Adhikarana unmAdaniruktiH (1) · Śloka 1
अथोन्मादनिदानम् |
मदयन्त्युद्गता दोषा यस्मादुन्मार्गमागताः |
मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः ||१||
(सु. उ. तं. अ. ६२) |
मदात्यये ‘उन्मादमिव चापरम्’ इत्यनेन उन्मादसङ्कीर्तनमुन्मादसादृश्यं चोक्तं, तथा मदात्ययेऽपि दाहो भवतीति स्वल्पवक्तव्यतया दाहमभिधायोन्मादारम्भः, तस्य निरुक्तिमाह– मदयन्तीत्यादि| मदयन्ति मनोविभ्रमं कुर्वन्ति, उन्मार्गमागता विमार्गमागता मनोवहाधमनीरनुप्राप्ताः| उद्गता वृद्धाः, अथवा ऊर्ध्वं हृदयं गताः, एतेनोत्पूर्वेणैव दोषाणां वृद्धत्वं विमार्गगत्वं च दर्शितम्||१||
Adhikarana unmAdabhedAH (2-3) · Śloka 3
एकैकशः सर्वशश्च दोषैरत्यर्थमूर्छितैः |
मानसेन च दुःखेन स च पञ्चविधो मतः ||२||
विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम् |
स चाप्रवृद्धस्तरुणो मदसञ्ज्ञां बिभर्ति च ||३||
(सु. उ. तं. अ. ६२) |
प्रकारभेदमाह– एकैकश इत्यादि| मानसेन च दुःखेनेति शोकादिना| स चेति षड्विधोऽपि| अत्राप्रवृद्धपदमुपादायापि तरुणपदप्रयोगं कुर्वता सुश्रुतेन स्वतन्त्रोऽपि दोषजनितो मदो भवतीति दर्शितम्| अत एव चरके विधिशोणितीयाध्याये (च. सू. अ. २४) उन्मादात् पृथगेव पठितः सनिदानचिकित्सित इति||२-३||
Adhikarana unmAdasAmAnyanidAnam (4) · Śloka 4
विरुद्धदुष्टाशुचिभोजननि प्रधर्षणं देवगुरुद्विजानाम् |
उन्मादहेतुर्भयहर्षपूर्वो मनोऽभिघातो विषमाश्च चेष्टाः ||४||
(च. चि. अ. ९) |
सामान्यहेतुमाह– विरुद्धेत्यादि| दुष्टं गरसहितमन्नादि| प्रधर्षणं ‘धृष’ प्रधर्षणे, इत्यस्मात् प्रधर्षणमभिभवः| भयहर्षपूर्वो मनोऽभिघात इति भयहर्षाभ्यां मनसोऽभिभवः; भयहर्षपूर्व इति भयं हर्षो द्वौ वा पूर्वं यस्य स तथा; पूर्वशब्दोऽत्र कारणवाची, चकारोऽत्र लुप्तनिर्दिष्टो द्रष्टव्यः, तेन कामक्रोधलोभादयोऽपि कारणमिति जेज्जटः; अन्ये त्वाहुः– क्रोधादिभिरपि भयहर्षपूर्वक एव भवतीति तेन तौ निर्दिष्टौ| विषमाश्च चेष्टा इति विषमाङ्गन्यासबलवद्विग्रहादय उन्मादहेतव इति योज्यम्||४||
Adhikarana unmAdasamprAptiH (5) · Śloka 5
तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य |
स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः ||५||
(च. चि. अ. १) |
सम्प्राप्तिमाह– तैरित्यादि| तैरुक्तहेतुभिः| अल्पसत्त्वस्य अल्पसत्त्वगुणस्येति चक्रः; जेज्जटस्त्वाह– सत्त्वं मनः, तस्य चाल्पत्वं रजस्तमोभ्यामावृतत्वेनाल्पज्ञानजनकत्वात्| मला वातादयः| बुद्धेर्निवासं हृदयमित्यनेन हृदयस्याश्रयस्य दुष्ट्या तदाश्रितज्ञानस्यापि दुष्टिर्भवतीति दर्शयति| स्रोतांसि मनोवहानीति हृदयाश्रिता दश धमन्यः; एतच्च विशेषेण बोध्यं, निखिलदेहस्रोतसामेव मनोऽधिष्ठानत्वेन चरके दर्शितत्वात्| अधिष्ठाय व्याप्येत्यर्थः||५||
