Adhikarana arocakanidAnam (1) · Śloka 1
अथारोचकनिदानम् |
वातादिभिः शोकभयातिलोभक्रोधैर्मनोघ्नाशनरूपगन्धैः |
अरोचकाः स्युः ... |१|
(च. चि. अ. २६) |
ऊर्ध्वगविकारसाधर्म्यादरोचकमाह– वातादिभिरित्यादि| एकैकशो वातादिभिस्त्रयः, सन्निपातेनैकः, शोकादिना गन्धान्तेनागन्तुरेक एव गणनीयः, यतः पञ्चानामेकं लक्षणं वक्ष्यति; सुश्रुते चोक्तम्– “भक्तोपघातमिह पञ्चविधं वदन्ति|” (सु. उ. तं. अ. ५७) इति| शोकादिजस्तु यद्यपि वातादिजः, तथाऽपि हेतुप्रत्यनीकचिकित्साकरणार्थं पृथगुक्तः| अतिलोभोऽत्राहितस्य सततोपयोगहेतुतया दोषप्रकोपक इति दर्शयति| अरोचकाः स्युरिति छेदः|१|–
Adhikarana vAtikArocakalakShaNam (1) · Śloka 1
... परिहृष्टदन्तः कषायवक्त्रश्च मतोऽनिलेन ||१||
(च. चि. अ. २६) |
वातिकलक्षणमाह– परीत्यादि| परिहृष्टदन्त इति अम्लभक्षणेनेव||१||
Adhikarana paittikArocakalakShaNam (2) · Śloka 2
कट्वम्लमुष्णं विरसं च पूति पित्तेन विद्यात् ... |२|
(च. चि. अ. २६) |
पैत्तिकलक्षणमाह– कट्वित्यादि| कटुशब्दोऽत्र तिक्तवाची| यदाह विदेहः– “पित्तेन तिक्तास्यविदाहकृत् स्यात्, स्वाद्वास्यहृल्लासकरः कफेन|” इति|२|–
Adhikarana shlaiShmikArocakalakShaNam (2) · Śloka 2
... लवणं च वक्त्रम् |
माधुर्यपैच्छिल्यगुरुत्वशैत्यविबद्धसम्बद्धयुतं कफेन ||२||
(च. चि. अ. २६) |
श्लैष्मिकलक्षणमाह– लवणमित्यादि| लवणं वक्त्रमिति विदग्धस्य श्लेष्मणो लवणरसत्वात्| उक्तं हि सुश्रुते– “श्लेष्मा विदग्धो लवणः स्मृतः, पित्तं विदग्धमम्लम्|” (सु. सू. अ. ४०) इति| विबद्धसम्बद्धयुतमिति विबद्धं च तत् सम्बद्धयुतं चेति विबद्धसम्बद्धयुतम्| अत्र विबद्धं बद्धमिव, भक्षणाद्यसामर्थ्यात्; सम्बद्धयुतं ‘कफस्य’ इति शेषः; भावे क्तः, कफलिप्तमित्यर्थः| ‘विदग्धसम्बद्धयुतम्’ इति पाठान्तरं सुगमम्| ‘विबद्धसन्नद्धयुतम्’ इति पाठे विबद्धः सन्नद्धः स च प्रकृतत्वात् कफस्य, सन्नद्धो बद्धः; ‘णह’ बन्धने इत्यस्माद्धातोः पूर्ववत् क्तादि| ‘विबद्धसंस्तम्भयुतम्’ इति काश्मीराः||२||
Adhikarana AgantujArocakalakShaNam (3) · Śloka 3
अरोचके शोकभयातिलोभक्रोधाद्यहृद्याशुचिगन्धजे स्यात् |
स्वाभाविकं चास्यमथारुचिश्च ... |३|
(च. चि. अ. २६) |
आगन्तुजमाह– अरोचक इत्यादि| अहृद्यगन्धो घ्राणोद्वेजको गन्धः| स्वाभाविकं चास्यमिति अविकृतमुखरसत्वं, न तु वातादिवत् कषायत्वादि|३|–
Adhikarana tridoShajArocakalakShaNam (3) · Śloka 3
... त्रिदोषजे नैकरसं भवेत्तु ||३||
(च. चि. अ. २६) |
त्रिदोषजमाह– त्रिदोषज इत्यादि| त्रिदोषजे नैकरसमिति वातजाद्युक्तकषायाद्यनेकरसत्वम्||३||
Adhikarana vAtajAdibhedenArocakakRutA~anyadeshavikRutiH (4) · Śloka 4
हृच्छूलपीडनयुतं पवनेन, पित्तात्तृड्दाहचोषबहुलं, सकफप्रसेकम् |
श्लेष्मात्मकं, बहुरुजं बहुभिश्च विद्याद्वैगुण्यमोहजडताभिरथापरं च ||४||
(च. चि. अ. २६) |
वातजादिभेदेन मुखविकृतिमभिधायान्यदेशविकृतिमाह– हृच्छूलेत्यादि| हृदि शूलेन पीडनम् | चोषश्चूषणवत् पीडा| बहुभिरिति त्रिदोषैः| वैगुण्यमोहजडताभिरथापरमिति उपलक्षणे तृतीया, वैगुण्यं मनसो व्याकुलत्वम्| अपरमिति दोषजादन्यमागन्तुजमित्यर्थः| सत्यामपि बुभुक्षायामभ्यवहारासामर्थ्यमरुचिः, अभिलषितमप्यन्नं दीयमानं नाभ्यवहरतीत्यन्नानभिनन्दनम्, अन्नस्य श्रवणस्मरणदर्शनगन्धस्पर्शनैर्यत्रोद्विजते स भक्तद्वेषः; एवं त्रिविधोऽपि रोगश्चरकसुश्रुताभ्यामरोचकशब्देन सङ्गृहीतः| उक्तं हि वृद्धभोजेन– “प्रक्षिप्तं तु मुखे चान्नं जन्तोर्न स्वदते मुहुः| अरोचकः स विज्ञेयो, भक्तद्वेषमतः शृणु|| चिन्तयित्वा तु मनसा दृष्ट्वा श्रुत्वाऽपि भोजनम्| द्वेषमायाति यो जन्तुर्भक्तद्वेषः स उच्यते|| कुपितस्य भयार्तस्य यश्च भक्तनिरोधजः” इति||४||
Adhikarana puShpikA · Śloka 14
इति श्रीमाधवकरविरचिते माधवनिदाने अरोचकनिदानं समाप्तम् ||१४||
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायामरोचकनिदानं समाप्तम्||१४||