Adhikarana jvarotpattiH tasya bhedAshca (1) · Śloka 1
अथ ज्वरनिदानम् | दक्षापमानसङ्क्रुद्धरुद्रनिःश्वाससम्भवः | ज्वरोऽष्टधा पृथग्द्वन्द्वसङ्घातागन्तुजः स्मृतः ||१||
🔊 Audio coming soon
Adhikarana jvarotpattiH tasya bhedAshca (1) · Śloka 1
अथ ज्वरनिदानम् | दक्षापमानसङ्क्रुद्धरुद्रनिःश्वाससम्भवः | ज्वरोऽष्टधा पृथग्द्वन्द्वसङ्घातागन्तुजः स्मृतः ||१||
🔊 Audio coming soon
Adhikarana jvarasamprAptiH (2) · Śloka 2
मिथ्याहारविहाराभ्यां दोषा ह्यामाशयाश्रयाः | बहिर्निरस्य कोष्ठाग्निं ज्वरदाः स्यू रसानुगाः ||२||
🔊 Audio coming soon
Adhikarana jvarasAmAnyalakShaNam (3) · Śloka 3
स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा | युगपद्यत्र रोगे च स ज्वरो व्यपदिश्यते ||३||
🔊 Audio coming soon
Adhikarana jvarapUrvarUpam (4-7) · Śloka 7
श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः | इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु ||४|| जृम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः | अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे ||५|| (सामान्यतो विशेषात्तु जृम्भाऽत्यर्थं समीरणात् | पित्तान्नयनयोर्दाहः कफादन्नारुचिर्भवेत् ||६|| रूपैरन्यतराभ्यां तु संसृष्टैर्द्वन्द्वजं विदुः | सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे) ||७|| (सु. उ. तं. अ. ३९) |
🔊 Audio coming soon
Adhikarana vAtajvaralakShaNam (8-9) · Śloka 9
वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम् | निद्रानाशः क्षवस्तम्भो गात्राणां रौक्ष्यमेव च ||८|| शिरोहृद्गात्ररुग्वक्त्रवैरस्यं गाढविट्कता | शूलाध्माने जृम्भणं च भवन्त्यनिलजे ज्वरे ||९|| (सु. उ. तं. अ. ३९) |
🔊 Audio coming soon
Adhikarana pittajvaralakShaNam (10-11) · Śloka 11
वेगस्तीक्ष्णोऽतिसारश्च निद्राल्पत्वं तथा वमिः | कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते ||१०|| प्रलापो वक्त्रकटुता मूर्छा दाहो मदस्तृषा | पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ||११|| (सु. उ. तं. अ. ३९) |
🔊 Audio coming soon
Adhikarana kaphajvaralakShaNam (12-13) · Śloka 13
स्तैमित्यं स्तिमितो वेग आलस्यं मधुरास्यता | शुक्लमूत्रपुरीषत्वं स्तम्भस्तृप्तिरथापि च ||१२|| (नात्युष्णगात्रता छर्दिरङ्गसादोऽविपाकिता) | गौरवं शीतमुत्क्लेदो रोमहर्षोऽतिनिद्रता | ( स्रोतोरोधो रुगल्पत्वं प्रसेको लवणास्यता | नात्युष्णगात्रता, च्छर्दिर्लालास्रावोऽविपाकता) | प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता ||१३|| (सु. उ. तं. अ. ३९) |
🔊 Audio coming soon
Adhikarana vAtapittajvaralakShaNam (14) · Śloka 15
तृष्णा मूर्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा | कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तमः ||१४|| पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः |१५| (सु. उ. तं. अ. ३९) |
🔊 Audio coming soon
Adhikarana vAtashleShmajvaralakShaNam (15-16) · Śloka 16
स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च ||१५|| शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्तनम् | सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः ||१६|| (सु. उ. तं. अ. ३९) |
🔊 Audio coming soon
Adhikarana shleShmapittajvaralakShaNam (17) · Śloka 17
लिप्ततिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा | मुहुर्दाहो मुहुः शीतं श्लेष्मपित्तज्वराकृतिः ||१७|| (सु. उ. तं. अ. ३९) |
🔊 Audio coming soon
Adhikarana sAnnipAtikajvaralakShaNam (18-23) · Śloka 23
