Adhikarana nADIvraNasya samprAptiH (1) · Śloka 1
अथ नाडीव्रणनिदानम् |
यः शोथमाममतिपक्वमुपेक्षतेऽज्ञो यो वा व्रणं प्रचुरपूयमसाधुवृत्तः |
अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः सपूयः ||१||
(सु. नि. अ. १०) |
भग्नस्यापि व्रणस्योपेक्षया नाडी भवति, अतोऽनन्तरं नाडीमाह– यः शोथमित्यादि| उपेक्षत इति पीडनशोधनादिकं न करोति| प्रचुरपूय इत्यनेन गम्भीरपाकित्वमुक्तम्| असाधुवृत्तः अहिताहाराचारः| स्थानानि पूर्वविहितानीति व्रणास्रावविज्ञानीयोक्तानि त्वङ्मांससिरास्नायुसन्ध्यस्थिकोष्ठमर्माणि||१||
Adhikarana nADIvraNasya niruktiH (2) · Śloka 2
तस्यातिमात्रगमनाद्गतिरिष्यते तु नाडीव यद्वहति तेन मता तु नाडी |२|
(सु. नि. अ. १०) |
तस्येति पूयस्य| नाडीवेति अन्तःशुषिरलतादिनाडीवत्|२|–
Adhikarana nADIvraNasa~gkhyA (2) · Śloka 2
दोषैस्त्रिभिर्भवति सा पृथगेकशश्च सम्मूर्छितैरपि च शल्यनिमित्ततोऽन्या ||२||
(सु. नि. अ. १०) |
तासां कालान्तरसम्भवेन दोषानुबन्धेन सङ्ख्यामाह– दोषैस्त्रिभिरित्यादि| दोषैः पृथक् तिस्रः| एकशश्च सम्मूर्छितैरिति प्रत्येकं वृद्ध्या मिश्रीभूतैस्त्रिभिश्चतुर्थी; कार्तिकस्तु सन्निपतितैरित्यध्याहार्य एकशश्च सन्निपतितैरन्या| सम्मूर्छितैः संश्लिष्टैरपरास्तिस्रः| अत एवोक्तं सुश्रुते– “दोषद्वयाभिहितलक्षणदर्शनेन तिस्रो गतीर्व्यतिकरप्रभवास्तु विद्यात्|” (सु. नि. अ. १०) इति| व्यतिकरप्रभवा द्वन्द्वप्रभवाः; अपि चकारौ सार्थकावित्याहुः| न चोक्तपञ्चसङ्ख्याहानिः, अस्मिन् पक्षेऽतिदेशेनोक्तयोर्द्वन्द्वसन्निपातयोः सर्वत्रागणनात्| शल्यनिमित्ततोऽन्येति आगन्तुरपरेत्यर्थः| इति पञ्च नाड्यः||२||
Adhikarana vAtajanADIvraNalakShaNam (3) · Śloka 3
तत्रानिलात् परुषसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्रवति क्षपासु |३|
(सु. नि. अ. १०) |
वातजामाह– तत्रेत्यादि| अधिकं स्रवति क्षपास्विति शैत्येन वातवृद्धे रात्रावधिकं स्रवणम्|३|–
Adhikarana pittajanADIvraNalakShaNam (3) · Śloka 3
पित्तात्तृषाज्वरकरी परिदाहयुक्ता पीतं स्रवत्यधिकमुष्णमहःसु चापि ||३||
(सु. नि. अ. १०) |
पित्तजामाह– पित्तादित्यादि| अधिकमुष्णमहःसु चेति दिवा औष्ण्येन पित्तकोपात्||३||
Adhikarana kaphajanADIvraNalakShaNam (4) · Śloka 4
ज्ञेया कफाद्बहुघनार्जुनपिच्छिलास्रा स्तब्धा सकण्डुररुजा रजनीप्रवृद्धा |४|