Adhikarana unmAdasAmAnyalakShaNam (6) · Śloka 6
धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च |
अबद्धवाक्त्वं हृदयं च शून्यं सामान्यमुन्मादगदस्य लिङ्गम् ||६||
(च. चि. अ. ९) |
सामान्यरूपमाह– धीविभ्रम इत्यादि| एतत् सामान्यं पूर्वरूपमिति जेज्जटः, सामान्यरूपमिति चक्रः| धीविभ्रमो भ्रान्तज्ञानत्वम्| सत्त्वपरिप्लवो मनसश्चञ्चलत्वम्| अधीरता कातरत्वम्| अबद्धवाक्त्वमसम्बद्धवचनत्वम्| लिङ्ग्यतेऽनेनेति लिङ्ग, तेन पूर्वरूपं रूपं चेति व्याख्यातम्||६||
Adhikarana vAtikonmAdasya nidAnasamprAptipUrvakaM lakShaNam (7-8) · Śloka 8
रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनिलोऽतिवृद्धः |
चिन्तादिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम् ||७||
अस्थानहासस्मितनृत्यगीतवागङ्गविक्षेपणरोदनानि |
पारुष्यकार्श्यारुणवर्णताश्च जीर्णे बलं चानिलजस्य रूपम् ||८||
(च. चि. अ. ९) |
वातजमाह– रूक्षेत्यादि| विरेकशब्देनात्र वान्तिरप्यभिधीयते, विरेचयति देहान्मलं पृथक्करोतीति व्युत्पत्त्या| अस्थानहासेत्यादि अस्थानेऽविषये हासोऽस्थानहासः; एवमस्थानशब्दः स्मितादिषु प्रयोज्यः| स्मितमीषद्धासः| अङ्गविक्षेपो विरुद्धचेष्टा| जीर्णे बलमिति जीर्णे आहारे व्याधेर्बलं भवति||७-८||
Adhikarana paittikonmAdasya nidAnAdipUrvakaM lakShaNam (9-10) · Śloka 10
अजीर्णकट्वम्लविदाह्यशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम् |
उन्मादमत्युग्रमनात्मकस्य हृदि स्थितं पूर्ववदाशु कुर्यात् ||९||
अमर्षसंरम्भविनग्नभावाः सन्तर्जनातिद्रवणौष्ण्यरोषाः |
प्रच्छायशीतान्नजलाभिलाषः पीता च भाः पित्तकृतस्य लिङ्गम् ||१०||
(च. चि. अ. ९) |
पित्तजमाह– अजीर्णेत्यादि| अशीतैरिति उष्णैः| उन्मादमत्युग्रमिति अत्युग्रं तीव्रवेगम्, ‘उन्मादयत्युग्रम्’ इति पाठान्तरे उग्रं यथा भवति तथा उन्मादं जनयति| अनात्मकस्य अनात्मवतः| पूर्ववदिति चिन्तादिदुष्टहृदयस्य बुद्ध्यादिकमुपहत्येत्यादिसम्प्राप्त्या| कुर्यादिति वक्ष्यमाणं लिङ्गमिति शेषः| अत्र पक्षे किं तल्लिङ्गमित्याह– अमर्षेत्यादि– अमर्षोऽसहिष्णुत्वं, न तु रोषः; तस्य वक्ष्यमाणत्वात्| संरम्भ आरभटी; विनग्नभावो नग्नत्वम्| सन्तर्जनं परित्रासनम्, अतिद्रवणं पलायनम्, औष्ण्यं गात्रस्य; ‘औष्ठ्यम् इति पाठान्तरे विकृतौष्ठत्वम्| प्रच्छायशीतान्नजलाभिलाष इति छायायां शीतयोरन्नजलयोरभिलाषः||९-१०||
Adhikarana shlaiShmikonmAdasya nidAnAdipUrvakaM lakShaNam (11-12) · Śloka 12
सम्पूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि सम्प्रदुष्टः |
