Adhikarana grahaNIsamprAptiH (1) · Śloka 1
अथ ग्रहणीरोगनिदानम् |
अतीसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः |
भूयः सन्दूषितो वह्निर्ग्रहणीमभिदूषयेत् ||१||
(सु. उ. तं. अ. ४०) |
द्रवसरणसाधर्म्यात् परस्परानुबन्धित्वाच्चातीसारानन्तरं ग्रहणी, तस्याः सम्प्राप्तिमाह– अतीसार इत्यादि| अपिशब्दादजातातिसारस्यापि स्वहेतोर्ग्रहणीरोगः स्यादिति बोधयति| अन्ये अपिशब्दादनिवृत्तेऽप्यतीसार इति व्याचक्षते| मन्दाग्नेरित्यनेन दीप्ताग्नेरहिताशनमपि न विकारकारीति बोधयति| उक्तं हि सुश्रुते– “दीप्ताग्नेर्विरुद्धं वितथं भवेत्|” (सु. सू. अ. २०) इति| भूय इति पुनरत्यर्थं वा, सन्दूषितः पूर्वमतीसारेऽपि दूषितत्वात्, अभिदूषयेत् समन्ताद्दूषयेत्| एतेन निवृत्तातीसारेणाहिताहारपरिहारः करणीयः, आवह्निबललाभादित्युक्तं भवति| अत एवाह सुश्रुतः– “तस्मात् कार्यः परीहारस्त्वतीसारे विरिक्तवत्| यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा||” (सु. उ. तं. अ. ४०) इति||१||
Adhikarana grahaNIsAmAnyalakShaNam (2-3) · Śloka 3
एकैकशः सर्वशश्च दोषैरत्यर्थमूर्छितैः |
सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति ||२||
पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्रवम् |
ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः ||३||
(सु. उ. तं. अ. ४०) |
तस्याः सम्प्राप्तिपूर्वकं सामान्यलक्षणमाह– एकैकश इत्यादि| मूर्छितैरतिवृद्धैः, ‘मूर्छा मोहसमुच्छ्राययोः’ इति धात्वर्थात्| ‘उच्छ्रितैः’ इति पाठान्तरे स एवार्थः| सा ग्रहणी दोषैर्दुष्टा सती भुक्तमाहारमाममपक्वमेव पक्वं वा विमुञ्चति| वाशब्दश्चार्थे, एवकारः समुच्चीयमानावधारणे, यथा– “नरं च नारायणमेव चोभौ स्वतः सुतौ सञ्जनयाम्बभूवतुः|” इति| अथवा एवकारो एव विकल्पार्थः, निपातानामनेकार्थत्वादिति| सरुजं सशूलं, पूति दुर्गन्धि| वातेन मुहुर्बद्धं, पित्तेन मुहुर्द्रवम्| ग्रहणीरोगमिति ग्रहण्या रोगो ग्रहणीरोगः| ग्रहणी चाग्न्यधिष्ठानं नाडी| यदाह चरकः– “अग्न्यधिष्ठानमन्नस्य ग्रहणात् ग्रहणी मता| नाभेरुपरि सा ह्यग्निबलोपस्तम्भबृंहिता|| अपक्वं धारयत्यन्नं पक्वं सृजति चाप्यधः|” (च. चि. अ. १५) इति| सुश्रुतेऽप्येतदुक्तम्– “षष्ठी पित्तधरा नाम या कला परिकीर्तिता| पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्तिता||” (सु. उ. तं. अ. ४०) इति| कला धात्वाशयान्तरमर्यादा, पक्वामाशयमध्यस्था पच्यमानाशयरूपेत्यर्थः||२-३||
Adhikarana grahaNIpUrvarUpam (4) · Śloka 4
पूर्वरूपं तु तस्येदं तृष्णाऽऽलस्यं बलक्षयः |
विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम् ||४||
(च. चि. अ. १५) |
पूर्वरूपमाह– पूर्वरूपमित्यादि| तृष्णा पिपासा| विदाहोऽन्नस्य अग्निमान्द्येनाहारस्य विदग्धत्वम्, अत एव चिरात् पाकश्चान्नस्यैव| कायस्य गौरवं सामत्वादिति||४||
Adhikarana vAtikagrahaNyA nidAnAdipUrvakaM lakShaNam (5-10) · Śloka 10
कटुतिक्तकषायातिरूक्षसन्दुष्टभोजनः |
प्रमितानशनात्यध्ववेगनिग्रहमैथुनैः ||५||
मारुतः कुपितो वह्निं सञ्छाद्य कुरुते गदान् |
तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता ||६||
कण्ठास्यशोषोऽक्षुत्तृष्णा तिमिरं कर्णयोः स्वनः |
