Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

4. grahaṇīnidānam

Adhikarana grahaNIsamprAptiH (1) · Śloka 1

अथ ग्रहणीरोगनिदानम् | अतीसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः | भूयः सन्दूषितो वह्निर्ग्रहणीमभिदूषयेत् ||१|| (सु. उ. तं. अ. ४०) |

🔊 Audio coming soon

Adhikarana grahaNIsAmAnyalakShaNam (2-3) · Śloka 3

एकैकशः सर्वशश्च दोषैरत्यर्थमूर्छितैः | सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति ||२|| पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्रवम् | ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः ||३|| (सु. उ. तं. अ. ४०) |

🔊 Audio coming soon

Adhikarana grahaNIpUrvarUpam (4) · Śloka 4

पूर्वरूपं तु तस्येदं तृष्णाऽऽलस्यं बलक्षयः | विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम् ||४|| (च. चि. अ. १५) |

🔊 Audio coming soon

Adhikarana vAtikagrahaNyA nidAnAdipUrvakaM lakShaNam (5-10) · Śloka 10

कटुतिक्तकषायातिरूक्षसन्दुष्टभोजनः | प्रमितानशनात्यध्ववेगनिग्रहमैथुनैः ||५|| मारुतः कुपितो वह्निं सञ्छाद्य कुरुते गदान् | तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता ||६|| कण्ठास्यशोषोऽक्षुत्तृष्णा तिमिरं कर्णयोः स्वनः | पार्श्वोरुवङ्क्षणग्रीवारुगभीक्ष्णं विसूचिका ||७|| हृत्पीडाकार्श्यदौर्बल्यं वैरस्यं परिकर्तिका | गृद्धिः सर्वरसानां च मनसः सदनं तथा ||८|| जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च | स वातगुल्महृद्रोगप्लीहाशङ्की च मानवः ||९|| चिराद्दुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत् | पुनः पुनः सृजेद्वर्चः कासश्वासार्दितोऽनिलात् ||१०|| (च. चि. अ. १५) |

🔊 Audio coming soon

Adhikarana paittikagrahaNyA nidAnAdipUrvakaM lakShaNam (11-12) · Śloka 12

कट्वजीर्णविदाह्यम्लक्षाराद्यैः पित्तमुल्बणम् | आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम् ||११|| सोऽजीर्णं नीलपीताभं पीताभः सार्यते द्रवम् | पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः ||१२|| (च. चि. अ. १५) |

🔊 Audio coming soon

Adhikarana shlaiShmikagrahaNyA nidAnAdipUrvakaM lakShaNam (13-16) · Śloka 16

गुर्वतिस्निग्धशीतादिभोजनदतिभोजनत् | भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितः कफः ||१३|| तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः | आस्योपदेहमाधुर्यं कासष्ठीवनपीनसाः ||१४|| हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरुः | दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम् ||१५|| भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम् | अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके ||१६|| (च. चि. अ. १५) |

🔊 Audio coming soon

Adhikarana tridoShaja-sa~ggraha-ghaTIyantrAkhyagrahaNIlakShaNam (17) · Śloka 4

पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे | त्रिदोषं निर्दिशेदेवं, तेषां वक्ष्यामि भेषजम् ||१७|| (च. चि. अ. १५) | (अन्त्रकूजनमालस्यं दौर्बल्यं सदनं तथा | द्रवं शीतं घनं स्निग्धं सकटीवेदनं शकृत् |१| आमं बहु सपैच्छिल्यं सशब्दं मन्दवेदनम् | पक्षान्मासाद्दशाहाद्वा नित्यं वाऽप्यथ मुञ्चति ||२|| दिवा प्रकोपो भवति रात्रौ शान्तिं व्रजेच्च सा | दुर्विज्ञेया दुश्चिकित्स्या चिरकालानुबन्धिनी ||३|| सा भवेदामवातेन सङ्ग्रहग्रहणी मता | स्वपतः पार्श्वयोः शूलं गलज्जलघटीध्वनिः | तं वदन्ति घटीयन्त्रमसाध्यं ग्रहणीगदम्) ||४||

🔊 Audio coming soon

Adhikarana grahaNyAH sAma-nirAma-asAdhyalakShaNaM, vayo~anurUpaM sAdhyAsAdhyatvaM ca (18-19) · Śloka 1

दोषं सामं निरामं च विद्यादत्रातिसारवत् ||१८|| लिङ्गैरसाध्यो ग्रहणीविकारो यैस्तैरतीसारगदो न सिध्येत् | वृद्धस्य नूनं ग्रहणीविकारो हत्वा तनूं नैव निवर्तते च ||१९|| (बालके ग्रहणी साध्या यूनि कृच्छ्रा समीरिता | वृद्धे त्वसाध्या विज्ञेया मतं धन्वन्तरेरिदम्) ||१||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 4

इति श्रीमाधवकरविरचिते माधवनिदाने ग्रहणीरोगनिदानं समाप्तम् ||४||

🔊 Audio coming soon