्भाष्यादवश्यायात् प्राग्वातादतिमैथुनात्||८|| गन्धादसात्म्यादाघ्राताद्रजोधूमहिमातपात्| गुर्वम्लहरितादानादति शीताम्बुसेवनात्||९|| शिरोऽभिघाताद्दुष्टामाद्रोदनाद्बाष्पनिग्रहात् | मेघागमान्मनस्तापाद्देशकालविपर्ययात्||१०|| वातादयः प्रकुप्यन्ति शिरस्यस्रं च दुष्यति| ततः शिरसि जायन्ते रोगा विविधलक्षणाः||११||

🔊 Audio coming soon

Adhikarana 4 (12) · Śloka 12

प्राणाः प्राणभृतां यत्र श्रिताः सर्वेन्द्रियाणि च| यदुत्तमाङ्गमाङ्गानां शिरस्तदभिधीयते||१२||

🔊 Audio coming soon

Adhikarana 5 (13-14) · Śloka 14

अर्धावभेदको वा स्यात् सर्वं वा रुज्यते शिरः| प्रतिश्यामुखनासाक्षिकर्णरोगशिरोभ्रमाः||१३|| अर्दितं शिरसः कम्पो गलमन्याहनुग्रहः| विविधाश्चापरे रोगा वातादिक्रिमिसम्भवाः||१४||

🔊 Audio coming soon

Adhikarana 6 (15-21) · Śloka 21

पृथग्दिष्टास्तु ये पञ्च सङ्ग्रहे परमर्षिभिः| शिरोगदांस्ताञ्छृणु मे यथास्वैर्हेतुलक्षणैः||१५|| उच्चैर्भाष्यातिभाष्याभ्यां तीक्ष्णपानात् प्रजागरात्| शीतमारुतसंस्पर्शाद्व्यवायाद्वेगनिग्रहात्||१६|| उपवासादभीघाताद्विरेकाद्वमनादति| बाष्पशोकभयत्रासाद्भारमार्गातिकर्शनात्||१७|| शिरोगताः सिरा वृद्धो वायुराविश्य कुप्यति| ततः शूलं महत्तस्य वातात् समुपजायते||१८|| निस्तुद्येते भृशं शङ्कौ घाटा सम्भिद्यते तथा| सभ्रूमध्यं ललाटं च तपतीवातिवेदनम्||१९|| वध्येते स्वनतः श्रोत्रे निष्कृष्येते इवाक्षिणी| घूर्णतीव शिरः सर्वं सन्धिभ्य इव मुच्यते||२०|| स्फुरत्यति सिराजालं स्तभ्यते च शिरोधरा| स्निग्धोष्णमुपशेते च शिरोरोगेऽनिलात्मके||२१||

🔊 Audio coming soon

Adhikarana 7 (22-23) · Śloka 23

कट्वम्ललवणक्षारमद्यक्रोधातपानलैः| पित्तं शिरसि सन्दुष्टं शिरोरोगाय कल्पते||२२|| दह्यते रुज्यते तेन शिरः शीतं सुषूयते | दह्येते चक्षुषी तृष्णा भ्रमः स्वेदश्च जायते||२३||

🔊 Audio coming soon

Adhikarana 8 (24-26) · Śloka 26

आस्यासुखैः स्वप्नसुखैर्गुरुस्निग्धातिभोजनैः| श्लेष्मा शिरसि सन्दुष्टः शिरोरोगाय कल्पते||२४|| शिरो मन्दरुजं तेन सुप्तं स्तिमितभारिकम्| भवत्युत्पद्यते तन्द्रा तथाऽऽलस्यमरोचकः||२५|| वाताच्छूलं भ्रमः कम्पः पिताद्दाहो मदस्तृषा| कफाद्गुरुत्वं तन्द्रा च शिरोरोगे त्रिदोषजे||२६||

