Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

5. srōtōvimānam

Adhikarana 1 (1-2) · Śloka 2

अथातः स्रोतसां विमानं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

यावन्तः पुरुषे मूर्तिमन्तो भावविशेषास्तावन्त एवास्मिन् स्रोतसां प्रकारविशेषाः| सर्वे हि भावा पुरुषे नान्तरेण स्रोतांस्यभिनिर्वर्तन्ते, क्षयं वाऽप्यभिगच्छन्ति| स्रोतांसि खलु परिणाममापद्यमानानां धातूनामभिवाहीनि भवन्त्ययनार्थेन||३||

🔊 Audio coming soon

Adhikarana 3 (4-5) · Śloka 5

अपि चैके स्रोतसामेव समुदयं पुरुषमिच्छन्ति, सर्वगतत्वात् सर्वसरत्वाच्च दोषप्रकोपणप्रशमनानाम्| न त्वेतदेवं, यस्य हि स्रोतांसि, यच्च वहन्ति, यच्चावहन्ति, यत्र चावस्थितानि, सर्वं तदन्यत्तेभ्यः||४|| अतिबहुत्वात् खलु केचिदपरिसङ्ख्येयान्याचक्षते स्रोतांसि, परिसङ्ख्येयानि पुनरन्ये||५||

🔊 Audio coming soon

Adhikarana 4 (6-7) · Śloka 7

तेषां तु खलु स्रोतसां यथास्थूलं कतिचित्प्रकारान्मूलतश्च प्रकोपविज्ञानतश्चानुव्याख्यास्यामः; ये भविष्यन्त्यलमनुक्तार्थज्ञानाय ज्ञानवतां, विज्ञानाय चाज्ञानवताम्||६|| तद्यथा- प्राणोदकान्नरसरुधिरमांसमेदोस्थिमज्जशुक्रमूत्रपुरीषस्वेदवहानीति; वातपित्तश्लेष्मणां पुनः सर्वशरीरचराणां सर्वाणि स्रोतांस्ययनभूतानि, तद्वदतीन्द्रियाणां पुनः सत्त्वादीनां केवलं चेतनावच्छरीरमयनभूतमधिष्ठानभूतं च| तदेतत् स्रोतसां प्रकृतिभूतत्वान्न विकारैरुपसृज्यते शरीरम्||७||

🔊 Audio coming soon

Adhikarana 5 (8) · Śloka 8

तत्र प्राणवहानां स्रोतसां हृदयं मूलं महास्रोतश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अतिसृष्टमतिबद्धं कुपितमल्पाल्पमभीक्ष्णं वा सशब्दशूलमुच्छ्वसन्तं दृष्ट्वा प्राणवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| उदकवहानां स्रोतसां तालुमूलं क्लोम च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- जिह्वाताल्वोष्ठकण्ठक्लोमशोषं पिपासां चातिप्रवृद्धां दृष्ट्वोदकवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| अन्नवहानां स्रोतसामामाशयो मूलं वामं च पार्श्वं, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अनन्नाभिलषणमरोचकविपाकौ छर्दिं च दृष्ट्वाऽन्नवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| रसवहानां स्रोतसां हृदयं मूलं दश च धमन्यः| शोणितवहानां स्रोतसां यकृन्मूलं प्लीहा च| मांसवहानां च स्रोतसां स्नायुर्मूलं त्वक् च| मेदोवहानां स्रोतसां वृक्कौ मूलं वपावहनं च| अस्थिवहानां स्रोतसां मेदो मूलं जघनं च| मज्जवहानां स्रोतसामस्थीनि मूलं सन्धयश्च| शुक्रवहानां स्रोतसां वृषणौ मूलं शेफश्च| प्रदुष्टानां तु खल्वेषां रसादिवहस्रोतसां विज्ञानान्युक्तानि विविधाशितपीतीये; यान्येव हि धातूनां प्रदोषविज्ञानानि तान्येव यथास्वं प्रदुष्टानां धातुस्रोतसाम्| मूत्रवहानां स्रोतसां बस्तिर्मूलं वङ्क्षणौ च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अतिसृष्टमतिबद्धं प्रकुपितमल्पाल्पमभीक्ष्णं वा बहलं सशूलं मूत्रयन्तं दृष्ट्वा मूत्रवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| पुरीषवहानां स्रोतसां पक्वाशयो मूलं स्थूलगुदं च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- कृच्छ्रेणाल्पाल्पं सशब्दशूलमतिद्रवमतिग्रथितमतिबहु चोपविशन्तं दृष्ट्वा पुरीषवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| स्वेदवहानां स्रोतसां मेदो मूलं लोमकूपाश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णतामङ्गस्य परिदाहं लोमहर्षं च दृष्ट्वा स्वेदवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्||८||

