Adhikarana yoniroganidAnam (1) · Śloka 1
अथ योनिव्यापन्निदानम् |
विंशतिर्व्यापदो योनौ निर्दिष्टा रोगसङ्ग्रहे |
मिथ्याचारेण ताः स्त्रीणां प्रदुष्टेनार्तवेन च ||१||
जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक् |
(च. चि. अ. ३०) |
स्त्र्यधिकारानुवृत्तेः प्रदुष्टार्तवकार्यत्वाच्च योनिव्यापन्निदानमाह– विंशतिरित्यादि| रोगसङ्ग्रह इति अष्टोदरीये, चरकोक्तत्वादस्य वाक्यस्य| मिथ्याचारेण असम्यगाहाराचारेण, चरतेर्गतिभक्षणार्थत्वात्| प्रदुष्टेनार्तवेनेति वातादिदुष्टरजसेत्यर्थः| तेन, वन्ध्यादिष्वार्तवदुष्टिरपि कारणं भवति| बीजदोषान्मातापित्रोरारम्भकबीजदोषात्| दैवात् प्राक्तनाधर्मकारणात्; दैवस्य सर्वत्र कारणत्वे सिद्धेऽत्र विशेषेण कारणत्वमुक्तम्||१||–
Adhikarana vAtikayonirogANAM lakShaNam (2-4) · Śloka 4
सा फेनिलमुदावर्ता रजः कृच्छ्रेण मुञ्चति ||२||
वन्ध्यां नष्टार्तवां विद्याद्विप्लुतां नित्यवेदनाम् |
परिप्लुतायां भवति ग्राम्यधर्मेण रुग्भृशम् ||३||
वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता |
चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ||४||
(सु. उ. तं. अ. ३८) |
श्लैष्मिका आह– सा फेनिलमित्यादि| सा योनिः फेनवदार्तवं मुञ्चति| उदावर्तेति ऊर्ध्वमावर्तः समन्ताद्वर्तनं वायोर्यत्र सा तथेति, अर्शआदित्वादच्| विप्लुतामिति विप्लुतां वातवेदनया विप्लुतत्वात्| नित्यवेदनाम् अतिकुपितेनैव वातेनेति| परिप्लुतायामिति परि सर्वतो वातविकारेण प्लुतत्वात् परिप्लुतासञ्ज्ञा| परिप्लुतायां बाह्याभ्यन्तरवातवेदनाभिर्युक्तायाम्| “ग्राम्यधर्मेण रुग्भृशम्” इत्यत्र “ग्राम्यधर्मे रुचिर्भृशम्” इति पाठान्तरं, तत्र रुचिरभिलाषः; ग्राम्यधर्मे मैथुने| वातलेत्यादि योनिविशेषणं, वातलया सह पञ्च योनिव्यापदः| वातलायाः पृथगभिधानं वातलायां विशेषेण वातवेदनाप्रादुर्भावार्थम्| एवं पित्तलादिष्वपि बोद्धव्यम्| चतसृष्विति उदावर्तावन्ध्याविप्लुतापरिप्लुतासु||२-४||
Adhikarana paittikayonirogANAM lakShaNam (5-7) · Śloka 7
सदाहं क्षीयते रक्तं यस्यां सा लोहितक्षया |
सवातमुद्गिरेद्बीजं वामिनी रजसा युतम् ||५||
प्रस्रंसिनी स्रंसते च क्षोभिता दुष्प्रजायिनी |
स्थितं स्थितं हन्ति गर्भं पुत्रघ्नी रक्तसङ्क्षयात् ||६||
अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता |
चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत् ||७||
(सु. उ. तं. अ. ३८) |