🔊 Audio coming soon

Adhikarana 9 (27-29) · Śloka 29

तिलक्षीरगुडाजीर्णपूतिसङ्कीर्णभोजनात्| क्लेदोऽसृक्कफमांसानां दोषलस्योपजायते||२७|| ततः शिरसि सङ्क्लेदात् क्रिमयः पापकर्मणः| जनयन्ति शिरोरोगं जाता बीभत्सलक्षणम्||२८|| व्यधच्छेदरुजाकण्डूशोफदौर्गत्यदुःखितम् | क्रिमिरोगातुरं विद्यात् क्रिमीणां दर्शनेन च||२९||

🔊 Audio coming soon

Adhikarana 10 (30-40) · Śloka 40

शोकोपवासव्यायामरूक्षशुष्काल्पभोजनैः | वायुराविश्य हृदयं जनयत्युत्तमां रुजम्||३०|| वेपथुर्वेष्टनं स्तम्भः प्रमोहः शून्यता दरः | हृदि वातातुरे रूपं जीर्णे चात्यर्थवेदना||३१|| उष्णाम्ललवणक्षारकटुकाजीर्णभोजनैः| मद्यक्रोधातपैश्चाशु हृदि पित्तं प्रकुप्यति||३२|| हृद्दाहस्तिक्तता वक्रे तिक्ताम्लोद्गिरणं क्लमः| तृष्णा मूर्च्छा भ्रमः स्वेदः पित्तहृद्रोगलक्षणम्||३३|| अत्यादानं गुरुस्निग्धमचिन्तनमचेष्टनम्| निद्रासुखं चाभ्यधिकं कफहृद्रोगकारणम्||३४|| हृदयं कफहृद्रोगे सुप्तं स्तिमितभारिकम्| तन्द्रारुचिपरीतस्य भवत्यश्मावृतं यथा||३५|| हेतुलक्षणसंसर्गादुच्यते सान्निपातिकः| (हृद्रोगः कष्टदः कष्टसाध्य उक्तो महर्षिभिः) त्रिदोषजे तु हृद्रोगे यो दुरात्मा निषेवते||३६|| तिलक्षीरगुडादीनि ग्रन्थिस्तस्योपजायते| मर्मैकदेशे सङ्क्लेदं रसश्चास्योपगच्छति||३७|| सङ्क्लेदात् क्रिमयश्चास्य भवन्त्युपहतात्मनः| मर्मैकदेशे ते जाताः सर्पन्तो भक्षयन्ति च||३८|| तुद्यमानं स हृदयं सूचीभिरिव मन्यते| छिद्यमानं यथा शस्त्रैर्जातकण्डूं महारुजम्||३९|| हृद्रोगं क्रिमिजं त्वेतैर्लिङ्गैर्बुद्ध्वा सुदारुणम्| त्वरेत जेतुं तं विद्वान् विकारं शीघ्रकारिणम्||४०||

🔊 Audio coming soon

Adhikarana 11 (41-44) · Śloka 44

द्व्युल्बणैकोल्बणैः षट् स्युर्हीनमध्याधिकैश्च षट्| समैश्चैको विकारास्ते सन्निपातास्त्रयोदश||४१|| संसर्गे नव षट् तेभ्य एकवृद्ध्या समैस्त्रयः| पृथक् त्रयश्च तैर्वृद्धैर्व्याधयः पञ्चविंशतिः||४२|| यथा वृद्धैस्तथा क्षीणैर्दोषेः स्युः पञ्चविंशतिः| वृद्धिक्षयकृतश्चान्यो विकल्प उपदेक्ष्यते||४३|| वृद्धिरेकस्य समता चैकस्यैकस्य सङ्क्षयः| द्वन्द्ववृद्धिः क्षयश्चैकस्यैकवृद्धिर्द्वयोः क्षयः ||४४||