🔊 Audio coming soon

Adhikarana 6 (9) · Śloka 9

स्रोतांसि, सिराः, धमन्यः, रसायन्यः, रसवाहिन्यः, नाड्यः, पन्थानः, मार्गाः, शरीरच्छिद्राणि, संवृतासंवृतानि, स्थानानि, आशयाः, निकेताश्चेति शरीरधात्ववकाशानां लक्ष्यालक्ष्याणां नामानि भवन्ति| तेषां प्रकोपात् स्थानस्थाश्चैव मार्गगाश्च शरीरधातवः प्रकोपमापद्यन्ते, इतरेषां प्रकोपादितराणि च| स्रोतांसि स्रोतांस्येव, धातवश्च धातूनेव प्रदूषयन्ति प्रदुष्टाः| तेषां सर्वेषामेव वातपित्तश्लेष्माणः प्रदुष्टा दूषयितारो भवन्ति, दोषस्वभावादिति||९||

🔊 Audio coming soon

Adhikarana 7 (10-22) · Śloka 22

भवन्ति चात्र- क्षयात् सन्धारणाद्रौक्ष्याद्व्यायामात् क्षुधितस्य च| प्राणवाहीनि दुष्यन्ति स्रोतांस्यन्यैश्च दारुणैः||१०|| औष्ण्यादामाद्भयात् पानादतिशुष्कान्नसेवनात्| अम्बुवाहीनि दुष्यन्ति तृष्णायाश्चातिपीडनात्||११|| अतिमात्रस्य चाकाले चाहितस्य च भोजनात्| अन्नवाहीनि दुष्यन्ति वैगुण्यात् पावकस्य च||१२|| गुरुशीतमतिस्निग्धमतिमात्रं समश्नताम्| रसवाहीनि दुष्यन्ति चिन्त्यानां चातिचिन्तनात्||१३|| विदाहीन्यन्नपानानि स्निग्धोष्णानि द्रवाणि च| रक्तवाहीनि दुष्यन्ति भजतां चातपानलौ||१४|| अभिष्यन्दीनि भोज्यानि स्थूलानि च गुरूणि च| मांसवाहीनि दुष्यन्ति भुक्त्वा च स्वपतां दिवा||१५|| अव्यायामाद्दिवास्वप्नान्मेद्यानां चातिभक्षणात्| मेदोवाहीनि दुष्यन्ति वारुण्याश्चातिसेवनात्||१६|| व्यायामादतिसङ्क्षोभादस्थ्नामतिविघट्टनात्| अस्थिवाहीनि दुष्यन्ति वातलानां च सेवनात्||१७|| उत्पेषादत्यभिष्यन्दादभिघातात् प्रपीडनात्| मज्जवाहीनि दुष्यन्ति विरुद्धानां च सेवनात्||१८|| अकालयोनिगमनान्निग्रहादतिमैथुनात्| शुक्रवाहीनि दुष्यन्ति शस्त्रक्षाराग्निभिस्तथा||१९|| मूत्रितोदकभक्ष्यस्त्रीसेवनान्मूत्रनिग्रहात्| मूत्रवाहीनि दुष्यन्ति क्षीणस्याभिक्षतस्य च||२०|| सन्धारणादत्यशनादजीर्णाध्यशनात्तथा| वर्चोवाहीनि दुष्यन्ति दुर्बलाग्नेः कृशस्य च||२१|| व्यायामादतिसन्तापाच्छीतोष्णाक्रमसेवनात् | स्वेदवाहीनि दुष्यन्ति क्रोधशोकभयैस्तथा||२२||

🔊 Audio coming soon

Adhikarana 8 (23) · Śloka 23

आहारश्च विहारश्च यः स्याद्दोषगुणैः समः| धातुभिर्विगुणश्चापि स्रोतसां स प्रदूषकः||२३||

🔊 Audio coming soon

Adhikarana 9 (24) · Śloka 24

अतिप्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयोऽपि वा| विमार्गगमनं चापि स्रोतसां दुष्टिलक्षणम्||२४||

🔊 Audio coming soon

Adhikarana 10 (25) · Śloka 25

स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च| स्रोतांसि दीर्घाण्याकृत्या प्रतानसदृशानि च||२५||

🔊 Audio coming soon

Adhikarana 11 (26-28) · Śloka 28

प्राणोदकान्नवाहानां दुष्टानां श्वासिकी क्रिया| कार्या तृष्णोपशमनी तथैवामप्रदोषिकी||२६|| विविधाशितपीतीये रसादीनां यदौषधम्| रसादिस्रोतसां कुर्यात्तद्यथास्वमुपक्रमम्||२७|| मूत्रविट्स्वेदवाहानां चिकित्सा मौत्रकृच्छ्रिकी| तथाऽतिसारिकी कार्या तथा ज्वरचिकित्सिकी||२८||

🔊 Audio coming soon

Adhikarana 12 (29-31) · Śloka 31

तत्र श्लोकाः- त्रयोदशानां मूलानि स्रोतसां दुष्टिलक्षणम्| सामान्यं नामपर्यायाः कोपनानि परस्परम्||२९|| दोषहेतुः पृथक्त्वेन भेषजोद्देश एव च| स्रोतोविमाने निर्दिष्टस्तथा चादौ विनिश्चयः||३०|| केवलं विदितं यस्य शरीरं सर्वभावतः| शारीराः सर्वरोगाश्च स कर्मसु न मुह्यति||३१||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 5

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने स्रोतोविमानं नाम पञ्चमोऽध्यायः||५||

🔊 Audio coming soon