Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

22. laṅghanabr̥ṁhaṇīyō'dhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो लङ्घनबृंहणीयमध्यायं व्याख्यास्यामः ||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3-8) · Śloka 8

तपःस्वाध्यायनिरतानात्रेयः शिष्यसत्तमान्| षडग्निवेशप्रमुखानुक्तवान् परिचोदयन्||३|| लङ्घनं बृंहणं काले रूक्षणं स्नेहनं तथा| स्वेदनं स्तम्भनं चैव जानीते यः स वै भिषक्||४|| तमुक्तवन्तमात्रेयमग्निवेश उवाच ह||५|| भगवँल्लङ्घनं किंस्विल्लङ्घनीयाश्च कीदृशाः| बृंहणं बृंहणीयाश्च रूक्षणीयाश्च रूक्षणम्||६|| के स्नेहाः स्नेहनीयाश्च स्वेदाः स्वेद्याश्च के मताः| स्तम्भनं स्तम्भनीयाश्च वक्तुमर्हसि तद्गुरो!||७|| लङ्घनप्रभृतीनां च षण्णामेषां समासतः| कृताकृतातिवृत्तानां लक्षणं वक्तुमर्हसि||८||

🔊 Audio coming soon

Adhikarana 3 (9-17) · Śloka 17

तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत्| यत् किञ्चिल्लाघवकरं देहे तल्लङ्घनं स्मृतम्||९|| बृहत्त्वं यच्छरीरस्य जनयेत्तच्च बृंहणम्| रौक्ष्यं खरत्वं वैशद्यं यत् कुर्यात्तद्धि रूक्षणम्||१०|| स्नेहनं स्नेहविष्यन्दमार्दवक्लेदकारकम् | स्तम्भगौरवशीतघ्नं स्वेदनं स्वेदकारकम्||११|| स्तम्भनं स्तम्भयति यद्गतिमन्तं चलं ध्रुवम्| लघूष्णतीक्ष्णविशदं रूक्षं सूक्ष्मं खरं सरम्||१२|| कठिनं चैव यद्द्रव्यं प्रायस्तल्लङ्घनं स्मृतम्| गुरु शीतं मृदु स्निग्धं बहलं स्थूलपिच्छिलम्||१३|| प्रायो मन्दं स्थिरं श्लक्ष्णं द्रव्यं बृंहणमुच्यते| रूक्षं लघु खरं तीक्ष्णमुष्णं स्थिरमपिच्छिलम्||१४|| प्रायशः कठिनं चैव यद्द्रव्यं तद्धि रूक्षणम्| द्रवं सूक्ष्मं सरं स्निग्धं पिच्छिलं गुरु शीतलम्| प्रायो मन्दं मृदु च यद्द्रव्यं तत्स्नेहनं मतम्||१५|| उष्णं तीक्ष्णं सरं स्निग्धं रूक्षं सूक्ष्मं द्रवं स्थिरम्| द्रव्यं गुरु च यत् प्रायस्तद्धि स्वेदनमुच्यते||१६|| शीतं मन्दं मृदु श्लक्ष्णं रूक्षं सूक्ष्मं द्रवं स्थिरम्| यद्द्रव्यं लघु चोद्दिष्टं प्रायस्तत् स्तम्भनं स्मृतम्||१७||

🔊 Audio coming soon

Adhikarana 4 (18) · Śloka 18

चतुष्प्रकारा संशुद्धिः पिपासा मारुतातपौ| पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम्||१८||

🔊 Audio coming soon

Adhikarana 5 (19-24) · Śloka 24

प्रभूतश्लेष्मपित्तास्रमलाः संसृष्टमारुताः| बृहच्छरीरा बलिनो लङ्घनीया विशुद्धिभिः||१९|| येषां मध्यबला रोगाः कफपित्तसमुत्थिताः| वम्यतीसारहृद्रोगविसूच्यलसकज्वराः||२०|| विबन्धगौरवोद्गारहृल्लासारोचकादयः| पाचनैस्तान् भिषक् प्राज्ञः प्रायेणादावुपाचरेत्||२१|| एत एव यथोद्दिष्टा येषामल्पबला गदाः| पिपासानिग्रहैस्तेषामुपवासैश्च ताञ्जयेत्||२२|| रोगाञ्जयेन्मध्यबलान् व्यायामातपमारुतैः| बलिनां किं पुनर्येषां रोगाणामवरं बलम्||२३|| त्वग्दोषिणां प्रमीढानां स्निग्धाभिष्यन्दिबृंहिणाम्| शिशिरे लङ्घनं शस्तमपि वातविकारिणाम्||२४||