बुद्धिं स्मृतिं चाप्युपहत्य चित्तं प्रमोहयन् सञ्जनयेद्विकारम् ||११||
वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियताऽतिनिद्रा |
छर्दिश्च लाला च बलं च भुक्ते नखादिशौक्ल्यं च कफात्मके स्यात् |
(च. चि. अ. ९) ||१२||
कफजमाह– सम्पूरणैरित्यादि| मन्दविचेष्टितस्य आयासशून्यस्य| सम्पूरणैर्भोजनादिभिः, कफो दुष्ट इति सम्बन्धः| सोष्मा सपित्तः| कफेनापि क्रियमाण उन्मादोऽवश्यं सपित्तेन क्रियते व्याधिमहिम्ना, यथा मूर्छा| अन्ये त्वाहुः– केवलकफेनापि क्रियते, सोष्मपदेन तु द्वन्द्वजोऽपि भवतीति सूच्यते| अन्ये त्वाहुः– ऊष्मशब्देन शक्तिरुच्यते, तेनोत्कृष्टशक्तिकः कफ इत्यर्थः| मर्मणीति हृदये| विकारमुन्मादम्| वागित्यादि नारीविविक्तप्रियतेति नारीप्रियता विजनप्रियता च| बलं च भुक्ते इति ‘व्याधेः’ इति शेषः| नखादीत्यादिशब्देन त्वङ्मूत्रनेत्रादीनां ग्रहणम्||११-१२||
Adhikarana sAnnipAtikonmAdasya nidAnAdipUrvakaM lakShaNam (13) · Śloka 13
यः सन्निपातप्रभवोऽतिघोरः सर्वैः समस्तैः स च हेतुभिः स्यात् |
सर्वाणि रूपाणि बिभर्ति तादृग्विरुद्धभैषज्यविधिर्विवर्ज्यः ||१३||
(च. चि. अ. ९) |
सान्निपातिकमाह– य इत्यादि| सर्वैः समस्तैरिति सर्वैरिति कृत्वाऽपि यत् समस्तैरिति करोति तेनैवं बोधयति– वातादयोऽनेकैः स्वनिदानैः कुपिता उन्मादं जनयन्ति, नतु प्रत्येकमेकनिदानकुपिताः| विरुद्धभैषज्यविधिर्विवर्ज्य इति अयमभिसन्धिः– त्रिदोषजे प्रत्येकं वातादिप्रत्यनीका क्रिया कार्या, सा च परस्परविरोधिनी, त्रिदोषहरं च किञ्चिदेव द्रव्यमामलक्यादि, तत्तु नात्र यौगिकं “न हि सर्वाणि सर्वत्र यौगिकानि भवन्ति” इति वचनात्| ननु, यद्येवं तदा सर्व एव हि त्रिदोषजविकारा असाध्याः भवेयुरित्यत उक्तम्– तादृगिति| कोऽप्ययं सम्प्राप्तिविशेषो रोगविशेषो वा, येनायं विरुद्धभैषज्यविधिर्न तु सर्व इत्यर्थः| अन्ये त्वाहुः– सर्वैः समस्तैर्हेतुभिर्यैः कृतः स एवासाध्यः, न त्वल्पहेतुकृत इति||१३||
Adhikarana shokAdijonmAdasya nidAnasamprAptipUrvakaM lakShaNam (14) · Śloka 14
चोरैर्नरेन्द्रपुरुषैररिभिस्तथाऽन्यैर्वित्रासितस्य धनबान्धवसङ्क्षयाद्वा |
गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोत्कटतमो मनसो विकारः ||१४||
चित्रं ब्रवीति च मनोऽनुगतं विसञ्ज्ञो गायत्यथो हसति रोदिति चापि मूढः |
(सु. उ. तं. अ. ६२) |
शोकादिजमाह– चोरैरित्यादि| क्षते उपहते, प्रियया रिरंसोः कामुकस्य अप्राप्तया प्रियया क्षते मनसीति सम्बन्धः| तस्य लक्षणमाह– चित्रमित्यादि| चित्रं विविधम्| मनोऽनुगतं गोप्यमपि| विसञ्ज्ञो विपरीतज्ञानः, अत एव मूढः||१४||–
Adhikarana viShajonmAdalakShaNam (15) · Śloka 15