🔊 Audio coming soon

Adhikarana 12 (45-61) · Śloka 61

प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षये| स्थानादादाय गात्रेषु यत्र यत्र विसर्पति||४५|| तदा भेदश्च दाहश्च तत्र तत्रानवस्थितः| गात्रदेशे भवत्यस्य श्रमो दौर्बल्यमेव च||४६|| प्रकृतिस्थं कफं वायुः क्षीणे पित्ते यदा बली| कर्षेत् कुर्यात्तदा शूलं सशैत्यस्तम्भगौरवम्||४७|| यदाऽनिलं प्रकृतिगं पित्तं कफपरिक्षये| संरुणद्धि तदा दाहः शूलं चास्योपजायते||४८|| श्लेष्माणं हि समं पित्तं यदा वातपरिक्षये| सन्निरुन्ध्यात्तदा कुर्यात् सतन्द्रागौरवं ज्वरम्||४९|| प्रवृद्धो हि यदा श्लेष्मा पित्ते क्षीणे समीरणम्| रुन्ध्यात्तदा प्रकुर्वीत शीतकं गौरवं रुजम् ||५०|| समीरणे परिक्षीणे कफः पित्तं समत्वगम्| कुर्वीत सन्निरुन्धानो मृद्वग्नित्वं शिरोग्रहम् ||५१|| निद्रां तन्द्रां प्रलापं च हृद्रोगं गात्रगौरवम्| नखादीनां च पीतत्वं ष्ठीवनं कफपित्तयोः||५२|| हीनवातस्य तु श्लेष्मा पित्तेन सहितश्चरन्| करोत्यरोचकापाकौ सदनं गौरवं तथा||५३|| हृल्लासमास्यस्रवणं पाण्डुतां दूयनं मदम्| विरेकस्य च वैषम्यं वैषम्यमनलस्य च||५४|| हीनपित्तस्य तु श्लेष्मा मारुतेनोपसंहितः| स्तम्भं शैत्यं च तोदं च जनयत्यनवस्थितम्||५५|| गौरवं मृदुतामग्नेर्भक्ताश्रद्धां प्रवेपनम्| नखादीनां च शुक्लत्वं गात्रपारुष्यमेव च||५६|| मारुतस्तु कफे हीने पित्तं च कुपितं द्वयम्| करोति यानि लिङ्गानि शृणु तानि समासतः||५७|| भ्रममुद्वेष्टनं तोदं दाहं स्फुटनवेपने| अङ्गमर्दं परीशोषं दूयनं धूपनं तथा||५८|| वातपित्तक्षये श्लेष्मा स्रोतांस्यपिदधद्भृशम्| चेष्टाप्रणाशं मूर्च्छां च वाक्सङ्गं च करोति हि||५९|| वातश्लेष्मक्षये पित्तं देहौजः स्रंसयच्चरेत्| ग्लानिमिन्द्रियदौर्बल्यं तृष्णां मूर्च्छां क्रियाक्षयम्||६०|| पित्तश्लेष्मक्षये वायुर्मर्माण्यतिनिपीडयन्| प्रणाशयति सञ्ज्ञां च वेपयत्यथवा नरम्||६१||

🔊 Audio coming soon

Adhikarana 13 (62) · Śloka 62

दोषाः प्रवृद्धाः स्वं लिङ्गं दर्शयन्ति यथाबलम्| क्षीणा जहति लिङ्गं स्वं, समाः स्वं कर्म कुवेते||६२||

