Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

3. atīsāranidānam

Adhikarana atisAranidAnam (1-3) · Śloka 3

अथातीसारनिदानम् | गुर्वतिस्निग्धरूक्षोष्णद्रवस्थूलातिशीतलैः | विरुद्धाध्यशनाजीर्णैर्विषमैश्चापि भोजनैः ||१|| स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः | शोकाद्दुष्टाम्बुमद्यातिपानैः सात्म्यर्तुपर्ययैः ||२|| जलाभिरमणैर्वेगविघातैः क्रिमिदोषतः | नृणां भवत्यतीसारो लक्ष्णं तस्य वक्ष्यते ||३|| (सु. उ. तं. अ. ४०) |

🔊 Audio coming soon

पित्तज्वरेऽतीसारपाठाज्ज्वरातीसारयोरन्योन्योपद्रवत्वाच्च ज्वरानन्तरमतीसारमाह गुर्वतिस्निग्धेत्यादि| गुरुशब्देन मात्रागुरुर्गृह्यते, यथाऽतिमात्रोपयुक्तो रक्तशाल्यादिः; तथा स्वभावगुरु च माषादि; अथवा गुणतः पाकतश्च| अतिशब्दः स्थूलान्तैः सह सम्बध्यते| स्थूलं संहतावयवं, यथा– लड्डुकपिष्टकादि| शीतलं स्पर्शाद्वीर्याच्च| विरुद्धमिति संयोगदेशकालमात्रादिभिर्विरुद्धं, यथा– क्षीरमत्स्यादि; तच्च बहुप्रकारं सुश्रुते हिताहितीयेऽध्याये (सु. सू. अ. २०), चरके चात्रेयभद्रकाप्यीयाध्याये (च. सू. अ. २६) द्रष्टव्यम्| अध्यशनं पूर्वदिनाहाराजीर्णे भोजनम्| उक्तं हि चरके– “भुक्तं पूर्वान्नशेषे तु पुनरध्यशनं मतम्|” (च. चि. अ. १५) इति; एवं सर्वत्र| अजीर्णम् अपक्वमन्नम्| विषमम् अकालादिभोजनादि| उक्तं हि सुश्रुते– “बहुस्तोकमकाले वा तज्ज्ञेयं विषमाशनम्|” (सु. सू. अ. ४६) इति| एवं सर्वत्र| ‘विषमैः’ इत्यत्र स्थाने ‘असात्म्यैः’ इति पाठान्तरम्| भोजनैरिति विरुद्धादिभिः सर्वैः सम्बध्यते| स्नेहाद्यैरिति स्नेहः स्नेहपानं, स्नेह आद्यो येषां ते स्नेहाद्याः स्वेदवमनविरेचनानुवासननिरूहाः, तैरतियुक्तैरिति अतियोगयुक्तैः| एतच्च यथायोग्यं बोध्यं, वमनातियोगस्यातिसारकारणत्वायोगात्| मिथ्यायुक्तैरिति हीनयोगयुक्तैः, वमनादिकर्मणां मिथ्यायोगाभावात्, हीनयोगात्तु ते दोषानुत्क्लेश्यातीसाराय स्युः| ननु, कदाचिद्वमनं प्रयुक्तं विरेकं करोति, विरेकश्च वमनमिति दर्शनात्तेषां मिथ्यायोगः सम्भवत्येव| न, सोऽप्ययोग एवेति सिद्धान्तः| यदुक्तं चरके– “योगः सम्यक् प्रवृत्तिः स्यादतियोगोऽतिवर्तनम्| अयोगः प्रातिलोम्येन न चाल्पं वा प्रवर्तनम्||” (च. सि. अ. ६) इति| विषमत्र स्थावरमुच्यते, अधोगत्वात्; कार्तिकस्त्वाह– विषं दूषीविषं, तल्लक्षणेष्वतीसारपाठात्| दुष्टाम्बुमद्यातिपानैरिति दुष्टं व्यापन्नं, दुष्टयोरम्बुमद्ययोः पानात्, अदुष्टयोरप्यतिपानात्| यथा चरकः– “दुष्टमद्यपानीयातिपानात्” (च. चि. अ. १९) इति| सात्म्यर्तुपर्ययैरिति सात्म्यविपर्ययैरृतुविपर्ययैश्च, सात्म्यविपर्ययोऽसात्म्यम्| नच पूर्वोक्तेन ‘असात्म्यैः’ इत्यनेन पौनरुक्त्यम्; उक्तं हि चरके आत्रेयभद्रकाप्यीये– “ द्विविधं हि सात्म्यं प्रकृतिसात्म्यमभ्याससात्म्यं च|” (च. सू. अ. २६) इति; आहाराचारभेदादन्नपानभेदाद्वा न पौनरुक्त्यमित्यन्ये| जलाभिरमरणैरिति जलक्रीडादिभिः| वेगविघातैरिति मूत्रपुरीषादीनाम् क्रिमिदोषत इति क्रिमिभिः पक्वामाशयदूषणात्, क्रिमिजनितवातादिकोपाद्वा| एतानि च निदानानि यथासम्भवं वातादीनां बोद्धव्यानि, दोषव्याधिहेतुत्वख्यापनार्थं पठितानि एवमन्यत्रापि निदानविशेषपाठे प्रायो द्रष्टव्यमिति||१-३||