क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा | सास्रावे कलुषे रक्ते निर्भुग्ने चापि लोचने ||१८|| सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः | तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः ||१९|| परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम् | ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च ||२०|| शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा | स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः ||२१|| कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम् | कोठानां श्यावरक्तानां मण्डलानां च दर्शनम् ||२२|| मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च | चिरात्पाकश्च दोषाणां सन्निपातज्वराकृतिः ||२३|| (च. चि. अ. ३) |
🔊 Audio coming soon
Adhikarana sannipAtajvarasyAsAdhyatvakRucchrasAdhyatvalakShaNam (24) · Śloka 2
दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः | सन्निपातज्वरोऽसाध्यः, कृच्छ्रसाध्यस्ततोऽन्यथा ||२४|| (च. चि. अ. ३) | ( सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा | पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा |१| सप्तमी द्विगुणा चैव नवम्येकादशी तथा | एषा त्रिदोषमर्यादा मोक्षाय च वधाय च) |२|
🔊 Audio coming soon
Adhikarana sannipAtajvaropadravaH (25) · Śloka 5
सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः | शोथः सञ्जायते तेन कश्चिदेव प्रमुच्यते ||२५|| (च. चि. अ. ३) | (त्रयः प्रकुपिता दोषा उरःस्रोतोऽनुगामिनः | आमाभिवृद्ध्या ग्रथिता बुद्धीन्द्रियमनोगताः ||१|| जनयन्ति महाघोरमभिन्यासं ज्वरं दृढम् | श्रुतौ नेत्रे प्रसुप्तिः स्यान्न चेष्टां काञ्चिदीहते ||२|| नच दृष्टिर्भवेत्तस्य समर्था रूपदर्शने | न घ्राणं न संस्पर्शं शब्दं वा नैव बुध्यते ||३|| शिरो लोठयतेऽभीक्ष्णमाहारं नाभिनन्दति | कूजति तुद्यते चैव परिवर्तनमीहते ||४|| अल्पं प्रभाषते किञ्चिदभिन्यासः स उच्यते | प्रत्याख्यातः स भूयिष्ठः कश्चिदेवात्र सिध्यति) ||५||
🔊 Audio coming soon
Adhikarana AgantujvaralakShaNam (26-29) · Śloka 30
अभिघाताभिचाराभ्यामभिशापाभिषङ्गतः | आगन्तुर्जायते दोषैर्यथास्वं तं विभावयेत् ||२६|| श्यावास्यता विषकृते तथाऽतीसार एव च | भक्तारुचिः पिपासा च तोदश्च सह मूर्छया ||२७|| ओषधिगन्धजे मूर्छा शिरोरुग्वमथुः क्षवः | कामजे चित्तविभ्रंशस्तन्द्राऽऽलस्यमभोजनम् ||२८|| (हृदये वेदना चास्य गात्रं च परिशुष्यति) | भयात्प्रलापः शोकाच्च भवेत् कोपाच्च वेपथुः | अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते ||२९|| भूताभिषङ्गादुद्वेगो हास्यरोदनकम्पनम् |३०| (सु. उ. तं. अ. ३९) |
🔊 Audio coming soon
Adhikarana AgantujeShu doShAnubandhapradarshanam (30) · Śloka 31
कामशोकभयाद्वायुः, क्रोधात् पित्तं, त्रयो मलाः ||३०|| भूताभिषङ्गात्कुप्यन्ति भूतसामान्यलक्षणाः |३१|
🔊 Audio coming soon
Adhikarana viShamajvarasamprAptiH (31) · Śloka 2
दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः ||३१|| धातुमन्यतमं प्राप्य करोति विषमज्वरम् |३२| (सु. उ. तं. अ. ३९) | (सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ) ||२||
🔊 Audio coming soon
Adhikarana santatAdInAM pratiniyatadUShyA dhAtavaH (32-33) · Śloka 33
सन्ततं रसरक्तस्थः, सोऽन्येद्युः पिशिताश्रितः ||३२|| मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः | कुर्याच्चतुर्थकं घोरमन्तकं रोगसङ्करम् ||३३|| (सु. उ. तं. अ. ३१) |
🔊 Audio coming soon
Adhikarana santatasatatAnyedyuShkatRutIyakacaturthakajvaralakShaNam (34-35) · Śloka 36
(स्रोतोभिर्विसृता दोषा गुरवो रसवाहिभिः | सर्वदेहानुगाः स्तब्धा ज्वरं कुर्वन्ति सन्ततम्) | सप्ताहं वा दशाहं वा द्वादशाहमथापि वा | सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते ||३४|| अहोरात्रे सततको द्वौ कालावनुवर्तते | अन्येद्युष्कस्त्वहोरात्र एककालं प्रवर्तते ||३५|| तृतीयकस्तृतीयेऽह्नि, चतुर्थेऽह्नि चतुर्थकः |३६| (सु. उ. तं. अ. ३१) |
