Adhikarana ashmarInidAnaM samprAptishca (1-2) · Śloka 2
अथाश्मरीनिदानम् |
वातपित्तकफैस्तिस्रश्चतुर्थी शुक्रजाऽपरा |
प्रायः श्लेष्माश्रयाः सर्वा अश्मर्यः स्युर्यमोपमाः ||१||
विशोषयेद्बस्तिगतं सशुक्रं मूत्रं सपित्तं पवनः कफं वा |
यदा तदाऽश्मर्युपजायते तु क्रमेण पित्तेष्विव रोचना गोः ||२||
नैकदोषाश्रयाः सर्वाः... |
(च. चि. अ. २६) |
Adhikarana ashmarIpUrvarUpam (3) · Śloka 3
... अथासां पूर्वलक्षणम् |
बस्त्याध्मानं तदासन्नदेशेषु परितोऽतिरुक् ||३||
मूत्रे बस्तसगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः |
(वा. नि. अ. ९) |
Adhikarana ashmarIsAmAnyalakShaNam (4-5) · Śloka 5
सामान्यलिङ्गं रुङ्नाभिसेवनीबस्तिमूर्धसु ||४||
विशीर्णधारं मूत्रं स्यात्तया मार्गे निरोधिते |
तद्व्यपायात् सुखं मेहेदच्छं गोमेदकोपमम् ||५||
तत्सङ्क्षोभात् क्षते सास्रमायासाच्चातिरुग्भवेत् |
(वा. नि. अ. ९) |
Adhikarana vAtajAshmarIlakShaNam (6-7) · Śloka 7
तत्र वाताद्भृशं चार्तो दन्तान् खादति वेपते ||६||
गृह्णाति मेहनं नाभिं पीडयत्यनिशं क्वणन् |
सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः ||७||
श्यावारुणाऽश्मरी चास्य स्याच्चिता कण्टकैरिव |
(वा. नि. अ. ९) |
Adhikarana pittajAshmarIlakShaNam (8) · Śloka 8
पित्तेन दह्यते बस्तिः पच्यमान इवोष्मवान् ||८||
भल्लातकास्थिसंस्थाना रक्तपीताऽसिताऽश्मरी |
(वा. नि. अ. ९) |
Adhikarana shleShmajAshmarIlakShaNam (9) · Śloka 9
बस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः ||९||
अश्मरी महती श्लक्ष्णा मधुवर्णाऽथवा सिता |
(वा. नि. अ. ९) |
Adhikarana pUrvoktAshmarINAM sukhasAdhyalakShaNam (10) · Śloka 10
एता भवन्ति बालानां तेषामेव च भूयसा ||१०||
आश्रयोपचयाल्पत्वाद्ग्रहणाहरणे सुखाः |
(वा. नि. अ. ९) |
Adhikarana shukrAshmaryA nidAnasamprAptipUrvakaM lakShaNam (11-13) · Śloka 13
शुक्राश्मरी तु महतां जायते शुक्रधारणात् ||११||
स्थानाच्च्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः |
शोषयत्युपसङ्गृह्य शुक्रं तच्छुक्रमश्मरी ||१२||
बस्तिरुङ्मूत्रकृच्छ्रत्वमुष्कश्वयथुकारिणी |
तस्यामुत्पन्नमात्रायां शुक्रमेति विलीयते ||१३||
पीडिते त्ववकाशेऽस्मिन्... |
(वा. नि. अ. ९) |
Adhikarana sharkarAlakShaNam (14) · Śloka 14
...अश्मर्येव च शर्करा |१४|
(वा. नि. अ. ९) |
Adhikarana ashmaryupadravAH (14-16) · Śloka 16
अणुशो वायुना भिन्ना सा तस्मिन्ननुलोमगे ||१४||
निरेति सह मूत्रेण प्रतिलोमे निरुध्यते |
(वा. नि. अ. ९) |
मूत्रस्रोतःप्रवृत्ता सा सक्ता कुर्यादुपद्रवान् ||१५||
दौर्बल्यं सदनं कार्श्यं कुक्षिशूलमथारुचिम् |
पाण्डुत्वमुष्णवातं च तृष्णां हृत्पीडनं वमिम् ||१६||
(सु. नि. अ. ३) |
Adhikarana ashmaryA asAdhyalakShaNam (17) · Śloka 17
प्रशूननाभिवृषणं बद्धमूत्रं रुजातुरम् |
अश्मरी क्षपयत्याशु सिकता शर्करान्विता ||१७||
(सु. सू. अ. ३३) |
Adhikarana puShpikA · Śloka 32
इति श्रीमाधवकरविरचिते माधवनिदानेऽश्मरीनिदानं समाप्तम् ||३२||