Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

61. asr̥gdaranidānam

Adhikarana asRugdaranidAnam (1) · Śloka 1

अथासृग्दरनिदानम् | विरुद्धमद्याध्यशनादजीर्णाद्गर्भप्रपातादतिमैथुनाच्च | यानाध्वशोकादतिकर्षणाच्च भाराभिघाताच्छयनाद्दिवा च | तं श्लेष्मपित्तानिलसन्निपातैश्चतुष्प्रकारं प्रदरं वदन्ति ||१||

🔊 Audio coming soon

स्त्रीपुंसां साधारणान् विकारानभिधाय पुम्प्रतिनियतस्योपदंशादेरुक्तत्वात् स्त्रीनियतरोगाभिधानम्| तत्र च योनिव्यापत्तिविशेषेऽप्यार्तवप्रवृत्तिसद्भावात् प्रथमं दुष्टार्तवप्रवृत्तिस्वरूपं प्रदरमाह– विरुद्धेत्यादि| विरुद्धमद्यं दुष्टमद्यम्; अथवा विरुद्धं संयोगादिविरुद्धं, मद्यं च स्वरूपतः| अजीर्णादपक्वभोजनात्| अतिकर्षणात् लङ्घनाद्यतियोगेन क्षीणधातुत्वात्| तं श्लेष्मपित्तानिलसन्निपातैरित्यत्र श्लेष्मणोऽग्रेऽभिधानं श्लेष्मजेऽपि वेदनासूचनार्थम्||१||

Adhikarana asRugdarasya sAmAnyarUpam (2) · Śloka 2

असृग्दरं भवेत् सर्वं साङ्गमर्दं सवेदनम् |२| (सु. शा. अ. २) |

🔊 Audio coming soon

तस्य सामान्यरूपमाह– असृग्दरमित्यादि| सवेदनं सशूलम्| असृग् दीर्यते च्यवते यस्मिन्नित्यसृग्दरं; तन्त्रान्तरमत्र– “तदेवातिप्रसङ्गेन प्रवृत्तमनृतावपि| असृग्दरं विजानीयात् पुरस्तादुक्तलक्षणम्||” (सु. शा. अ. २) इति| तदेवेति आर्तवम्|२|–

Adhikarana ArtavAtipravRuttau doShAH (2) · Śloka 2

तस्यातिवृत्तौ दौर्बल्यं भ्रमो मूर्छा मदस्तृषा | दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः ||२|| (सु. शा. अ. २) |

🔊 Audio coming soon

आर्तवातिप्रवृत्तौ उपद्रवानाह– तस्यातिवृत्तौ दौर्बल्यमित्यादि| रोगाश्च वातजा इति आक्षेपककम्पादयः||२||

Adhikarana shlaiShmikAdibhedenAsRugdarasya visheShalakShaNAni, asAdhyalakShaNaM ca (3-5) · Śloka 5

आमं सपिच्छाप्रतिमं सपाण्डु पुलाकतोयप्रतिमं कफात्तु | सपीतनीलासितरक्तमुष्णं पित्तार्तियुक्तं भृशवेगि पित्तात् ||३|| रूक्षारुणं फेनिलमल्पमल्पं वातार्ति वातात् पिशितोदकाभम् | सक्षौद्रसर्पिर्हरितालवर्णं मज्जप्रकाशं कुणपं त्रिदोषात् ||४|| तं चाप्यसाध्यं प्रवदन्ति तज्ज्ञा, न तत्र कुर्वीत भिषक् चिकित्साम् | शश्वत् स्रवन्तीमास्रावं तृष्णादाहज्वरान्विताम् | क्षीणरक्तां दुर्बलां च तामसाध्यां विनिर्दिशेत् ||५||

🔊 Audio coming soon

श्लैष्मिकादिभेदेन विशेषलक्षणान्याह– आममित्यादि| आमम् आमरसानुविद्धम्| सपिच्छाप्रतिममिति पिच्छा शाल्मल्यादिनिर्यासः, तत्सदृशं पिच्छिलमित्यर्थः; सशब्द ईषदर्थे| पुलाकतोयप्रतिमं प्रक्षालितपललतोयसदृशम्; अन्ये पुलाकं गवेधुकमाहुः| पित्तार्तियुक्तं दाहचिमिचिमादियुक्तम्| भृशवेगि बहुवेगि| वातार्ति तोदादिलक्षणम्| पिशितोदकाभं मांसप्रक्षालनजलसदृशम्| सक्षौद्रसर्पिर्हरितालवर्णमिति नानावर्णत्वं त्रिदोषकोपादेव| क्षौद्रवर्णं मनाक्कपिलं, सर्पिर्वर्णं विलीनघृतवत् किञ्चिदरुणं च| मज्जप्रकाशं मज्जा अस्थिस्नेहः, तत्समम्| कुणपं शवगन्धि| तच्चाप्यसाध्यमिति चिकित्सानिवृत्त्यर्थम्||३-५||

Adhikarana shuddhArtavalakShaNam (6-7) · Śloka 7

मासान्निष्पिच्छदाहार्ति पञ्चरात्रानुबन्धि च | नैवातिबहुलात्यल्पमार्तवं शुद्धमादिशेत् ||६|| शशासृक्प्रतिमं यच्च यद्वा लाक्षारसोपमम् | तदार्तवं प्रशंसन्ति यच्चाप्सु न विरज्यते ||७|| (सु. शा. अ. २) |

🔊 Audio coming soon

विशुद्धार्तवलक्षणमाह– मासादित्यादि| निष्पिच्छदाहार्तीति अपिच्छिलमदाहमशूलादि वेदनम्, एतेन विकृतवातादिलिङ्गरहितमित्यर्थः| पञ्चरात्रानुबन्धीति “पञ्चरात्रं प्रभूतप्रवृत्त्याऽनुबध्नातीत्यर्थः|” अल्पप्रवृत्त्या पञ्चरात्रात् परतोऽप्यनुबध्नाति| तदुक्तं हारीते– ‘ षोडशदिवसान्यृतुकालः’| इति| विदेहेऽप्युक्तम्– “स्त्रीणामृतुर्भवति षोडश वासराणि|” इति| शशासृगित्यादिना वर्णद्वयं वातादिप्रकृतिभेदात्| यच्चाप्सु न विरज्यते इति येनार्तवेन रञ्जितं वस्त्रमप्सु प्रक्षालितं सल्लोहितं न भवति तद्विशुद्धम्| तथाच हिरण्याक्षः– “सुरेन्द्रगोपसङ्काशं स्निग्धं च मधुगन्धि च| अपिच्छिलमशीतं च यद्वासो न विरञ्जयेत्||” इति||६-७||

Adhikarana puShpikA · Śloka 61

इति श्रीमाधवकरविरचिते माधवनिदाने असृग्दरनिदानं समाप्तम् ||६१||

🔊 Audio coming soon

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायामसृग्दरनिदानं समाप्तम्||६१||