रक्तेक्षणो हतबलेन्द्रियभाः सुदीनः श्यावाननो विषकृतेऽथ भवेद्विसञ्ज्ञः ||१५||
(सु. उ. तं. अ. ६२) |
विषजमाह– रक्तेक्षण इत्यादि| हतबलेन्द्रियभा इति हतं बलमिन्द्रियाणि भाश्च यस्य स तथा| भा दीप्तिः||१५||
Adhikarana unmAdasyAsAdhyalakShaNam (16) · Śloka 16
अवाञ्ची वाऽप्युदञ्ची वा क्षीणमांसबलो नरः |
जागरूको ह्यसन्देहमुन्मादेन विनश्यति ||१६||
(सु. उ. तं. अ. ६२) |
असाध्यलक्षणमाह– अवाञ्चीत्यादि| अवाञ्ची अधोमुखः, उदञ्ची ऊर्ध्वमुखः, अत एवान्ये ‘अवाङ्मुखस्तून्मुखो वा’ इति पठन्ति| जागरूकोऽनिद्रः||१६||
Adhikarana bhUtonmAdasAmAnyalakShaNam (17) · Śloka 17
अमर्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादिभिर्यः |
उन्मादकालोऽनियतश्च तस्य भूतोत्थमुन्मादमुदाहरेत्तम् ||१७||
(च. चि. अ. ९) |
भौतिकोन्मादस्य सामान्यलक्षणमाह– अमर्त्यवागित्यादि| अमर्त्या अमनुष्या अनुचिता वा वागादयो यस्य स तथा| विक्रमः पराक्रमः, वीर्यं शक्तिः, चेष्टा शारीरिकी क्रिया| ज्ञानादिविज्ञानबलादिभिरिति उपलक्षणे तृतीया| ज्ञानं तत्त्वज्ञानं, विज्ञानं शिल्पादिज्ञानं; किंवा ज्ञानं शास्त्रज्ञानं, विज्ञानं तदर्थनिश्चयः; आदिशब्देन स्मृत्यादीनां ग्रहणं, तेषां बलम्| अनियत इति न वातजादिवदाहारजीर्णादिकालवत् कालनियमः| नियत इति पाठे तु वक्ष्यमाणनियततिथ्यादीनां ग्रहणं “देवग्रहाः पौर्णमास्यां” इत्यादि| भूतशब्देनात्र सर्व एव वक्ष्यमाणा देवदयोऽभिधीयन्ते||१७||
Adhikarana devajuShTalakShaNam (18) · Śloka 18
सन्तुष्टः शुचिरतिदिव्यमाल्यगन्धो निस्तन्द्रीरवितथसंस्कृतप्रभाषी |
तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः ||१८||
(सु. उ. तं. अ. ६०) |
देवजुष्टमाह– सन्तुष्ट इत्यादि| अतिदिव्यमाल्यगन्ध इति अतिमात्रो दिव्यमाल्यस्येव गन्धो यस्य स तथा| निस्तन्द्रीः अनिद्रः| अवितथं सत्यम्| विदेहेऽपि “निःस्वप्नं सत्यसंस्कृतभाषिणम्” इति पठितम्| ब्रह्मण्यो ब्राह्मणानुरक्तः| देवजुष्टो देवग्रहपीडितः| देवग्रहणेन गणमातृकादयोऽपि ग्राह्याः| विदेहेऽपि पठ्यते “क्रोधनः स्रस्तसर्वाङ्गो लालाफेनाविलाननः| निद्रालुः कम्पनो मूको गणमातृभिरर्दितः||” इति||१८||
Adhikarana asurajuShTalakShaNam (19) · Śloka 19
संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः |
सन्तुष्टो न भवति चान्नपानजातैर्दुष्टात्मा भवति स देवशत्रुजुष्टः ||१९||
(सु. उ. तं. अ. ६०) |
देवशत्रुजुष्टमाह– संस्वेदीत्यादि||१९||
Adhikarana gandharvAviShTalakShaNam (20) · Śloka 20
हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः |
नृत्यन् वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः ||२०||
