Adhikarana 1 (1-2) · Śloka 2
अथातः सन्तर्पणीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातः सन्तर्पणीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 2 (3-7) · Śloka 7
सन्तर्पयति यः स्निग्धैर्मधुरैर्गुरुपिच्छिलैः| नवान्नैर्नवमद्यैश्च मांसैश्चानूपवारिजैः||३|| गोरसैर्गौडिकैश्चान्नैः पैष्टिकैश्चातिमात्रशः| चेष्टाद्वेषी दिवास्वप्नशय्यासनसुखे रतः||४|| रोगास्तस्योपजायन्ते सन्तर्पणनिमित्तजाः| प्रमेहपिडकाकोठकण्डूपाण्ड्वामयज्वराः||५|| कुष्ठान्यामप्रदोषाश्च मूत्रकृच्छ्रमरोचकः| तन्द्रा क्लैब्यमतिस्थौल्यमालस्यं गुरुगात्रता||६|| इन्द्रियस्रोतसां लेपो बुद्धेर्मोहः प्रमीलकः| शोफाश्चैवंविधाश्चान्ये शीघ्रमप्रतिकुर्वतः||७||
🔊 Audio coming soon
Adhikarana 3 (8-25) · Śloka 26
शस्तमुल्लेखनं तत्र विरेको रक्तमोक्षणम्| व्यायामश्चोपवासश्च धूमाश्च स्वेदनानि च||८|| सक्षौद्रश्चाभयाप्राशः प्रायो रूक्षान्नसेवनम्| चूर्णप्रदेहा ये चोक्ताः कण्डूकोठविनाशनाः||९|| त्रिफलारग्वधं पाठां सप्तपर्णं सवत्सकम्| मुस्तं समदनं निम्बं जलेनोत्क्वथितं पिबेत्||१०|| तेन मेहादयो यान्ति नाशमभ्यस्यतो ध्रुवम्| मात्राकालप्रयुक्तेन सन्तर्पणसमुत्थिताः||११|| मुस्तमारग्वधः पाठा त्रिफला देवदारु च| श्वदंष्ट्रा खदिरो निम्बो हरिद्रे त्वक्च वत्सकात्||१२|| रसमेषां यथादोषं प्रातः प्रातः पिबन्नरः| सन्तर्पणकृतैः सर्वैर्व्याधिभिः सम्प्रमुच्यते||१३|| एभिश्चोद्वर्तनोद्धर्षस्नानयोगोपयोजितैः| त्वग्दोषाः प्रशमं यान्ति तथा स्नेहोपसंहितैः||१४|| कुष्ठं गोमेदको हिङ्गु क्रौञ्चास्थि त्र्यूषणं वचा| वृषकैले श्वदंष्ट्रा च खराह्वा चाश्मभेदकः||१५|| तक्रेण दधिमण्डेन बदराम्लरसेन वा| मूत्रकृच्छ्रं प्रमेहं च पीतमेतद्व्यपोहति||१६|| तक्राभयाप्रयोगैश्च त्रिफलायास्तथैव च| अरिष्टानां प्रयोगैश्च यान्ति मेहादयः शमम्||१७|| त्र्यूषणं त्रिफला क्षौद्रं क्रिमिघ्नमजमोदकः| मन्थोऽयं सक्तवस्तैलं हितो लोहोदकाप्लुतः||१८|| व्योषं विडङ्गं शिग्रूणि त्रिफलां कटुरोहिणीम्| बृहत्यौ द्वे हरिद्रे द्वे पाठामतिविषां स्थिराम्||१९|| हिङ्गु केबुकमूलानि यवानीधान्यचित्रकान्| सौवर्चलमजाजीं च हपुषां चेति चूर्णयेत्||२०|| चूर्णतैलघृतक्षौद्रभागाः स्युर्मानतः समाः| सक्तूनां षोडशगुणो भागः सन्तर्पणं पिबेत्||२१|| प्रयोगादस्य शाम्यन्ति रोगाः सन्तर्पणोत्थिताः| प्रमेहा मूढवाताश्च कुष्ठान्यर्शांसि कामलाः||२२|| प्लीहा