Adhikarana atisArasamprAptiH bhedAshca (4) · Śloka 4

संशम्यापान्धातुरग्निं प्रवृद्धः शकृन्मिश्रो वायुनाऽधः प्रणुन्नः | सरत्यतीवातिसारं तमाहुर्व्याधिं घोरं षड्विधं तं वदन्ति | एकैकशः सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः ||४|| (सु. उ. तं. अ. ४०) |

🔊 Audio coming soon

सर्वातीसारसाधारणीं सम्प्राप्तिमाह– संशम्येत्यादि| संशम्य शमयित्वा; अत्र अन्तर्भावितो ण्यर्थं इति गदाधरः, अग्निं मन्दीकृत्येत्यर्थः| प्रवृद्धः प्रदुष्टः| अपां धातुरित्यनेनासमासकरणेन रसजलमूत्रस्वेदमेदः कफ पित्तरक्तादयो ग्राह्याः| चरकेऽप्युक्तम्– “शोणितादीन् धातून् दूषयन्ति” (च. चि. अ. १९) इति| अधः प्रणुन्नः प्रेरितः, सरति गच्छत्यतीवेत्यनेन निरुक्तिमुक्तवान्; गुदेन बहुद्रवसरणमतिसार इत्यर्थः| निरुक्तिरपि लक्षणं भवति; एतेनाधोद्रवसरणत्वाविशेषेऽपि ग्रहण्यादीनां व्यवच्छेदः; वातातीसारे त्वल्पत्वं कफपित्तातीसारापेक्षया, नतु ग्रहण्यपेक्षया इति| उक्तषड्विधत्वं विभजते– एकैकश इत्यादि| ननु चरकदौ दोषैरेकैकशस्त्रयः, सन्निपातेनैकः, भयशोकजौ द्वौ, एवं षड्विधः, अत्र त्वन्यथेति कोऽभिप्रायः? उच्यते– चरके भयशोकजौ लक्षणसञ्ज्ञाकार्यभेदाद्भिन्नावुक्तौ, आमजस्त्वन्नाजीर्णकुपितत्रिदोषजत्वेन सन्निपातेनावरुद्ध इति न सङ्ख्यातिरेकः, सुश्रुते तु हेतुप्रत्यनीकचिकित्सार्थं शोकजामजौ पठितौ वातजत्वसन्निपातजत्वाभेदेऽपि, यथा वातादिजत्वाभेदेऽपि मृत्तिकाजः पाण्डुरोग इति; एवं भयशोकजावपि चरके हेतुप्रत्यनीकचिकित्सार्थं पठितौ, सुश्रुते भयजः केवलवातिकेऽवरुद्धः मानसत्वाविशेषाद्वा शोकजेऽवरुद्ध इति जेज्जटः| ननु, षष्ठ आमेन चोक्त इति पृथक्करणमसङ्गतं; यतः सर्वेषामेवातीसाराणां प्रागवस्था आमशब्दवाच्या, जीर्णावस्था पक्वशब्दवाच्या; अत एव सर्वातीसारगोचरमुदाहरन्ति– “आमपक्वक्रमं हित्वा नातिसारे क्रिया हिता| अतः सर्वातिसारेषु ज्ञेयं पक्वामलक्षणम्||” (सु. उ. तं. अ. ४०) इति| नैवम्, आमेनैवारभ्यत इति आमजः, दोषास्तु संसर्गिणः प्रेरयितारश्च, न त्वारम्भकाः| आमश्च दुष्टान्नकार्यो दोषधातुमलव्यतिरिक्तो वातादिसंसृष्टो वातादिप्रेरितो वा रक्तादिवद्व्याध्यारम्भक इति| द्वन्द्वजास्त्वतीसाराः प्रकृतिसमसमवायारब्धत्वात् पृथग्गणिता; विकृतिविषमसमवायारब्धास्तु न भवन्त्येव, व्याधिस्वभावात्| शैली चेयमाचार्याणां प्रायः प्रकृतिसमसमवायारब्धान् द्वन्द्वान् सन्निपातांश्च न गणयन्ति, विकृतिविषमसमवायारब्धं चावश्यं लिखन्ति| यथा चरके– “पञ्च गुल्मा” (च. सू. अ. १९) इत्यभिधाय, “संसृष्टरूपानपरांस्तु गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम्|” (च. चि. अ. ५) इत्युक्तं, तथा सुश्रुते– ‘षडर्शांसि’ इत्यभिधाय, “अर्शःसु दृश्यते रूपं यदा वै दोषयोर्द्वयोः| संसर्गं तं विजानीयात् संसर्गः षड्विधश्च सः||” (सु. नि. अ. २) इत्युक्तम्||४||

