Adhikarana svarabhedasya nidAnapUrvikA samprAptiH (1) · Śloka 1
अथ स्वरभेदनिदानम् |
अत्युच्चभाषणविषाध्ययनाभिघातसन्दूषणैः प्रकुपिताः पवनादयस्तु |
स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां हन्युः स्वरं भवति चापि हि षड्विधः सः ||१||
(सु. उ. तं. अ. ५३) |
(वातादिभिः पृथक् सर्वैर्मेदसा च क्षयेण च) |
प्राणोदानदुष्टिसाधर्म्यात् श्वासे च स्वरभेदो भवतीति श्वासानन्तरं स्वरभेदमाह– अत्युच्चभाषणेत्यादि| अध्ययनमुच्चैर्वेदादिपाठः, अभिघातः कण्ठादिदेशे लगुडादिभिराघातः, एतैः सन्दूषणैरन्यैश्च यथास्वं वातादिकोपनैः, विषं तु सर्वदोषप्रकोपणमेव| स्रोतःसु स्वरवहेषु चतुर्षु; यदुक्तं सुश्रुते– “द्वाभ्यां भाषते, द्वाभ्यां घोषं करोति” (सु. शा. अ. ९) इति; भाषणघोषणयोरल्पत्वमहत्त्वाभ्यां भेदः| प्रतिष्ठां स्थितिं, वृद्धिं वा| स इति स्वरभेदः; षड्विधो वातपित्तकफसन्निपातक्षयमेदोजभेदात्||१||
Adhikarana vAtikasvarabhedalakShaNam (2) · Śloka 2
वातेन कृष्णनयनाननमूत्रवर्चा भिन्नं शनैर्वदति गर्दभवत् खरं च |२|
(सु. उ. तं. अ. ५३) |
वातिकमाह– वातेनेत्यादि| कृष्णत्वं मूत्रादिषु स्वरभेदारम्भकदोषस्य सर्वाङ्गव्यापकत्वात्, अर्शोवत्| भिन्नं भिन्नस्वरं, तदेवाह– गर्दभवत् खरमिति; खरं निष्ठुरम्, उद्वेजकमिति यावत्|२|–
Adhikarana paittikasvarabhedalakShaNam (2) · Śloka 2
पित्तेन पीतनयनाननमूत्रवर्चा ब्रूयाद्गलेन स च दाहसमन्वितेन ||२||
(सु. उ. तं. अ. ५३) |
पैत्तिकमाह– पित्तेनेत्यादि| गलेनेति विशेष्योपदर्शनं, दाहसमन्वितेनेति विशेषणस्य विशेष्याधीनप्रतीतत्वात्; गलः सदाहो भवतीत्यर्थः||२||
Adhikarana shlaiShmikasvarabhedalakShaNam (3) · Śloka 3
ब्रूयात् कफेन सततं कफरुद्धकण्ठः स्वल्पं शनैर्वदति चापि दिवा विशेषात् |३|
(सु. उ. तं. अ. ५३) |
श्लैष्मिकमाह– ब्रूयादित्यादि| दिवा विशेषादिति दिने सूर्यरश्मिभिः कफस्य मन्दीभावाद्विशेषाद्विशिष्टं वदतीत्यर्थः| ‘दिवाविशेष’ इति पाठान्तरे स एवार्थः|३|–
Adhikarana sAnnipAtikasvarabhedalakShaNam (3) · Śloka 3
सर्वात्मके भवति सर्वविकारसम्पत् तं चाप्यसाध्यमृषयः स्वरभेदमाहुः ||३||
(सु. उ. तं. अ. ५३) |
सान्निपातिकमाह– सर्वात्मक इत्यादि| सर्वविकारसम्पदिति उक्तवातादिस्वरभेदलिङ्गयोगः| तं चाप्यसाध्यमिति अपिशब्दो भिन्नक्रमे, असाध्यमपि; तेन “सर्वजे क्षयजे चापि प्रत्याख्यायाचरेत् क्रियाम्||” (सु. उ. तं. अ. ५३) इति सुश्रुतवचनमुपपन्नं भवतीति||३||
Adhikarana kShayajasvarabhedalakShaNam (4) · Śloka 4
धूप्येत वाक् क्षयकृते क्षयमाप्नुयाच्च वागेष चापि हतवाक् परिवर्जनीयः |४|
(सु. उ. तं. अ. ५३) |
क्षयजमाह– धूप्येतेत्यादि| धूप्येत वागिति सधूमेव निर्गच्छन्ती वेदनायाऽनुभूयते| क्षयकृत इति धातुक्षयकृत स्वरभेदे| क्षयमाप्नुयाच्च वागिति पदच्छेदः| एष च यदा हतवाग्भवति ओजःक्षयाद्वचनाक्षमस्तदा न साध्यते, अन्यथा तु साध्यः; तेन प्रत्याख्याय क्रियाकरणमुपपन्नं भवति| ‘एषु चापि’ इति पाठे वातादिस्वरभेदेषु मध्ये हतवागसाध्यः, किन्त्वयं पाठष्टीकाकारैर्न व्याख्यातः|४|–
Adhikarana medojasvarabhedalakShaNam (4) · Śloka 4
अन्तर्गतस्वरमलक्ष्यपदं चिरेण मेदोऽन्वयाद्वदति दिग्धगलस्तृषार्तः ||४||
(सु. उ. तं. अ. ५३) |
मेदोजलक्षणमाह– अन्तर्गतेत्यादिना| अन्तर्गतस्वरमिति क्रियाविशेषणम्; ‘अन्तर्गतं स्वरम्’ इति पाठे तु कण्ठस्यान्तर्गतं यथा भवति तथा स्वरं वचनं वदतीति योज्यं; ‘अन्तर्गलम्’ इति पाठान्तरे गलस्यान्तरिति अन्तर्गलं स्वरं वदतीत्यर्थः| दिग्धगल इति श्लेष्मणा मेदसा वा लिप्तगल इत्यर्थः| तृषार्तश्च मेदोरुद्धस्रोतस्त्वात्||४||
Adhikarana svarabhedasyAsAdhyalakShaNam (5) · Śloka 5
क्षीणस्य वृद्धस्य कृशस्य वाऽपि चिरोत्थितो यश्च सहोपजातः |
मेदस्विनः सर्वसमुद्भवश्च स्वरामयो यो न स सिद्धिमेति ||५||
(सु. उ. तं. अ. ५३) |
उक्तवातादिजानामेवावस्थायामसाध्यत्वमाह– क्षीणस्येत्यादिना सहोपजात इत्यन्तेन| क्षीणस्य क्षीणमांसस्य| कृशस्य अबलस्य| सहोपजातो जन्मप्रभृतिबद्धः, ‘काकस्वर’ इति लोके| ‘सहोपजातः’ इत्यत्र ‘मदोपजातः’ इति पाठान्तरम्, मदो रोगविशेषः| मेदस्विनोऽतिस्थूलस्य मेदसाऽऽवृतस्रोतस्त्वेन यो जातः; अमेदस्विनस्तु मेदोदुष्ट्या जातः स साध्यः पूर्वमुक्त इति न विरोधः| सर्वसमुद्भवश्चावगाढः सम्पूर्णलिङ्गो वाऽसाध्यो द्रष्टव्य इति||५||
Adhikarana puShpikA · Śloka 13
इति श्रीमाधवकरविरचिते माधवनिदाने स्वरभेदनिदानं समाप्तम् ||१३||
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां स्वरभेदनिदानं समाप्तम्||१३||