Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

23. santarpaṇīyō'dhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः सन्तर्पणीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

व्याख्यातषडुपक्रमाणामेव सन्तर्पणापतर्पणभेदेन द्विविधानां द्विविधविषये प्रवृत्तिं दर्शयितुं सन्तर्पणीयोऽभिधीयते ||१-२||

Adhikarana 2 (3-7) · Śloka 7

सन्तर्पयति यः स्निग्धैर्मधुरैर्गुरुपिच्छिलैः| नवान्नैर्नवमद्यैश्च मांसैश्चानूपवारिजैः||३|| गोरसैर्गौडिकैश्चान्नैः पैष्टिकैश्चातिमात्रशः| चेष्टाद्वेषी दिवास्वप्नशय्यासनसुखे रतः||४|| रोगास्तस्योपजायन्ते सन्तर्पणनिमित्तजाः| प्रमेहपिडकाकोठकण्डूपाण्ड्वामयज्वराः||५|| कुष्ठान्यामप्रदोषाश्च मूत्रकृच्छ्रमरोचकः| तन्द्रा क्लैब्यमतिस्थौल्यमालस्यं गुरुगात्रता||६|| इन्द्रियस्रोतसां लेपो बुद्धेर्मोहः प्रमीलकः| शोफाश्चैवंविधाश्चान्ये शीघ्रमप्रतिकुर्वतः||७||

🔊 Audio coming soon

सन्तर्पयति सन्तर्पणमाचरति| स्निग्धैरित्यादिवचनमस्निग्धादिभिरपि शक्तुप्रभृतिभिस्तृप्तिमात्रकारकत्वेन सन्तर्पणनिषेधार्थं; भवति हि तृप्तिकारके सन्तर्पणशब्दप्रयोगः, यथाऽत्रैव सन्तर्पणप्रयोगे- “शक्तूनां षोडशगुणो भागः सन्तर्पणं पिबेत्” इति| शय्यासनसुखे रतत्वेनैव चेष्टाद्वेषित्वे लब्धे पुनस्तद्वचनं शय्यासनस्थितस्यापि गीताङ्गचालनादिचेष्टानिषेधार्थम्| आमप्रदोषा विसूचिकादयः| प्रमीलकः सततं प्रध्यानम्||३-७||

Adhikarana 3 (8-25) · Śloka 26

शस्तमुल्लेखनं तत्र विरेको रक्तमोक्षणम्| व्यायामश्चोपवासश्च धूमाश्च स्वेदनानि च||८|| सक्षौद्रश्चाभयाप्राशः प्रायो रूक्षान्नसेवनम्| चूर्णप्रदेहा ये चोक्ताः कण्डूकोठविनाशनाः||९|| त्रिफलारग्वधं पाठां सप्तपर्णं सवत्सकम्| मुस्तं समदनं निम्बं जलेनोत्क्वथितं पिबेत्||१०|| तेन मेहादयो यान्ति नाशमभ्यस्यतो ध्रुवम्| मात्राकालप्रयुक्तेन सन्तर्पणसमुत्थिताः||११|| मुस्तमारग्वधः पाठा त्रिफला देवदारु च| श्वदंष्ट्रा खदिरो निम्बो हरिद्रे त्वक्च वत्सकात्||१२|| रसमेषां यथादोषं प्रातः प्रातः पिबन्नरः| सन्तर्पणकृतैः सर्वैर्व्याधिभिः सम्प्रमुच्यते||१३|| एभिश्चोद्वर्तनोद्धर्षस्नानयोगोपयोजितैः| त्वग्दोषाः प्रशमं यान्ति तथा स्नेहोपसंहितैः||१४|| कुष्ठं गोमेदको हिङ्गु क्रौञ्चास्थि त्र्यूषणं वचा| वृषकैले श्वदंष्ट्रा च खराह्वा चाश्मभेदकः||१५|| तक्रेण दधिमण्डेन बदराम्लरसेन वा| मूत्रकृच्छ्रं प्रमेहं च पीतमेतद्व्यपोहति||१६|| तक्राभयाप्रयोगैश्च त्रिफलायास्तथैव च| अरिष्टानां प्रयोगैश्च यान्ति मेहादयः शमम्||१७|| त्र्यूषणं त्रिफला क्षौद्रं क्रिमिघ्नमजमोदकः| मन्थोऽयं सक्तवस्तैलं हितो लोहोदकाप्लुतः||१८|| व्योषं विडङ्गं शिग्रूणि त्रिफलां कटुरोहिणीम्| बृहत्यौ द्वे हरिद्रे द्वे पाठामतिविषां स्थिराम्||१९|| हिङ्गु केबुकमूलानि यवानीधान्यचित्रकान्| सौवर्चलमजाजीं च हपुषां चेति चूर्णयेत्||२०|| चूर्णतैलघृतक्षौद्रभागाः स्युर्मानतः समाः| सक्तूनां षोडशगुणो भागः सन्तर्पणं पिबेत्||२१|| प्रयोगादस्य शाम्यन्ति रोगाः सन्तर्पणोत्थिताः| प्रमेहा मूढवाताश्च कुष्ठान्यर्शांसि कामलाः||२२|| प्लीहा पाण्ड्वामयः शोफो मूत्रकृच्छ्रमरोचकः| हृद्रोगो राजयक्ष्मा च कासः श्वासो गलग्रहः||२३|| क्रिमयो ग्रहणीदोषाः श्वैत्र्यं स्थौल्यमतीव च| नराणां दीप्यते चाग्निः स्मृतिर्बुद्धिश्च वर्धते||२४|| व्यायामनित्यो जीर्णाशी यवगोधूमभोजनः| सन्तर्पणकृतैर्दोषैः स्थौल्यं मुक्त्वा विमुच्यते||२५|| उक्तं सन्तर्पणोत्थानामपतर्पणमौषधम्|२६|