🔊 Audio coming soon

Adhikarana 14 (63-72) · Śloka 72

वातादीनां रसादीनां मलानामोजसस्तथा| क्षयास्तत्रानिलादीनामुक्तं सङ्क्षीणलक्षणम् ||६३|| घट्टते सहते शब्दं नोच्चैर्द्रवति शूल्यते| हृदयं ताम्यति स्वल्पचेष्टस्यापि रसक्षये||६४|| परुषा स्फुटिता म्लाना त्वग्रूक्षा रक्तसङ्क्षये| मांसक्षये विशेषेण स्फिग्ग्रीवोदरशुष्कता||६५|| सन्धीनां स्फुटनं ग्लानिरक्ष्णोरायास एव च| लक्षणं मेदसि क्षीणे तनुत्वं चोदरस्य च||६६|| केशलोमनखश्मश्रुद्विजप्रपतनं श्रमः| ज्ञेयमस्थिक्षये लिङ्गं सन्धिशैथिल्यमेव च||६७|| शीर्यन्त इव चास्थीनि दुर्बलानि लघूनि च| प्रततं वातरोगीणि क्षीणे मज्जनि देहिनाम्||६८|| दौर्बल्यं मुखशोषश्च पाण्डुत्वं सदनं श्रमः| क्लैब्यं शुक्राविसर्गश्च क्षीणशुक्रस्य लक्षणम्||६९|| क्षीणे शकृति चान्त्राणि पीडयन्निव मारुतः| रूक्षस्योन्नमयन् कुक्षिं तिर्यगूर्ध्वं च गच्छति||७०|| मूत्रक्षये मूत्रकृच्छ्रं मूत्रवैवर्ण्यमेव च| पिपासा बाधते चास्य मुखं च परिशुष्यति||७१|| मलायनानि चान्यानि शून्यानि च लघूनि च| विशुष्काणि च लक्ष्यन्ते यथास्वं मलसङ्क्षये||७२||

🔊 Audio coming soon

Adhikarana 15 (73-75) · Śloka 1

बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः| दुश्छायो दुर्मना रूक्षः क्षामश्चैवौजसः क्षये||७३|| हृदि तिष्ठति यच्छुद्धं रक्तमीषत्सपीतकम्| ओजः शरीरे सङ्ख्यातं तन्नाशान्ना विनश्यति||७४|| प्रथमं जायते ह्योजः शरीरेऽस्मिञ्छरीरिणाम्| सर्पिर्वर्णं मधुरसं लाजगन्धि प्रजायते||७५|| (भ्रमरैः फलपुष्पेभ्यो यथा सम्भ्रियते मधु| तद्वदोजः स्वकर्मभ्यो गुणैः सम्भ्रियते नृणाम्||१||)|

🔊 Audio coming soon

Adhikarana 16 (76-77) · Śloka 77

व्यायामोऽनशनं चिन्ता रूक्षाल्पप्रमिताशनम्| वातातपौ भयं शोको रूक्षपानं प्रजागरः||७६|| कफशोणितशुक्राणां मलानां चातिवर्तनम्| कालो भूतोपघातश्च ज्ञातव्याः क्षयहेतवः||७७||

🔊 Audio coming soon

Adhikarana 17 (78-89) · Śloka 89

गुरुस्निग्धाम्ललवणान्यतिमात्रं समश्नताम्| नवमन्नं च पानं च निद्रामास्यासुखानि च||७८|| त्यक्तव्यायामचिन्तानां संशोधनमकुर्वताम्| श्लेष्मा पित्तं च मेदश्च मांसं चातिप्रवर्धते||७९|| तैरावृतगतिर्वायुरोज आदाय गच्छति| यदा बस्तिं तदा कृच्छ्रो मधुमेहः प्रवर्तते||८०|| स मारुतस्य पित्तस्य कफस्य च मुहुर्मुहुः| दर्शयत्याकृतिं गत्वा क्षयमाप्यायते पुनः||८१|| उपेक्षयाऽस्य जायन्ते पिडकाः सप्त दारुणाः| मांसलेष्ववकाशेषु मर्मस्वपि च सन्धिषु||८२|| शराविका कच्छपिका जालिनी सर्षपी तथा| अलजी विनताख्या च विद्रधी चेति सप्तमी||८३|| अन्तोन्नता मध्यनिम्ना श्यावा क्लेदरुगन्विता| शराविका स्यात् पिडका शरावाकृतिसंस्थिता||८४|| अवगाढार्तिनिस्तोदा महावास्तुपरिग्रहा| श्लक्ष्णा कच्छपपृष्ठाभा पिडका कच्छपी मता||८५|| स्तब्धा सिराजालवती स्निग्धास्रावा महाशया| रुजानिस्तोदबहुला सूक्ष्मच्छिद्रा च जालिनी||८६|| पिडका नातिमहती क्षिप्रपाका महारुजा| सर्षपी सर्षपाभाभिः पिडकाभिश्चिता भवेत्||८७|| दहति त्वचमुत्थाने तृष्णामोहज्वरप्रदा| विसर्पत्यनिशं दुःखाद्दहत्यग्निरिवालजी||८८|| अवगाढरुजाक्लेदा पृष्ठे वाऽप्युदरेऽपि वा| महती विनता नीला पिडका विनता मता||८९||