पार्श्वोरुवङ्क्षणग्रीवारुगभीक्ष्णं विसूचिका ||७||
हृत्पीडाकार्श्यदौर्बल्यं वैरस्यं परिकर्तिका |
गृद्धिः सर्वरसानां च मनसः सदनं तथा ||८||
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च |
स वातगुल्महृद्रोगप्लीहाशङ्की च मानवः ||९||
चिराद्दुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत् |
पुनः पुनः सृजेद्वर्चः कासश्वासार्दितोऽनिलात् ||१०||
(च. चि. अ. १५) |
वातिकग्रहण्या निदानसम्प्राप्तिपूर्वकं रूपमाह– कटुतिक्तेत्यादि| सन्दुष्टभोजनं संयोगादिविरुद्धभोजनम्| ‘सन्दुष्टभोजनैः’ इत्यत्र ‘शीतादिभोजनैः’ इति पाठान्तरम्| प्रमितमल्पभोजनं; प्रभृतेति पाठान्तरे अतीतकालभोजनं बोद्धव्यम्| अनशनमुपवासः| एतैः कारणैः कुपितो मारुतः, वह्निं सञ्छाद्य सन्दूष्य, गदान् रोगान् करोति| कान् गदान् करोतीत्याह– तस्यान्नमित्यादि| शुक्तपाकम् अम्लपाकम्, एतच्चाग्निमान्द्यजनितान्नविदाहाद्भवति| खराङ्गता कर्कशशरीरत्वं, वातेन त्वग्गतस्नेहशोषात्| तिमिरं मन्ददृष्टिता| रुक् पीडा, सा च पार्श्वादिभिः सम्बध्यते| विसूचिका ऊर्ध्वमधश्चामान्नप्रवृत्तिः| वैरस्यं विरुद्धरसास्यता| परिकर्तिका गुदे कर्तनवत्पीडा| गृद्धिः काङ्क्षा, सर्वरसानां मधुरादीनां, कर्मणि षष्ठी; एतच्च वातदूषितान्तःकरणत्वेन, व्याधिमहिम्ना वा| मनसः सदनमवसादः| आध्मानं जीर्णे जीर्यति च ‘अन्ने’ इति शेषः| स वातगुल्महृद्रोगप्लीहाशङ्कीति वातगुल्मादिवत्पीडायुक्तत्वात्तच्छङ्की| द्रवं शुष्कं कदाचित् द्रवं, कदाचित् शुष्कम्| तनु अल्पमिति||५-१०||
Adhikarana paittikagrahaNyA nidAnAdipUrvakaM lakShaNam (11-12) · Śloka 12
कट्वजीर्णविदाह्यम्लक्षाराद्यैः पित्तमुल्बणम् |
आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम् ||११||
सोऽजीर्णं नीलपीताभं पीताभः सार्यते द्रवम् |
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः ||१२||
(च. चि. अ. १५) |
पैत्तिकग्रहण्या निदानसम्प्राप्तिपूर्वकं रूपमाह– कट्वित्यादि| विदाहि विदाहजनकं वंशकरीरादि| क्षारोऽपामार्गादिकृतः, तथा क्षारो यवक्षारादिः, तथा सक्षारं च द्रव्यं; क्षारोदकसाधितं हि व्यञ्जनमश्नन्ति कामरूपादौ| आद्यग्रहणाल्लवणतीक्ष्णोष्णानां ग्रहणं, तैर्वृद्धं पित्तमनलम् आप्लावयत् अभिभवत् तं हन्ति| ननु, पित्तमाग्नेयमग्निरेव वा, ततश्च वृद्धिमेवाप्नोति, कथं हन्त्यत आह– जलं तप्तमिवानलमिति| यथा उष्णगुणयुक्तमपि जलमनलं हन्ति, तथा द्रवांशेन परिवृद्धं पित्तमूष्मरूपमग्निं हन्त्येवेति| स पीताभः पुरुषः सार्यते, ‘वर्चः’ इत्यनुवर्तते||११-१२||
Adhikarana shlaiShmikagrahaNyA nidAnAdipUrvakaM lakShaNam (13-16) · Śloka 16
गुर्वतिस्निग्धशीतादिभोजनदतिभोजनत् |
भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितः कफः ||१३||
तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः |
आस्योपदेहमाधुर्यं कासष्ठीवनपीनसाः ||१४||
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरुः |
दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम् ||१५||
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम् |
अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके ||१६||
(च. चि. अ. १५) |