🔊 Audio coming soon
Adhikarana viShamajvarasyaikIyamatena bhUtAbhiSha~ggajatvam (36) · Śloka 36
केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ||३६|| (सु. उ. तं. अ. ३९) |
🔊 Audio coming soon
Adhikarana ulbaNadoShabhedena tRutIyakacaturthakayorlakShaNAntaram (37-38) · Śloka 38
कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः | वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः ||३७|| चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः | जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसम्भवः ||३८|| (च. चि. अ. ३) |
🔊 Audio coming soon
Adhikarana caturthakaviparyayalakShaNam (39) · Śloka 39
विषमज्वर एवान्यश्चतुर्थकविपर्ययः | , त्र्यहाद् द्वयहं ज्वरयति ह्यादावन्ते च मुञ्चति ||३९|| (च. चि. अ. ३) |
🔊 Audio coming soon
Adhikarana vAtabalAsakajvaralakShaNam (40) · Śloka 40
नित्यं मन्दज्वरो रूक्षः शूनकस्तेन सीदति | स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेद्वातबलासकी ||४०|| (अ. सं. नि. अ. २) |
🔊 Audio coming soon
Adhikarana pralepakajvaralakShaNam (41) · Śloka 41
प्रलिम्पन्निव गात्राणि घर्मेण गौरवेण च | मन्दज्वरविलेपी च सशीतः स्यात्प्रलेपकः ||४१|| (अ. सं. नि. अ. २) |
🔊 Audio coming soon
Adhikarana viShamajvaravisheShAH (42-47) · Śloka 47
विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते | तेनार्धं शीतलं देहमर्धमुष्णं प्रजायते ||४२|| काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यवस्थितः | तेनोष्णत्वं शरीरस्य शीतत्वं हस्तपादयोः ||४३|| काये श्लेष्मा यदा दुष्टः पित्तं चान्ते व्यवस्थितम् | शीतत्वं तेन गात्राणामुष्णत्वं हस्तपादयोः ||४४|| (अ. सं. नि. अ. २) | त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे | तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च ||४५|| करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च | तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः ||४६|| द्वावेतौ दाहशीतादिज्वरौ संसर्गजौ स्मृतौ | दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यतमश्च सः ||४७|| (सु. उ. तं. अ. ३९) |
🔊 Audio coming soon
Adhikarana rasaraktamAMsamedomajjashukragatajvaralakShaNam (48-54) · Śloka 1
गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ | रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते ||४८|| रक्तनिष्ठीवनं दाहो मोहश्छर्दनविभ्रमौ | प्रलापः पिडका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् ||४९|| पिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता | ऊष्माऽन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ||५०|| भृशं स्वेदस्तृषा मूर्छा प्रलापश्छर्दिरेव च | दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता ||५१|| भेदोऽस्थ्नां कूजनं श्वासो विरेकश्छर्दिरेव च | विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे ||५२|| तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा | अन्तर्न्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे ||५३|| मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे | शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ||५४|| (सु. उ. तं. अ. ३९) | (रसरक्ताश्रितः साध्यो मांसमेदोगतश्च यः | अस्थिमज्जगतः कृच्छ्रो शुक्रस्थस्तु न सिध्यति) ||१|| (च. चि. अ. ३) |
🔊 Audio coming soon
Adhikarana uktavAtAdijvarANAM kAlaprakRutimuddishya prAkRutatvaM vaikRutatvaM ca (55) · Śloka 55
वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात् | वैकृतोऽन्यः स दुःसाध्यः प्राकृतश्चानिलोद्भवः ||५५|| (वा. नि. अ. २) |
