Adhikarana 1 (1-2) · Śloka 2
अथातो विधिशोणितीयमध्यायं व्याख्यास्यामः ||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातो विधिशोणितीयमध्यायं व्याख्यास्यामः ||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 2 (3) · Śloka 3
विधिना शोणितं जातं शुद्धं भवति देहिनाम्| देशकालौकसात्म्यानां विधिर्यः सम्प्रकाशितः||३||
🔊 Audio coming soon
Adhikarana 3 (4) · Śloka 4
तद्विशुद्धं हि रुधिरं बलवर्णसुखायुषा| युनक्ति प्राणिनं प्राणः शोणितं ह्यनुवर्तते||४||
🔊 Audio coming soon
Adhikarana 4 (5-10) · Śloka 10
प्रदुष्टबहुतीक्ष्णोष्णैर्मद्यैरन्यैश्च तद्विधैः| तथाऽतिलवणक्षारैरम्लैः कटुभिरेव च||५|| कुलत्थमाषनिष्पावतिलतैलनिषेवणैः| पिण्डालुमूलकादीनां हरितानां च सर्वशः||६|| जलजानूपबैलानां प्रसहानां च सेवनात्| दध्यम्लमस्तुसुक्तानां सुरासौवीरकस्य च||७|| विरुद्धानामुपक्लिन्नपूतीनां भक्षणेन च| भुक्त्वा दिवा प्रस्वपतां द्रवस्निग्धगुरूणि च||८|| अत्यादानं तथा क्रोधं भजतां चातपानलौ| छर्दिवेगप्रतीघातात् काले चानवसेचनात्||९|| श्रमाभिघातसन्तापैरजीर्णाध्यशनैस्तथा| शरत्कालस्वभावाच्च शोणितं सम्प्रदुष्यति||१०||
🔊 Audio coming soon
Adhikarana 5 (11-17) · Śloka 17
ततः शोणितजा रोगाः प्रजायन्ते पृथग्विधाः| मुखपाकोऽक्षिरागश्च पूतिघ्राणास्यगन्धिता||११|| गुल्मोपकुशवीसर्परक्तपित्तप्रमीलकाः| विद्रधी रक्तमेहश्च प्रदरो वातशोणितम्||१२|| वैवर्ण्यमग्निसादश्च पिपासा गुरुगात्रता| सन्तापश्चातिदौर्बल्यमरुचिः शिरसश्च रुक्||१३|| विदाहश्चान्नपानस्य तिक्ताम्लोद्गिरणं क्लमः| क्रोधप्रचुरता बुद्धेः सम्मोहो लवणास्यता||१४|| स्वेदः शरीरदौर्गन्ध्यं मदः कम्पः स्वरक्षयः| तन्द्रानिद्रातियोगश्च तमसश्चातिदर्शनम्||१५|| कण्ड्वरुःकोठपिडकाकुष्ठचर्मदलादयः| विकाराः सर्व एवैते विज्ञेयाः शोणिताश्रयाः||१६|| शीतोष्णस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः| सम्यक् साध्या न सिध्यन्ति रक्तजांस्तान् विभावयेत्||१७||
🔊 Audio coming soon
Adhikarana 6 (18) · Śloka 18
कुर्याच्छोणितरोगेषु रक्तपित्तहरीं क्रियाम्| विरेकमुपवासं च स्रावणं शोणितस्य च||१८||
🔊 Audio coming soon
Adhikarana 7 (19) · Śloka 19
बलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा| रुधिरं स्रावयेज्जन्तोराशयं प्रसमीक्ष्य वा||१९||
🔊 Audio coming soon
Adhikarana 8 (20-21) · Śloka 21
अरुणाभं भवेद्वाताद्विशदं फेनिलं तनु| पित्तात् पीतासितं रक्तं स्त्यायत्यौष्ण्याच्चिरेण च||२०|| ईषत्पाण्डु कफाद्दुष्टं पिच्छिलं तन्तुमद्घनम्| संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम्||२१||