(सु. उ. तं. अ. ६०) |
गन्धर्वाविष्टमाह– हृष्टेत्यादि| पुलिनं तोयोज्झितं तटम्, अन्तरं मध्यं विशेषो वा| स्वाचारोऽनिन्दिताचारः| प्रियेत्यादि प्रियाणि परि सर्वतो गीतगन्धमाल्यानि यस्य स तथा| नृत्यन्नित्यादि चारु (यथा भवति तथा) नृत्यन्नल्पशब्दं यथा भवति तथा प्रहसतीति योज्यम्||२०||
Adhikarana yakShAviShTalakShaNam (21) · Śloka 21
ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतगतिरल्पवाक्सहिष्णुः |
तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः ||२१||
(सु. उ. तं. अ. ६०) |
यक्षाविष्टमाह– ताम्राक्ष इत्यादि| प्रियेत्यादि प्रियं शोभनं, तनु सूक्ष्मं रक्तं च वस्त्रं धर्तुं शीलं यस्य स तथा||२१||
Adhikarana pitRujuShTalakShaNam (22) · Śloka 22
प्रेतानां स दिशति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चापसव्यवस्त्रः |
मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भक्तो भवति पितृग्रहाभिजुष्टः ||२२||
(सु. उ. तं. अ. ६०) |
पितृजुष्टमाह– प्रेतानामित्यादि| प्रेतानां मृतपितॄणां, सम्बन्धमात्रविवक्षया न चतुर्थी| दिशति ददाति| संस्तरेषु कुशपत्रादिरचितास्तरणेषु| अपसव्यवस्त्रो वामोत्तरीयः| मांसेप्सुरित्यादि| एतदभिधानप्रयोजनं यस्मिन् यस्येच्छा भवति तस्य तेनैव बलिर्दातव्यः; एवमन्यत्रापि द्रष्टव्यम्| तद्भक्तः पितृभक्तः||२२||
Adhikarana nAgAviShTalakShaNam (23) · Śloka 23
यस्तूर्व्यां प्रसरति सर्पवत् कदाचित् सृक्कण्यौ विलिहति जिह्वया तथैव |
क्रोधालुर्गुडमधुदुग्धपायसेप्सुर्ज्ञातव्यो भवति भुजङ्गमेन जुष्टः ||२३||
(सु. उ. तं. अ. ६०) |
नागाविष्टमाह– यस्त्वित्यादि| प्रसरति सर्पवदिति उरसा गच्छति| सृक्कण्यौ ओष्ठप्रान्तौ| सृक्कणीशब्द ईकारान्तोऽप्यस्तीत्युन्नेयम्||२३||
Adhikarana rAkShasAviShTalakShaNam (24) · Śloka 24
मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः |
क्रोधालुर्विपुलबलो निशाविहारी शौचद्विड् भवति स राक्षसैर्गृहीतः ||२४||
(सु. उ. तं. अ. ६०) |
राक्षसाविष्टमाह– मांसेत्यादि| निशाविहारी निशायामेव भ्रमणशीलः| राक्षसशब्देन ब्रह्मराक्षसादयोऽपि ग्राह्याः| तथा राक्षसानन्तरं विदेहोऽपि पठति– “देवविप्रगुरुद्वेषी वेदवेदाङ्गनिन्दकः| आत्मपीडाकरो हासी ब्रह्मराक्षससेवितः||” इति||२४||
Adhikarana pishAcAviShTalakShaNam (25) · Śloka 25
उद्धस्तः कृशपरुषो अचिरप्रलापी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः |
बह्वाशी विजनवनान्तरोपसेवी व्याचेष्टन् भ्रमति रुदन् पिशाचजुष्टः ||२५||
(सु. उ. तं. अ. ६०) |
