Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

46. bhagandaranidānam

Adhikarana bhagandarapUrvarUpapiDakAlakShaNam (1) · Śloka 1

अथ भगन्दरनिदानम् | गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पिडकाऽऽर्तिकृत् | भिन्ना भगन्दरो ज्ञेयः स च पञ्चविधो मतः ||१||

🔊 Audio coming soon

नाडीविशेषत्वात् सङ्ख्यासाम्याच्च भगन्दरनिदानम्| भगन्दरपूर्वरूपपिडकामाह– गुदस्येत्यादि| क्षेत्रे देशे| “सैव भिन्ना भगन्दरः|” निरुक्तिरस्य सुश्रुतेन कृता| तद्यथा– “गुदभगबस्तिप्रदेशदारणात् भगन्दराः|” (सु. नि. अ. ४) इति| भगशब्दो गुदाद्युपलक्षणम्| भोजेऽप्युक्तम्– “भगं परिसमन्ताच्च गुदं बस्तिं तथैव च| भगवद्दारयेद्यस्मात्तस्माज्ज्ञेयो भगन्दरः||” इति| पूर्वरूपं त्वस्य सुश्रुते पठ्यते; यथा– “कटीकपालवेदना गुदकण्डुर्दाहः शोथश्च गुदस्य भवति|” (सु. नि. अ. ४) इति| एतत् सामान्यं पूर्वरूपम्| कटीकपालमत्र कटीफलकम्| पञ्चविध इति सङ्ख्याकथनं रक्तजद्वन्द्वजभगन्दरसम्भावनानिरासार्थम्||१||

Adhikarana vAtika(shataponaka)bhagandarasya nidAnasamprAptipUrvakaM lakShaNam (2) · Śloka 3

कषायरूक्षैस्त्वतिकोपितोऽनिलस्त्वपानदेशे पिडकां करोति याम् | उपेक्षणात्पाकमुपैति दारुणं रुजा च भिन्नाऽरुणफेनवाहिनी ||२|| तत्रागमो मूत्रपुरीषरेतसां व्रणैरनेकैः शतपोनकं वदेत् |३|

🔊 Audio coming soon

शतपोनकमाह– कषायेत्यादि| अपानदेश इति गुददेशे| उपेक्षणादिति विम्लापनाद्यकरणात्| रुजा च भिन्नेति रुजा रुजान्विता, अर्शआदेराकृतिगणत्वादच्, भिन्ना विदीर्णा| व्रणैरनेकैः शतपोनकं वदेदिति शतपोनकतुल्यत्वात् शतपोनकः; शतपोनकश्चालनिका, सहस्रधारा इत्यन्ये; किंवा शतपोनकः शूकदोषे पठितो विकारः ‘छिद्रैरणुमुखैः’ इत्यादिना, किन्तु यदि शूकदोषपठितशतपोनकतुल्यत्वमस्य तदा छिद्रैरणुमुखैरित्यादिनिमित्तस्योभयत्र पठितत्वात् किं तत्सादृश्यप्रवृत्तेयं सञ्ज्ञा, सा वा एतत्सादृश्यप्रवृत्तेति दुर्विज्ञानात्तत्रापि चालनिकातुल्यत्वमेव प्रवृत्तिनिमित्तमिति मन्यमानेन जेज्जटेन चालनिकातुल्यत्वमत्र वर्णितम्| शतपोनकवदनेकमुखत्वे वातिकभगन्दरस्वभाव एव हेतुः||२||

Adhikarana paittika(uShTragrIva)bhagandarasya nidAnAdipUrvakaM lakShaNam (3-4) · Śloka 4

प्रकोपणैः पित्तमतिप्रकोपितं करोति रक्तां पिडकां गुदाश्रिताम् ||३|| तदाऽऽशुपाकाऽहिमपूतिवाहिनीं भगन्दरं तूष्ट्रशिरोधरं वदेत् ||४||

🔊 Audio coming soon

उष्ट्रग्रीवलक्षणमाह– प्रकोपणैरित्यादि| तदाशुपाकाहिमपूतिवाहिनीमिति तदेति तत्काले, पित्तजत्वेनाशुपाका च सा अहिमपूतिवाहिनी उष्णपूतिवाहिनी च सा आशुपाकाहिमपूतिवाहिनी ताम्| अत्र पिडकावस्थागतगलवक्रत्वेन उष्ट्रग्रीवाकारत्वं, तेनोष्ट्रग्रीवसञ्ज्ञा||३-४||