🔊 Audio coming soon

Adhikarana 18 (90-100) · Śloka 100

विद्रधिं द्विविधामाहुर्बाह्यामाभ्यन्तरीं तथा| बाह्या त्वक्स्नायुमांसोत्था कण्डराभा महारुजा||९०|| शीतकान्नविदाह्युष्णरूक्षशुष्कातिभोजनात्| विरुद्धाजीर्णसङ्क्लिष्टविषमासात्म्यभोजनात्||९१|| व्यापन्नबहुमद्यत्वाद्वेगसन्धारणाच्छ्रमात्| जिह्मव्यायामशयनादतिभाराध्वमैथुनात्||९२|| अन्तःशरीरे मांसासृगाविशन्ति यदा मलाः| तदा सञ्जायते ग्रन्थिर्गम्भीरस्थः सुदारुणः||९३|| हृदये क्लोम्नि यकृति प्लीह्नि कुक्षौ च वृक्कयोः| नाभ्यां वङ्क्षणयोर्वाऽपि बस्तौ वा तीव्रवेदनः||९४|| दुष्टरक्तातिमात्रत्वात् स वै शीघ्रं विदह्यते| ततः शीघ्रविदाहित्वाद्विद्रधीत्यभिधीयते||९५|| व्यधच्छेदभ्रमानाहशब्दस्फुरणसर्पणैः| वातिकीं, पैत्तिकीं तृष्णादाहमोहमदज्वरैः||९६|| जृम्भोत्क्लेशारुचिस्तम्भशीतकैः श्लैष्मिकीं विदुः| सर्वासु च महच्छूलं विद्रधीषूपजायते||९७|| शस्त्रास्त्रैर्भिद्यत इव चोल्मुकैरिव दह्यते| विद्रधी व्यम्लता याता वृश्चिकैरिव दश्यते||९८|| तनु रूक्षारुणं श्यावं फेनिलं वातविद्रधी| तिलमाषकुलत्थोदसन्निभं पित्तविद्रधी||९९|| श्लैष्मिकी स्रवति श्वेतं पिच्छिलं बहलं बहु| लक्षणं सर्वमेवैतद्भजते सान्निपातिकी||१००||

🔊 Audio coming soon

Adhikarana 19 (101-103) · Śloka 103

अथासां विद्रधीनां साध्यासाध्यत्वविशेषज्ञानार्थं स्थानकृतं लिङ्गविशेषमुपदेक्ष्यामः- तत्र प्रधानमर्मजायां विद्रध्यां हृद्धट्टनतमकप्रमोहकासश्वासाः, क्लोमजायां पिपासामुखशोषगलग्रहाः, यकृज्जायां श्वासः, प्लीहजायामुच्छ्वासोपरोधः, कुक्षिजायां कुक्षिपार्श्वान्तरांसशूलं, वृक्कजायां पृष्ठकटिग्रहः, नाभिजायां हिक्का, वङ्क्षणजायां सक्थिसादः, बस्तिजायां कृच्छ्रपूतिमूत्रवर्चसत्वं चेति||१०१|| पक्वप्रभिन्नासूर्ध्वजासु मुखात् स्रावः स्रवति, अधोजासु गुदात्, उभयतस्तु नाभिजासु||१०२|| आसां हृन्नाभिबस्तिजाः परिपक्वाः सान्निपातिकी च मरणाय; शेषाः पुनः कुशलमाशुप्रतिकारिणं चिकित्सकमासाद्योपशाम्यन्ति| तस्मादचिरोत्थितां विद्रधीं शस्त्रसर्पविद्युदग्नितुल्यां स्नेहविरेचनैराश्वेवोपक्रमेत् सर्वशो गुल्मवच्चेति||१०३||