पैत्तिका आह– सदाहमित्यादि| क्षीयते रक्तमिति अतिप्रवृत्त्या रक्तस्य क्षयः| वामिन्युद्गिरेद्बीजमिति शुक्रं शुद्धमपि वमतीत्यर्थः| प्रस्रंसिनी स्रंसते इति स्वस्थानाच्च्यवते निःसरतीति यावत्| अत एव “ क्षीरस्विन्नां प्रवेशयेत्|” (सु. उ. तं. अ. ३८) इति चिकित्सितम्| क्षोभिता विमर्दिता| दुष्प्रजायिनी दुःखप्रसवा| रक्तसङ्क्षयादार्तवस्य वायुना क्षयात्| यद्यपि सर्वस्यैवापत्यस्य नाशस्तथाऽपि पुत्रस्य प्राधान्यात् पुत्रघ्नीति व्यपदेशः| पित्तलया सह पञ्च पित्तजाः| दाहपाकेत्याद्युपलक्षणं, तेन नीलपीतासितार्तवा च भवतीत्यर्थः| यदुक्तमन्यत्र– “व्यापल्लवणकट्वम्लक्षाराद्यैः पित्तजा भवेत्| दाहपाकज्वरोष्णार्ता नीलपीतासितार्तवा||” इति| आद्यास्विति रक्तक्षयावामिनीप्रस्रंसिनीपुत्रघ्नीषु||५-७||
Adhikarana shlaiShmikayonirogANAM lakShaNam (8-10) · Śloka 10
अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण गच्छति |
कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां प्रजायते ||८||
मैथुनेऽचरणा पूर्वं पुरुषादतिरिच्यते |
बहुशश्चातिचरणा तयोर्बीजं न विन्दति ||९||
श्लेष्मला पिच्छिला योनिः कण्डूग्रस्ताऽतिशीतला |
चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रयो भवेत् ||१०||
(सु. उ. तं. अ. ३८) |
श्लैष्मिका आह– अत्यानन्देत्यादि| ग्राम्यधर्मेण मैथुनेन| कर्णिन्यां कर्णिकेति कर्णिका मांसकन्दाकारग्रन्थिः| मैथुनेऽचरणा पूर्वं पुरुषादतिरिच्यते इति अचरणा सम्यङ्मैथुनाचरणात् पूर्वं प्रथमं, पुरुषादतिरिच्यते विरमति, तेन बीजं न गृह्णाति| अत्र अचरणशब्देनोपचारात् तद्वती स्त्री भण्यते| बहुशश्चातिचरणेति बहुशो मैथुनाचरणादतिचरणा, सा च श्लेष्मजनितकण्डूभिराजगेव (?) बहुमैथुनाचरणाद्बीजं न धत्ते| अत उक्तम्– तयोर्बीजं न विन्दतीति| तयोरिति अचरणातिचरणयोः| श्लेष्मलायामतिशीतलेत्युपलक्षणं, तेन वेदनादिकमपि ज्ञेयम्| तथाच तन्त्रान्तरे– “कफोऽभिष्यन्दिभिर्वृद्धो योनिं चेद्दूषयेत् स्त्रियाः| स कुर्यात् पिच्छिलां शीतां कण्डूग्रस्तां सवेदनाम्||” इति||८-१०||
Adhikarana sAnnipAtikayonirogANAM lakShaNam (11-13) · Śloka 13
अनार्तवाऽस्तनी षण्डी खरस्पर्शा च मैथुने |
अतिकायगृहीतायास्तरुण्यास्त्वण्डली भवेत् ||११||
विवृता च महायोनिः सूचीवक्त्राऽतिसंवृता |
सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा ||१२||
चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रयो भवेत् |
पञ्चासाध्या भवन्तीह योनयः सर्वदोषजाः ||१३||
(सु. उ. तं. अ. ३८) |
सान्निपातिका आह– अनार्तवेत्यादि| अनार्तवा रजःशून्या| अस्तनी ईषत्स्तनी| अतिकायगृहीताया महामेहनेन गृहीतायाः| अण्डली अण्डवन्निःसृता योनिः| विवृता महायोनिः अतिविवृतमुखी| सूचीवक्त्रा अतिसंवृता सूचीरन्ध्राऽतिसङ्कटमुखी| सर्वलिङ्गसमुत्थानेति सर्वदोषलिङ्गानां समुत्थानं यत्र सा तथा| अन्ये त्वाहुः– सर्वदोषसमुत्थाना सर्वदोषहेतुजेत्यर्थः| चरकोक्ता अधिका रक्तयोन्यादयः सुश्रुतोक्तानामदूरान्तरत्वेनावबोद्धव्याः||११-१३||
Adhikarana puShpikA · Śloka 62
इति श्रीमाधवकरविरचिते माधवनिदाने योनिव्यापन्निदानं समाप्तम् ||६२||
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां योनिव्यापन्निदानं समाप्तम्||६२||