अथासृग्दरनिदानम् | विरुद्धमद्याध्यशनादजीर्णाद्गर्भप्रपातादतिमैथुनाच्च | यानाध्वशोकादतिकर्षणाच्च भाराभिघाताच्छयनाद्दिवा च | तं श्लेष्मपित्तानिलसन्निपातैश्चतुष्प्रकारं प्रदरं वदन्ति ||१||
🔊 Audio coming soon
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
स्त्रीपुंसां साधारणान् विकारानभिधाय पुम्प्रतिनियतस्योपदंशादेरुक्तत्वात् स्त्रीनियतरोगाभिधानम्| तत्र च योनिव्यापत्तिविशेषेऽप्यार्तवप्रवृत्तिसद्भावात् प्रथमं दुष्टार्तवप्रवृत्तिस्वरूपं प्रदरमाह– विरुद्धेत्यादि| विरुद्धमद्यं दुष्टमद्यम्; अथवा विरुद्धं संयोगादिविरुद्धं, मद्यं च स्वरूपतः| अजीर्णादपक्वभोजनात्| अतिकर्षणात् लङ्घनाद्यतियोगेन क्षीणधातुत्वात्| तं श्लेष्मपित्तानिलसन्निपातैरित्यत्र श्लेष्मणोऽग्रेऽभिधानं श्लेष्मजेऽपि वेदनासूचनार्थम्||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अथ प्रदरनिदानारम्भः| तस्य निदानमाह– विरुद्धेत्यादि| विरुद्धमद्यं व्यापन्नं मद्यं, किंवा विरुद्धं क्षीरमत्स्यादि मद्यं च| तस्य सङ्ख्यासम्प्राप्तिमाह– तमित्यादि| वृद्धाः वृद्धवैद्याः||१||