पिशाचाविष्टमाह– उद्धस्त इत्यादि| उद्धस्त ऊर्ध्वबाहुः; ‘उद्वस्त्र’ इति पाठान्तरं न्याय्यं, विदेहेऽपि दिगम्बरपाठात्; उद्वस्त्रो नग्नः| परुषो रूक्षः| लोलः सर्वस्मिन्नन्ने पाने च सतृष्णः| ‘लोलुः’ इति पाठान्तरे स एवार्थः| व्याचेष्टन्निति विरुद्धमाचेष्टन्||२५||
Adhikarana bhUtonmAdasyAsAdhyalakShaNam (26) · Śloka 26
स्थूलाक्षो द्रुतमटनः स फेनलेही निद्रालुः पतति च कम्पते च यो हि |
यश्चाद्रिद्विरदनगादिविच्युतः स्यात् सोऽसाध्यो भवति तथा त्रयोदशाब्दे ||२६||
(सु. उ. तं. अ. ६०) |
त्रिविधं हि हिंसाक्रीडापूजार्थं ग्रहा गृह्णन्ति| यदुक्तम्– “अशुचिं भिन्नमर्यादं क्षतं वा यदि वाऽक्षतम्| हिंस्युर्हिंसाविहारार्थं सत्कारार्थमथापि च||” (सु. उ. तं. अ. ६०) इति| तत्र हिंसार्थं गृहीतोऽसाध्यो भवति, तस्य श्लोकार्धद्वयेन लक्षणमाह– स्थूलाक्ष इत्यादि| स्थूलाक्षो विकृतनेत्र इति जेज्जटः| द्रुतमटनो द्रुतगतिः, अत एव ‘त्वरितगतिः’ इति जेज्जटेन पठितम्| यश्चेत्यादि| पर्वतादिपतितः सन् यो गृह्यते सोऽप्यसाध्यः, नगो वृक्षः| सर्व एवोन्मादी त्रयोदशेऽब्दे देवतादिगृहीतोऽप्यसाध्यः| विदेहेऽधिकमप्यसाध्यलक्षणं पठ्यते– “मेढ्रप्रवृत्तः क्षतजः सास्राक्षः स्रुतनासिकः| रूक्षजिह्वः पूतिगर्भो हतवागतिदुर्बलः||” इत्यादि||२६||
Adhikarana devAdInAM grahaNakAlaH (27-28) · Śloka 28
देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि |
गन्धर्वाः प्रायशोऽष्टम्यां, यक्षाश्च प्रतिपद्यथ ||२७||
पित्र्याः कृष्णक्षये हिंस्युः, पञ्चम्यामपि चोरगाः |
रक्षांसि रात्रौ, पैशाचाश्चतुर्दश्यां विशन्ति हि ||२८||
(सु. उ. तं. अ. ६०) |
देवादीनां ग्रहणकालमाह– देवग्रहाः इत्यादि| पौर्णमास्यां पूर्णिमायाम्| कृष्णक्षयेऽमावास्यायाम्| प्रायोग्रहणादन्यत्रापि| तिथ्यभिधानप्रयोजनं लक्षणार्थं, तत्तिथौ बलिदानार्थं च||२७-२८||
Adhikarana AvishatAM devAdInAmanupalabdhau dRuShTAntaH (29-30) · Śloka 30
दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा |
स्वमणिं भास्करार्चिश्च यथा देहं च देहधृक् |
विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणः ||२९||
(सु. उ. तं. अ. ६०) |
प्रविश्याशु शरीरं हि पीडां कुर्वन्ति दुःसहाम् ||३०||
ननु, यदि ग्रहाविष्टानां पुंसामुन्मादः स्यात्, तदा विशन्तो ग्रहाः कुतो न लक्ष्यन्ते? इत्यत आह– दर्पणादीनित्यादि| अस्मदादिदर्शनायोग्यत्वान्न दृश्यन्त इत्यर्थः| आदिशब्देन प्रकारवाचिनां जलतैलादीनां ग्रहणम्| छाया प्रतिकृतिः| शीतोष्णमिति कर्तृपदं, प्राणिन इति कर्मपदम्| स्वमणिमिति सूर्यकान्तम्| देहधृक् आत्मा, मन इति जेज्जटः| अनेकदृष्टान्तप्रयोजनं जेज्जटलिखितं तच्चात्रानुपयुक्तत्वेन विस्तरभयान्न लिखितम्| देवशब्देन चात्र देवस्यानुचरा देवसधर्माणो गृह्यन्ते, देवानां मनुष्यशरीरेणाशुचिना सम्बन्धाभावात्| यदाह सुश्रुतः– “न ते मनुष्यैः सह संविशन्ति न ते मनुष्यान् क्वचिदाविशन्ति| ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपेताः||” (सु. उ. तं. अ. ६०) इति||२९-३०||
