अथ योनिव्यापन्निदानम् | विंशतिर्व्यापदो योनौ निर्दिष्टा रोगसङ्ग्रहे | मिथ्याचारेण ताः स्त्रीणां प्रदुष्टेनार्तवेन च ||१|| जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक् | (च. चि. अ. ३०) |
🔊 Audio coming soon
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
स्त्र्यधिकारानुवृत्तेः प्रदुष्टार्तवकार्यत्वाच्च योनिव्यापन्निदानमाह– विंशतिरित्यादि| रोगसङ्ग्रह इति अष्टोदरीये, चरकोक्तत्वादस्य वाक्यस्य| मिथ्याचारेण असम्यगाहाराचारेण, चरतेर्गतिभक्षणार्थत्वात्| प्रदुष्टेनार्तवेनेति वातादिदुष्टरजसेत्यर्थः| तेन, वन्ध्यादिष्वार्तवदुष्टिरपि कारणं भवति| बीजदोषान्मातापित्रोरारम्भकबीजदोषात्| दैवात् प्राक्तनाधर्मकारणात्; दैवस्य सर्वत्र कारणत्वे सिद्धेऽत्र विशेषेण कारणत्वमुक्तम्||१||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
योनिप्रवृत्तत्वादसृग्दरस्यानन्तरं योनिव्यापन्निदानमाह– विंशतिरित्यादि| व्यापदो रोगाः| रोगसङ्ग्रह इति अष्टोदरीये, चरकोक्तेः| मिथ्याचारतः असम्यगाहाराचारतः| प्रदुष्टेनार्तवेनेति कुपितवातादिदुष्टेनार्तवेन, बन्ध्यासु आर्तवदुष्टिरपि कारणं भवति| बीजदोषादित्यादि गर्भारम्भकबीजगतार्तवदोषात्| दैवादित्यादि दैवं सर्वत्र साधारणं विशिष्टदृष्टकारणादर्शने सति कार्यदर्शनादुन्नेयम्||१||–