पाण्ड्वामयः शोफो मूत्रकृच्छ्रमरोचकः| हृद्रोगो राजयक्ष्मा च कासः श्वासो गलग्रहः||२३|| क्रिमयो ग्रहणीदोषाः श्वैत्र्यं स्थौल्यमतीव च| नराणां दीप्यते चाग्निः स्मृतिर्बुद्धिश्च वर्धते||२४|| व्यायामनित्यो जीर्णाशी यवगोधूमभोजनः| सन्तर्पणकृतैर्दोषैः स्थौल्यं मुक्त्वा विमुच्यते||२५|| उक्तं सन्तर्पणोत्थानामपतर्पणमौषधम्|२६|
🔊 Audio coming soon
Adhikarana 4 (26-30) · Śloka 30
वक्ष्यन्ते सौषधाश्चोर्ध्वमपतर्पणजा गदाः||२६|| देहाग्निबलवर्णौजःशुक्रमांसपरिक्षयः| ज्वरः कासानुबन्धश्च पार्श्वशूलमरोचकः||२७|| श्रोत्रदौर्बल्यमुन्मादः प्रलापो हृदयव्यथा| विण्मूत्रसङ्ग्रहः शूलं जङ्घोरुत्रिकसंश्रयम्||२८|| पर्वास्थिसन्धिभेदश्च ये चान्ये वातजा गदाः| ऊर्ध्ववातादयः सर्वे जायन्ते तेऽपतर्पणात्||२९|| तेषां सन्तर्पणं तज्ज्ञैः पुनराख्यातमौषधम्| यत्तदात्वे समर्थं स्यादभ्यासे वा तदिष्यते ||३०||
🔊 Audio coming soon
Adhikarana 5 (31-38) · Śloka 38
सद्यःक्षीणो हि सद्यो वै तर्पणेनोपचीयते| नर्ते सन्तर्पणाभ्यासाच्चिरक्षीणस्तु पुष्यति||३१|| देहाग्निदोषभैषज्यमात्राकालानुवर्तिना| कार्यमत्वरमाणेन भेषजं चिरदुर्बले||३२|| हिता मांसरसास्तस्मै पयांसि च घृतानि च| स्नानानि बस्तयोऽभ्यङ्गास्तर्पणास्तर्पणाश्च ये||३३|| ज्वरकासप्रसक्तानां कृशानां मूत्रकृच्छ्रिणाम्| तृष्यतामूर्ध्ववातानां वक्ष्यन्ते तर्पणा हिताः||३४|| शर्करापिप्पलीतैलघृतक्षौद्रैः समांशकैः| सक्तुद्विगुणितो वृष्यस्तेषां मन्थः प्रशस्यते||३५|| सक्तवो मदिरा क्षौद्रं शर्करा चेति तर्पणम्| पिबेन्मारुतविण्मूत्रकफपित्तानुलोमनम्||३६|| फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकाञ्जिकम्| तर्पणं मूत्रकृच्छ्रघ्नमुदावर्तहरं पिबेत्||३७|| मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः| परूषकैः सामलकैर्युक्तो मद्यविकारनुत्||३८||
🔊 Audio coming soon
Adhikarana 6 (39) · Śloka 39
स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा| सद्यः सन्तर्पणो मन्थः स्थैर्यवर्णबलप्रदः||३९||
🔊 Audio coming soon
Adhikarana 7 (40) · Śloka 40
तत्र श्लोकः- सन्तर्पणोत्था ये रोगा रोगा ये चापतर्पणात्| सन्तर्पणीये तेऽध्याये सौषधाः परिकीर्तिताः||४०||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 23
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने सन्तर्पणीयो नाम त्रयोविंशोऽध्यायः||२३||
🔊 Audio coming soon