Adhikarana atisArapUrvarUpam (5) · Śloka 5

हृन्नाभिपायूदरकुक्षितोदगात्रावसादानिलसन्निरोधाः | विट्सङ्ग आध्मानमथाविपाका भविष्यतस्तस्य पुरःसराणि ||५|| (सु. उ. तं. अ. ४०) |

🔊 Audio coming soon

सर्वातीसारपूर्वरूपमाह– हृन्नाभीत्यादि| तोदः सर्वैर्हृदादिभिः सम्बध्यते| अत्र कुक्षिशब्द उदरैकदेशवाची, तेन न पौनरुक्त्यम्| अनिलसन्निरोध इति वायोरप्रवृत्तिः| विट्सङ्गः पुरीषाप्रवृत्तिः; एतच्च दोषदूष्यसम्मूर्छनावस्थाप्रतिनियतं पूर्वरूपं, तेन रूपावस्थायां नानुवर्तते, ( यद्यनुवर्तेत तदा तत्र व्याधिरेव नोत्पद्येत,)| विट्सङ्गातिप्रतिषेधात् अविपाकोऽन्नस्य| पुरःसराणि पूर्वरूपाणीति||५||

Adhikarana vAtAtisAralakShaNam (6) · Śloka 6

अरुणं फेनिलं रूक्षमल्पमल्पं मुहुर्मुहुः | शकृदामं सरुक्शब्दं मारुतेनातिसार्यते ||६||

🔊 Audio coming soon

वातिकमाह– अरुणमित्यादि| अरुणमिति वायोररूपस्यापि दोषदूष्यसम्मूर्छनाद्भवति, एवमन्यत्रापि| फेनिलं सफेनं; फेनादिलच्| शकृत् पुरीषम्| सरुक्शब्दमिति सशूलं, सशब्दं चेति||६||

Adhikarana pittAtisAralakShaNam (7) · Śloka 7

पित्तात् पीतं नीलमालोहितं वा तृष्णामूर्छादाहपाकोपपन्नम् |७| (सु. उ. तं. अ. ४०) |

🔊 Audio coming soon

पैत्तिकमाह– पित्तादित्यादि| दाहपाकोपपन्नमिति दाहः सर्वाङ्गे , पाको गुद एव| उक्तं हि तन्त्रान्तरे– “तृष्णादाहस्वेदमूर्छाब्रध्नसन्तापपाकपरीतः||” इति; बुध्नो गुदः| अत्राप्यतिसार्यते शकृदित्यनुवर्तते; एवं श्लैष्मिकेऽपि|७|–

Adhikarana shleShmAtisAralakShaNam (7) · Śloka 7

शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तं विस्रं शीतं हृष्टरोमा मनुष्यः ||७|| (सु. उ. तं. अ. ४०) |

🔊 Audio coming soon

श्लैष्मिकमाह– शुक्लमित्यादि| शुक्लमित्यादिना हृष्टरोमा इत्यन्तेन श्लैष्मिकः| विस्रमामगन्धि||७||

Adhikarana tridoShajAtisAralakShaNam (8) · Śloka 8

वराहस्नेहमांसाम्बुसदृशं सर्वरूपिणम् | कृच्छ्रसाध्यमतीसारं विद्याद्दोषत्रयोद्भवम् ||८||