श्लैष्मिकग्रहण्या निदानादिपूर्वकं रूपमाह– गुर्वित्यादि| आदिशब्दात् पिच्छिलमधुरादीनां च ग्रहणम्| अतिभोजनादतिमात्रभोजनात्| ननु, भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निमिति विरुद्धं? स्वप्नोऽत्र दिवास्वप्नो ग्राह्यः, रात्रिस्वापस्य स्वास्थ्यहेतुत्वात्; दिवास्वापश्च स्रोतःसम्मीलनेन जठरानलं सन्धुक्षयति, अत एवाह– “अतीसारिणामजीर्णिनां च दिवास्वापो विहितः|” इति| उच्यते– भुक्तवतां दिवास्वापोऽत्यन्तकफवृद्ध्याऽग्निं हन्ति, अभुक्तवतां तु सन्धुक्षयति| यदुक्तम्– “नरान्निरशनान् कामं दिवा स्वापयेत्” इति| आस्योपदेहमाधुर्यमिति मुखस्य लिप्तत्वं मधुरत्वं च श्लेष्मणैव| स्त्यानं घनद्रवापूरितमिव| स्तिमितं विबद्धं उदरमिति, निश्चलमित्यर्थः; स्तिमितं, स्तब्धं वा| गुरु जडम्| दुष्टो विकृतः| मधुरः मधुरत्वेनोपलक्षित उद्गारः| सदनमग्निसादः| स्त्रीष्वहर्षणं स्त्रीरिरंसाया अभावः| भिन्नं च तदामश्लेष्मभ्यां संसृष्टं चेति समासार्थः| दौर्बल्यम् असामर्थ्यमिति||१३-१६||
Adhikarana tridoShaja-sa~ggraha-ghaTIyantrAkhyagrahaNIlakShaNam (17) · Śloka 4
पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे |
त्रिदोषं निर्दिशेदेवं, तेषां वक्ष्यामि भेषजम् ||१७||
(च. चि. अ. १५) |
(अन्त्रकूजनमालस्यं दौर्बल्यं सदनं तथा |
द्रवं शीतं घनं स्निग्धं सकटीवेदनं शकृत् |१|
आमं बहु सपैच्छिल्यं सशब्दं मन्दवेदनम् |
पक्षान्मासाद्दशाहाद्वा नित्यं वाऽप्यथ मुञ्चति ||२||
दिवा प्रकोपो भवति रात्रौ शान्तिं व्रजेच्च सा |
दुर्विज्ञेया दुश्चिकित्स्या चिरकालानुबन्धिनी ||३||
सा भवेदामवातेन सङ्ग्रहग्रहणी मता |
स्वपतः पार्श्वयोः शूलं गलज्जलघटीध्वनिः |
तं वदन्ति घटीयन्त्रमसाध्यं ग्रहणीगदम्) ||४||
शिष्यहितैषितया प्रकृतिसमसमवेतत्वेन सुगमाया अपि त्रिदोषजग्रहण्या अतिदेशेन लक्षणमाह– पृथगित्यादि| सम्पूर्णश्लोकानुरोधात् ‘तेषां वक्ष्यामि भेषजम्| इति लिखितम्| ग्रहणीदुष्ट्या ग्रहण्याश्रितवह्नेरपि दुष्टेरग्निमान्द्यादयोऽपि ग्रहणीविकारा उच्यन्ते| यदुक्तं चरके– “यश्चाग्निः पूर्वमुद्दिष्टो रोगानीके चतुर्विधः| तं चापि ग्रहणीदोषं समवर्जं प्रचक्ष्महे||” (च. चि. अ. १५) इति| अन्यत्रापि “विभागेऽङ्गस्य चोक्ता ये विषमाद्यास्त्रयोऽग्नयः| तेऽपि र्स्युग्रहणीदोषाः समस्तु स्वास्थ्यकारणम्||” इति||१७||
Adhikarana grahaNyAH sAma-nirAma-asAdhyalakShaNaM, vayo~anurUpaM sAdhyAsAdhyatvaM ca (18-19) · Śloka 1
दोषं सामं निरामं च विद्यादत्रातिसारवत् ||१८||
लिङ्गैरसाध्यो ग्रहणीविकारो यैस्तैरतीसारगदो न सिध्येत् |
वृद्धस्य नूनं ग्रहणीविकारो हत्वा तनूं नैव निवर्तते च ||१९||
(बालके ग्रहणी साध्या यूनि कृच्छ्रा समीरिता |
वृद्धे त्वसाध्या विज्ञेया मतं धन्वन्तरेरिदम्) ||१||
यथाऽतीसारे जलनिमज्जनादिना आमं, तद्विपरीतेन निरामं ज्ञायते, तथाऽत्रापि ज्ञेयम्| यैर्लिङ्गैरतीसारगदो न सिध्येत्तैर्लिङ्गैर्ग्रहणीविकारोऽसाध्यः, अतीसारस्य यान्यसाध्यलिङ्गानि ग्रहण्या अपि तानि||१८-१९||
Adhikarana puShpikA · Śloka 4
इति श्रीमाधवकरविरचिते माधवनिदाने ग्रहणीरोगनिदानं समाप्तम् ||४||
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां ग्रहणीरोगनिदानं समाप्तम्||४||