🔊 Audio coming soon

Adhikarana 20 (104-107) · Śloka 107

भवन्ति चात्र- विना प्रमेहमप्येता जायन्ते दुष्टमेदसः| तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहः||१०४|| शराविका कच्छपिका जालिनी चेति दुःसहाः| जायन्ते ता ह्यतिबलाः प्रभूतश्लेष्ममेदसः||१०५|| सर्षपी चालजी चैव विनता विद्रधी च याः| साध्यः पित्तोल्बणास्तास्तु सम्भवन्त्यल्पमेदसः||१०६|| मर्मस्वंसे गुदे पाण्योः स्तने सन्धिषु पादयोः| जायन्ते यस्य पिडिकाः स प्रमेही न जीवति||१०७||

🔊 Audio coming soon

Adhikarana 21 (108-111) · Śloka 111

तथाऽन्याः पिडकाः सन्ति रक्तपीतासितारुणाः| पाण्डुराः पाण्डुवर्णाश्च भस्माभा मेचकप्रभाः||१०८|| मृद्व्यश्च कठिनाश्चान्याः स्थूलाः सूक्ष्मास्तथाऽपराः| मन्दवेगा महावेगाः स्वल्पशूला महारुजः||१०९|| ता बुद्ध्वा मारुतादीनां यथास्वैर्हेतुलक्षणैः| ब्रूयादुपचरेच्चाशु प्रागुपद्रवदर्शनात्||११०|| तृट्श्वासमांससङ्कोथमोहहिक्कामदज्वराः| वीसर्पमर्मसंरोधाः पिडकानामुपद्रवाः||१११||

🔊 Audio coming soon

Adhikarana 22 (112-113) · Śloka 113

क्षयः स्थानं च वृद्धिश्च दोषाणां त्रिविधा गतिः| ऊर्ध्वं चाधश्च तिर्यक्च विज्ञेया त्रिविधाऽपरा||११२|| त्रिविधा चापरा कोष्ठशाखामर्मास्थिसन्धिषु| इत्युक्ता विधिभेदेन दोषाणां त्रिविधा गतिः||११३||

🔊 Audio coming soon

Adhikarana 23 (114) · Śloka 115

चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्| भवन्त्येकैकशः षट्सु कालेष्वभ्रागमादिषु||११४|| गतिः कालकृता चैषा चयाद्या पुनरुच्यते|११५|

🔊 Audio coming soon

Adhikarana 24 (115-118) · Śloka 118

गतिश्च द्विविधा दृष्टा प्राकृती वैकृती च या||११५|| पित्तादेवोष्मणः पक्तिर्नराणामुपजायते| तच्च पित्तं प्रकुपितं विकारान् कुरुते बहून्||११६|| प्राकृतस्तु बलं श्लेष्मा विकृतो मल उच्यते| स चैवौजः स्मृतः काये स च पाप्मोपदिश्यते||११७|| सर्वा हि चेष्टा वातेन स प्राणः प्राणीनां स्मृतः| तेनैव रोगा जायन्ते तेन चैवोपरुध्यते||११८||

🔊 Audio coming soon

Adhikarana 25 (119) · Śloka 119

नित्यं सन्निहितामित्रं समीक्ष्यात्मानमात्मवान्| नित्यं युक्तः परिचरेदिच्छन्नायुरनित्वरम्||११९||

🔊 Audio coming soon

Adhikarana 26 (120-121) · Śloka 121

तत्र श्लोकौ- शिरोरोगाः सहृद्रोगा रोगा मानविकल्पजाः| क्षयाः सपिडकाश्चोक्ता दोषाणां गतिरेव च||१२०|| कियन्तःशिरसीयेऽस्मिन्नध्याये तत्त्वदर्शिना| ज्ञानार्थं भिषजां चैव प्रजानां च हितैषिणा||१२१||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 17

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने कियन्तःशिरसीयो नाम सप्तदशोऽध्यायः||१७||

🔊 Audio coming soon