मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सान्निपातिकमाह– विद्यादित्यादि| सर्वलिङ्गमित्यनेन प्रकृतिसमसमवायारब्धत्वमुक्तं, तेन चिकित्साऽप्यस्य प्रत्येकं वातादिजस्य या सा मिलितैव कार्या| अपचाराच्चेह ग्रन्थिरुत्पद्यते ततः क्रिमिसम्भवः| उक्तं हि चरकेण– “त्रिदोषजे तु हृद्रोगे यो दुरात्मा निषेवते| तिलक्षीरगुडादीनि ग्रन्थिस्तस्योपजायते|| मर्मैकदेशे सङ्क्लेदं रसश्चास्योपगच्छति| सङ्क्लेदात् क्रिमयश्चास्य भवन्त्युपहतात्मनः||” (च. सू. अ. १७) इति| तस्यैवेदं लक्षणमाह– तीव्रार्तितोदं क्रिमिजं सकण्डूमिति| उत्क्लेद इत्यादिना तमोऽन्तं त्रिदोषजहृद्रोगलक्षणं; तत्र तोदशूले वातात्, उत्क्लेदहृल्लासौ कफात्, तमः पित्तात्, ष्ठीवनं कफपित्तात्| अरुचिरित्यादिना क्रिमिजस्येति जेज्जटः; गयदासस्त्वाह– श्यावनेत्रत्वपर्यन्तेन त्रिदोषजलक्षणमिति| स्यादेतत्, त्रिदोषजपदं न तावदत्र सुश्रुतेन पठितम्; अतः सर्वमेव उत्क्लेदादि शोथान्तं क्रिमिजलक्षणं भविष्यति| नैवं, “विद्यात्त्रिदोषं त्वपि सर्वलिङ्गं तीव्रार्तितोदं क्रिमिजं सकण्डूम्|” (च. चि. अ. २६) इति दृढबलस्य वाक्यात्| उत्क्लेद इत्यादिस्तु एक एव श्लोकः सुश्रुतेन पठितः, नतु पृथक् सन्निपातलक्षणं, ततस्त्रिदोषजस्यानभिधाने सुश्रुते न्यूनत्वं स्यात्| त्रिदोषाश्मरीवत्तस्यासम्भव एवेति चेत्? नैवं, तन्त्रान्तरेषु पठितत्वात्| तथाच हारीतः– “सर्वाणि रूपाणि च सन्निपाताच्चिरोत्थितं चापि वदन्त्यसाध्यम्|” इति| चरकेऽप्युक्तम्– “हेतुलक्षणसंसर्गादुच्यते सान्निपातिकः|” (च. सू. अ. १७) इति; तथा ‘त्रिदोषजे तु हृद्रोगे यो दुरात्मा निषेवते|’ (च. सू. अ. १७) इत्यादि| कण्ठरवेण तु त्रिदोषजपदं यन्न पठितं सुश्रुतेन, तत् क्रिमिजस्यापि त्रिदोषजत्वख्यापनार्थमित्याचक्षते| ननु, दोषजावान्तरावस्थाविशेषत्वात् क्रिमिजोऽपि दोषज एव, तत् कथं हृदामयः पञ्चविध इति? नैवं, रोगजस्यापि रोगस्य पृथक्त्वदर्शनात्| यदुक्तम्– ‘निदानार्थकर’ (च. चि. अ. ८) इत्यादि| द्विदोषजस्त्वनुक्तोऽपि प्रकृतिसमसमवायत्वाद्बोध्यः||६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
त्रिदोषजकृमिजयोर्मिलितमेव लक्षणमाह– विद्यादित्यादि| विद्यात्त्रिदोषमित्यादि दृढबलोक्तलक्षणम्, उत्क्लेद इत्यादिकमेकपद्यं सुश्रुतोक्तं; तीव्रार्तितोदमिति भिन्नतन्त्रीयत्वात्पौनरुक्त्यं न वाच्यम्| त्रिदोषजे सर्वदोषाणां लिङ्गानि भवन्ति| सर्वलिङ्गमित्यनेन प्रकृतिसमवायारब्धत्वमुक्तं, तेन चिकित्साऽप्यस्य प्रत्येकं वातादिजस्य या सा मिलितैव कार्या| अपचारात् कृमिजे ग्रन्थिर्भवति, ततश्च कृमिसम्भवः, कृमयो जायन्तेऽस्मिन्निति क्रिमिज इति निरुक्तिः| उक्तं हि चरके– “त्रिदोषजे तु हृद्रोगे यो दुरात्मा निषेवते| तिलक्षीरगुडादीनि ग्रन्थिस्तस्योपजायते||” इति| उत्क्लेद इत्यादिकमेव त्रिदोषहृद्रोगलक्षणम्| तत्र तोदशूले वातात्, तोदो व्यथाविशेषः; उत्क्लेदहृल्लासौ कफात्, उत्क्लेदः अपक्वदोषाणां स्वांशोदयाच्च्युतिः, हृल्लासः हृदयादीपदम्बुनिर्गमः; तमः पित्तात् तमोऽन्धकारप्रविष्टस्येव; ष्ठीवनं कफपित्तात्; एतत्त्रिदोषलक्षणम्| अरुचीत्यादिना कृमिजस्येति | एतत्सुगमम्||६||