🔊 Audio coming soon

Adhikarana 6 (25-28) · Śloka 28

अदिग्धविद्धमक्लिष्टं वयस्थं सात्म्यचारिणाम्| मृगमत्स्यविहङ्गानां मांसं बृंहणमुच्यते||२५|| क्षीणाः क्षताः कृशा वृद्धा दुर्बला नित्यमध्वगाः| स्त्रीमद्यनित्या ग्रीष्मे च बृंहणीया नराः स्मृताः||२६|| शोषार्शोग्रहणीदोषैर्व्याधिभिः कर्शिताश्च ये| तेषां क्रव्यादमांसानां बृंहणा लघवो रसाः||२७|| स्नानमुत्सादनं स्वप्नो मधुराः स्नेहबस्तयः| शर्कराक्षीरसर्पींषि सर्वेषां विद्धि बृंहणम्||२८||

🔊 Audio coming soon

Adhikarana 7 (29-31) · Śloka 31

कटुतिक्तकषायाणां सेवनं स्त्रीष्वसंयमः| खलिपिण्याकतक्राणां मध्वादीनां च रूक्षणम्||२९|| अभिष्यण्णा महादोषा मर्मस्था व्याधयश्च ये| ऊरुस्तम्भप्रभृतयो रूक्षणीया निदर्शिताः||३०|| स्नेहाः स्नेहयितव्याश्च स्वेदाः स्वेद्याश्च ये नराः| स्नेहाध्याये मयोक्तास्ते स्वेदाख्ये च सविस्तरम्||३१||

🔊 Audio coming soon

Adhikarana 8 (32-33) · Śloka 33

द्रवं तन्वसरं यावच्छीतीकरणमौषधम्| स्वादु तिक्तं कषायं च स्तम्भनं सर्वमेव तत्||३२|| पित्तक्षाराग्निदग्धा ये वम्यतीसारपीडिताः| विषस्वेदातियोगार्ताः स्तम्भनीया निदर्शिताः||३३||

🔊 Audio coming soon

Adhikarana 9 (34-37) · Śloka 37

वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे| हृदयोद्गारकण्ठास्यशुद्धौ तन्द्राक्लमे गते||३४|| स्वेदे जाते रुचौ चैव क्षुत्पिपासासहोदये| कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि||३५|| पर्वभेदोऽङ्गमर्दश्च कासः शोषो मुखस्य च| क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः||३६|| मनसः सम्भ्रमोऽभीक्ष्णमूर्ध्ववातस्तमो हृदि| देहाग्निबलनाशश्च लङ्घनेऽतिकृते भवेत्||३७||

🔊 Audio coming soon

Adhikarana 10 (38) · Śloka 39

बलं पुष्ट्युपलम्भश्च कार्श्यदोषविवर्जनम्| लक्षणं बृंहिते स्थौल्यमति चात्यर्थबृंहिते||३८|| कृतातिकृतलिङ्गं यल्लङ्घिते तद्धि रूक्षिते |३९|

🔊 Audio coming soon

Adhikarana 11 (39-40) · Śloka 40

स्तम्भितः स्याद्बले लब्धे यथोक्तैश्चामयैर्जितैः||३९|| श्यावता स्तब्धगात्रत्वमुद्वेगो हनुसङ्ग्रहः| हृद्वर्चोनिग्रहश्च स्यादतिस्तम्भितलक्षणम्||४०||

🔊 Audio coming soon

Adhikarana 12 (41-42) · Śloka 42

लक्षणं चाकृतानां स्यात् षण्णामेषां समासतः| तदौषधानां धातूनामशमो वृद्धिरेव च||४१|| इति षट् सर्वरोगाणां प्रोक्ताः सम्यगुपक्रमाः| साध्यानां साधने सिद्धा मात्राकालानुरोधिनः||४२||

🔊 Audio coming soon

Adhikarana 13 (43) · Śloka 43

भवति चात्र- दोषाणां बहुसंसर्गात् सङ्कीर्यन्ते ह्युपक्रमाः| षट्त्वं तु नातिवर्तन्ते त्रित्वं वातादयो यथा||४३||

🔊 Audio coming soon

Adhikarana 14 (44) · Śloka 44

तत्र श्लोकाः- इत्यस्मिँलङ्घनाध्याये व्याख्याताः षडुपक्रमाः| यथाप्रश्नं भगवता चिकित्सा यैः प्रवर्तते||४४||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 22

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने लङ्घनबृंहणीयो नाम द्वाविंशोऽध्यायः||२२||

🔊 Audio coming soon