अथारोचकनिदानम् | वातादिभिः शोकभयातिलोभक्रोधैर्मनोघ्नाशनरूपगन्धैः | अरोचकाः स्युः ... |१| (च. चि. अ. २६) |
🔊 Audio coming soon
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
ऊर्ध्वगविकारसाधर्म्यादरोचकमाह– वातादिभिरित्यादि| एकैकशो वातादिभिस्त्रयः, सन्निपातेनैकः, शोकादिना गन्धान्तेनागन्तुरेक एव गणनीयः, यतः पञ्चानामेकं लक्षणं वक्ष्यति; सुश्रुते चोक्तम्– “भक्तोपघातमिह पञ्चविधं वदन्ति|” (सु. उ. तं. अ. ५७) इति| शोकादिजस्तु यद्यपि वातादिजः, तथाऽपि हेतुप्रत्यनीकचिकित्साकरणार्थं पृथगुक्तः| अतिलोभोऽत्राहितस्य सततोपयोगहेतुतया दोषप्रकोपक इति दर्शयति| अरोचकाः स्युरिति छेदः|१|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
ऊर्ध्वगविकारसाधर्म्यादरोचकमाह– वातादिभिरिति| एकैकशो वातादिभिस्त्रयः, सन्निपातेनैकः, शोकभयादिनाऽऽगन्तुरेक एव गणनीयः, यतः पञ्चानामपि लक्षणं वक्ष्यति; सुश्रुते चोक्तम्– “भक्तोपघातमिह पञ्चविधं वदन्ति” इति| तन्त्रान्तरेऽपि– “अरोचको भवेद्दोषैरेको हृदयसंश्रयैः| सन्निपातेन मनसः सन्तापेन च पञ्चमः” इति| शोकादिजो यद्यपि वातजस्तथाऽपि हेतुप्रत्यनीकचिकित्सार्थं पृथगुक्तः| एतैर्हेतुभिररोचका भवन्ति| मनोघ्नाशनमुच्छिष्टकृमिक्लिन्नादिरूपं शरीरश्वयथुगतं, गन्धः पूतिः, तैः|१|–