🔊 Audio coming soon

सक्षौद्रश्चाभयाप्राश इति क्षौद्रेण सह हरीतकीप्राशः; किंवा अगस्त्यहरीतक्यादिप्राशः| ये चोक्ता इति आरग्वधीये (सू. ३)| तेनेति क्वाथेन करणभूतेन, अभ्यस्यतोऽभ्यासं कुर्वाणस्य; किंवा तेन क्वाथेन त्रिफलादीन्यभ्यस्यत इति योजना| यथादोषमिति दोषप्रमाणापेक्षया गृहीतमात्रम्| उद्वर्तनमभ्यङ्गपूर्वकम्, उद्धर्षस्त्वनभ्यङ्गपूर्वकः| स्नेहोपसंहितैरिति स्नेहसाधनोपयुक्तैः| गोमेदकः मणिविशेषः| क्रौञ्चः पक्षी, ‘कोञ्च’ इति ख्यातः| खराह्वा अजमोदा| लोहोदकाप्लुत इति अगुरूदकाप्लुतः| उदककरणं च षडङ्गजलविधानेन| इह प्रयोगे वक्ष्यमाणव्योषाद्युक्तप्रमाणेन साहचर्याच्चूर्णादिमानं ज्ञेयम्| सन्तर्पणमिति जलालोडितशक्तुरूपतया, तेन सन्तर्पणसञ्ज्ञस्याप्यपतर्पणता ज्ञेया| श्वैत्र्यं श्वित्रित्वं; ‘श्वैत्यं’ इति पाठे श्वेतावभासता||८-२५||-

Adhikarana 4 (26-30) · Śloka 30

वक्ष्यन्ते सौषधाश्चोर्ध्वमपतर्पणजा गदाः||२६|| देहाग्निबलवर्णौजःशुक्रमांसपरिक्षयः| ज्वरः कासानुबन्धश्च पार्श्वशूलमरोचकः||२७|| श्रोत्रदौर्बल्यमुन्मादः प्रलापो हृदयव्यथा| विण्मूत्रसङ्ग्रहः शूलं जङ्घोरुत्रिकसंश्रयम्||२८|| पर्वास्थिसन्धिभेदश्च ये चान्ये वातजा गदाः| ऊर्ध्ववातादयः सर्वे जायन्ते तेऽपतर्पणात्||२९|| तेषां सन्तर्पणं तज्ज्ञैः पुनराख्यातमौषधम्| यत्तदात्वे समर्थं स्यादभ्यासे वा तदिष्यते ||३०||