🔊 Audio coming soon

सान्निपातिकमाह– वराहेत्यादि| वराहस्नेहः शूकरस्य मेदो मज्जा वा, मांसाम्बु मांसप्रक्षालनोदकं, तैः सदृशम्| सर्वरूपिणमिति उक्तवाताद्यतीसारत्रयलक्षणयुक्तम्| एवंविधमतीसारं दोषत्रयोद्भवं विद्यात्; तं च कृच्छ्रसाध्यं, त्रिदोषजत्वादेव||८||

Adhikarana shokAtisAralakShaNam (9-10) · Śloka 10

तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पोष्मा वै वह्निमाविश्य जन्तोः | कोष्ठं गत्वा क्षोभयेत्तस्य रक्तं तच्चाधस्तात् काकणन्तीप्रकाशम् ||९|| निर्गच्छेद्वै विड्विमिश्रं ह्यविड्वा निर्गन्धं वा गन्धवद्वाऽतिसारः | शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः ||१०|| (सु. उ. तं. अ. ४०) |

🔊 Audio coming soon

शोकजमाह– तैस्तैरित्यादि| तैस्तैर्भावैर्धनबन्धुनाशादिभिः| शोचतः शोकं कुर्वतः| अल्पाशनस्य शोकादेवाल्पं भुञ्जानस्य; एतेन धातुक्षयोऽप्यस्य स्यादित्युक्तम्| बाष्पोऽत्युद्गतनेत्रनासागलादिगतं जलं, तत्सहित ऊष्मा शोकजं देहतेजो बाष्पोष्मा; स कोष्ठं गत्वा, वह्निमाविश्य व्याकुलीकृत्य, क्षोभयेत्तस्य रक्तम् ऊष्मत्वद्रवत्वाभ्यां समानगुणत्वात्; तच्च रक्तं काकणन्तीप्रकाशं गुञ्जाफलसङ्काशम्, अधस्तान्निर्गच्छेत्| ‘पक्तिमाविश्य’ इति पाठान्तरे स एवार्थः| गदाधरस्तु वह्निशब्देन पित्तमाह| तच्च रक्तं विड्विमिश्रं निर्गच्छेत्; अविड्वा अल्पविट्, अल्पाशनत्वात्| निर्गन्धं गन्धवद्वेति विकपः अविट्सविड्भ्यामिति कार्तिकः; अन्ये तु पित्तस्य पूतित्वात् प्रबलगन्धवत्, तस्य नातिदुष्ट्या निर्गन्धत्वमिति; गन्धश्च विस्रमित्याहुः| क्षोभयेत्तस्य रक्तमित्यत्र ‘शोषयेत्तस्य भुक्तम्’ इति पाठान्तरमयुक्तं, काकणन्तीप्रकाशस्य हेत्वन्तराभावात्; तस्मादाद्य एव पाठो ज्यायान्, व्याख्यातश्च जेज्जटादिभिः सर्वैरेवायं वातपित्तज उक्तः| दुश्चिकित्स्योऽतिमात्रमिति शोकापनोदं विना केवलेन भेषजेनानुपशमात्| अत एवाह– कष्ट एष प्रदिष्ट इति| वैद्यैर्ब्रह्मादिभिः| गदाधरस्त्वाह– ‘एष’ इत्यनेनैवंसम्प्राप्तिक एव कष्टो न त्वन्यः शोकज इति||९-१०||

Adhikarana AmAtisAralakShaNam (11) · Śloka 11

अन्नाजीर्णात् प्रद्रुताः क्षोभयन्तः कोष्ठं दोषा धातुसङ्घान्मलांश्च | नानावर्णं नैकशः सारयन्ति शूलोपेतं षष्ठमेनं वदन्ति ||११|| (सु. उ. तं. अ. ४०) |

🔊 Audio coming soon

आमातीसारमाह– अन्नाजीर्णादित्यादि| अन्नं च तदजीर्णं चेति अन्नाजीर्णम्| अत एवाह क्षारपाणिः– ‘यथाभुक्तमशनमुपविशन्ति’ इति| प्रद्रुता विमार्गगाः| क्षोभयन्तो दूषयन्तः| धातुसङ्घान् रक्तादीन्| मलान् पुरीषादीन्| नैकशो बहुशः||११||

