अथ भगन्दरनिदानम् | गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पिडकाऽऽर्तिकृत् | भिन्ना भगन्दरो ज्ञेयः स च पञ्चविधो मतः ||१||
🔊 Audio coming soon
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
नाडीविशेषत्वात् सङ्ख्यासाम्याच्च भगन्दरनिदानम्| भगन्दरपूर्वरूपपिडकामाह– गुदस्येत्यादि| क्षेत्रे देशे| “सैव भिन्ना भगन्दरः|” निरुक्तिरस्य सुश्रुतेन कृता| तद्यथा– “गुदभगबस्तिप्रदेशदारणात् भगन्दराः|” (सु. नि. अ. ४) इति| भगशब्दो गुदाद्युपलक्षणम्| भोजेऽप्युक्तम्– “भगं परिसमन्ताच्च गुदं बस्तिं तथैव च| भगवद्दारयेद्यस्मात्तस्माज्ज्ञेयो भगन्दरः||” इति| पूर्वरूपं त्वस्य सुश्रुते पठ्यते; यथा– “कटीकपालवेदना गुदकण्डुर्दाहः शोथश्च गुदस्य भवति|” (सु. नि. अ. ४) इति| एतत् सामान्यं पूर्वरूपम्| कटीकपालमत्र कटीफलकम्| पञ्चविध इति सङ्ख्याकथनं रक्तजद्वन्द्वजभगन्दरसम्भावनानिरासार्थम्||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
नाडीविशेषसङ्ख्यासामान्याद् व्रणवदुपक्रमाद्वाऽतोऽनन्तरं भगन्दरनिदानम्| तस्यावस्थानसंश्रयत्वेन लक्षणमाह– गुदस्येत्यादि| क्षेत्रे देशे, पार्श्वतः समीपतः, पिडका, सैव भिन्ना भगन्दरार्तिकृत्, तस्य च निरुक्तिः सुश्रुतेन कृता– “गुदभगबस्तिप्रदेशदारणाद्भगन्दरः” इति| भगन्दरशब्दे भगशब्दो गुदाद्युपलक्षणः, भोजेऽप्युक्तम्– “भगं परिसमन्ताच्च गुदं बस्ति तथैव च| भगवद्दारयेद्यस्मात्तस्माज्ज्ञेयो भगन्दरः||” इति| पूर्वरूपं त्वस्य सुश्रुते पठितम्, यथा– “कटीकपालवेदना गुदकण्डुर्दाहः शोथश्च गुदस्य भवति” इति| एतत्सामान्यं पूर्वरूपमिति| कटीकपालमत्र कटीफलकम्| स च पञ्चविधः– दोषैस्त्रयः, सन्निपातेनैकः, शल्येन चापरः, एवं पञ्चविधसङ्ख्याकथनं रक्तजद्वन्द्वजभगन्दरसम्भावनानिरासार्थम्||१||