🔊 Audio coming soon
Adhikarana 9 (22) · Śloka 22
तपनीयेन्द्रगोपाभं पद्मालक्तकसन्निभम्| गुञ्जाफलसवर्णं च विशुद्धं विद्धि शोणितम्||२२||
🔊 Audio coming soon
Adhikarana 10 (23) · Śloka 23
नात्युष्णशीतं लघु दीपनीयं रक्तेऽपनीते हितमन्नपानम्| तदा शरीरं ह्यनवस्थितासृगग्निर्विशेषेण च रक्षितव्यः||२३||
🔊 Audio coming soon
Adhikarana 11 (24) · Śloka 24
प्रसन्नवर्णेन्द्रियमिन्द्रियार्थानिच्छन्तमव्याहतपक्तृवेगम्| सुखान्वितं तु(पु)ष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति||२४||
🔊 Audio coming soon
Adhikarana 12 (25-29) · Śloka 29
यदा तु रक्तवाहीनि रससञ्ज्ञावहानि च| पृथक् पृथक् समस्ता वा स्रोतांसि कुपिता मलाः||२५|| मलिनाहारशीलस्य रजोमोहावृतात्मनः| प्रतिहत्यावतिष्ठन्ते जायन्ते व्याधयस्तदा||२६|| मदमूर्च्छायसन्न्यासास्तेषां विद्याद्विचक्षणः| यथोत्तरं बलाधिक्यं हेतुलिङ्गोपशान्तिषु||२७|| दुर्बलं चेतसः स्थानं यदा वायुः प्रपद्यते| मनो विक्षोभयञ्जन्तोः सञ्ज्ञां सम्मोहयेत्तदा||२८|| पित्तमेवं कफश्चैवं मनो विक्षोभयन्नृणाम्| सञ्ज्ञां नयत्याकुलतां विशेषश्चात्र वक्ष्यते||२९||
🔊 Audio coming soon
Adhikarana 13 (30-32) · Śloka 33
सक्तानल्पद्रुताभाषं चलस्खलितचेष्टितम् | विद्याद्वातमदाविष्टं रूक्षश्यावारुणाकृतिम्||३०|| सक्रोधपरुषाभाषं सम्प्रहारकलिप्रियम्| विद्यात् पित्तमदाविष्टं रक्तपीतासिताकृतिम्||३१|| स्वल्पासम्बद्धवचनं तन्द्रालस्यसमन्वितम्| विद्यात् कफमदाविष्टं पाण्डुं प्रध्यानतत्परम्||३२|| सर्वाण्येतानि रूपाणि सन्निपातकृते मदे|३३|
🔊 Audio coming soon
Adhikarana 14 (33) · Śloka 33
जायते शाम्यति क्षिप्रं मदो मद्यमदाकृतिः||३३||
🔊 Audio coming soon
Adhikarana 15 (34) · Śloka 34
यश्च मद्यकृतः प्रोक्तो विषजो रौधिरश्च यः| सर्व एते मदा नर्ते वातपित्तकफत्रयात्||३४||
🔊 Audio coming soon
Adhikarana 16 (35-41) · Śloka 41
नीलं वा यदि वा कृष्णमाकाशमथवाऽरुणम्| पश्यंस्तमः प्रविशति शीघ्रं च प्रतिबुध्यते ||३५|| वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च| कार्श्यं श्यावारुणा च्छायामूर्च्छाये वातसम्भवे||३६|| रक्तं हरितवर्णं वा वियत् पीतमथापि वा| पश्यंस्तमः प्रविशति सस्वेदः प्रतिबुध्यते||३७|| सपिपासः ससन्तापो रक्तपीताकुलेक्षणः| सम्भिन्नवर्चाः पीताभो मूर्च्छाये पित्तसम्भवे||३८|| मेघसङ्काशमाकाशमावृतं वा तमोघनैः| पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते||३९|| गुरुभिः प्रावृतैरङ्गैर्यथैवार्द्रेण चर्मणा| सप्रसेकः सहृल्लासो मूर्च्छाये कफसम्भवे||४०|| सर्वाकृतिः सन्निपातादपस्मार इवागतः| स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः||४१||