Adhikarana grahANAM tIvratapAdiprabhAvavattAkathanam (31-33) · Śloka 33
तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमश्च सत्यम् |
गुणास्तथाऽष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम् ||३१||
न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति |
ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः ||३२||
तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपद्मसङ्ख्याः |
असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तथाऽऽविशन्ति ||३३||
इदानीं ग्रहाणां तीव्रतपादि यमादियुक्तां प्रभाववत्तां सुश्रुतोक्तेन श्लोकत्रयेण दर्शयितुमाह– तपांसीत्यादि| तपस्तापनलक्षणमुपवासादि, व्रतानि शास्त्रोदितविधिना भोजनादिनियमनानि, कर्म कायवाङ्मनसां सुचरितम्| गुणास्तथाष्टाविति अणिमा १, महिमा २, लघिमा ३, प्राकाम्यं ४, प्राकाश्यम् ५, ईशित्वं ६, वशित्वं ७, यत्र कामावसायित्वं ८, चेति| अन्ये तु– “आवेशश्चेतसो ज्ञानमर्थानां शब्दनक्रिया| दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम्||” इत्यष्टविधमैश्वर्यमाहुः| तेषु ग्रहेषु एते गुणा नित्याः, न कादाचित्काः, व्यस्ता द्वित्रिचत्वार इत्यादि; समस्ताः सर्वे; यो यस्य प्रभाव इति यथाप्रभावं; तत्र व्यस्ता गुणा असुरादिग्रहाणां, समस्ता देवग्रहाणाम्| अथ ते नियमादियुक्ताश्चेत् कथमशुचिं देहमाविशन्ति, न कथञ्चन, अत एवाह– नेत्यादि| ते देवादयो मनुष्यैः सह न विशन्ति न एकीभवन्तीत्यर्थः| न वा मनुष्यान् मानुषदेहान्, क्वचिदप्यनुप्रविशन्तीत्यर्थः| ये पुनर्वैद्या ‘आविशन्ति’ इति मोहादज्ञानात् प्रवदन्ति, ते वैद्या भूतविद्याविषयात्तज्ज्ञानादपोह्या अपसारणीयास्त्याज्या इत्यर्थः| के तर्हि गृह्णन्तीत्याह– तेषामिति तेषां देवादीनां परिचारकाः प्रेष्याः, कर्मकरा इत्यर्थः| कोट्यः शतलक्षप्रमाणाः, अयुतं दशसहस्रम्, एतेन कोटिघ्नं शतलक्षप्रमाणगुणितं यत् सहस्रं तादृशैः दशभिः सहस्रैरत्रायुतं बोद्धव्यं; तेषां पद्मं, पद्मं चतुर्दशबिन्दुकं, तदेव सङ्ख्या येषां ते तथा| सुभीमा अत्यर्थं भयानकाः| निशाविहारा रात्रौ भ्रमणशीलाः||३१-३३||
Adhikarana puShpikA · Śloka 20
इति श्रीमाधवकरविरचिते माधवनिदान उन्मादनिदानं समाप्तम्||२०||
||२०||
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायामुन्मादनिदानं समाप्तम्||२०||