(सु. नि. अ. १०) |
कफजामाह– ज्ञेयेत्यादि| बहुघनार्जुनपिच्छिलास्रा इति अत्रार्जुनः श्वेतः, घनः सान्द्रः, आस्रशब्द आस्रावशब्दैकदेशपाठः, पदेऽपि पदैकदेशप्रयोगात्| यथा “जे प्रोष्ठपदानाम्” इत्यत्र जे इत्यनेनैव जात इत्युच्यते| पिच्छिलास्रुरिति पाठेऽप्ययमेवार्थः| आस्रुशब्दः सम्पदादिषु पाठात् क्विबन्तः, तुगभावस्त्वागमानित्यत्वात्|४|–
Adhikarana tridoShajanADIvraNalakShaNam (4) · Śloka 4
दाहज्वरश्वसनमूर्छनवक्त्रशोषा यस्यां भवन्त्यभिहितानि च लक्षणानि ||४||
तामादिशेत् पवनपित्तकफप्रकोपाद्घोरामसुक्षयकरीमिव कालारात्रिम् |
(सु. नि. अ. १०) |
त्रिदोषजामाह– दाहेत्यादि| अभिहितानीति प्रत्येकं वातादिजनाडीकथितानि| असुक्षयकरीमिति मारणात्मिकां, कालरात्रिं मरणकारिणीं यमभगिनीमिव| ‘गतिं त्वसुहराम्’ इति पाठान्तरम्||४||–
Adhikarana shalyanimittajanADIvraNalakShaNam (5) · Śloka 5
नष्टं कथञ्चिदनुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति ||५||
सा फेनिलं मथितमुष्णमसृग्विमिश्रं स्रावं करोति सहसा सरुजा च नित्यम् |
(सु. नि. अ. १०) |
शल्यनिमित्तामाह– नष्टमित्यादि| नष्टमदृश्यमानम्| कथञ्चिदिति वेगक्षयादिकारणानामनियमार्थमुक्तम्| अनुमार्गं मार्गं लक्षीकृत्य| केचित् ‘अणुमार्गम्’ इति पठित्वा शल्यविशेषणतया योजयन्ति| किन्त्वस्मिन् पक्षेऽणुमार्गत्वेनैव शल्यस्यादर्शने प्रयुक्ते कथञ्चिदिति निरर्थकं स्यात्| उदीरितेष्विति त्वगादिषु| फेनिलं फेनवन्तम्| मथितमुन्मथितम्| उष्णमुष्णस्पर्शम्| एते च धर्माः प्रसारणाकुञ्चनादौ चलता शल्येन मांसादिक्षोभेण भवन्ति||५||
Adhikarana nADIvraNasya sAdhyatvAdilakShaNam (6) · Śloka 6
नाडी त्रिदोषप्रभवा न सिध्येच्छेषाश्चतस्रः खलु यत्नसाध्याः ||६||
(सु. चि. अ. १७) |
असाध्यत्वादिकमाह– नाडीत्यादि| ननु, नाडी त्रिदोषप्रभवा न सिध्येदिति पुनरुक्तम्, असुक्षयकरीमित्यनेनैवासाध्यत्वस्योक्तत्वात्| नैवम्, अयं ग्रन्थः सुश्रुतेन निदानस्थानोक्तमेव त्रिदोषनाड्या असाध्यत्वमनूद्य तदन्यासां शेषत्वनिश्चयेन यत्नसाध्यत्वप्रतिपादनाय चिकित्सिते पठितः, स एवात्र माधवकरेण लिखित इत्यदोषः||६||
Adhikarana puShpikA · Śloka 45
इति श्रीमाधवकरविरचिते माधवनिदाने नाडीव्रणनिदानं समाप्तम् ||४५||
इति श्रीकण्ठदत्तविरचितायां मधुकोशव्याख्यायां नाडीव्रणनिदानं समाप्तम्||४५||