🔊 Audio coming soon

ऊर्ध्ववातादय इति पूर्वाध्यायोक्ताः “ऊर्ध्ववातस्तमो हृदि” (सू. २२) इत्यादयः| ऊर्ध्ववातः श्वासादिर्यत्रोर्ध्वं वायुर्याति; किंवा तन्त्रान्तरोक्तो रोगविशेष एव, यथा- “अधः प्रतिहतो वायुः श्लेष्मणा कुपितेन च| करोत्यनिशमुद्गारमूर्ध्ववातः स उच्यते” इति||२६-३०||

Adhikarana 5 (31-38) · Śloka 38

सद्यःक्षीणो हि सद्यो वै तर्पणेनोपचीयते| नर्ते सन्तर्पणाभ्यासाच्चिरक्षीणस्तु पुष्यति||३१|| देहाग्निदोषभैषज्यमात्राकालानुवर्तिना| कार्यमत्वरमाणेन भेषजं चिरदुर्बले||३२|| हिता मांसरसास्तस्मै पयांसि च घृतानि च| स्नानानि बस्तयोऽभ्यङ्गास्तर्पणास्तर्पणाश्च ये||३३|| ज्वरकासप्रसक्तानां कृशानां मूत्रकृच्छ्रिणाम्| तृष्यतामूर्ध्ववातानां वक्ष्यन्ते तर्पणा हिताः||३४|| शर्करापिप्पलीतैलघृतक्षौद्रैः समांशकैः| सक्तुद्विगुणितो वृष्यस्तेषां मन्थः प्रशस्यते||३५|| सक्तवो मदिरा क्षौद्रं शर्करा चेति तर्पणम्| पिबेन्मारुतविण्मूत्रकफपित्तानुलोमनम्||३६|| फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकाञ्जिकम्| तर्पणं मूत्रकृच्छ्रघ्नमुदावर्तहरं पिबेत्||३७|| मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः| परूषकैः सामलकैर्युक्तो मद्यविकारनुत्||३८||

🔊 Audio coming soon

सद्यस्तर्पणतर्पणाभ्यासयोरुक्तयोर्विषयभेदमाह- सद्य इत्यादि| अत्वरमाणेनेति वचनेन चिरदुर्बले त्वरया क्रियमाणं तर्पणमग्निवधादिदोषं करोतीति सूचयति| तर्पणास्तर्पणाश्चेति सन्तर्पणकारका मन्थादयः; तेन, इह सञ्ज्ञामात्रेण ये तर्पणा अपतर्पणकारका व्योषादयस्ते न ग्राह्याः; किन्तु ‘शर्करापिप्पली’ इत्यादिग्रन्थवाच्याः| शर्करादिमन्थोक्तमानेनापरेऽपीह मन्था ग्राह्याः||३१-३८||

Adhikarana 6 (39) · Śloka 39

स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा| सद्यः सन्तर्पणो मन्थः स्थैर्यवर्णबलप्रदः||३९||

🔊 Audio coming soon

स्वादुरम्ल इत्यादिना सद्यस्तर्पणमाह| अम्ल इति अम्लदाडिमादियोगात्| अत्र रूक्षसक्तुकृतस्यापि मन्थस्य द्रवत्वशैत्यदेहानुसारित्वैः सद्यःसन्तर्पकत्वं भवत्येव, अत एव ‘सद्य’ इत्युक्तं, स्नेहादिबृंहणद्रव्ययोगात्तु कालान्तरतर्पकत्वमपि भवति||३९||

Adhikarana 7 (40) · Śloka 40

तत्र श्लोकः- सन्तर्पणोत्था ये रोगा रोगा ये चापतर्पणात्| सन्तर्पणीये तेऽध्याये सौषधाः परिकीर्तिताः||४०||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 23

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने सन्तर्पणीयो नाम त्रयोविंशोऽध्यायः||२३||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकाख्यायां सूत्रस्थाने योजनाचतुष्के सन्तर्पणीयो नाम त्रयोविंशोऽध्यायः||२३||