Adhikarana malasyAmalakShaNaM pakvalakShaNaM ca (12-13) · Śloka 13

संसृष्टमेभिर्दोषैस्तु न्यस्तमप्स्ववसीदति | पुरीषं भृशदुर्गन्धि पिच्छिलं चामसञ्ज्ञितम् ||१२|| एतान्येव तु लिङ्गानि विपरीतानि यस्य वै | लाघवं च विशेषेण तस्य पक्वं विनिर्दिशेत् ||१३|| (सु. उ. तं. अ. ४०) |

🔊 Audio coming soon

सर्वातीसाराणां चिकित्सोपयोगित्वेनामलक्षणं पक्वलक्षणं चाह– संसृष्टमित्यादि| संसृष्टं सम्बद्धम्, एभिर्दोषैर्दुष्टिभिरुक्तवाताद्यतीसारलिङ्गैः| दुष्टयश्चात्र यथासम्भवं व्यस्ताः समस्ताश्च बोद्धव्याः; तेन सर्वातिसाराणां न सान्निपातिकत्वप्रसङ्गः| न्यस्तमप्सु जले क्षिप्तम्; अवसीदति निमज्जति, आमस्य गौरवात्| भृशशब्दः पिच्छिलेनापि सम्बध्यते| दुर्गन्धि विस्रम्| पिच्छिलमामसम्बन्धात्| एतानीति जलनिमज्जनादीनि| लाघवं कोष्ठस्य शरीरस्य च, चकारेण कफशैत्यदुष्ट्यादिकं विनाऽप्यम्बुनिमज्जनं लक्षणमिति समुच्चीयते| यदुक्तम्– “मज्जत्यामा गुरुवाद्विट् पक्वा तूत्प्लवते जले| विनाऽतिद्रवसङ्घातश्लेष्मशैत्यप्रदूषणात्||” इति| अथवा आमलिङ्गवैपरीत्येनैव लाघवे सिद्धे पुनर्लाघवकरणं तत् कफदुष्ट्यादिव्यतिरेकं बोधयतीति||१२-१३||

Adhikarana atisArasyAsAdhyalakShaNAni (14-19) · Śloka 19

पक्वजाम्बवसङ्काशं यकृत्खण्डनिभं तनु | घृततैलवसामज्जवेशवारपयोदधि ||१४|| मांसधावनतोयाभं कृष्णं नीलारुणप्रभम् | मेचकं स्निग्धकर्बूरं चन्द्रकोपगतं घनम् ||१५|| कुणपं मस्तुलुङ्गाभं सुगन्धि कुथितं बहु | तृष्णादाहतमःश्वासहिक्कापार्श्वास्थिशूलिनम् ||१६|| सम्मूर्छारतिसम्मोहयुक्तं पक्ववलीगुदम् | प्रलापयुक्तं च भिषग्वर्जयेदतिसारिणम् ||१७|| असंवृतगुदं क्षीणं दूराध्मातमुपद्रुतम् | गुदे पक्वे गतोष्माणमतिसारकिणं त्यजेत् ||१८|| (सु. उ. तं. अ. ४०) | श्वासशूलपिपासार्तं क्षीणं ज्वरनिपीडितम् | विशेषेण नरं वृद्धमतीसारो विनाशयेत् ||१९|| (सु. सू. अ. ३३) | ( शोथं शूलं ज्वरं तृष्णां कासं श्वासमरोचकम् | छर्दिं मूर्छां च हिक्कां च दृष्टावातीसारिणं त्यजेत्) |