🔊 Audio coming soon
Adhikarana 17 (42-53) · Śloka 53
दोषेषु मदमूर्च्छायाः कृतवेगेषु देहिनाम्| स्वयमेवोपशाम्यन्ति सन्न्यासो नौषधैर्विना||४२|| वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः| सन्न्यस्यन्त्यबलं जन्तुं प्राणायतनसंश्रिताः||४३|| स ना सन्न्याससन्न्यस्तः काष्ठीभूतो मृतोपमः| प्राणैर्वियुज्यते शीघ्रं मुक्त्वा सद्यःफलाः क्रियाः||४४|| दुर्गेऽम्भसि यथा मज्जद्भाजनं त्वरया बुधः| गृह्णीयात्तलमप्राप्तं तथा सन्न्यासपीडितम्||४५|| अञ्जनान्यवपीडाश्च धूमाः प्रधमनानि च| सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे||४६|| लुञ्चनं केशलोम्नां च दन्तैर्दशनमेव च| आत्मगुप्तावघर्षश्च हितं तस्यावबोधने||४७|| सम्मूर्च्छितानि तीक्ष्णानि मद्यानि विविधानि च| प्रभूतकटुयुक्तानि तस्यास्ये गालयेन्मुहुः||४८|| मातुलुङ्गरसं तद्वन्महौषधसमायुतम्| तद्वत्सौवर्चलं दद्याद्युक्तं मद्याम्लकाञ्जिकैः||४९|| हिङ्गूषणसमायुक्तं यावत् सञ्ज्ञाप्रबोधनम्| प्रबुद्धसञ्ज्ञमन्नैश्च लघुभिस्तमुपाचरेत्||५०|| विस्मापनैः स्मारणैश्च प्रियश्रुतिभिरेव च| पटुभिर्गीतवादित्रशब्दैश्चित्रैश्च दर्शनैः||५१|| स्रंसनोल्लेखनैर्धूमैरञ्जनैः कवलग्रहैः| शोणितस्यावसेकैश्च व्यायामोद्घर्षणैस्तथा||५२|| प्रबुद्धसञ्ज्ञं मतिमाननुबन्धमुपक्रमेत्| तस्य संरक्षितव्यं हि मनः प्रलयहेतुतः||५३||
🔊 Audio coming soon
Adhikarana 18 (54-58) · Śloka 58
स्नेहस्वेदोपपन्नानां यथादोषं यथाबलम्| पञ्च कर्माणि कुर्वीत मूर्च्छायेषु मदेषु च||५४|| अष्टाविंशत्यौषधस्य तथा तिक्तस्य सर्पिषः| प्रयोगः शस्यते तद्वन्महतः षट्पलस्य वा||५५|| त्रिफलायाः प्रयोगो वा सघृतक्षौद्रशर्करः| शिलाजतुप्रयोगो वा प्रयोगः पयसोऽपि वा||५६|| पिप्पलीनां प्रयोगो वा पयसा चित्रकस्य वा| रसायनानां कौम्भस्य सर्पिषो वा प्रशस्यते||५७|| रक्तावसेकाच्छास्त्राणां सतां सत्त्ववतामपि| सेवनान्मदमूर्च्छायाः प्रशाम्यन्ति शरीरिणाम्||५८||
🔊 Audio coming soon
Adhikarana 19 (59-60) · Śloka 60
तत्र श्लोकौ- विशुद्धं चाविशुद्धं च शोणितं तस्य हेतवः| रक्तप्रदोषजा रोगास्तेषु रोगेषु चौषधम्||५९|| मदमूर्च्छायसन्न्यासहेतुलक्षणभेषजम्| विधिशोणितकेऽध्याये सर्वमेतत् प्रकाशितम्||६०||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 6
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने विधिशोणितीयो नाम चतुर्विंशोऽध्यायः||२४|| समाप्तो योजनाचतुष्कः||६||
🔊 Audio coming soon