Adhikarana shlaiShmika(parisrAvi)bhagandarasya lakShaNam (5) · Śloka 5

कण्डूयनो घनस्रावी कठिनो मन्दवेदनः | श्वेतावभासः कफजः परिस्रावी भगन्दरः ||५||

🔊 Audio coming soon

परिस्राविणमाह– कण्डूयन इत्यादि| परिस्रावी कफजः, स च घनस्रावयोगात् परिस्रावी||५||

Adhikarana sannipAtaja(shambUkAvarta)bhagandaralakShaNam (6) · Śloka 6

बहुवर्णरुजास्रावा पिडका गोस्तनोपमा | शम्बूकावर्तवन्नाडी शम्बूकावर्तको मतः ||६||

🔊 Audio coming soon

सन्निपातजं शम्बूकावर्तमाह– बहुवर्णरुजास्रावेत्यादि| प्रत्येकदोषजभगन्दरपठितवर्णवेदनाः स्रावश्च| शम्बूकावर्तवत् पूर्णनद्याः शम्बूकावर्तवदावर्तनं वेदना दोषगतिविशेषाद्भवतीति शम्बूकावर्तः| तथा च भोजः– “नदीनां परिपूर्णानां शम्बूकावर्तका यथा| समुत्तिष्ठन्ति वेगेन तोयवेगसमीरिताः||” इति||६||

Adhikarana Agantuka(unmArgi)bhagandaralakShaNam (7) · Śloka 7

क्षताद्गतिः पायुगता विवर्धते ह्युपेक्षणात् स्युः क्रिमयो विदार्य ते | प्रकुर्वते मार्गमनेकधा मुखैर्व्रणैस्तदुन्मार्गिभगन्दरं वदेत् ||७||

🔊 Audio coming soon

उन्मार्गिभगन्दरमागन्तुमाह– क्षताद्गतिरित्यादि| क्षतादिति कण्टकादिघातात्| विदार्य त इति ते क्रिमयो विदार्य मार्गं कुर्वत इति योजना| अनेकधा मुखैरनेकमुखैः| अत्रोन्मार्गेण क्रिमिकृतविमार्गेण पुरीषादिगमनादुन्मार्गिसञ्ज्ञा ज्ञेया| तन्त्रान्तरे त्वर्शोभगन्दरः पठितः| तद्यथा– “कफपित्ते तु पूर्वोत्थे दुर्नामाश्रित्य कुप्यतः| अर्शोमूले ततः शोथः कण्डूदाहार्तिमान् भवेत्|| स शीघ्रं पक्वभिन्नोऽस्य क्लेदयन् मूलमर्शसः| स्रवत्यजस्रं गतिभिरयमर्शोभगन्दरः||” इति| अयमन्यतमस्मिन् शतपोनकादीनां दोषलक्षणदर्शनादन्तर्भाव्यः||७||

Adhikarana bhagandarasya sAdhyAsAdhyavicAraH (8) · Śloka 8

घोराः साधयितुं दुःखाः सर्व एव भगन्दराः | तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्च विशेषतः ||८|| (सु. नि. अ. ४) |

🔊 Audio coming soon

प्रतीकारप्रयत्नायाह– घोरा इत्यादि| दुःखा इति दुःखप्रदाः| क्षतजश्च विशेषत इति क्षतजोऽपि विशेषमनेकव्रणयोगं क्रिमिसम्भवादिकं च वीक्ष्यासाध्यः, अत एव चिकित्सिते असाध्यतां प्रतिज्ञाय क्रियां वक्ष्यति| विशेषत इति ल्यब्लोपे पञ्चमी; विशेषतोऽतिशयादसाध्य इत्यर्थः, यापनार्थं क्रियाविधिरिति| क्वचित् “क्षतजश्च भगन्दरः” इति पाठः| क्षतजो विशेषतः साधयितुं घोरः असाध्य एव, स्रावरूपविशेषस्य युक्तत्वादिति गदाधरः||८||

Adhikarana bhagandarasya asAdhyAvasthA (9) · Śloka 9

वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च | भगन्दरात् स्रवन्तस्तु नाशयन्ति तमातुरम् ||९|| (सु. सू. अ. ३३) |

🔊 Audio coming soon

अवस्थायामसाध्यतामाह– वातमूत्रपुरीषाणीत्यादि| भगन्दरात् स्रवन्त इत्यत्र ‘अमी विशेषा’ इति शेषः||९||

Adhikarana puShpikA · Śloka 46

इति श्रीमाधवकरविरचिते माधवनिदाने भगन्दरनिदानं समाप्तम् ||४६||

🔊 Audio coming soon

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां भगन्दरनिदानं समाप्तम्||४६||