🔊 Audio coming soon

असाध्यलक्षणान्याह– पक्वेत्यादि| पक्वजाम्बवसङ्काशं पक्वजम्बूफलसदृशवर्णं स्निग्धकृष्णमित्यर्थः| यकृत्खण्डनिभं कृष्णलोहितम्| तनु स्वच्छम्| घृतादीनां मांसधावनतोयान्तानामिवाभाः प्रतिभासो यस्य तत्तथा| वेशवारो “निरस्थिपिशितं पिष्टं दधिक्षारसमन्वितम्|| एलामरिचसंयुक्तं वेशवार इति स्मृतम्||” इत्यादिपरिभाषितमांसप्रकारः| कृष्णमञ्जनप्रख्यम्| एतच्च कृष्णत्वादिकं पित्तातिसारवर्ज्यं बोद्धव्यं, तत्र रूपत्वेन पठितत्वात्| नीलारुणं चाषपक्षवर्णम्| मेचकं मर्दनाञ्जनपिण्डवदीषत्कृष्णरूक्षम्| कर्बूरं नानावर्णं, तच्च स्निग्धं स्नेहद्रवधातुयोगात्| चन्द्रकोपगतं मयूरपिच्छचन्द्रकैरिव धातुस्नेहैरुपगतम्| उक्तं हि करवीराचार्येण– “चन्द्रकैः शिखिपिच्छाभैर्नीलपीतादिराजिभिः| आवृतं वेशवाराम्बुमज्जक्षीरोपमं त्यजेत्||” इति| तदेव घनं धात्वन्तरव्यामिश्रत्वात्| कुणपं शवदुर्गन्धि| मस्तुलुङ्गाभं मस्तुलुङ्गं मस्तकाभ्यन्तरस्नेहः घृतकेति ख्यातं, तत्सदृशम्| कुथितं पूति| तृष्णेत्यादि|– तृष्णादीनां पार्श्वास्थिशूलान्तानां द्वन्द्वं कृत्वा मत्वर्थीय इनिः, तृष्णादियुक्तमित्यर्थः| अत्र सम्मूर्छा मनोमोहः, सम्मोह इन्द्रियमोहः, इत्यपौनरुक्त्यम्| चकाराच्चरकोक्तः (च. चि. अ. १९) सहसोपरतातीसारश्चासाध्यो बोद्धव्यः| पक्ववलीगुदं पक्वा वलयो गुदे यस्य तं पक्ववलीगुदम्| असंवृतगुदं गुदसंवरणाक्षमम्| तमेव क्षीणं बलोपचयरहितम्| दूराध्मातं भृशमाध्मानयुक्तं, तस्य विरेकसाध्यत्वेनातिसारविरुद्धोपक्रमत्वात्; दुरात्मानमिति पाठान्तरे दुष्टान्तःकरणम्, अजितेन्द्रियमिति जेज्जटः| उपद्रुतमतिसारोपद्रवैः शोथादिभिर्युक्तम्| यदुक्तम्– “शोथं शूलं ज्वरं तृष्णां श्वासं कासमरोचकम्| छर्दिं मूर्छां च हिक्कां च दृष्ट्वाऽतीसारिणं त्यजेत्||” इति गुदे पक्वे गतोष्माणमिति गुदपाकारम्भकपित्ते वर्तमानेऽपि गतोष्माणं शीतगात्रं नष्टाग्निं वा| अतिसारकिणम् अतीसारयुक्तम्| “वातातीसाराभ्यां कुक् च||” (पा. अ. अ. ५ पा. सू. १२९) इति कुक्, चादिनिः| विशेषेणेति वचनाद्बालस्याप्यतिसारोऽसाध्य इति बोधयति| यदाह सुश्रुतश्चिकित्सायाम्– “कृच्छ्रश्चायं बालवृद्धेष्वसाध्यः||” (सु. उ. तं. अ. ४०) इति| एतच्चाबलत्वे सति बोद्धव्यम्||१४-१९||

Adhikarana raktAtisAralakShaNam (20) · Śloka 20

पित्तकृन्ति यदाऽत्यर्थं द्रव्याण्यश्नाति पैत्तिके | तदोपजायतेऽभीक्ष्णं रक्तातीसार उल्बणः ||२०||

🔊 Audio coming soon

ननु, रक्तजोऽप्यतिसारोऽस्ति तस्य सप्तमत्वापत्तेरुक्तं षट्कं विरुध्यते, इत्याशङ्क्य पैत्तिकस्यैवायमवस्थाविशेष इत्याह– पित्तेत्यादि| पैत्तिकेऽतीसारे विद्यमाने भविष्यति वा पित्तकृन्ति पित्तकारकाणि द्रव्याण्यत्यर्थं प्रभूतमभीक्ष्णं निरन्तरमश्नाति तदा रक्तातीसार उल्बणो महानुपजायत इति सम्बन्धः| अत्र चारुणकृष्णपाण्डुत्वादिना वातादयो दूषका बोद्धव्याः| यदुक्तम्– “दोषलिङ्गेन मतिमान् संसर्गं तत्र लक्षयेत्||” इति| एवं स्नेहाजीर्णविसूचिकाविषार्शःक्रिमिप्रभृतिजन्येष्वतीसारेषु षट्कातिरिक्तत्वं प्रतिक्षिप्तं बोद्धव्यम्, अव्यभिचरितदोषलिङ्गत्वादिति जेज्जटः||२०||