🔊 Audio coming soon
Adhikarana prAkRutajvarANAmutpattikramaH (56-57) · Śloka 57
वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम् | कुर्यात् पित्तं च शरदि तस्य चानुबलः कफः ||५६|| तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम् | कफो वसन्ते तमपि वातपित्तं भवेदनु ||५७|| (वा. नि. अ. २) |
🔊 Audio coming soon
Adhikarana kAlasya doShavisheShe lakShaNatvam (58) · Śloka 58
काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा |५८| (वा. नि. अ. २) |
🔊 Audio coming soon
Adhikarana jvarANAmupashayAnupashayau (58) · Śloka 58
निदानोक्तानुपशयो विपरीतोपशायिता ||५८|| (वा. नि. अ. २) |
🔊 Audio coming soon
Adhikarana antarvega-bahirvegajvaralakShaNam (59-60) · Śloka 61
अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः | सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रहः ||५९|| अन्तर्वेगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत् | सन्तापो ह्यधिको बाह्यस्तृष्णादीनां च मार्दवम् ||६०|| बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च |६१| (च. चि. अ. ३) |
🔊 Audio coming soon
Adhikarana Amajvara-pacyamAna-nirAmajvaralakShaNam (61-65) · Śloka 65
लालाप्रसेको हृल्लासहृदयाशुद्ध्यरोचकाः ||६१|| तन्द्रालस्याविपाकास्यवैरस्यं गुरुगात्रता | क्षुन्नाशो बहुमूत्रत्वं स्तब्धता बलवान् ज्वरः ||६२|| आमज्वरस्य लिङ्गानि न दद्यात्तत्र भेषजम् | भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् ||६३|| ( शोधनं शमनीयं च करोति विषमज्वरम्) | ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः | मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् ||६४|| क्षुत् क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम् | दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम् ||६५|| (च. चि. अ. ३) |
🔊 Audio coming soon
Adhikarana jvarasya sAdhyalakShaNam (66) · Śloka 66
बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः |६६| (च. चि. अ. ३) |
🔊 Audio coming soon
Adhikarana jvarasyAsAdhyalakShaNAni (66-73) · Śloka 73
हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः ||६६|| ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रियनाशनः | ज्वरः क्षीणस्य शूनस्य गम्भीरो दैर्घरात्रिकः ||६७|| असाध्यो बलवान् यश्च केशसीमन्तकृज्ज्वरः | (च. चि. अ. ३) | गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया ||६८|| आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च | (सु. उ. तं. अ. ३९) | आरम्भाद्विषमो यस्तु यश्च वा दैर्घरात्रिकः ||६९|| क्षीणस्य चातिरूक्षस्य गम्भीरो यस्य हन्ति तम् | विसञ्ज्ञस्ताम्यते यस्तु शेते निपतितोऽपि वा ||७०|| शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः | यो हृष्टरोमा रक्ताक्षो हृदि सङ्घातशूलवान् ||७१|| वक्त्रेण चैवोच्छ्वसिति तं ज्वरो हन्ति मानवम् | हिक्काश्वासतृषायुक्तं मूढं विभ्रान्तलोचनम् ||७२|| सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः | हतप्रभेन्द्रियं क्षीणमरोचकनिपीडितम् ||७३|| गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत् | (सु. उ. तं. अ. ३९) |
🔊 Audio coming soon
Adhikarana jvaravimuktipUrvarUpam (74) · Śloka 74
दाहः स्वेदो भ्रमस्तृष्णा कम्पविड्भिदसञ्ज्ञता | कूजनं चास्यवैगन्ध्यमाकृतिर्ज्वरमोक्षणे ||७४||
🔊 Audio coming soon
Adhikarana jvaramuktalakShaNam (75) · Śloka 75
स्वेदो लघुत्वं शिरसः कण्डूः पाको मुखस्य च | क्षवथुश्चान्नलिप्सा च ज्वरमुक्तस्य लक्षणम् ||७५|| (सु. उ. तं. अ. ३९) |
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 2
इति श्रीमाधवकरविरचिते माधवनिदाने ज्वरनिदानं समाप्तम् ||२||
🔊 Audio coming soon