Adhikarana pravAhikAsamprAptiH (21) · Śloka 21

वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य | प्रवाहतोऽल्पं बहुशो मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः ||२१|| (सु. उ. तं. अ. ४०) |

🔊 Audio coming soon

अथ द्रवसरणादामपक्वलक्षणयोगात् प्रवाहिकातीसारयोः साधर्म्यम्, अतोऽतीसाराधिकारे प्रवाहिकासम्प्राप्तिमाह– वायुरित्यादि| अतीसारे नानाविधद्रवधातुसरणं, प्रवाहिकायां तु कफमात्रसरणमिति भेदः| निचितं बलासमहिताशनस्य सञ्चितं कफं, मलाक्तं पुरीषसहितं, वायुर्वातः, अधस्तान्नुदति गुदेन पातयति| प्रवाहतः प्रवाहणं कुर्वतः| भोजादौ त्वियं विस्रंसीति नाम्ना पठ्यते, पराशर त्वन्तर्ग्रन्थिरिति, हारीतस्तु निश्चारकाख्यामेतां पठति| यदाह– “प्रवाहिकेति सा ज्ञेया कैश्चिन्निश्चारकस्तु सः|” इति||२१||

Adhikarana vAtajAdibhedena pravAhikAlakShaNAni (22) · Śloka 22

प्रवाहिका वातकृता सशूला पित्तात् सदाहा सकफा कफाच्च | सशोणिता शोणितसम्भवा च ताः स्नेहरूक्षप्रभवा मतास्तु | तासामतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वतां च ||२२|| (सु. उ. तं. अ. ४०) |

🔊 Audio coming soon

तस्या वातादिभेदेन रूपमाह– प्रवाहिकेत्यादि| ननु, वायुः प्रवृद्धो निचितं बलासमित्युक्तं तत् कथं वातकृतेति? उच्यते, आधिक्येन व्यपदेशात्| ननु, तथाऽपि पित्तरक्तसम्भवा कुतः? उच्यते– अहिताशनस्येत्युक्तम्, आहारो हि विरुद्धस्तस्यामवस्थायां पित्तं रक्तं च कोपयति, ते च पश्चाद्वातस्यानुबले स्वलिङ्गं यदा दर्शयतस्तदा ताभ्यां व्यपदेशः| स्नेहरूक्षप्रभवा इति स्नेहप्रभवा कफजा, रूक्षप्रभवा वातजा; तुशब्दाच्च तीक्ष्णोष्णप्रभवा पित्तजा रक्तजा च| लिङ्गं वातादिभेदेन लक्षणम्| क्रममामपक्वभेदेन चिकित्साक्रममिति||२२||

Adhikarana nivRuttAtisAralakShaNam (23) · Śloka 1

यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति | दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः ||२३|| (सु. उ. तं. अ. ४०) | (ज्वरातीसारयोरुक्तं निदानं यत् पृथक् पृथक् | तत्स्याज्ज्वरातिसारस्य तेन नात्रोदितं पुनः) ||१||

🔊 Audio coming soon

वातविष्टम्भादुदावर्ताद्वा मलाप्रवृत्तावतीसारनिवृत्तिरिति शङ्कानिरासार्थमतीसारनिवृत्तिलक्षणमाह– यस्येत्यादि| उच्चारं विना यस्य मूत्रं प्रवर्तते, सम्यगिति सम्यक्प्रवृत्या न हीनयोगेनेत्यर्थः| वायुश्च गच्छति, ‘गुदेन’ इति शेषः| स्थितो निवृत्तिं गतः| उदरामयोऽतीसारः, प्रकरणात्| एतेन सम्प्राप्तिभङ्ग उक्तः| अतीसारे हि सम्प्राप्तिरियम्– यन्मूत्रोचितोऽपि द्रवधातुर्गुदेनैव प्रवर्तते, सर्वस्यैवाब्धातोर्गुदप्रवृत्तत्वात्; यदा तु मूत्रमार्गेण प्रवर्तते, तदाऽपि पुरीषप्रवृत्तिसमकालमिति||२३||

Adhikarana puShpikA · Śloka 3

इति श्रीमाधवकरविरचिते माधवनिदानेऽतीसारनिदानं समाप्तम् ||३||

🔊 Audio coming soon

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायामतीसारनिदानं समाप्तम्||३||